॥ शिवशर्मोवाच ॥ ॥
शुक्रसम्बन्धिनी देवौ कथा श्रावि मया शुभा ॥
यस्याः श्रवणमात्रेण प्रीणिते श्रवणे मम ॥ १ ॥
कस्य पुण्यनिधेर्लोकः शोकहृत्त्वेष निर्मलः ॥
एतदाख्यातुमुद्युक्तौ भवन्तौ भवतां मम ॥ २ ॥
धयित्वा श्रोत्रपात्राभ्यां वाणीममृतरूपिणीम् ॥
न तृप्तिमधिगच्छामि भवन्मुखसुखोद्गताम् ॥३॥
॥ गणावूचतुः ॥ ॥
लोहिताङ्गस्य लोकोयं शिवशर्मन्निबोध ह ॥
उत्पत्तिं चास्य वक्ष्यावो भूसुतोयं यथाभवत् ॥ ४ ॥
पुरा तपस्यतः शम्भोर्दाक्षायण्या वियोगतः ॥
भालस्थलात्पपातैकः स्वेदबिन्दुर्महीतले ॥ ५ ॥
ततः कुमारः सञ्जज्ञे लोहिताङ्गो महीतलात् ॥
स्नेहसंवर्धितः सोथ धात्र्या धात्रीस्वरूपया ॥ ६ ॥
माहेय इत्यतः ख्यातिं परामेष गतः सदा ॥
ततस्तेपे तपोत्युग्रमुग्रपुर्यां पुरानघ ॥ ७ ॥
असिश्च वरणा चापि सरितौ यत्र शोभने ॥
द्युनद्योत्तरवाहिन्या मिलितेऽत्र जगद्धिते ॥ ८ ॥
सर्वगोपि हि विश्वेशो यत्र नित्यं प्रकाशते ॥
मुक्तये सर्वजन्तूनां कालोज्ज्ञित स्ववर्ष्मणाम् ॥ ९ ॥
अमृतं हि भवन्त्येव मृता यत्र शरीरिणः ॥
अनुग्रहं समासाद्य परं विश्वेश्वरस्य ह ॥ 4.1.17.१० ॥
अपुनर्भवदेहास्ते येऽविमुक्रेतनुत्यजः ॥
विना साङ्ख्येन योगेन विना नानाव्रतादिभिः ॥ ११ ॥
संस्थाप्य लिङ्गं विधिना स्वनाम्नाङ्गारकेश्वरम् ॥
पाञ्चमुद्रे महास्थाने कम्बलाश्वतरोत्तरे ॥ १२ ॥
ज्वलदङ्गारवत्तेजो यावत्तस्यशरीरतः ॥
विनिर्ययौ तपस्तावत्तेन तप्तं महात्मना ॥ १३ ॥
ततोङ्गारक नाम्ना स सर्वलोकेषु गीयते ॥
तस्य तुष्टो महादेवो ददौ ग्रहपदं महत् ॥ १४ ॥
अङ्गारक चतुर्थ्यां ये स्नात्वोत्तरवहाम्भसि ॥
अभ्यर्च्याङ्गारकेशानं नमस्यन्ति नरोत्तमाः ॥१५ ॥
न तेषां ग्रहपीडा च कदाचित्क्वापि जायते ॥
अङ्गांरकेन संयुक्ता चतुर्थी लभ्यते यदि ॥१६॥
उपरागसमं पर्व तदुक्तं कालवेदिभिः ॥
तस्यां दत्तं हुतं जप्तं सर्वं भवति चाक्षयम् ॥१७॥
श्रद्धया श्राद्धदा ये वै चतुर्थ्यङ्गारयोगतः ॥
तेषां पितॄणां भविता तृप्तिर्द्वादशवार्षिकी ॥ १८ ॥
अङ्गारकचतुर्थ्यां तु पुरा जज्ञे गणेश्वरः ॥
अतएव तु तत्पर्व प्रोक्तं पुण्यसमृद्धये ॥ १९॥
एकभक्तव्रती तत्र सम्पूज्य गणनायकम्॥
