०२२ ब्रह्मकृतकाशीप्रशंसा

॥ शिवशर्मोवाच ॥
ध्रुवाख्यानमिदं रम्यं महापातकनाशनम् ॥
महाश्चर्यकरं पुण्यं श्रुत्वा तृप्तोस्मि भो गणौ ॥ १ ॥
॥ अगस्त्य उवाच ॥ ॥
इत्थं यावद्द्विजो ब्रूते विमानं वायुवेगगम् ॥
तावत्प्राप महर्लोकं स्वर्लोकात्परमाद्भुतम् ॥ २ ॥
द्विजोऽथ लोकं संवीक्ष्य सर्वतो महसा वृतम् ॥
तौ गणौ प्रत्युवाचेदं कोयं लोको मनोहरः ॥ ३ ॥
तावूचतुस्ततो विप्रं निशामय महामते ॥
अयं स हि महर्लोकः स्वर्लोकात्परमाद्भुतः ॥ ४ ॥
कल्पायुषो वसन्त्यत्र तपसा धूतकल्मषाः ॥
विष्णुस्मरण सङ्क्षीण समस्तक्लेशसञ्चयाः ॥५॥
निर्व्याजप्रणिधानेन दृष्ट्वा तेजोमयं जगत् ॥
महायोगसमायुक्ता वसन्त्यत्र सुरोत्तमाः ॥ ६ ॥
इत्थं कथां कथयतोर्भगवद्गणयोः प्रिये ॥
क्षणार्धेन विमानं तज्जनलोकं निनायतान् ॥ ७ ॥
निवसन्त्यमला यत्र मानसा बह्मणः सुताः ॥
सनन्दनाद्या योगीन्द्राः सर्वे ते ह्यूर्ध्वरेतसः ॥ ८ ॥
अन्ये तु योगिनो ये वै ह्यस्खलद्ब्रह्मचारिणः ॥
सर्वद्वन्द्वविनिर्मुक्तास्ते वसन्त्यतिनिर्मलाः ॥९॥
जनलोकात्तपोलोकस्तेषां लोचनगोचरः ॥
कृतस्तेन विमानेन मनोवेगेन गच्छता ॥ 4.1.22.१० ॥
वैराजा यत्र ते देवा वसेयुर्दाहवर्जिताः ॥
वासुदेवे मनो येषां वासुदेवार्पितक्रियाः ॥ ११ ॥
तपसा तोष्य गोविन्दमभिलाषविवर्जिताः॥
तपोलोकमिमं प्राप्य वसन्ति विजितेन्द्रियाः ॥१२॥
शिलोञ्छ वृत्तया ये वै दन्तोलूखलिकाश्च ये ॥
अश्मकुट्टाश्च मुनयः शीर्णपर्णाशिनश्च ये ॥ १३ ॥
ग्रीष्मे पञ्चाग्नितपसो वर्षासु स्थण्डिलेशयाः ॥
हेमन्तशिशिरार्धे ये क्षपन्ति सलिले क्षपाः ॥१४॥
कुशाग्रनीरविप्रूषस्तृषिता यतयोऽपिबन्॥
वाताशिनोतिक्षुधिताः पादाग्राङ्गुष्ठ भूस्पृशः ॥ १५ ॥
ऊर्ध्वदोषो रविदृशस्त्वेकाङ्घ्रि स्थाणु निश्चलाः ॥
ये वै दिवा निरुच्छ्वासा मासोच्छ्वासाश्च ये पुनः ॥१६॥
मासोपवासव्रतिनश्चातुर्मास्य व्रताश्च ये ॥
ऋत्वन्ततोयपाना ये षण्मासोपवासकाः ॥ १७ ॥
ये च वर्षनिमेषा वै वर्षधाराम्बु तर्षकाः ॥
ये च स्थाणूपमां प्राप्ता मृगकण्डूति सौख्यदाः ॥ १८ ॥
जटाटवी कोटरान्तः कृतनीडाण्डजाश्च ये ॥
प्ररूढवामलूराङ्गाः स्नायुनद्धास्थिसञ्चयाः ॥ १९ ॥
