शिवशर्मोवाच ॥ ॥
सत्यलोकेश्वर विधे सर्वेषां प्रपितामह ॥
किञ्चिद्विज्ञप्तुकामोस्मि न भयाद्वक्तुमुत्सहे ॥ १ ॥
॥ ब्रह्मोवाच ॥ ॥
यत्त्वं प्रष्टुमना विप्र ज्ञातं ते तन्मनोगतम् ॥
पिपृच्छिषुस्त्वं निर्वाणं गणौ तत्कथयिष्यतः ॥२॥
नेतयोर्विष्णुगणयोरगोचरमिहास्ति हि ॥
सर्वमेतौ विजानीतो यत्किञ्चिद्ब्रह्मगो लके ॥ ३ ॥
इत्युक्त्वा सत्कृतास्ते वै ब्रह्मणा भगवद्गणाः ॥
प्रणम्य लोककर्तारं तेऽपि हृष्टाः प्रतस्थिरे ॥ ४ ॥
पुनः स्वयानमारुह्य वैकुण्ठमभितो ययुः ॥
गच्छतापि पुनस्तत्र द्विजेनापृच्छितौ गणौ ॥ ५ ॥
॥ शिवशर्मोवाच ॥ ॥
कियद्दूरे वयं प्राप्ता गन्तव्यं च कियत्पुनः ॥
पृच्छाम्यन्यच्च वां भद्रौ ब्रूतं प्रीत्या तदप्यहो ॥ ॥ ६ ॥
काञ्च्यवन्ती द्वारवती काश्ययोध्या च पञ्चमी ॥
मायापुरी च मथुरा पुर्यः सप्त विमुक्तिदाः ॥ ७ ॥
विहाय षट्पुरीश्चान्याः काश्यामेवप्रतिष्ठिता ॥
मुक्तिर्विश्वसृजा तत्किं मम मुक्तिर्न सम्प्रति ॥ ८ ॥
इति सर्वं मम पुरः प्रसादाद्वक्तुमर्हतम् ॥
इति तद्वाक्यमाकर्ण्य गणावूचतुरादरात् ॥ ९ ॥
॥ गणावूचतुः ॥
यथार्थं कथयावस्ते यत्पृष्टं भवतानघ ॥
विष्णुप्रसादाज्जानीवो भूतम्भाविभवत्तथा ॥ 4.1.23.१० ॥
विप्रावभासते यावत्किरणैः पुष्पवन्तयोः ॥
तावतीभूः समुद्दिष्टा ससमुद्राद्रि कानना ॥ ११ ॥
वियच्च तावदुपरि विस्तारपरिमण्डलम् ॥
योजनानां च नियुते भूमेर्भानुर्व्यवस्थितः ॥ १२ ॥
भानोः सकाशादुपरि लक्षे लक्ष्यः क्षपाकरः ॥
नक्षत्रधं(मं?)डलं सोमाल्लक्षयोजनमुच्छ्रितम् ॥ १३॥
उडुमण्डलतः सौम्य उपरिष्टाद्द्विलक्षतः ॥
द्विलक्षे तु बुधाच्छुक्रः शुक्राद्भौमो द्विलक्षके ॥ १४ ॥
माहेयादुपरिष्टाच्च सुरेज्यो नियुतद्वये ॥
द्विलक्षयोजनोत्सेधः सौरिर्देवपुरोहितात् ॥ १५ ॥
दशायुतसमुच्छ्रायं सौरेः सप्तर्षिमण्डलम् ॥
सप्तर्षिभ्यः सहस्राणां शतादूर्ध्वं ध्रुवस्थितः ॥ ॥ १६ ॥
पादगम्यं हि यत्किञ्चिद्वस्त्वस्ति धरणीतले ॥
तद्भूर्लोक इति ख्यातः साब्धिद्वीपाद्रिकाननम् ॥ १७ ॥
भूर्लोकाच्च भुवर्लोको ब्रध्नावधिरुदाहृतः ॥
आदित्यादाध्रुवं विप्र स्वर्लोक इति गीयते ॥ ।१८ ॥
महर्लोकः क्षितेरूर्ध्वमेककोटिप्रमाणतः ॥
कोटिद्वये तु सङ्ख्यातो जनो भूर्लोकतो जनैः ॥ १९ ॥
चतुष्कोटिप्रमाणस्तु तपोलोकोऽस्ति भूतलात् ॥
उपरिष्टात्क्षितेरष्टौ कोटयः सत्यमीरितम् ॥ 4.1.23.२० ॥
सत्यादुपरि वैकुण्ठो योजनानां प्रमाणतः ॥
भूर्लोकात्परिसङ्ख्यातः कोटिषोडशसम्मितः ॥ २१ ॥
यत्रास्ते श्रीपतिः साक्षात्सर्वेषामभयप्रदः ॥
ततस्तु षोडशगुणः कैलासोऽस्ति शिवालयः ॥ २२ ॥
पार्वत्या सहितः शम्भुर्गजास्य स्कन्द नन्दिभिः ॥
यत्र तिष्ठति विश्वेशः सकलः स परः स्मूतः ॥ २३ ॥
तस्य देवस्य खेलोऽयं स्वलीला मूर्तिधारिणः ॥