किञ्चिद्दत्त्वा तमुद्दिश्य न विघ्नैरभिभूयते ॥ 4.1.17.२० ॥
अङ्गारेश्वर भक्ता ये वाराणस्यां नरोत्तमाः ॥
तेऽस्मिन्नङ्गारके लोके वसन्ति परमर्द्धयः ॥२१॥
अगस्त्य उवाच ॥ ॥
इत्थं कथयतोरेव रम्यां पुण्यवतीं कथाम् ॥
भगवद्गणयोः प्राप नेत्रातिथ्यं गुरोः पुरी ॥ २२ ॥
नेत्रानन्दकरीं दृष्ट्वा शिवशर्माऽथ तां पुरीम् ॥
पप्रच्छाचार्यवर्यस्य कस्येयं पूरनुत्तमा ॥ २३ ॥
॥ गणावूचतुः ॥ ॥
सखे सुखं समाख्यावो नानाख्येयं तवाग्रतः ॥
अध्वखेदापनोदाय पुनरस्याः पुरः कथाम्॥ २४ ॥
विधेर्विधित्सतः पूर्वं त्रिलोकीरचनां मुदा ॥
आविरासुः सुताः सप्त मानसाः स्वस्यसन्निभाः ॥ २५ ॥
मरीच्यत्र्यङ्गिरो मुख्याः सर्वे सृष्टिप्रवर्तकाः ॥
प्रजापतेरङ्गिरसस्तेष्वभूद्देवसत्तमः ॥ २६ ॥
सुतश्चाङ्गिरसो नाम बुद्ध्या विबुधसत्तमः ॥
शान्तो दान्तो जितक्रोधो मृदुवाङ्निर्मलाशयः ॥ २७ ॥
वेदवेदार्थतत्त्वज्ञः कलासु कुशलोऽमलः ॥
पारदृश्वा तु सर्वेषां शास्त्राणां नीतिवित्तमः ॥ २८ ॥
हितोपदेष्टा हितकृदहितात्यहितः सदा ॥
रूपवाञ्छीलसम्पन्नो गुणवान्देशकालवित् ॥ २९ ॥
सर्वलक्षणसम्भार सम्भृतो गुरुवत्सलः ॥
तताप तापसीं वृत्तिं काश्यां स महतीं दधत ॥ 4.1.17.३० ॥
महल्लिङ्गं प्रतिष्ठाप्य शाम्भवं भूरिभावनः ॥
अयुतं शरदां दिव्यं दिव्यतेजा महातपाः ॥३१॥
ततः प्रसन्नो भगवान्विश्वेशो विश्वभावनः ॥
आविर्भूय ततो लिङ्गान्महसां राशिरब्रवीत् ॥३२॥
प्रसन्नोस्मि वरं ब्रूहि यत्ते मनसि वर्तते ॥
इति शम्भुं समालोक्य तुष्टावेति स हृष्टवान् ॥ ३३ ॥
॥ आङ्गिरस उवाच ॥ ॥
जय शङ्कर शान्त शशाङ्करुचे रुचिरार्थद सर्वद सर्वशुचे ॥
शुचिदत्त गृहीत महोपहृते हृतभक्तजनोद्धततापतते ॥ ३४ ॥
ततसर्वहृदम्बर वरदनते नतवृजिनमहावन दाहकृते ॥
कृतविविधचरित्रतनोसुतनो तनुविशिखविशोषणधैर्यनिधे ॥ ३५ ॥
निधनादि विवर्जितकृतनतिकृत्कृतिविहितमनोरथपन्नगभृत् ॥
नगभर्तृसुतार्पितवामवपुः स्ववपुःपरिपूरितसर्वजगत् ॥ ३६ ॥
त्रिजगन्मयरूपविरूपसुदृग्दृगुदञ्चनकुञ्चन कृतहुतभुक् ॥
भवभूतपतेप्रमथैकपते पतितेष्वपिदत्तकरप्रसृते ॥ ३७ ॥
प्रसूताखिलभूतलसंवरणप्रणवध्वनिसौधसुधांशुधर ॥
