॥ गणावूचतुः ॥
शिवशर्मन्महाबुद्धे शुक्रलोकोयमद्भुतः ॥
दानवानां च दैत्यानां गुरुरत्र वसेत्कविः ॥ १ ॥
पीत्वा वर्षसहस्रं वै कणधूमं सुदुःसहम् ॥
यः प्राप्तवान्महाविद्यां मृत्युसञ्जीविनीं हरात् ॥ २ ॥
इमां विद्यां न जानाति देवाचार्योति दुप्कराम् ॥
ऋते मृत्युञ्जयात्स्कन्दात्पार्वत्या गजवक्त्रतः ॥ ३ ॥
शिवशर्मोवाच ॥ ॥
कोसौ शुक्र इति ख्यातो यस्यायं लोक उत्तमः ॥
कथं तेन च विद्याप्ता मृत्युसञ्जीवनी हरात् ॥ ४ ।
आचक्षाथामिदं देवौ यदि प्रीतिर्मयि प्रभू ॥
ततस्तौ स्माहतुर्देवौ शुक्रस्य परमां कथाम् ॥ ५॥
यां श्रुत्वा चापमृत्युभ्यो हीयन्ते श्रद्धयायुताः ॥
भूतप्रेतपिशाचेभ्यो न भयं चापि जायते ॥ ६ ॥
आजौ प्रवर्तमानायामन्धकान्धकवैरिणोः ॥
अनिर्भेद्य गिरिव्यूह वज्रव्यूहाधिनाथयोः ॥७॥
अपसृत्य ततो युद्धादन्धकः शुक्रसन्निधिम् ॥
अधिगम्य बभाषेदमवरुह्य रथात्ततः ॥ ८ ॥
भगवंस्त्वामुपाश्रित्य वयं देवांश्च सानुगान् ॥
मन्यामहे तृणैस्तुल्यान्रुद्रोपेन्द्रादिकानपि ॥ ९ ॥
कुञ्जरा इव सिंहेभ्यो गरुडेभ्य इवोरगाः ॥
अस्मत्तो बिभ्यति सुरा गुरो युष्मदनुग्रहात् ॥ 4.1.16.१० ॥
वज्रव्यूहमनिर्भेद्यं विविशुर्देत्यदानवाः ॥
विधूय प्रमथानीकं ह्रदं तापार्दिता इव ॥ ११ ॥
वयं त्वच्छरणं भूत्वा पर्वता इव निश्चलाः ॥
स्थित्वा चराम निःशङ्का ब्राह्मणेन्द्र महाहवे ॥ १२ ॥
आप्तभावेन च वयं पादौ तव सुखप्रदौ ॥
सदाराः ससुताश्चैव शुश्रूषामो दिवानिशम् ॥ १३ ॥
अभिरक्षाभितो विप्र प्रसन्नः शरणागतान् ॥
पश्य हुण्डं तुहुण्डं च कुजम्भं जम्भमेव च ॥ १४ ॥
पाकं कार्तस्वनं चैव विपाकं पाकहारिणम् ॥
तं चन्द्रदमनं शूरं शूरामरविदारणम् ॥१५॥
प्रमथैर्भीमविक्रान्तैः क्रान्तं मृत्युप्रमाथिभिः ॥
सूदितान्पतितांश्चैव द्राविडैरिव चन्दनान्॥ १६॥
या पीत्वा कणधूमं वै सहस्रं शरदां पुरा ॥
वरा विद्या त्वया प्राप्ता तस्याः कालोयमागतः ॥१७॥
अथ विद्याफलं तत्ते दैत्यान्सञ्जीवयिष्यतः ॥
पश्यन्तु प्रमथाः सर्वे त्वया सञ्जीवितानिमान्॥१८॥
इत्यन्धकवचः श्रुत्वा स्थिरधीर्भार्गवोमुनिः ॥
किञ्चित्स्मितं तदा कृत्वा दानवाधिपमब्रवीत् ॥ १९ ॥
दानवाधिपते सर्वं तथ्यं यद्भाषितं त्वया ॥
विद्योपार्जनमेतद्धि दानवार्थं मया कृतम् ॥ 4.1.16.२० ॥
पीत्वा वर्षसहस्रं वै कणधूमं सुदुःसहम् ॥
एषा प्राप्तेश्वराद्विद्या बान्धवानां सुखावहा ॥ २१ ॥
एतया विद्यया सोहं प्रमयैर्मथितान्रणे ॥
उत्थापयिष्ये ग्लानानि धान्यन्यम्बुधरो यथा ॥२२॥
