॥ गणावूचतुः ॥ ॥
औत्तानपादिर्निर्गत्य ततः काननतो द्विज ॥
रम्यं मधुवनं प्राप यमुनायास्तटे महत ॥ १ ॥
आद्यं भगवतः स्थानं तत्पुण्यं हरिमेधसः ॥
पापोपि जन्तुस्तत्प्राप्य निष्पापो जायते ध्रुवम् ॥ २ ॥
जपन्स वासुदेवाख्यं परम्ब्रह्म निरामयम् ॥
अपश्यत्तन्मयं विश्वं ध्यानस्तिमितलोचनः ॥ ३ ॥
हरिर्हरित्सु सर्वासु हरिर्हरिमरीचिषु ॥
शिवामृगमृगेन्द्रादि रूपः काननगो हरिः ॥ ४ ॥
जले शालूरकूर्मादि रूपेण भगवान्हरिः ॥
हरिरश्वादिरूपेण मन्दुरास्वपि भूभुजाम् ॥ ५ ॥
अनन्तरूपः पाताले गगनेऽनन्तसञ्ज्ञकः ॥
एकोप्यनन्ततां यातो रूपभेदैरनन्तकैः ॥ ६ ॥
देवेषु यो वसेन्नित्यं देवानां वसतिर्हि यः ॥
स वासुदेवः सर्वत्र दीव्येद्यद्वासनावशात् ॥ ७ ॥
विष्लृव्याप्तावयन्धातुर्यत्रसार्थकतां गतः॥
ते विष्णुनाम स्वरूपे हि सर्वव्यापनशीलिनि ॥ ८ ॥
सर्वेषां च हृषीकाणामीशनात्परमेश्वरः ॥
हृषीकेश इति ख्यातो यः स सर्वत्रसंस्थितः ॥ ९ ॥
न च्यवन्तेपि यद्भक्ता महति प्रलये सति ॥
अतोऽच्युतोऽखिले लोके स एकः सर्वगोऽव्ययः ॥ 4.1.20.१० ॥
इदं चराचरं विश्वं यो बभार स्वलीलया ॥
भृत्यास्वरूपसम्पत्त्या सोऽत्र विश्वम्भरोऽखिलम् ॥ ११ ॥
तस्येक्षणे समीक्षेते नान्यद्विप्णुपदादृते ॥
निरीक्ष्यः पुण्डरीकाक्षो नान्यो नियमतो ह्यतः ॥ १२ ॥
नान्य शब्दग्रहौ तस्य जातौ शब्दग्रहावपि ॥
विना मुकुन्द गोविन्द दामोदर चतुर्भुज ॥ १३ ॥
गोविन्दचरणार्थार्चां तत्प्रियङ्कर्मवै विना ॥
शङ्खचक्राङ्कितौ तस्य नान्यकर्मकरौकरौ ॥ १४ ॥
निर्द्वन्द्वचरणद्वन्द्वं तन्मनो मनुते हरेः ॥
हित्वान्यन्मननं सर्वं निश्चलत्वमवाप ह ॥ १५ ॥
चरणौ विष्णुशरणौ हित्वा नारायणाङ्गणम् ॥
तस्य नो चरतोन्यत्र चरतो विपुलं तपः ॥ १६ ॥
वाणीप्रमाणी क्रियते गोविन्दगुणवर्णने ॥
जोषं समासता तेन महासारं तपस्यता ॥ १७ ॥
नितान्तकमलाकान्त नामधेयसुधारसम् ॥
रसयन्ती न रसना तस्यान्यरसस्पृहा ॥ १८ ॥
श्रीमुकुन्द पदद्वन्द्व पद्मामोदप्रमोदितम् ॥
गन्धान्तरं न तद्घ्राणं परिजिघ्रत्यशीघ्रगम् ॥ १९ ॥
त्वगिन्द्रियं मधुरिपोः परिस्पृश्य पदद्वयम् ॥
सर्वस्पर्शसुखं प्राप तस्य भूजानिजन्मनः ॥ 4.1.20.२० ॥
शब्दादिविषयाधारं सारं दामोदरं परम् ॥
ध्रुवेन्द्रियाणि सम्प्राप्य कृतार्थान्यभवंस्तदा ॥ २१ ॥