वरराजकुमारिकया परया परितः परितुष्ट नतोस्मि शिव ॥ ३८ ॥
शिवदेव गिरीश महेश विभो विभवप्रद गिरिश शिवेशमृड ॥
मृडयोडुपतिध्र जगत्त्रितयं कृतयन्त्रणभक्तिविघातकृताम् ॥ ३९ ॥
न कृतान्त त एष बिभेभि हरप्रहराशु महाघममोघमते ॥
नमतान्तरमन्यदवैनि शिवं शिवपादनतेः प्रणतोस्मि ततः ॥ 4.1.17.४० ॥
विततेऽत्र जगत्यखिलेऽघहरं हर तोषणमेव परं गुणवन् ॥
गुणहीनमहीन महावलयं प्रलयान्तकमीश नतोस्मि ततः ॥ ४१ ॥
इति स्तुत्वा महादेवं विररामाङ्गिरः सुतः ॥
व्यतरच्च महेशानः स्तुत्या तुष्टो वरान्बहून् ॥४२॥
॥ श्रीमहादेव उवाच ॥ ॥
बृहता तपसानेन बृहतां पतिरेध्यहो ॥
नाम्ना बृहस्पतिरिति ग्रहेष्वर्च्योभव द्विज ॥ ४३ ॥
अस्माल्लिङ्गार्चनान्नित्यं जीवभूतोसि मे यतः ॥
अतो जीव इति ख्यातिं त्रिषु लोकेषु यास्यसि ॥४४॥
वाचां प्रपञ्चैश्चतुरैर्निष्प्रपञ्चो यतः स्तुतः ॥
अतो वाचां प्रपञ्चस्य पतिर्वाचस्पतिर्भव ॥४५॥
अस्य स्तोत्रस्य पठनादपि वागुदियाच्च यम् ॥
तस्य स्यात्संस्कृता वाणी त्रिभिर्वर्षैस्त्रिकालतः ॥ ४६ ॥
समुत्पन्ने महाकार्ये न स बुद्ध्या प्रहीयते ॥
यः पठिष्यत्यदः स्तोत्रं वायव्याख्यं दिनेदिने ॥ ४७ ॥
अस्यस्तोत्रस्य पठनान्नियतं मम सन्निधौ ॥
न दुर्वृत्तौ प्रवृत्तिः स्यादविवेकवतां नृणाम् ॥ ४८ ॥
अदः स्तोत्रं पठञ्जन्तुर्जातुपीडां ग्रहोद्भवाम् ॥
न प्राप्स्यति ततो जप्यमिदं स्तोत्रं ममाग्रतः ॥ ४९ ॥
नित्यं प्रातः समुत्थाय यः पठिष्यति मानवः ॥
इमां स्तुतिं हरिष्येऽहं तस्य बाधाः सुदारुणाः ॥ 4.1.17.५० ॥
त्वत्प्रतिष्ठितलिङ्गस्य पूजां कृत्वा प्रयत्नतः ॥
इमां स्तुतिमधीयानो मनोवाञ्छामवाप्स्यति ॥ ५१ ॥
इति दत्त्वा वराञ्छम्भुः पुनर्ब्रह्माणमाह्वयत् ॥
सेन्द्रान्देवगणान्सर्वान्सयक्षोरगकिन्नरान् ॥ ५२ ॥
तानागतान्समालोक्य शिवो व्रह्माणमब्रवीत् ॥
विधेविधेहि मद्वाक्यादमुं वाचस्पतिं मुनिम् ॥ ५३ ॥
गुरुं सर्वसुरेन्द्राणां परितः स्वगुणैर्गुरुम् ॥
अभिषिञ्च विधानेन देवाचार्य पदे मुदे ॥ ५४ ॥
अतीव धिषणाधीशो ममप्रीतोभविष्यति ॥
महाप्रसाद इत्याज्ञां शिरस्याधाय तत्क्षणात् ॥ ५५ ॥
सुरज्येष्ठः सुराचार्यं चकाराङ्गिरसं तदा ॥
देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः ॥ ५६ ॥
गुरुपूजां व्यधुः सर्वे गीर्वाणा मुदिताननाः ॥
अभिषिक्तो वसिष्ठाद्यैर्मन्त्रपूतेन वारिणा ॥ ५७ ॥
पुनरन्यं वरं प्रादाद्गिरीशः पतये गिराम् ॥
शृण्वाङ्गिरस धर्मात्मन् देवेज्यकुलनन्दन ॥ ५८ ॥
भवतास्थापितं लिङ्गं सुबुद्धिपरिवर्धनम् ॥
बृहस्पतीश्वर इति ख्यातं काश्यां भविष्यति ॥ ५९ ॥
गुरुपुष्यसमायोगे लिङ्गमेतत्समर्च्य च ॥
यत्करिष्यन्ति मनुजास्तत्सिद्धिमधियास्यति ॥ 4.1.17.६० ॥
बृहस्पतीश्वरं लिङ्गं मया गोप्यं कलौ युगे ॥
अस्य सन्दर्शनादेव प्रतिभा प्रतिलभ्यते ॥६१॥
चन्द्रेश्वराद्दक्षिणतो वीरेशान्नैर्ऋते स्थितम् ॥
आराध्य धिषणेशं वै गुरुलोके महीयते ॥६२॥
गुर्वङ्गना गमनजं पापं षण्मास सेवनात् ॥
अवश्यं विलयं याति तमः सूर्योदयाद्यथा ॥ ६३ ॥
अतएव हि गोप्तव्यं महापातकनाशनम् ॥
बृहस्पतीश्वरं लिङ्गं नाख्येयं यस्यकस्यचित् ॥६४ ॥
इति दत्त्वा वरान्देवस्तत्रैवान्तर्हितो भवत् ॥
द्रुहिणो गुरुणा सार्धं सेन्द्रोपेन्द्रो बृहस्पतिम् ॥ ६५ ॥
अस्मिन्पुरेभिषिच्याथ विसृज्येन्द्रादिकान्सुरान् ॥
अलञ्चकार स्वं लोकं विष्णुनाऽनुमतो द्विज ॥ ६६ ॥
॥ अगस्त्य उवाच ॥ ॥
अतिक्रम्य गुरोर्लोकं लोपामुद्रे ददर्श सः ॥
शिवशर्मा पुरी सौरेः प्रभामण्डल मण्डिताम् ॥ ६७ ॥
पृष्टौ तेन च तौ तत्र तां पुरीं प्रददर्शतुः ॥
द्विजेन द्विजवर्याय गणवर्यौ शुचिस्मिते ॥६८॥
गणावूचतुः ॥ ॥
मारीचेः कश्यपाज्जज्ञे दाक्षायण्यां द्विजोष्णगुः ॥
तस्यभार्याभवत्सञ्ज्ञा पुत्री त्वष्टुः प्रजापतेः ॥ ६९ ॥
भर्तुरिष्टा ततस्तस्माद्रूपयौवनशालिनी ॥
सञ्ज्ञा बभूव तपसा सुदीप्तेन समन्विता ॥ 4.1.17.७० ॥
आदित्यस्य हि तद्रूपं मण्डलस्य तु तेजसा ॥
गात्रेषु परिदध्यौ वै नातिकान्तमिवाभवत् ॥ ७१ ॥
न खल्वयमृतोंऽडस्थ इति स्नेहादभाषत ॥
तदा प्रभृति लोकेयं मार्तण्ड इति चोच्यते ॥ ७२ ॥
तेजस्त्वभ्यधिकं तस्य साऽसहिष्णुर्विवस्वतः ॥
येनातितापयामास त्रैलोक्यं तिग्मरश्मिभृत् ॥ ७३ ॥
त्रीण्यपत्यानि भो ब्रह्मन्सञ्ज्ञायां महसां निधिः ॥
आदित्यो जनयामास कन्यां द्वौ च प्रजापती ॥ ७४ ॥
