शिवशर्मोवाच ॥
तिष्ठन्नेकेन पादेन कोयं भ्रमति सत्तमौ ॥
अनेकरशनाव्यग्र हस्ताग्रो व्यग्रलोचनः ॥१॥
त्रिलोकीमण्डपस्तम्भ सन्निभोभाभिरावृतः ॥
अतुलं ज्योतिषां राशिं तुलया तुलयन्निव॥२॥
सूत्रधार इव व्योम व्यायामपरिमापकः ॥
त्रैविक्रमोङ्घ्रिदण्डो वा प्रोद्दण्डो गगनाङ्गणे ॥ ३ ॥
अथवाम्बरकासारसारयूपस्वरूपधृक् ॥
कोयं कथय तं देवौ कृपया परया मम ॥ ४ ॥
निशम्येति वचस्तस्य वयस्यस्य विमानगौ॥
प्रणयादाहतुस्तस्मै ध्रुवां ध्रुवकथां गणौ ॥५॥
॥ गणावूचतुः ॥ ॥
मनोः स्वायम्भुवस्यासीदुत्तानचरणः सुतः ॥
तस्य क्षितिपतेर्विप्र द्वौ सुतौ सम्बभूवतुः ॥ ६ ॥
सुरुच्यामुत्तमो ज्येष्ठः सुनीत्यां तु ध्रुवो परः ॥
मध्ये सभं नरपतेरुपविष्टस्य चैकदा ॥ ७ ॥
सुनीत्या राजसेवायै नियुक्तोऽलङ्कृतोर्भकः ॥
ध्रुवो धात्रेयिकापुत्रैः समं विनयतत्परः ॥ ८ ॥
स गत्वोत्तानचरणं क्षोणीशं प्रणनाम ह ॥
दृष्ट्वोत्तमं तदुत्सङ्गे निविष्टं जनकस्य वै ॥ ९ ॥
प्रोच्चसिंहासनस्थस्य नृपतेर्बाल्यचापलात् ॥
आरोढुकामस्त्वभवत्सौनीतेयस्तदा ध्रुवः ॥ 4.1.19.१० ॥
आरुरुक्षुमवेक्ष्यामुं सुरुचिर्धुवमब्रवीत् ॥
दौर्भगेय किमारोढुमिच्छेरङ्कं महीपतेः ॥ ११ ॥
बालबालिशबुद्धित्वादभाग्या जठरोद्भव ॥
अस्मिन्सिंहासने स्थातुं न त्वया सुकृतं कृतम् ॥ ॥ १२ ॥
यदि स्यात्सुकृतं तत्किं दुर्भगोदरगोऽभवः ॥
अनेनैवानुमानेन बुध्यस्व स्वाल्पपुण्यताम् ॥ १३ ॥
भूत्वा राजकुमारोपि नालङ्कुर्या ममोदरम् ॥
सुकुक्षिजममुं पश्य त्वमुत्तममनुत्तमम् ॥ १४ ॥
अधिजानुधराजानेर्मानेन परिबृंहितम् ॥
प्रांशोः सिंहासनस्यास्य रुचिश्चेदधिरोहणे ॥ १५ ॥
कुक्षिं हित्वा किमवसः सुरुचेश्च सुरोचिषम् ॥
मध्ये भूपसभं बालस्तयेति परिभर्त्सितः ॥ १६ ॥
पतन्निपीतबाष्पाम्बुर्धैर्यात्किञ्चिन्न चोक्तवान् ॥
उचिताऽनुचितं किञ्चिन्नोचिवान्सोपि पार्थिवः ॥ १७ ॥
नियन्त्रितो महिष्याश्च तस्याः सौभाग्यगौरवात् ॥
विमृज्य च सभालोकं शोकं सम्मृज्य चेष्टितैः ॥ १८ ॥
शैशवैः स शिशुर्नत्वा नृपं स्वसदनं ययौ ॥
सुनीतिर्नीतिनिलयमवलोक्याथ बालकम् ॥ १९ ॥
सुखलक्ष्म्यैवचाज्ञासीद्ध्रुवं समवमानितम् ॥
अभिसृत्य च तं बालं मूर्ध्न्युपाघ्राय सा सकृत् ॥ 4.1.19.२० ॥
किञ्चित्परिम्लानमिव ससान्त्वं परिषस्वजे ॥
अथ दृष्ट्वा सुनीतिं स रहोन्तः पुरवासिनीम् ॥२१॥
दीर्घं निःश्वस्य बहुशो मातुरग्रे रुरोद ह ॥