लुप्तानि सर्वतेजांसि तत्तपस्तपनोदये ॥
चन्द्रसूर्यानलर्क्षाणां प्रदीपित जगत्त्रये ॥ २२ ॥
इन्द्र चन्द्राग्नि वरुण समीरण धनाधिपाः ॥
यम नैर्ऋतमुख्याश्च जाताः स्वपदशङ्किताः ॥ २३ ॥
वैमानिकास्तथाऽन्येपि वसुमुख्या दिवौकसः ॥
ततो धुवात्समुत्त्रेसुः स्वाधिकारैधिताधयः ॥२४॥
यत्र यत्र ध्रुवः पादं मिनोति पृथिवीतले ॥
धरा तस्य भराक्रान्ता विनमेत्तत्र तत्र वै ॥२५॥
अहो तदङ्गसङ्गीनि त्यक्त्वा जाड्यं जलान्यपि ॥
रसवन्ति पदस्थानि स्फुरन्त्यन्यत्र तद्भयात् ॥ २६ ॥
यावन्ति विष्वक्तेजांसि सिद्धरूपगुणानि च ॥
नेत्रातिथीनि तावन्ति तत्तपस्तेजसाऽभवन् ॥ २७ ॥
अहो निजगुणस्पर्शः सततं मातरिश्वना ॥
दूरदेशान्तरस्थोपि तत्त्वचो विषयीकृतः ॥ २८ ॥
व्योम्नापि शब्दगुणिना ध्रुवाराधनबुद्धिना ॥
शब्दजातस्त्वशेषोपि तत्कर्ण शरणीकृतः ॥२९॥
आराधितोऽनुदिवसं सभूतैरपि पञ्चभिः ॥
तप एव परं मेने गोविन्दार्पित मानसः ॥ 4.1.20.३० ॥
कौस्तुभोद्भासितहृदः पीतकौशेयवाससः ॥
ध्यानात्तेजोमयं विश्वं तेनैक्षि नृपसूनुना ॥ ३१ ॥
मरुत्वतातिमहती चिन्ताऽप्ता तत्तपोभयात् ॥
मत्पदं चेदकाङ्क्षिष्यदहरिष्यद्ध्रुवं धुवः ॥ ३२ ॥
समर्थस्त्वप्सरोवर्गो नियन्तुं यमिनां यमान् ॥
स तु यूनि प्रभवति नात्र बाले करोमि किम् ॥ ३३ ॥
तपस्विनां तपो हन्तुं द्वौ मत्साहाय्यकारिणौ ॥
कामक्रौधौ न तावस्मिन्प्रभवेतां शिशौ ध्रुवे ॥ ३४ ॥
एक एव किलोपायो बाले मे प्रभविष्यति ॥
भूतालिं भीषणाकारां प्रहिणोमीह तद्भिये ॥ ३५ ॥
बालत्वाद्भीषितो भूतैस्तपस्त्यक्ष्यत्यसौ ध्रुवम् ॥
इति निश्चित्य भूतालिं प्रेषयामास वासवः ॥ ३६ ॥
भल्लूकाकारसर्वाङ्ग उष्ट्रलम्बशिरोधरः ॥
कश्चिद्दुर्दर्शदशनस्त्वभ्यधावत्तमर्भकम् ॥ ३७ ॥
तं व्याघ्रवदनः कश्चिद्व्यादाय विकटाननम् ॥
द्विपोच्च देहसंस्थानो मुहुर्गर्जन्समभ्यगात् ॥ ३८ ॥
रयात्तु मांसकं भुञ्जन्कश्चिद्विकटदंष्ट्रकः ॥
रोषात्तमभिदुद्राव दृष्ट्वा सन्तर्जयन्निव ॥ ३९ ॥
अतितीक्ष्णैर्विषाणाग्रैस्तटानुच्चान्विदारयन् ॥
खुराग्रैर्दलयन्भूमिं महोक्षोऽभिजगर्जतम् ॥ 4.1.20.४० ॥
कश्चिद्धि पन्नगी भूय फटाटोपभयानकः ॥
अतिलोलद्विरसनः पुस्फूर्जनिकषाचितम् ॥ ४१ ॥
कश्चिच्च महिषाकारः क्षिपञ्शृङ्गाग्रतो गिरोन् ॥
लाङ्गूलताडितधरः श्वसन्वेगात्तमाप्तवान्॥ ४२ ॥