वैवस्वतं मनुं ज्येष्ठं यमं च यमुनां ततः ॥
नातितेजोमयं रूपं सोढुं साऽलं विवस्वतः ॥ ७५ ॥
मायामयीं ततश्छायां सवर्णां निर्ममे स्वतः ॥
प्राञ्जलिः प्रणता भूत्वा सञ्ज्ञां छाया तदाब्रवीत् ॥ ७६ ॥
तवाज्ञाकारिणीं देवि शाधि मां करवाणि किम् ॥
सञ्ज्ञोवाच ततश्छायां सवर्णे शृणु सुन्दरि ॥ ७७ ॥
अहं यास्यामि सदनं त्वष्टुस्त्वं पुनरत्र मे ॥
भवने वस कल्याणि निर्विशङ्कं ममाज्ञया ॥ ७८ ॥
मनुरेष यमावेतौ यमुना यम सञ्ज्ञकौ ॥
स्वापत्यदृष्ट्या द्रष्टव्यमेतद्बालत्रयं त्वया ॥ ७९ ॥
अनाख्येयमिदं वृत्तं त्वया पत्यौ शुचिस्मिते ॥
इत्याकर्ण्याथ सा त्वाष्ट्रीं देवीं छाया जगाद ह ॥ 4.1.17.८० ॥
आकचग्रहणान्नाहमाशापाच्च कदाचन ॥
आख्यास्यामि चरित्रं ते याहि देवि यथासुखम् ॥ ८१ ॥
इत्यादिश्य सवर्णां सा तथेत्युक्ता सवर्णया ॥
पितुरन्तिकमासाद्य नत्वा त्वष्टारमब्रवीत् ॥॥ ८२ ॥
पितः सोढुं न शक्नोमि तेजस्तेजोनिधेरहम् ॥
तीव्रं तस्यार्यपुत्रस्य काश्यपस्य महात्मनः ॥ ॥ ८३ ॥
निशम्योदीरितं तस्याः पित्रानिर्भर्त्सिता बहु ॥
भर्तुः समीपं याहीति नियुक्ता सा पुनःपुनः ॥ ८४ ॥
चिन्तामवाप महतीं स्त्रीणां धिक्चेष्टितं त्विति ॥
निनिन्द बहुधात्मानं स्त्रीत्वं चाति निनिन्द सा ॥८५॥
स्वातन्त्र्यं न क्वचित्स्त्रीणां धिगस्वातन्त्र्यजीवितम् ॥
शैशवे यौवने प्रान्ते पितृभर्तृसुताद्भयम् ॥८६॥
त्यक्तं भर्तृगृहं मौग्ध्याद्धन्त दुवृर्त्तया मया ॥
अविज्ञातापि चेद्यायामथ पत्युर्निकेतनम् ॥८७ ॥
तत्रास्ति सा सवर्णा वै परिपूर्णमनोरथा ॥
अथावतिष्ठे सात्रैव पित्रा निर्भर्त्सिताप्यहम् ॥ ८८ ॥
ततोति चण्डश्चण्डाशुः पित्रोरतिभयङ्करः ॥
अहो यदुच्यते लोकैरुपाख्यानमिदं हि तत् ॥ ८९ ॥
स्फुटं दृष्टं मयाद्येति स्वकराङ्गारकर्ष(र्प?)णम् ॥
नष्टं भर्तृगृहं मौग्ध्याच्छ्रेयो वा न पितुर्गृहम् ॥॥ 4.1.17.९० ॥
वयश्च प्रथमं चारु रूपं त्रैलोक्यकाङ्क्षितम् ॥
सर्वाभिभवनं स्त्रीत्वं कुलं चातीव निर्मलम् ॥ ९१ ॥
पतिश्च तादृक्सर्वज्ञो लोकचक्षुस्तमोपहः ॥
सर्वेषां कर्मणां साक्षी सर्वः सर्वत्रसञ्चरः ॥ ९२ ॥
मह्यं श्रेयः कथं वा स्यादिति सा परिचिन्त्य च ॥
