०१८ सप्तर्षिलोकवर्णनम्

अगस्तिरुवाच ॥ ॥
इति शृण्वन्कथां रम्यां शिवशर्माऽथ माथुरः ॥
मुक्तिपुर्यां सुसंस्नातो मायापुर्यां गतासुकः ॥१॥
नेत्रयोः प्राघुणी चक्रे ततः सप्तर्षिमण्डलम् ॥
व्रजन्स वैष्णवं लोकमन्ते विष्णुपुरीक्षणात् ॥ २ ॥
उवाच च प्रसन्नात्मा स्तुतश्चारणमागधैः ॥
प्रार्थितो देवकन्याभिस्तिष्ठ तिष्ठेति चक्षणम् ॥३॥
स्थिता सुतासु निःश्वसस्य मन्दभाग्या वयं त्विति ॥
गतः पुण्यतमाल्ँलोकानसौ यत्पुण्यवत्तमः ॥ ४ ॥
इति शृणवन्मुखात्तासां वचनानि विमानगः ॥
देवौ कस्यायमतुलो लोकस्तेजोमयः शुभः ॥ ५ ॥
इति द्विजवचः श्रुत्वा प्रोचतुर्गणसत्तमौ ॥
शिवशर्मञ्छिवमते सदा सप्तर्षयोमलाः ॥६॥
वसन्तीह प्रजाः स्रष्टुं विनियुक्ताः प्रजासृजा ॥
मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः ॥ ७ ॥
वसिष्ठश्च महाभागो ब्रह्मणो मानसाः सुताः ॥
सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः ॥ ८ ॥
सम्भूतिरनसूया च क्षमा प्रीतिश्च सन्नतिः ॥
स्मृतिरूर्जा क्रमादेषां पत्न्यो लोकस्य मातरः ॥९॥
एतेषां तपसा चैतद्धार्यते भुवनत्रयम् ॥
उत्पाद्य ब्रह्मणा पूर्वमेते प्रोक्ता महर्षयः ॥4.1.18.१०॥
प्रजाः सृजत रे पुत्रा नानारूपाः प्रयत्नतः॥
ततः प्रणम्य ब्रह्माणं तपसे कृतनिश्चयाः ॥ ११ ॥
अविमुक्तं समासाद्य क्षेत्रङ्क्षेत्रज्ञधिष्ठितम् ॥
मुक्तये सर्वजन्तूनामविमुक्तं शिवेन यत् ॥ १२ ॥
प्रतिष्ठाप्य च लिङ्गानि ते स्वनाम्नाङ्कितानि च ॥
शिवेति परया भक्त्या तेपुरुग्रं तपो भृशम॥१३॥
तुष्टस्तत्तपसा शम्भुः प्राजापत्यपदं ददौ ॥
लिङ्गान्यत्रीश्वरादीनि दृष्ट्वा काश्यां प्रयत्नतः ॥ ४ ॥
प्राजापत्येऽत्र ते लोके वसन्त्युज्ज्वलतेजसः ॥
गोकर्णेशस्य सरसः प्रत्यक्तीरे प्रतिष्ठितम् ॥ १५ ॥
लिङ्गमत्रीश्वरं दृष्ट्वा ब्रह्मतेजोभिवर्धते ॥
कर्कोट वाप्या ईशाने मरीचेः कुण्डमुत्तमम् ॥ १६ ॥
तत्र स्नात्वा नरो भक्त्त्या भ्राजते भास्करो यथा ॥
मरीचीश्वर सञ्ज्ञं तु तत्र लिङ्गं प्रतिष्ठितम् ॥ १७ ॥
तल्लिङ्गदर्शनाद्विप्र मारीचं लोकमाप्नुयात् ॥
कान्त्या मरीचिमालीव शोभते पुरुषर्षभः ॥ १८ ॥
पुलहेश पुलस्त्येशौ स्वर्गद्वारस्य पश्चिमे ॥
तौ दृष्ट्वा मनुजो लोके प्राजापत्ये महीयते ॥ १९ ॥
हरिकेशवने रम्ये दृष्ट्वैवाङ्गिरसेश्वरम् ॥
इह लोके वसेद्विप्र तेजसापरिबृंहितः ॥ 4.1.18.२० ॥
वरणायास्तटे रम्ये दृष्ट्वा वासिष्ठमीश्वम् ॥
क्रत्वीश्वरं च तत्रैव लभते वसतिं त्विह ॥ २१ ॥
काश्यामेतानि लिङ्गानि सेवितानि शुभैषिभिः॥
मनोभिवाञ्छितं दद्युरिह लोके परत्र च॥२२॥
गणावूचतुः ॥ ॥
शिवशर्मन्महाभाग तिष्ठते सात्र सुन्दरी ॥
अरुन्धती महापुण्या पतिव्रतपरायणा ॥ २३ ॥
यस्याः स्मरणमात्रेण गङ्गास्नान फलं लभेत् ॥
अन्तःपुरचरैर्द्वित्रैः पवित्रैः सहितो विभुः ॥ २४ ॥
सदा नारायणो देवो यस्याश्चक्रे कथां मुदा ॥
कमलायाः पुरोभागे पातिव्रत्य सुतोषितः ॥ २५ ॥
पतिव्रतास्वरुन्धत्याः कमले विमलाशयः ॥
यथास्ति न तथाऽन्यस्याः कस्याश्चित्कापि भामिनि ॥२६॥
न तद्रूपं न तच्छीलं न तत्कौलीन्यमेव च ॥
न तत्कलासुकौशल्यं पत्युः शुश्रूषणं न तत् ॥ २७ ॥
न माधुर्यं न गाम्भीर्यं न चार्यपरितोषणम् ॥
अरुन्धत्या यथा देवि तथाऽन्यासां क्वचित्प्रिये ॥ २८ ॥
धन्यास्ता योषितो लोके सभाग्याः शुद्धबुद्धयः ॥
अरुन्धत्याः प्रसङ्गे या नामापि परिगृह्णते ॥ २९ ॥
यदा पतिव्रतानां तु कथास्मद्भवने भवेत् ॥
तदा प्राथमिकीं रेखामेषाऽलङ्कुरुते सती ॥ 4.1.18.३० !।
ब्रुवतोरिति सङ्कथां तथा गणयोर्वैष्णवयोर्मुदावहाम् ॥
ध्रुवलोकउपागतस्ततो नयनातिथ्यमतथ्यवर्जितः ॥ ३१ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्द्धे सप्तर्षिलोकवर्णनन्नामाष्टादशोऽध्यायः ॥१८॥