निर्व्रणान्नीरुजः स्वस्थान्सुप्त्वेव पुनरुत्थितान्॥
अस्मिन्मुहूर्ते द्रष्टासि दानवानुत्थितान्नृप ॥ २३ ॥
इत्युक्त्वा दानवपतिं विद्यामावर्तयत्कविः ॥
एकैकं दैत्यमुद्दिश्य त उत्तस्थुर्धृतायुधाः ॥ २४ ॥
वेदा इव सदभ्यस्ताः समये वा यथाम्बुदाः ॥
ब्राह्मणेभ्यो यथा दत्ताः श्रद्धयार्था महापदि ॥ २५॥
उज्जीवितांस्तु तान्दृष्ट्वा तुहुण्डाद्यान्महासुरान् ॥
विनेदुः पूर्वदेवास्ते जलपूर्णा इवाम्बुदाः ॥ २६ ॥
शुक्रेणोजीवितान्दृष्ट्वा दानवांस्तान्गणेश्वराः ॥
विज्ञाप्यमेव देवेशे ह्येवं तेऽन्योन्यमब्रुवन् ॥ २७ ॥
आश्चर्यरूपे प्रमथेश्वराणां तस्मिंस्तथा वर्तति युद्धयज्ञे ॥
अमर्षितो भार्गवकर्मदृष्ट्वा शिलादपुत्रोभ्यगमन्महेशम् ॥ २८ ॥
जयेति चोक्त्वा जय योनिमुग्रमुवाच नन्दी कनकावदातम्॥
गणेश्वराणां रणकर्म देव देवैश्च सेन्द्रैरपि दुष्करं यत् ॥ २९ ॥
तद्भार्गवेणाद्य कृतं वृथा नः सञ्जीव्य तानाजिमृतान्विपक्षान् ॥
आवर्त्य विद्यां मृतजीवदात्रीमेकैकमुद्दिश्य सहेलमीश ॥ 4.1.16.३० ॥
तुहुण्डहुण्डादिकजम्भजम्भविपाकपाकादि महासुरेन्द्राः ॥
यमालयादद्य पुनर्निवृत्ता विद्रावयन्तः प्रमथाश्चरन्ति ॥ ३१ ॥
यदि ह्यसौ दैत्यवरान्निरस्तान्सञ्जीवयेदत्र पुनःपुनस्तान् ॥
जयः कुतो नो भविता महेश गणेश्वराणां कुत एव शान्तिः ॥ ३२ ॥
इत्येवमुक्तः प्रमथेश्वरेण स नन्दिना वै प्रमथेश्वरेशः ॥
उवाच देवः प्रहसंस्तदानीं तं नन्दिनं सर्वगणेशराजम्॥ ३३ ॥
नन्दिन्प्रयाहि त्वरितोतिमात्रं द्विजेन्द्रवर्यं दितिनन्दनानाम् ॥
मध्यात्समुद्धृत्य तथानयाशु श्येनो यथा लावकमण्डजातम् ॥ ३४ ॥
स एव मुक्तो वृषभध्वजेन ननाद नन्दी वृषसिंहनादः ॥
जगाम तूर्णं च विगाह्य सेनां यत्राभवद्भार्गववंशदीपः ॥ ३५ ॥
तं रक्ष्यमाणं दितिजैः समस्तैः पाशासिवृक्षोपलशैलहस्तैः ॥
विक्षोभ्य दैत्यान्बलवाञ्जहार काव्यं स नन्दी शरभो यथेभम्॥ ३६ ॥
स्रस्ताम्बरं विच्युतभूषणं च विमुक्तकेशं बलिना गृहीतम् ॥
विमोचयिष्यन्त इवानुजग्मुः सुरारयः सिंहरवान्सृजन्तः ॥ ३७ ॥
दम्भोलि शूलासिपरश्वधानामुद्दण्डचक्रोपल कम्पनानाम् ॥
नन्दीश्वरस्योपरि दानवेद्रा वर्षं ववर्षुर्जलदा इवोग्रम् ॥ ३८ ॥
तं भार्गवं प्राप्य गणाधिराजो मुखाग्निना शस्त्रशतानि दग्ध्वा ॥
आयात्प्रवृद्धेऽसुरदेवयुद्धे भवस्य पार्श्वे व्यथितारिसैन्यः ॥ ३९ ॥
अयं स शुक्रो भगवन्नितीदं निवेदयामास भवाय शीघ्रम् ॥