लताप्रतानैः परितो वेष्टितावयवाश्च ये ॥
सस्यानि च प्ररूढानि यदङ्गेषु चिरस्थिति ॥ 4.1.22.२० ॥
इत्यादि सुतपः क्लिष्टवर्ष्माणो ये तपोधनाः ॥
ब्रह्मायुषस्तपोलोके ते वसन्त्यकुतोभयाः ॥२१॥
यावदित्थं स पुण्यात्मा शृणोति गणयोर्मुखात् ॥
तावन्नेत्रातिथीभूतः सत्यलोको महोज्ज्वलः ॥ २२ ॥
त्वरावन्तौ गणौ तत्र विमानादवरुह्य तौ ॥
स्रष्टारं सर्वलोकानां तेन सार्धं प्रणेमतुः ॥ २३ ॥
ब्रह्मोवाच ॥
गणावसौ द्विजो धीमान्वेदवेदाङ्गपारगः ॥
स्मृत्युक्ताचारचञ्चुश्च प्रतीपः पापकर्मसु ॥ २४ ॥
अयि द्विज महाप्राज्ञ जाने त्वां शिवशर्मक ॥
साधूकृतं त्वया वत्स सुतीर्थप्राणमोक्षणात् ॥ २५ ॥
सत्वरं गत्वरं सर्वं यच्चैतद्भवतेक्षितम् ॥
दैनन्दिनप्रलयतः सृजामि च पुनः पुनः ॥ २६ ॥
आ वैराजं प्रतिपदमुपसंहरते हरः ॥
का कथा मशकाभानां नृणां मरणधर्मिणाम् ॥ २७ ॥
चतुर्षु भूतग्रामेषु ह्येक एव गुणो नृणाम् ॥
तस्मिन्वै भारते वर्षे कर्मभूमौ महीयसि ॥ २८ ॥
चपलानि विनिर्जित्येन्द्रियाणि मनसा सह ॥
विहाय वैरिणं लोभं विष्वग्गुणगणस्य च ॥ २९ ॥
धर्मवंशहरं काममर्थसञ्चयहारिणम् ॥
जरापलितकर्तारं विनिष्कृत्य विचारतः ॥4.1.22.३०॥
जित्वा क्रोधरिपुं धैर्यात्तपसो यशसः श्रियः ॥
शरीरस्यापि हर्तारं नेतारं तामसीं गतिम् ॥ ३१ ॥
सदा मदं परित्यज्य प्रमादैकपदप्रदम् ॥
प्रमादैकशरण्यं च सम्पदां विनिवर्तकम् ॥ ३२ ॥
सर्वत्र लघुता हेतुमहङ्कारं विहाय च ॥
दूषणारोपणे यत्नं कुर्वाणं सज्जनेष्वपि ॥ ३३ ॥
हित्वा मोहं महाद्रोहरोपणं मतिघातिनम् ॥
अत्यन्तमन्धीकरणमन्धतामिस्रदर्शकम् ॥ ३४ ॥
श्रुतिस्मृतिपुराणोक्तं परिक्षुण्णं महाजनैः ॥
धर्मसोपानमारुह्य यदिहायान्ति हेलया ॥ ३५ ॥
कर्मभूमिं समीहन्ते सर्वे स्वर्गौकसो द्विज ॥
यत्तत्रार्जितभोक्तारः पदेषूच्चावचेष्वमी ॥ ३६ ॥
नार्यावर्तसुमो देशो न काशी सदृशी पुरी ॥
न विश्वेश समं लिङ्गं क्वापि बह्माण्डमण्डले ॥३७॥
सन्ति स्वर्गा बहुविधाः सुखेतर विवर्जिता॥
सुकृतैकफलाः सर्वे युक्ताः सर्वसमृद्धिभिः॥ ॥ ३८ ॥
स्वर्लोकादधिकं रम्यं नहि ब्रह्माण्डगोलके ॥