स विश्वेश इति ख्यात स्तस्याज्ञाकृदिदं जगत् ॥ २४ ॥
सर्वेषां शासकश्चासौ तस्य शास्ता न चापरः ॥
स्वयं सृजति भूतानि स्वयं पाति तथात्ति च ॥ २५ ॥
सर्वज्ञ एकः स प्रोक्तः स्वेच्छाधीन विचेष्टितः ॥
तस्य प्रवतर्कः कोपि नहि नैव निवर्तकः ॥ २६ ॥
अमूर्तं यत्परं ब्रह्म समूर्तं श्रुतिचोदितम् ॥
सर्वव्यापि सदा नित्यं सत्यं द्वैतविवर्जितम् ॥ २७ ॥
सर्वेभ्यः कारणेभ्यश्च परात्परतरं परम् ॥
आनन्दं ब्रह्मणो रूपं श्रुतयो यत्प्रचक्षते ॥ २८ ॥
संविदं तेन यं वेदा विष्णुर्वेद न वै विधिः ॥
यतो वाचो निवर्तन्ते ह्यप्राप्य मनसा सह ॥ २९ ॥
स्वयंवेद्यः परं ज्योतिः सर्वस्य हृदि संस्थितः ॥
योगिगम्यस्त्वनाख्येयो यः प्रमाणैकगोचरः ॥ 4.1.23.३० ॥
नानारूपोप्यरूपो यः सर्वगोपि न गोचरः ॥
अनन्तोप्यन्तक वपुः सर्ववित्कर्मवर्जितः ॥३१॥
तस्येदमैश्वरं रूपं खण्डचन्द्रावतंसकम् ॥
तमालश्यामलगलं स्फुरद्भालविलोचनम् ॥ ३२ ॥
लसद्वामार्धनारीकं कृतशेषशुभाङ्गदम् ॥
गङ्गातरङ्गसत्सङ्ग सदाधौतजटातटम् ॥ ३३ ॥
स्मराङ्गरजःपुञ्ज पूजितावयवोज्ज्वलम् ॥
विचित्रगात्रविधृतमहाव्यालविभूषणम् ॥ ३४ ॥
महोक्षस्यन्दनगमं विरुताजगवायुधम्॥
गजाजिनोत्तरासङ्गं दशार्धवदनं शुभम् ॥ ३५ ॥
उत्त्रासित महामृत्यु महाबलगणावृतम् ॥
शरणार्थिकृतत्राणं नत निर्वाणकारणम् ॥
मनोरथपथातीतं वरदानपरायणम् ॥ ३६ ॥
तस्य तत्त्वस्वरूपस्य रूपातीतस्य भो द्विज ॥
परावरे रुद्ररूपे सर्वेव्याप्यावतिष्ठत ॥ ३७ ॥
निराकारोपि साकारः शिव एव हि कारणम ॥
मुक्तये भुक्तये वापि न शिवान्मोक्षदो परः ॥ ३८ ॥
यथा तेनाखिलं ह्येतत्पार्वतीपतिसात्कृतम ॥
इदं चराचरं सर्वं दृश्यादृश्यमरूपिणा ॥ ३९ ॥
तथा मृडानीकान्तेन विष्णुसादखिलञ्जगत ॥
विधाय क्रीड्यते विप्र नित्यं स्वच्छन्द लीलया ॥ 4.1.23.४० ॥
यथाशिवस्तथा विष्णुर्यथाविष्णुस्तथा शिवः ॥
अन्तरं शिवविष्ण्वोश्च मनागपि न विद्यते ॥ ४१ ॥
आहूय पूर्वं ब्रह्मादीन्समस्तान्देवतागणान् ॥
विद्याधरोरगादींश्च सिद्धगन्धर्वचारणान् ॥ ४२ ॥
निजसिंहासनसमं कृत्वा सिंहासनं शुभम् ॥
उपवेश्य हरिं तत्र च्छत्रं कृत्वा मनोहरम् ॥४३॥
श्लक्ष्णं कोटिशलाकं च विश्वकर्मविनिर्मितम् ॥
पाण्डुरं रत्नदण्डं च स्थूलमुक्तावलम्बितम् ॥ ४४ ॥
कलशेन विचित्रेण ह्युपरिष्टाद्विराजितम् ॥
सहस्रयोजनायामं सर्वरत्नमयं शुभम् ॥४५॥
पट्टसूत्रमयैरम्यैश्चामरैश्च परिष्कृतम् ॥
राजाभिषेकयोग्यैश्च द्रव्यैः सर्वौषधादिभिः ॥ ४६ ॥
प्रत्यक्षतीर्थपाथोभिः पञ्चकुम्भैर्मनोहरैः ॥
सिद्धार्थाक्षतदूर्वाभिर्मन्त्रैः स्वयमुपस्थितैः ॥ ४७ ॥
देवानां च तथर्षीणां सिद्धानां फणिनामपि ॥
आनीय मङ्गलकराः कन्याः षोडशषोडश ॥ ४८ ॥
वीणामृदङ्गाब्जभेरी मरु डिण्डिमझर्झरैः ॥