सान्त्वयित्वाश्रुनयना वदनं परिमार्ज्य च ॥ २२ ॥
दुकूलाञ्चल सम्पर्कैर्मृदुलैर्मृदुपाणिना ॥
पप्रच्छ तनयं माता वद रोदनकारणम् ॥
विद्यमाने नरपतौ शिशो केनापमानितः ॥ २३ ॥
अपोथसमुपस्पृश्य ताम्बूलं परिगृह्य च ॥
मात्रा पृष्टः सोपरोधं ध्रुवस्तां पर्यभाषत ॥२४ ॥
सम्पृच्छे जननि त्वाहं सम्यक्शम्स ममाग्रतः ॥
भार्यात्वेपि च सामान्ये कथं सा सुरुचिः प्रिया ॥ २५ ॥
कथं न भवती मातः प्रिया क्षितिपतेरसि ॥
कथमुत्तमतां प्राप्त उत्तमः सुरुचेः सुतः ॥ २६ ॥
कुमारत्वेपि सामान्ये कथं त्वहमनुत्तमः ॥
कथं त्वं मन्दभाग्यासि सुकुक्षिः सुरुचिः कथम् ॥२७॥
कथं नृपासनं योग्यमुत्तमस्य कथं न मे ॥
कथं मे सुकृतं तुच्छमुत्तमस्योत्तमं कथम् ॥ २८ ॥
इति श्रुत्वा वचस्तस्य सुनीतिर्नीतिमच्छिशोः ॥
किञ्चिदुच्छ्वस्य शनकैः शिशुकोपोपशान्तये ॥ २९ ॥
स्वभावमधुरां वाणीं वक्तुं समुपचक्रमे ॥
सापत्नं प्रतिघं त्यक्त्वा राजनीतिविदांवरा ॥4.1.19.३०॥
॥ सुनीतिरुवाच ॥ ॥
अयि तात महाबुद्धे विशुद्धेनान्तरात्मना ॥
निवेदयामि ते सर्वं माऽपमाने मतिं कृथाः ॥ ३१ ॥
तया यदुक्तं तत्सर्वं तथ्यमेव न चान्यथा ॥
सापत्युर्महिषीराज्ञो राज्ञीनामति वल्लभा ॥ ३२ ॥
तया जन्मान्तरे तात यत्पुण्यं समुपार्जितम् ॥
तत्पुण्योपचयाद्राजा सुरुच्यां सुरुचिर्भृशम् ॥ ३३ ॥
मादृश्यो मन्दभाग्यायाः प्रमदासु प्रतिष्ठिताः ॥
केवलं राजपत्नीत्ववादस्तासु न तद्रुचिः ॥ ३४ ॥
महा सुकृतसम्भारैरुत्तमश्चोत्तमोदरे ॥
उवास तस्याः पुण्या या नृपसिंहासनोचितः ॥ ३५ ॥
आतपत्रं च चन्द्राभं शुभे चापि च चामरे ॥
भद्रासनं तथोच्चं च सिन्धुराश्च मदोद्धुराः ॥ ३६ ॥
तुरङ्गमाश्च तुरगास्त्वनाधिव्याधिजीवितम् ॥
निःसपत्नं शुभं राज्यं प्राज्यं हरिहरार्चनम् ॥ ३७ ॥
विपुलं च कलाज्ञानमधीतमपराजितम् ॥
तथा जयोरिषड्वर्गे स्वभावात्सात्त्विकी मतिः ॥ ३८ ॥
दृष्टिः कारुण्यसम्पूर्णा वाणी मधुरभाषिणी ॥
अनालस्यं च कार्येषु तथा गुरुजने नतिः ॥ ३९ ॥
सर्वत्र शुचिता तात सा परोपकृतिः सदा ॥
और्जस्वला मनोवृत्तिः सदैवादीनवादिता ॥ ॥ 4.1.19.४० ॥
सदोजिरे च पाण्डित्यं प्रागल्भ्यं चरणाङ्गणे ॥
आर्जवं बन्धुवर्गेषु काठिन्यं क्रयविक्रये ॥ ४१ ॥
मार्दवं स्त्रीप्रयोगेषु वत्सलत्वं प्रजासु च ॥
ब्राह्मणेभ्यो भयं नित्यं वृद्धवृत्त्युपजीवनम् ॥ ४२ ॥