अगच्छद्वडवा भूत्वा तपसे पर्यनिन्दिता ॥ ९३ ॥
उत्तरांश्च कुरून्प्राप चरन्ती नीरसन्तृणम् ॥
व्युत्तेपे च तपस्तीव्रं पतिमाधाय चेतसि ॥
तपोबलेन तत्पत्युः सहिष्ये तेज इत्यलम् ॥ ९४ ॥
मन्यमानोथ तां सञ्ज्ञां सवर्णायां तदा रविः ॥
सावर्णिं जनयामास मनुमष्टममुत्तमम् ॥ ९५ ॥
शनैश्चरं द्वितीयं च सुतां भद्रां तृतीयिकाम् ॥
सवर्णा स्वेष्वपत्येषु सापत्न्यात्स्त्रीस्वभावतः ॥ ९६॥
चकाराभ्यधिकं स्नेहं न तथा पूर्वजेष्वथ ॥
मनुस्तत्क्षान्तवाञ्ज्येष्ठो भक्ष्यालङ्कारलालने ॥ ९७ ॥
कनिष्ठेष्वधिकं दृष्ट्वा सावर्ण्यादिषु नो यमः ॥
कदाचिद्रोषतो बाल्याद्भाविनोर्थस्य गौरवात् ॥ ९८ ॥
पदा सन्तर्जयामास यमः सञ्ज्ञासरूपिणीम् ॥
तं शशाप च सा क्रोधात्सावर्णेर्जननी तदा ॥ ९९ ॥
जिघांसता त्वया पाप मां यदङ्घ्रिः समुद्यतः॥
अचिरात्तत्पतत्वेष तवेति भृशदुःखिता ॥ 4.1.17.१०० ॥
मातृशाप परित्रस्तो यमोपि पितुरग्रतः ॥
शशम्स सर्वं तद्वृत्तं रक्षरक्षेत्युवाच च ॥ १ ॥
मात्रासु तेषु सर्वेषु वर्तनीयं समं यतः ॥
तस्यां मयोद्यतः पादो न देहे परिपातितः ॥ २ ॥
बाल्याद्वा यदि वा मोहात्तद्भवान्क्षन्तुमर्हसि ॥
गोपते शापतो मातुर्मा पतत्वङ्घ्रिरेष मे ॥३॥
॥ विवस्वानुवाच ॥ ॥
अपराधसहस्रेपि जननी न शपेत्सुतम् ॥
तस्मात्किमपि भो बाल भविष्यत्यत्र कारणम् ॥ ४ ॥
येन त्वां साऽशपत्क्रोधाद्धर्मज्ञं सत्यवादिनम् ॥
मातृशापोन्यथाकर्तुं न शक्यः केनचित्क्वचित् ॥ ५ ॥
कृमयो मांसमादाय यास्यन्त्यस्मान्महीतलम् ॥
इत्थं तु चरितार्थः स्याच्छापस्त्रातो भवानपि ॥ ६ ॥
इति पुत्रं समाश्वास्य रविरन्तःपुरं ययौ ॥
चिरमालोक्य तां भार्यामुवाच सविता वचः ॥ ७ ॥
अयि भामिनि बालेषु समेष्वपि कुतस्त्वया ॥
विधीयतेऽधिकः स्नेहः सावर्ण्यादिष्वनादिषु ॥ ८ ॥
नाचचक्षे यदासाऽथ भास्वते परिपृच्छते ॥
तदात्मानं समाधाय सोज्ञासीत्सर्वमेव हि ॥ ९ ॥
ततो भगवते शप्तुमुद्यते सा शशम्स ह ॥
यथावृत्तं तथा तथ्यं तुतोष भगवानपि ॥ 4.1.17.११० ॥
तथ्यभाषणतस्तां तु रविर्ज्ञात्वा निरागसम् ॥
न शशाप च सङ्क्रुद्धो ययौ च त्वष्टुरन्तिकम् ॥११॥