सर्वे यतन्ते स्वर्गाय तपोदानव्रतादिभिः ॥ ३९ ॥
स्वर्लोकादपिरम्याणि पातालानीति नारदः ॥
प्राह स्वर्गसदां मध्ये पातालेभ्यः समागतः ॥ 4.1.22.४० ॥
आह्लादकारिणः शुभ्रा मणयो यत्र सुप्रभाः ॥
नागाङ्गाभरणप्रोताः पातालं केन तत्समम् ॥ ४१ ॥
दैत्यदानवकन्याभिरितश्चेतश्च शोभिते ॥
पाताले कस्य न प्रीतिर्विमुक्तस्यापि जायते ॥ ४२ ॥
दिवार्करश्मयस्तत्र प्रभां तन्वन्ति नातपम्॥
शशिनश्च न शीताय निशि द्योताय केवलम् ॥ ४३ ॥
यत्र न ज्ञायते कालो गतोपि दनुजादिभिः ॥
वनानि नद्यो रम्याणि सदम्भांसि सरांसि च ॥ ४४ ॥
कलाः पुंस्को किलालापाः सुचैलानि शुचीनि च ॥
भूषणान्यतिरम्याणि गन्धाद्यमनुलेपनम् ॥ ४५ ॥
वीणावेणुमृदङ्गादि निस्वनाः श्रुतिहारिणः ॥
हाटकेशं महालिङ्गं यत्र वै सर्वकामदम् ॥ ४६ ॥
एतान्यन्यानि रम्याणि भोग्योग्यानि दानवैः ॥
दैत्योरगैश्च भुज्यन्ते पातालान्तरगोचरैः ॥ ४७ ॥
पातालेभ्योपि वै रम्यं द्विज वर्षमिलावृतम्॥
रत्नसानुं समाश्रित्य परितः परिसंस्थितम्॥४८॥
सदा सुकृतिनो यत्र सर्वभोगभुजो द्विज॥
नवयौवनसम्पन्ना नित्यं यत्र मृगीदृशः ॥४९॥
भोगभूमिरियं प्रोक्ता श्रेयो विनिमयार्जिता ॥
भुज्यते त्वद्विधैर्लोकैस्तीर्थाभित्यक्त देहकैः ॥ 4.1.22.५० ॥
अक्लीबभाषिभिश्चापि पुत्रक्षेत्राद्यहीनकैः ॥
परोपकारसङ्क्षीणसुखायुर्धनसञ्चयैः ॥ ५१ ॥
सन्ति द्वीपा ह्यनेका वै पारावारान्तरस्थिताः ॥
जम्बूद्वीपसमो द्वीपो न क्वापि जगतीतले ॥ ५२ ॥
तत्रापि नववर्षाणि भारतं तत्र चोत्तमम् ॥
कर्मभूमिरियं प्रोक्ता देवानामपिदुर्लभा ॥५३॥
अष्टौ किम्पुरुषादीनि देवभोग्यानि तानि तु ॥
तेषु स्वर्गात्समागत्य रमन्ते त्रिदिवौकसः ॥ ५४ ॥
योजनानां सहस्राणि नवविस्तारतस्त्विदम् ॥
भारतं प्रथमं वर्षं मेरोर्दक्षिणतः स्थितम् ॥ ५५ ॥
तत्रापि हिमविन्ध्याद्रेरन्तरं पुण्यदं परम् ॥
गङ्गायमुनयोर्मध्ये ह्यन्तर्वेदी भुवः पराः ॥ ५६ ॥
कुरुक्षेत्रं हि सर्वेषां क्षेत्राणामधिकं ततः ॥
ततोपि नैमिषारण्यं स्वर्गसाधनमुत्तमम् ॥ ५७ ॥
नैमिषारण्यतोपीह सर्वस्मिन्क्षितिमण्डले ॥
सर्वेभ्योपि हि तीर्थेभ्यस्तीर्थराजो विशिष्यते ॥ ५८ ॥