वासो भागीरथीतीरे तीर्थे वा मरणं रणे ॥
अपराङ्मुखताऽर्थिभ्यः प्रत्यर्थिभ्यो विशेषतः ॥ ४३ ॥
भोगः परिजनैः सार्धं दानावन्ध्यदिनागमः ॥
विद्याव्यसनिता नित्यं नित्यं पित्रोरुपस्थितिः ॥ ४४ ॥
यशसः सञ्चयो नित्यं नित्यं धर्मस्य सञ्चयः ॥
स्वर्गापवर्गयोः सिद्धिः सदा शीलस्य मण्डनम् ॥ ४५ ॥
सद्भिश्च सङ्गतिर्नित्यं मैत्री च पितृमित्रकैः ॥
इतिहासपुराणानामुत्कण्ठा श्रवणे सदा ॥ ४६ ॥
विपद्यपि परं धैर्यं स्थैर्यं सम्पत्समागमे ॥
गाम्भीर्यं वाग्विलासेषु औदार्यं पात्रपाणिषु ॥ ४७ ॥
देहे परैका कृशता तपोभिर्नियमैर्यमैः ॥
एतैर्मनोरथफलैः फलत्येव तपोद्रुमाः ॥ ४८ ॥
तस्मादल्पतपस्त्वाद्वै त्वं चाहं च महामते ॥
प्राप्यापि राजसान्निध्यं राजलक्ष्म्या न भाजनम् ॥ ४९ ॥
मानापमानयोस्तस्मात्स्वकृतं कारणं परम् ॥
स्रष्टापि नापमार्ष्टुं तत्परीष्टे स्वकृतां कृतिम् ॥
मा शोचस्त्वमतः पुत्र दिष्टमिष्टं समर्पयेत् ॥4.1.19.५० ॥
इत्याकर्ण्य सुनीत्यास्तन्महावाक्यं सुनीतिमत् ॥
सौनीते यो ध्रुवोवाचमाददे वक्तुमुत्तरम् ॥ ५१ ॥
ध्रुव उवाच ॥ ॥
जनयित्रि सुनीते मे शृणु वाक्यमनाकुलम् ॥
मा बाल इति मत्वा मामवमंस्थास्तपस्विनि ॥ ५२ ॥
यद्यहं मानवे वंशे जातोस्म्यत्यन्त पावने ॥
उत्तानपादतनयस्त्वदीयोदर सम्भवः ॥५३॥
तप एव हि चेन्मातः कारणं सर्वसम्पदाम् ॥
तत्तदासादितं विद्विपदमन्यैर्दुरासदम् ॥ ५४ ॥
एकमेव हि साहाय्यं कुरु मातरतन्द्रिता ॥
अनुज्ञा दानमात्रं च आशीर्भिरभिनन्दय ॥ ॥ ५५ ॥
सापि ज्ञात्वा महावीर्यं कुमारं कुक्षिसम्भवम् ॥
महत्योत्साहसं पत्त्या राजमानमुवाच तम् ॥ ५६ ॥
अनुज्ञातुं न शक्ताऽहं त्वामुत्तानशयाङ्गज ॥
साष्टैकवर्षदेशीयन्तथापि कथयाम्यहम् ॥ ५७ ॥
सपत्नीवाक्यभल्लीभिर्भिन्ने महति मे हृदि ॥
तव बाष्पौघवारीणि न तिष्ठन्ति करोमि किम् ॥ ५८ ॥
तानि मन्येऽत्र मार्गेण स्रवन्त्यविरतं शिशो ॥
स्रवन्तीश्च चिकीर्षन्ति प्रतिकूल जलाः किल ॥ ५९ ॥
त्वदेकतनया तात त्वदाधारैकजीविता ॥
त्वमङ्गयष्टिरसि मे त्वन्मुखासक्तलोचना ॥ 4.1.19.६० ॥
लब्धोसि कतिभिः कष्टैरिष्टाः सम्प्रार्थ्य देवताः ॥
त्वन्मुखेन्दूदये तात मन्मनः क्षीरनीरधिः ॥ ६१ ॥
आनन्दपयसापूर्य कुचावुद्वेलितो भवेत् ॥
त्वदङ्गसङ्गसम्भूत सुखसन्दोह शीतला ॥ ६२ ॥
सुखंशये सुशयने प्रावृत्य पुलकाम्बरम् ॥
अपोऽथ समुपस्पृश्य ताम्बूलं परिगृह्य च ॥६३॥