कश्चिद्दावानलालीढ खर्जूरद्रुमसन्निभम् ॥
बिभ्रदूरुद्वयम्भूतो व्यात्तास्यस्तमभीषयत् ॥ ४३ ॥
मौलिजैरभ्रसङ्घर्षं कुर्वन्दीर्घकृशोदरः ॥
निमग्नपिङ्गनयनः कश्चिद्भीषयति स्म तम् ॥ ४४ ॥
कृपाणपाणिर्भग्नास्यो वामहस्तकपालधृत् ॥
प्रचण्डं क्ष्वेडयन्कश्चिदभ्यधावत्तमर्भकम् ॥ ४५ ॥
विशाल सालमादाय कुर्वन्किल किलारवम् ॥
कश्चित्तमभितो याति कालो दण्डधरो यथा ॥ ४६ ॥
तमः सङ्केतसदनं व्याघ्रं वै वदनं महत्॥
कृतान्तकं दराकारं बिभ्रत्कश्चित्तमभ्यगात्॥ ४७ ॥
उलूकाकारतां धृत्वा फूत्कारैरतिदारुणैः ॥
हृदयाकम्पनैः कश्चिद्भीषयामास तं ध्रुवम् ॥ ४८ ॥
यक्षिणी काचिदानीय रुदन्तं कस्यचिच्छिशुम् ॥
अपिबद्रुधिरं कोष्ठाच्चखादास्थि मृणालवत् ॥ ४९ ॥
पिपासिताद्य रुधिरं तेपि पास्याम्यहं धुव ॥
यथास्य बालस्य तथा चर्वित्वास्थीनि वादिनी ॥ 4.1.20.५० ॥
अनीय तृणदारूणि परिस्तीर्य समन्ततः ॥
दावाग्निं ज्वालयामास काचिद्वात्याविवर्धितम् ॥ ५१ ॥
वेताली रूपमास्थाय भङ्क्त्वा काचित्तरून्गिरीन् ॥
रुरोध गगनाध्वानं कम्पयन्ती च तं भृशम् ॥ ५२ ॥
अन्या सुनीतिरूपेण तमभिप्रेक्ष्य दूरतः ॥
रुरोदातीवदुःखार्ता वक्षोघातं मुहुर्मुहुः ॥ ५३ ॥
उवाच च वचश्चाटु बहुमाया विनिर्मितम् ॥
कारुण्यपूर्ण वात्सल्यमतीवातन्वती सती ॥ ५४ ॥
त्वदेकशरणां वत्स बत मृत्युर्जिघांसति ॥
रक्षरक्ष गतासुं मां शरणागतवत्सल ॥ ५५ ॥
प्रतिग्रामं प्रतिपुरं प्रत्यध्वं प्रतिकाननम् ॥
प्रत्याश्रमं प्रतिगिरिं श्रान्ता त्वद्वीक्षणातुरा ॥ ५६ ॥
यदा प्रभृति रे बाल निरगात्तपसे भवान् ॥
तदेव दिनमारभ्य निर्गताऽहं त्वदीक्षणे ॥ ५७ ॥
तैस्तैः सपत्नीदुर्वाक्यैर्दुनोपि त्वं यथार्भक ॥
तथाऽहमपि दूनास्मि नितरां तद्वचोऽग्निना ॥ ५८ ॥
न निद्रामि न जागर्मि नाश्नामि न पिबाम्यहम् ॥
ध्यायामि केवलं त्वाऽहं योगिनीव वियोगिनी ॥५९॥
निद्रादरिद्रनयना स्वप्नेपि न तवाननम् ॥
आनन्दि सर्वथा यन्मे मन्दभाग्या विलोकये ॥ 4.1.20.६० ॥
त्वदाननप्रतिनिधिर्विधुर्विधुरया मया ॥
उदित्वरोपिनालोकि तापं वै त्यक्तुकामया ॥ ६१ ॥
त्वदालापसमालापं कलयन्किलकाकलीम् ॥
कोकिलोपि मयाकर्णि नालकाकीर्णकर्णया ॥६२॥
त्वदङ्गसङ्गमधुरो ध्रुवधूपितयामया ॥
नानिलोपि मयालिङ्गि क्वचिद्विश्रान्तया भृशम् ॥ ६३ ॥
के देशाः काश्च सरितः के शैलास्त्वत्कृते ध्रुव ॥