आनकैः कांस्यतालाद्यै र्वाद्यैर्ललितगायनैः ॥४९॥
ब्रह्मघोषमहारावैरापूरितनभोङ्गणे ॥
शुभे तिथौ शुभे लग्ने ताराचन्द्रबलान्विते ॥4.1.23.५० ॥
आबद्धमुकुटं रम्यं कृतकौतुकमङ्गलम् ॥
मृडानीकृतशृङ्गारं सुश्रिया सुश्रियायुतम् ॥५१॥
अभिषिच्य महेशेन स्वयं ब्रह्माण्डमण्डपे ॥
दत्तं समस्तमैश्वर्यं यन्निजं नान्यगामि च ॥ ५२ ॥
ततस्तुष्टाव देवेशः प्रमथैः सह शार्ङ्गिणम् ॥
ब्रह्माणं लोककर्तारमुवाच च वचस्त्विदम् ॥ ५३ ॥
मम वन्द्यस्त्वयं विष्णुः प्रणमत्वममुं हरिम् ॥
इत्युक्त्वाथ स्वयं रुद्रो ननाम गरुडध्वजम् ॥ ५४ ॥
ततो गणेश्वरैः सर्वैंर्ब्रह्मणा च मरुद्गणैः ॥
योगिभिः सनकाद्यैश्च सिद्धैर्देवर्षिभिस्तथा ॥ ५५ ॥
विद्याधरैः सगन्धर्वैर्यक्षरक्षोप्सरोगणैः ॥
गुह्यकैश्चारणैर्भूतैः शेष वासुकि तक्षकैः ॥ ५६ ॥
पतत्रिभिः किन्नरैश्च सर्वैः स्थावरजङ्गमैः ॥
ततो जयजयेत्युक्त्वा नमोस्त्विति नमोस्त्विति ॥ ५७ ॥
ततोहरिर्महेशेन संसदि द्युसदां तदा ॥
एतैर्महारवै रम्यैश्चानर्चि परमार्चिषा ॥ ५८ ॥
त्वं कर्ता सर्वभूतानां पाता हर्ता त्वमेव च ॥
त्वमेव जगतां पूज्यस्त्वमेव जगदीश्वरः ॥ ५९ ॥
दाता धर्मार्थकामानां शास्ता दुर्नयकारिणाम् ॥
अजेयस्त्वं च सङ्ग्रामे ममापि हि भविष्यसि ॥ 4.1.23.६० ॥
इच्छाशक्तिः क्रियाशक्तिर्ज्ञानशक्तिस्तथोत्तमा ॥
शक्तित्रयमिदं विष्णो गृहाण प्रापितं मया ॥ ६१ ॥
त्वद्द्वेष्टारो हरे नूनं मया शास्याः प्रयत्नतः ॥
त्वद्भक्तानां मया विष्णो देयं निर्वाणमुत्तमम् ॥ ६२ ॥
मायां चापि गृहाणेमां दुष्प्रणोद्यां सुरासुरैः ॥
यया सम्मोहितं विश्वमकिञ्चिज्ज्ञं भविष्यति ॥ ६३ ॥
वामबाहुर्मदीयस्त्वं दक्षिणोसौ पितामहः ॥
अस्यापि हि विधेः पाता जनितापि भविष्यसि ॥ ६४ ॥
वैकुण्ठैश्वर्यमासाद्य हरेरित्थं हरः स्वयम् ॥
कैलासे प्रमथैः सार्धं स्वैरं क्रीडत्युमापतिः ॥ ६५ ॥
तदा प्रभृति देवोसौ शार्ङ्गधन्वा गदाधरः ॥
त्रैलोक्यमखिलं शास्ति दानवान्तकरो हरिः ॥६६॥
इति ते कथिता विप्र लोकानां च परिस्थितिः ॥
इदानीं कथयिष्यावस्तवनिर्वाण कारणम् ॥ ६७ ॥
इदं तु परमाख्यानं शृणुयाद्यः समाहितः ॥
स्वर्लोकमभिगम्याथ काश्यां निर्वाणमाप्नुयात् ॥ ६८ ॥
यज्ञोत्सवे विवाहे च मङ्गलेष्वखिलेष्वपि ॥
राज्याभिषेक समये देवस्थापनकर्मणि ॥ ६९ ॥
सर्वाधिकारदानेषु नववेश्मप्रवेशने ॥
पठितव्यं प्रयत्नेन तत्कार्य परिसिद्धये ॥4.1.23.७०॥
अपुत्रो लभते पुत्रमधनो धनवान्भवेत् ॥
व्याधितो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात्॥७१॥
जप्यमेतत्प्रयत्नेन सततं मङ्गलार्थिना ॥
अमङ्गलानां शमनं हरनारायणप्रियम ॥७२॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्द्धे चतुर्भुजाभिषेको नाम त्रयोविंशतितमोऽध्यायः ॥ २३ ॥