त्वदास्यस्यौष्ठपुटक दुग्धवार्धि विवर्धिताम् ॥
सुधासुधांशुवदनधयत्यपि धिनोमि न ॥ ६४ ॥
त्वदीयः शीतलालापः प्राप श्रुतिपथं यदा ॥
सपत्नीवाक्यदवथुस्तदैवत्यात्स वेपथुः ॥६५॥
यदङ्ग निद्रासिचिरं ध्यायन्त्यस्मि तदेत्यहम् ॥
कदा निद्रा दरिद्रोसौ भवितार्कोदयेऽब्जवत् ॥६६॥
यदोपेया गृहान्वत्स खेलित्वा बालखेलनैः ॥
तदानर्घ्यार्घ्यमुत्स्रष्टुं स्तनौस्यातामिवोन्मुखौ ॥ ॥ ६७ ॥
यदा सौधाद्विनिर्यायाः पद्मरेखाङ्कितं पदम् ॥
प्राणानां ते यियासूनां तदा तदवलम्बनम् ॥ ६८ ॥
यदायदा बहिर्यासि पुत्र त्रिचतुरं पदम् ॥
तदातदा मम प्राणः कण्ठप्राघुणिकी भवेत् ॥ ६९ ॥
चित्रं पुत्र त्वरयति यातुं मे मानसाण्डजः ॥
सुधाधाराधर इव बहिश्चिरयति त्वयि ॥ 4.1.19.७० ॥
अथ तिष्ठन्तु कठिनाः प्राणाः कण्ठाटवीतटे ॥
तपस्यन्तोतिसन्तप्तास्तपसे त्वयि यास्यति ॥ ७१ ॥
इत्यनुज्ञामनुप्राप्य जननी चरणाम्बुजौ ॥
क्षणं मौलिजजम्बाल जडौ कृत्वा ध्रुवो ययौ ॥ ७२ ॥
तयापि धैर्यसूत्रेण सुनीत्या परिगुम्फ्य च ॥
नेत्रेन्दीवरजामाला ध्रुवस्योपायनीकृता ॥ ७३ ॥
मात्रातन्मार्गरक्षार्थं तदा तदनुगीकृताः ॥
परैरवार्यप्रसराः स्वाशीर्वादाः परःशताः ॥ ७४ ॥
स्वसौधात्स विनिर्गत्य बालोऽबालपराक्रमः ॥
अनुकूलेन मरुता दर्शिताध्वाऽविशद्वनम् ॥ ७५ ॥
समरुत्तरुशाखाग्र प्रसारणमिषेण सः ॥
कृताहूतिरिव प्रेम्णा वनेन वनमाविशत् ॥ ७६ ॥
समातृदैवतोभिज्ञः केवलं राजवर्त्मनि ॥
न वेद काननाध्वानं क्षणं दध्यौ नृपात्मजः ॥ ७७ ॥
यावदुन्मील्य नयने पुरः पश्यति स ध्रुवः ॥
तावद्ददर्श सप्तर्षीनतर्कित गतीन्वने ॥ ७८ ॥
वालिशेष्वसहायेषु भवेद्भाग्यं सहायकृत् ॥
अरण्यान्यां रणे गेहे ततो भाग्यं हि कारणम् ॥ ॥७९॥
क्व राजतनयो बालो गहनं क्व च तद्वनम् ॥
बलात्स्वसात्प्रत्कुर्वत्यै नमस्ते भवितव्य ते ॥4.1.19.८०॥
यत्र यस्य हि यद्भाव्यं शुभं वाऽशुभमेव च ॥
आकृष्यभाविनी रज्जुस्तत्र तस्य हि दापयेत ॥ ८१ ॥
अन्यथा विदधात्येष मानवो बुद्धिवैभवात् ॥
भगवत्या भवित्र्याऽसौ विदध्याद्विधिरन्यथा ॥ ८२ ॥
नवयो न च वै चित्र्यं न चित्रं विदधेहितम् ॥
न बलं नोद्यमः पुंसां कारणं प्राक्कृतं कृतम् ॥८३ ॥
अथ दृष्ट्वा स सप्तर्षीन्सप्तसप्त्यतितेजसः ॥
भाग्यसूत्रैरिवाकृष्योपनीतान्प्रमुमोद ह ॥ ८४ ॥
तिलकाङ्कित सद्भालान्कुशोपग्रहिताङ्गुलीन् ॥