मया चरणचारिण्या राजपत्न्या न लङ्घिताः ॥ ६४ ॥
अध्रुवं सर्वमेवैतत्पश्यन्त्यन्धीकृतास्म्यहम् ॥
धात्रीं त्रायस्व मां पुत्र प्राप्य त्वम्मेंऽधयष्टिताम् ॥ ६५ ॥
मृदुलानि तवाङ्गानि क्वेमानि क्व तपस्त्विदम् ॥
परुषं पुरुषैः साध्यं परुषाङ्गैर्नरर्षभ ॥ ६६ ॥
अनेन तपसा वत्स त्वयाऽऽप्यं किमनेनसा ॥
धराधीशतनूजत्वादधिकं तद्वदाधुना ॥ ६७ ॥
अनेन वयसा बाल खेलनीयं त्वयाऽनिशम् ॥
बालक्रीडनकैरन्यैः सवयः शिशुभिः समम् ॥ ६८ ॥
ततः कौमारमासाद्य वयोऽभिध्यानशीलिना ॥
भवता सर्वविद्यानां भाव्यं वै पारदृश्वना ॥ ६९ ॥
वयोथ चतुरं प्राप्य योषास्रक्चन्दनादिकान् ॥
निर्वेक्ष्यसि बहून्भोगानिन्द्रियार्थान्कृतार्थयन् ॥ 4.1.20.७० ॥
उत्पाद्याथ बहून्पुत्रान्गुणिनो धर्मवत्सलान् ॥
परिसङ्क्रामितश्रीकस्तेष्वथो त्वं तपश्चर ॥ ७१ ॥
इदानीमेव तपसि बाल्ये वयसि कः श्रमः ॥
पादाङ्गुष्ठकरीषाग्निः कदा मौलिमवाप्स्यति ॥ ७२ ॥
विपक्षपरिभूतेन हृतमानेन केनचित् ॥
परिभ्रष्टश्रिया वापि तप्तव्यं तेषु को भवान् ॥ ७३ ॥
हृतमानेन तप्तव्यं निशम्येति वचो ध्रुवः ॥
दीर्घमुष्णं हि निःश्वस्य पुनर्दध्यौ हरिं हृदि ॥ ७४ ॥
जनयित्रीमनाभाष्य भूतभीतिं विहाय च ॥
ध्रुवोऽच्युतध्यानपरः पुनरेव बभूव ह ॥ ७५ ॥
सापि भूतावली भीतिम्बहुभीषणभूषणा ॥
दर्शयन्ती तमभितोऽद्राक्षीच्चक्रं सुदर्शनम् ॥ ७६ ॥
परितः परिवेषाभं सूर्यस्योच्चैः स्फुरत्प्रभम् ॥
रक्षणाय च रक्षोभ्यस्तस्याधोक्षज निर्मितम् ॥ ७७ ॥
भूतावली तमालोक्य स्फुरच्चक्रसुदर्शनम् ॥
ज्वालामालाकुलं तीव्रं रक्षन्तं परितो ध्रुवम् ॥ ७८ ॥
अतीव निष्कम्पहृदं गोविदार्पितचेतसम् ॥
तपोङ्कुरमिवोद्भिद्य मेदिनीं समुदित्वरम् ॥ ७९ ॥
सापि प्रत्युतभीतातं ध्रुवं ध्रुवविनिश्चयम् ॥
नमस्कृत्य यथायातं याताव्यर्थमनोरथा ॥ 4.1.20.८० ॥
गर्जत्कादम्बिनीजालं व्योम्नि वै व्याकुलं यथा ॥
वृथा भवति सम्प्राप्य मनागनिललोलताम् ॥ ८१ ॥
अथ जम्भारिणा सार्धं भीताः सर्वे दिवौकसः ॥
सम्मन्त्र्य त्वरिता जग्मुर्ब्रह्माणं शरणं द्विज ॥ ८२ ॥
नत्वा विज्ञापयामासुः परिष्टुत्या पितामहम् ॥
वच्रोऽवसरमालोक्य पृष्टागमनकारणाः ॥ ८३ ॥
॥ देवा ऊचुः ॥ ॥
धातरुत्तानपादस्य तनयेन सुवर्चसा ॥
तपता तापिताः सर्वे त्रिलोकी तलवासिनः ॥ ८४ ॥