त्वष्टापि च यथान्यायं सान्वयं तिग्मतेजसम्॥
निर्दग्धुकामं कोपेन प्रागानर्च मुदा तदा ॥
विज्ञाय तदभिप्रायं त्वष्टोवाचाऽशु तं रविम् ॥ १२ ॥
त्वष्टोवाच ॥ ॥
तवातितेजसो भीता प्राप्योत्तरकुरून् रवे ॥
वडवारूपमास्थाय वने चरति शाद्वले॥ १३ ॥
द्रष्टा हि तां भवानद्य स्वां भार्यामार्यचारिणीम् ॥
अधृष्यां सर्वभूतानां तेजसा नियमेन च ॥ १४ ॥
त्वष्ट्रा यत्तक्षितः सूर्यस्तस्यैवानुमतेन च ॥
भ्रमिमारोप्य यत्नेन सोतिकान्ततरोऽभवत् ॥ १५ ॥
लब्धानुज्ञोऽथ सविता गत्वोत्तरकुरूनरम् ॥
साक्षात्तपोमयीं लक्ष्मीं चरन्तीं च तपो महत् ॥ १६ ॥
ददर्श वडवारूपां वाडवानलतेजसम् ॥
नीरसा नितृणान्येव वृण्वन्तीं योगमायया ॥ १७ ॥
अनेनसं स विज्ञाय तां त्वाष्ट्रीमश्वरूपिणीम् ॥
सहरिर्हरिरूपेण मुखेन समभावयद् ॥ १८ ॥
त्वरमाणा च परितः परपूरुषशङ्कया ॥
सा तन्निरवमच्छुक्रं नासिकाभ्यां विवस्वतः ॥ १९ ॥
देवौ तस्मादजायेतामश्विनौ भिषजांवरौ ॥
स्वरूपमनुरूपं च द्युमणिस्तामदर्शयत ॥ 4.1.17.१२० ॥
तुतोष सापि तं दृष्ट्वा मित्रं नेत्रमुदावहम् ॥
पतिं पतिव्रता कां तं स्वान्तसन्तापहारिणम् ॥ २१ ॥
निर्वृत्तिं च परां प्राप दुष्प्रापं तपसाथ किम् ॥
तप एव परं श्रेयस्तप एव परं धनम् ॥ २२ ॥
तप एव हि देवत्वे कारणं परमं मतम् ॥
शिवशर्मन्यदेतद्वै दृश्यते चातिदीप्तिमत् ॥ २३ ॥
ज्योतिश्चक्रस्वरूपं च व्योम्न्युपर्यध एव च ॥
तत्सर्वमिह जानीहि सुमहत्तापसं महः ॥२४॥
एवं शनैश्चरो जज्ञे सवर्णायां विवस्वतः ॥
सोऽथ वाराणसीं गत्वा सर्वत्रिदशवन्दिताम् ॥ २५ ॥
तप्त्वा तपोऽतिविपुलं लिङ्गं संस्थाप्य शाङ्करम् ॥
इमं लोकमवापोच्चैर्ग्रहत्वं च हरार्चनात ॥२६॥
शनैश्चरेश्वरं दृष्ट्वा वाराणस्यां सुशोभनम् ॥
शनिबाधा न जायेत शनिवारे तदर्चनात् ॥२७॥
विश्वेशाद्दक्षिणेभागे शुक्रेशादुत्तरेण हि ॥
शनैश्चरेशमभ्यर्च्य लोकेऽत्र परिमोदते ॥ २८ ॥
श्रुत्वाऽध्यायमिमं पुण्यं ग्रहपीडा न जायते ॥
नोपसर्गभयं तस्य काश्यां निवसतः सतः ॥ १२९ ॥
इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्द्धे भौमगुरुशनिलोकवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥ ॥