कृष्णाजिनोपविष्टांश्च यज्ञसूत्रैरलङ्कृतान् ॥ ८५ ॥
साक्षसूत्रकरान्किञ्चिद्विनिमीलितलो चनान् ॥
सुधौतसूक्ष्मकाषायवासः प्रावरणान्वितान ॥ ८६ ॥
अकाण्डेपि महाभागान्मिलितान्सप्तनीरधीन् ॥
चित्रं विपद्विनिर्मग्नानुद्दिधीर्षूनिव प्रजाः ॥ ८७ ॥
उपगम्य विनम्रः स प्रबद्धकरसम्पुटः ॥
ध्रुवो विज्ञापयाञ्चक्रे प्रणम्य ललितं वचः ॥ ८८ ॥
॥ ध्रुव उवाच ॥ ॥
अवैत मां मुनिवराः सुनीत्युदरसम्भवम्॥
उत्तानपादतनयं ध्रुवं निर्विण्णमानसम् ॥ ८९ ॥
इदं वनमनुप्राप्तं सनाथं युष्मदङ्घ्रिभिः ॥
प्रायोनभिज्ञं सर्वत्र महर्द्ध्युषितमानसम् ॥4.1.19.९०॥
ते दृष्ट्वोर्जस्वलं बालं स्वभाव मधुराकृतिम् ॥
अनर्घ्यनयनेपथ्यं मृदुगम्भीरभाषिणम् ॥ ९१ ॥
उपोपवेश्य शिशुकं प्रोचुर्वै विस्मिता भृशम् ॥
अहोबालविशालाक्ष महाराज कुमारक ॥ ९२ ॥
विचार्यापि न जानीमो वद निर्वेदकारणम् ॥
अद्य ते ह्यर्थचिन्ता नो क्वापमानः प्रसूर्गृहे ॥ ९३ ॥
नीरुक्छरीरसम्पत्तिर्निवेदे किं नु कारणम् ॥
अनवाप्ताभिलाषाणां वैराग्यं जायते नृणाम् ॥ ९४ ॥
सप्तद्वीपपतेराज्ञः कुमारस्त्वं तथा कथम् ॥
स्वभावभिन्नप्रकृतौ लोकेस्मिन्न मनोगतम् ॥ ९५ ॥
अवगन्तुं हि शक्येत यूनो वृद्धस्य वा शिशोः ॥
इति श्रुत्वा वचस्तेषां सहजप्रेमनिर्भरम् ॥ ९६ ॥
वाचं जग्राह स तदा शिशुः प्रांशुमनोरथः
॥ध्रुव उवाच ॥ ॥
प्रेषितो राजसेवार्थं जनन्याऽहं मुनीश्वराः ॥ ९७ ॥
राजाङ्कमारुरुक्षुर्हि सुरुच्या परिभर्त्सितः ॥
उत्तमं चोत्तमीकृत्य मां च मन्मातरं तथा ॥९८॥
धिक्कृत्य प्रशशम्स स्वं निर्वेदे कारणं त्विदम् ॥
निशम्येति शिशोर्वाक्यं परस्परमवेक्ष्य ते ॥९९॥
क्षात्रमेव शशंसुस्तदहो बालेपि न क्षमा॥ 4.1.19.१०० ॥
ऋषय ऊचुः ॥ ॥
किमस्माभिरहो कार्यं कस्तवास्ति मनोरथः ॥
ज्ञातो भवतु तावत्स नः श्रवो गोचरी कुरु ॥ १ ॥
॥ ध्रुव उवाच ॥ ॥
मुनयो मम यो बन्धुरुत्तमश्चोत्तमोत्तमः ॥
पित्रा दत्तं च सोऽध्यास्तां तद्भद्रासनमुत्तमम् ॥ २ ॥
भवत्कृतं हि साहाय्यमेतदिच्छामि सुव्रताः ॥
प्रायो जाने न बालत्वादुपदेशस्तदुच्यताम् ॥ ३ ॥
अनन्यनृपभुक्तं यद्यदन्येभ्यः समुच्छ्रितम् ॥
इन्द्रादिदुरवापं यत्कथं लभ्यं दुरासदम् ॥ ४ ॥
पित्रोत्सृष्टं न काङ्क्षामि काङ्क्षामि स्वभुजाजितम् ॥
मनोरथपथातीतं भवेद्यत्पितुरप्यहो ॥ ५ ॥
पितृसम्पत्तिभोक्तारः प्रायशो न यशोधनाः ॥