सम्यक्संविद्महे तात धुवस्य न मनीषितम् ॥
पदं परिजिहीर्षुः स कस्यास्मासु महातपाः ॥ ८५ ॥
इति विज्ञापितो देवैर्विहस्य चतुराननः ॥
प्रत्युवाचाथ तान्सर्वान्ध्रुवतो भीतमानसान् ॥ ८६ ॥
॥ ब्रह्मोवाच ॥ ॥
न भेतव्यं सुरास्तस्माद्ध्रुवाद्ध्रुवपदैषिणः ॥
व्रजन्तु विज्वराः सर्वे न स वः पदमिच्छति ॥ ८७ ॥
न तस्माद्भगवद्भक्ताद्भेतव्यं केनचित्क्वचित् ॥
निश्चितं विष्णुभक्ता ये न ते स्युः परतापिनः ॥ ८८ ॥
आराध्य विष्णुं देवेशं लब्ध्वा तस्मात्स्वकाङ्क्षितम् ॥
भवतामपि सर्वेषां पदानि स्थिरयिष्यति ॥ ८९ ॥
निशम्येति च गीर्वाणाः प्रणीतं ब्रह्मणो वचः ॥
प्रणिपत्य स्वधिष्ण्यानि प्रहृष्टाः परिवव्रजुः ॥ 4.1.20.९० ॥
अथ नारायणो देवस्तं दृष्ट्वा दृढमानसम् ॥
अनन्यशरणं बालं गत्वा तार्क्ष्यरथोऽब्रवीत् ॥ ९१ ॥
श्रीविष्णुरुवाच ॥ ॥
प्रसन्नोस्मि महाभाग वरं वरय सुव्रत ॥
तपसोऽस्मान्निवर्तस्व चिरं खिन्नोसि बालक ॥ ९२ ॥
वचोऽमृतं समाकर्ण्य पर्युन्मील्य विलोचने ॥
इन्द्रनीलमणिज्योतिः पटलीं पर्यलोकयत् ॥ ९३ ॥
प्रत्यग्रविकसन्नीलोत्पलानां निकुरम्बकैः ॥
प्रोत्फुल्लितां समन्ताच्च रोदसी सरसीमिव ॥ ९४ ॥
लक्ष्मीदेवीकटाक्षोघैः कटाक्षितमिवाखिलम् ॥
धुवस्तदानिरैक्षिष्ट द्यावाभूम्योर्यदन्तरम् ॥ ९५ ॥
प्रोद्यत्कादम्बिनीमध्य विद्युद्दामसमानरुक् ॥
पुरः पीताम्बरः कृष्णस्तेन नेत्रातिथीकृतः ॥ ९६ ॥
नभो निकष पाषाणो मेरुकाञ्चन रेखितः ॥
यथातथा ध्रुवेणैक्षि तदा गरुडवाहनः ॥ ९७ ॥
सुनीलगगनं यद्वद्भूषितं तु कलावता ॥
पीतेन वाससा युक्तं स ददर्श हरिं तदा ॥ ९८ ॥
दण्डवत्प्रणिपत्याथ परितः परिलुठ्य च ॥
रुरोद दृष्ट्वेव चिरं पितरं दुःखितः शिशुः ॥९९॥
नारदेन सनन्देन सनकेन सुसंस्तुतः ॥
अन्यैः सनत्कुमाराद्यैर्योगिभिर्योगिनां वरः ॥4.1.20.१००॥
कारुण्यवाष्पनीरार्द्र पुण्डरीकविलोचनः॥
ध्रुवमुत्थापयाञ्चक्रे चक्री धृत्वा करेण तम्॥१॥
हरिस्तु परिपस्पर्श तदङ्गं धूलिधूसरम् ॥
कराभ्यां सुकठोराभ्यां नित्यं शास्त्रपरिग्रहात्॥।२॥
स्पर्शनाद्देवदेवस्य सुसंस्कृतमयी शुभा ॥
वाणी प्रवृत्ता तस्यास्यात्तुष्टावाथ ध्रुवो हरिम् ॥ १०३ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्द्धे ध्रुवाख्याने भगवद्दर्शननाम विंशतितमोऽध्यायः ॥ २० ॥