स्वर्गदोमोक्षदश्चैव सर्वकामफलप्रदः ॥
प्रयागस्तन्महत्क्षेत्रं तीर्थराज इति स्मृतः ॥ ६९ ॥
यागाः सर्वे मया पूर्वं तुलया विधृता द्विज ॥
तच्च तीर्थवरं रम्यं कामिकं कामपूरणात ॥ 4.1.22.६० ॥
दृष्ट्वा प्रकृष्टयागेभ्यः पुष्टेभ्यो दक्षिणादिभिः ॥
प्रयागमिति तन्नाम कृतं हरिहरादिभिः ॥ ६१ ॥
नाममात्रस्मृतेर्यस्य प्रयागस्य त्रिकालतः ॥
स्मर्तुः शरीरे नो जातु पापं वसति कुत्रचित् ॥ ६२ ॥
सन्ति तीर्थान्यनेकानि पापत्राणकराणि च ॥
न शक्तान्यधिकं दातुं कृतैनः परिशुद्धितः ॥ ६३ ॥
जन्मान्तरेष्वसङ्ख्येषु यः कृतः पापसञ्चयः ॥
दुष्प्रणोद्यो हि नितरां व्रतैर्दानैस्तपोजपैः ॥ ६४ ॥
स तीर्थराजगमनोद्यतस्य शुभजन्मनः ॥
अङ्गेषु वेपतेऽत्यन्तं द्रुमो वातहतो यथा ॥ ६५ ॥
ततः क्रान्तार्धमार्गस्य प्रयाग दृढचेतसः ॥
पुंसः शरीरान्निर्यातुमपेक्षेत पदान्तरम् ॥ ॥ ६६॥
भाग्यान्नेत्रातिथीभूते तीर्थराजे महात्मनः ॥
पलायते द्रुततरं तमः सूर्योदये यथा ॥ ६७ ॥
सप्तधातुमयी भूततनौ पापानि यानि वै ॥
केशेषु तानि तिष्ठन्ति वपनाद्यान्ति तान्यपि ॥ ६८ ॥
एवं निष्कलुषीभूय ततः स्नायात्सितासिते ॥
यंयं काममभिध्यायंस्तं तमाप्नोति नान्यथा ॥ ६९ ॥
पुण्यराशिं च विपुलं पुण्यान्भोगान्यथेप्सितान् ॥
स्वर्गं प्राप्नोति तत्पुण्यान्निष्कामो मोक्षमाप्नुयात् ॥ 4.1.22.७० ॥
स्नायाद्योभिलषन्मोक्षं कामानन्यान्विहाय च ॥
सोपि मोक्षमवाप्नोति कामदात्तीर्थराजतः ॥ ७१ ॥
तीर्थराजं परित्यज्य योऽन्यस्मात्काममिच्छति ॥
भारताख्ये महावर्षे स कामं नाप्नुयात्स्फुटम् ॥ ७२ ॥
सत्यलोके प्रयागे च नान्तरं वेद्म्यहं द्विज ॥
तत्र ये शुभकर्माणस्ते मल्लोकनिवासिनः ॥ ७३ ॥
तीर्थाभिलाषिभिर्मर्त्यैस्सेव्यं तीर्थान्तरं नहि ॥
अन्यत्र भूमिवलये तीर्थराजात्प्रया गतः ॥७४॥
यथान्तरं द्विजश्रेष्ठ भूपेत्वितरसेवके ॥
दृष्टान्तमात्रं कथितं प्रयागेतर तीर्थयोः ॥७५॥
यथाकथञ्चित्तीर्थेऽस्मिन्प्राणत्यागं करोति यः ॥
तस्यात्मघातदोषो न प्राप्नुयादीप्सितान्यपि ॥ ७६ ॥
यस्य भाग्यवतश्चात्र तिष्ठन्त्यस्थीन्यपि द्विज ॥
न तस्य दुःखलेशोपि क्वापि जन्मनि जायते ॥ ७७ ॥