नरोत्तमास्तु ते ज्ञेया ये पित्राधिक्यदर्शिनः ॥ ६ ॥
उपार्जितं हि पित्रा ये नाशयन्ति यशःश्रुतम् ॥
धनं निधनमेवास्तु तेषां दुर्वृत्तचेतसाम् ॥ ७ ॥
इति श्रुत्वा वचस्तस्य मुनयः सुनयोर्जितम् ॥
यथार्थमेव प्रत्यूचुर्मरीच्याद्यास्तथा ध्रुवम् ॥ ८ ॥
मरीचिरुवाच ॥ ॥
अनर्चिताच्युतपदः पदमापद्यते कथम् ॥
यथातथात्वमात्थाङ्ग नातथ्यं कथयाम्यहम् ॥ ९ ॥
अत्रिरुवाच ॥
अनास्वादितगोविन्दपदाम्बुजरजोरसः ॥
मनोरथपथातीतं स्फीतं नाकलयेत्पदम् ॥ 4.1.19.११० ॥
अङ्गिरा उवाच ॥ ॥
अदवीयः पदं तस्य सर्वासां सम्पदामिह ॥
कमलाकान्तकान्ताङ्घ्रि कमले यः सुशीलयेत् ॥ ११ ॥
॥ पुलस्त्य उवाच ॥ ॥
यस्य स्मरणमात्रेण महापातकसन्ततिः ॥
परमान्तमवाप्नोति स विष्णुः सर्वदो ध्रुव ॥ १२ ॥
॥ पुलह उवाच ॥ ॥
यदाहुः परमं ब्रह्म प्रधान पुरुषात्परम् ॥
यन्मायया ततं सर्वं सर्वं दास्यति सोच्युतः ॥ १३ ॥
॥ क्रतुरुवाच ॥ ॥
यो यज्ञपुरुषो विष्णुर्वेदवेद्यो जनार्दनः ॥
अन्तरात्माऽस्य जगतः तुष्टः किं न यच्छति ॥ १४ ॥
॥ वसिष्ठ उवाच ॥ ॥
यद्भ्रूनर्तनवर्तिन्यः सिद्धयोऽष्टौ नृपात्मज ॥
तमाराध्य हृषीकेशमपवर्गोप्यदूरतः ॥ १५ ॥
ध्रुव उवाच ॥ ॥
सत्यमुक्तं मुनीशाना विष्णोराराधनं प्रति ॥
कथं वा भगवानीज्यः सविधिश्चोपदिश्यताम् ॥१६॥
॥ मुनय ऊचुः ॥ ॥
तिष्ठता गच्छता वापि स्वपता जाग्रता तथा ॥
शयानेनोपविष्टेन जप्यो नारायणः सदा ॥१७॥
द्वादशाक्षरमन्त्रेण वासुदेवात्मकेन च॥
ध्यायंश्चतुर्भुजं विष्णुं जप्त्वा सिद्धिं न को गतः ॥ १८ ॥
अतसीपुष्पसङ्काशं पीतवाससमच्युतम् ॥
क्षणं सर्वात्मकं पश्यन्को न सिध्यति भूतले ॥१९॥
पुत्रान्कलत्रमित्राणि राज्यं स्वर्गापवर्गकम् ॥
वासुदेवं जपन्मर्त्यः सर्वं प्राप्नोत्यसंशयम् ॥ 4.1.19.१२० ॥
वासुदेव जपासक्तानपिपापकृतो जनान् ॥
नोपस्पृशन्ति वै विघ्ना यमदूताश्च दारुणाः ॥ २१ ॥
पितामहेन तेप्येष महामन्त्र उपासितः ॥
मनुना राज्यकामेन वैष्णवेन महर्द्धिना ॥ २२ ॥
त्वमप्येतेन मन्त्रेण वासुदेवपरो भव ॥
यथाभिलषितामृद्धिं क्षिप्रमाप्नुहि सत्तम ॥ २३ ॥
इत्युक्त्वांऽतर्हिताः सर्वे महात्मानो मुनीश्वराः ॥
वासुदेवमना भूत्वा ध्रुवोपि तपसे गतः ॥ १२४ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्यां संहितायां चतुर्थे काशीखण्डे पूवार्द्धे ध्रुवलोकवर्णने धुवोपदेशोनामैकोनविंशतितमोऽध्यायः ॥ १९ ॥