ब्रह्महत्यादि पापानां प्रायश्चित्तं चिकीर्षुणा ॥
प्रयागं विधिवत्सेव्यं द्विजवाक्यान्न संशयः ॥ ७८ ॥
किं बहूक्तेन विप्रेन्द्र महोदयमभीप्सुना ॥
सेव्यं सितासितं तीर्थं प्रकृष्टं जगतीतले ॥ ७९ ॥
प्रयागतोपि तीर्थेशात्सर्वेषु भुवनेष्वपि ॥
अनायासेन वै मुक्तिः काश्यां देहावसानतः ॥4.1.22.८०॥
प्रयागादपि वै रम्यमविमुक्तं न संशयः ॥
यत्र विश्वेश्वरः साक्षात्स्वयं समधितिष्ठति ॥ ८१ ॥
अविमुक्तान्महाक्षेत्राद्विश्वेश समधिष्ठितात् ॥
न च किञ्चित्क्वचिद्रम्यमिह ब्रह्माण्डगोलके ॥ ८२ ॥
अविमुक्तमिदं क्षेत्रमपि ब्रह्माण्डमध्यगम् ॥
ब्रह्माण्डमध्ये न भवेत्पञ्चक्रोशप्रमाणतः ॥ ८३ ॥
यथायथा हि वर्धेत जलमेकार्णवस्य च ॥
तथातथोन्नयेदीशस्तत्क्षेत्रं प्रलयादपि ॥ ८४ ॥
क्षेत्रमेतत्त्रिशूलाग्रे शूलिनस्तिष्ठति द्विज ॥
अन्तरिक्षेन भूमिष्ठं नेक्षन्ते मूढबुद्धयः॥ ८५ ॥
सदा कृतयुगं चात्र महापर्वसदाऽत्र वै ॥
न ग्रहाऽस्तोदयकृतो दोषो विश्वेश्वराश्रमे ॥८६॥
सदा सौम्यायनं तत्र सदा तत्र महोदयः ॥
सदैव मङ्गलं तत्र यत्र विश्वेश्वरस्थितिः॥८७॥
यथाभूमितले विप्र पुर्यः सन्ति सहस्रशः ॥
तथा काशी न मन्तव्या क्वापि लोकोत्तरात्वियम् ॥ ८८ ॥
मया सृष्टानि विप्रेन्द्र भुवनानि चतुर्दश ॥
अस्याः पुर्या विनिर्माता स्वयं विश्वेश्वरः प्रभुः ॥ ८९ ॥
पुरा यमस्तपस्तप्त्वा बहुकालं सुदुष्करम् ॥
त्रैलोक्याधिकृतिं प्राप्तस्त्यक्त्वा वाराणसीं पुरीम् ॥ 4.1.22.९० ॥
चराचरस्य सर्वस्य यानि कर्माणि तानि वै ॥
गोचरे चित्रगुप्तस्य काशीवासिकृतादृते ॥ ९१ ॥
प्रवेशो यमदूतानां न कदाचिद्द्विजोत्तम ॥
मध्ये काशीपुरी क्वापि रक्षिणस्तत्र तद्गणाः ॥ ९२ ॥
स्वयं नियन्ता विश्वेशस्तत्र काश्यां तनुत्यजाम् ॥
तत्रापि कृतपापानां नियन्ता कालभैरवः ॥ ९३ ॥
तत्र पापं न कर्तव्यं दारुणा रुद्रयातना ॥
अहो रुद्रपिशाचत्वं नरकेभ्योपि दुःसहम् ॥ ९४ ॥
पापमेव हि कर्तव्यं मतिरस्ति यदीदृशी ॥
सुखेनान्यत्र कर्तव्यं मही ह्यस्ति महीयसी ॥ ९५ ॥
अपि कामातुरो जन्तुरेकां रक्षति मातरम् ॥
अपि पापकृता काशी रक्ष्या मोक्षार्थिनैकिका ॥ ९६ ॥
परापवादशीलेन परदाराभिलाषिणा ॥
तेन काशी न संसेव्या क्व काशी निरयः क्व सः ॥ ९७ ॥
अभिलष्यन्ति ये नित्यं धनं चात्र प्रतिग्रहैः ॥
परस्वं कपटैर्वापि काशी सेव्या न तैर्नरैः ॥ ९८ ॥
परपीडाकरं कर्म काश्यां नित्यं विवर्जयेत् ॥
तदेव चेत्किमत्र स्यात्काशीवासो दुरात्मनाम् ॥ ॥ ९९ ॥
त्यक्त्वा वैश्वेश्वरीं भक्तिं येऽन्यदेवपरायणाः ॥
सर्वथा तैर्न वस्तव्या राजधानी पिनाकिनः ॥ 4.1.22.१०० ॥
अर्थार्थिनस्तु ये विप्र ये च कामार्थिनो नराः ॥
अविमुक्तं न तैः सेव्यं मोक्षक्षेत्रमिदं यतः ॥ १ ॥
शिवनिन्दापरा ये च वेदनिन्दा पराश्च ये ॥
वेदाचारप्रतीपा ये सेव्या वाराणसी न तैः ॥ २ ॥
परद्रोहधियो ये च परेर्ष्याकारिणश्च ये ॥
परोपतापिनो ये वै तेषां काशी न सिद्धये ॥ ३ ॥
मनसापि न ये काशीमभिनन्दन्ति दुर्धियः ॥
तेषां निर्वाणवार्तापि दूरे दुर्वृत्तचेतसाम् ॥ ४ ॥
ज्ञानेन न विना मोक्षः क्वचिदस्तीह भूतले ॥
तज्ज्ञानं न व्रतैर्लभ्यमपि चान्द्रायणादिभिः ॥ ५ ॥
तुलापुरुषमुख्यैश्च दानैश्च श्रद्धयान्वितैः ॥
देशकाले च विधिना पात्रेभ्यः प्रतिपादितैः ॥ ६ ॥
न यमैर्ब्रह्मचर्याद्यैर्नियमैर्नार्चनादिभि. ॥
शरीरशोषणैरुग्रैर्न तपोभिर्द्विजोत्तम ॥ ७ ॥
न महामन्त्रजप्यैश्च गुरुभिः प्रतिपादितैः ॥
न स्वाध्यायैर्यथोक्तैश्च नाग्निशुश्रूषणैः परैः ॥ ८ ॥
न सेवया गुरूणां च न श्राद्धैर्देवतार्चनैः ॥
न नानातीर्थयात्राभिर्ज्ञानं समधिगम्यते ॥ ॥ ९ ॥
न योगेन विना ज्ञानं योगस्तत्त्वार्थशीलनम् ॥
गुरूपदिष्टमार्गेण सदाभ्यासवशेन च ॥ 4.1.22.११० ॥
तस्यान्तराया बहवः सुदूरश्रवणादयः ॥
अतो न प्राप्यते ज्ञानं योगादेकेन जन्मना ॥ ११ ॥
विना तपो जपाद्यैश्च विना योगेन सुव्रत ॥
निःश्रेयो लभ्यते काश्यामिहैकेनैव जन्मना ॥१२॥
त्वया शुद्धधिया काश्यां यच्छ्रेयः समुपार्जितम् ॥
तच्छ्रेयसोप्युदर्कस्ते महानस्ति द्विजोत्तम ॥ १३ ॥
उक्तेति विररामाजः शृण्वतोर्गणयोस्तयोः ॥
सोपि प्रमुदितश्चाभूच्छिवशर्मा महामनाः ॥ ११४ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्द्धे ब्रह्मकृतकाशीप्रशंसानाम द्वाविंशतितमोऽध्यायः ॥ २२ ॥ ॥