जग्राह शुक्रं स च देवदेवो यथोपहारं शुचिना प्रदत्तम् ॥ 4.1.16.४० ॥
न किञ्चिदुक्त्वा स हि भूतगोप्ता चिक्षेप वक्त्रे फलवत्कवीन्द्रम् ॥
हाहारवस्तैरसुरैः समस्तैरुच्चैर्विमुक्तो हहहेति भूरि ॥ ४१ ॥
काव्ये निगीर्णे गिरिजेश्वरेण दैत्या जयाशा रहिता बभूवुः ॥
हस्तैर्विमुक्ता इव वारणेन्द्राः शृङ्गैर्विहीना इव गोवृषाश्च ॥ ४२ ॥
शरीर हीना इव जीवसङ्घा द्विजा यथा चाध्ययनेन हीनाः ॥
निरुद्यमाः सत्त्वगुणा यथा वै यथोद्यमा भाग्यविवर्जिताश्च ॥ ४३ ॥
पत्या विहीनाश्च यथैव योषा यथा विपक्षा इव मार्गणौघाः ॥
आयूंषि हीनानि यथैव पुण्यैर्वृत्तेन हीनानि यथा श्रुतानि ॥ ४४ ॥
विना यथा वैभवशक्तिमेकां भवन्ति हीनाः स्वफलैः क्रियौघाः ॥
तथा विना तं द्विजवर्यमेकं दैत्या जयाशा विमुखा बभूवुः ॥ ४५ ॥
नन्दिनापहृते शुक्रे गिलिते च विषादिना ॥
विषादमगमन्दैत्या हीयमानरणोत्सवाः ॥ ४६ ॥
तान्वीक्ष्य विगतोत्साहानन्धकः प्रत्यभाषत ॥
कविं विक्रम्य नयता नन्दिना वञ्चिता वयम् ॥ ४७॥
तनूर्विना हृताः प्राणाः सर्वेषामद्य तेन नः ॥
धैर्यं वीर्यं गतिः कीर्तिः सत्त्वं तेजः पराक्रमः ॥४८॥
युगपन्नो हृतं सर्वमेकस्मिन्भार्गवे हृते ॥
धिगस्मान्कुलपूज्यो यैरेकोपि कुलसत्तमः ॥
गुरुः सर्वसमर्थश्च त्राता त्रातो न चापदि ॥ ४९ ॥
तद्धैर्यमवलम्ब्येह युध्यध्वमरिभिः सह ॥
सूदयिष्याम्यहं सर्वान्प्रमथान्सह नन्दिना ॥ 4.1.16.५० ॥
अद्यैतान्विवशान्हत्वा सह देवैः सवासवैः ॥
भार्गवं मोचयिष्यामि जीवं योगीव कर्मतः ॥ ५१ ॥
स चापि योगी योगेन यदि नाम स्वयं प्रभुः ॥
शरीरात्तस्य निर्गच्छेदस्माकं रोषपालिता ॥ ५२ ॥
इत्यन्धकवचः श्रुत्वा दानवा मेघनिःस्वनाः ॥
प्रमथा नर्दयामासुर्मर्तव्ये कृत निश्चयाः ॥ ५३ ॥
सत्यायुपि न नो जातु शक्ताः स्युः प्रमथाबलात् ॥
असत्यायुषि किं गत्वा त्यक्त्वा स्वामिनमाहवे ॥ ॥ ५४ ॥
ये स्वामिनं विहायाजौ बहुमानधना जनाः ॥
यान्ति ते यान्ति नियतमन्धतामिस्रमालयम् ॥ ५५ ॥
अयशस्तमसा ख्यातिं मलिनीकृत्यभूरिशः ॥
इहामुत्रापि सुखिनो न स्युर्भग्ना रणाजिरात् ॥ ५६॥
किं दानैः किं तपोभिश्च किं तीर्थपरिमज्जनैः ॥
धरातीर्थे यदि स्नातं पुनर्भव मलापहे ॥ ५७ ॥
सम्प्रधार्येति तेऽन्योन्यं दैत्यास्ते दनुजास्तथा ॥
ममन्थुः प्रमथानाजौ रणभेरीर्निनाद्य च ॥ ५८ ॥
तत्र वाणासिवज्रौघैः कटङ्कटशिलामयैः ॥
भुशुण्डीभिन्दिपालैश्च शक्तिभल्ल परश्वधैः ॥ ५९ ॥
खट्वाङ्गैः पट्टिशैः शूलैर्लकुटैर्मुसलैरलम् ॥
परस्परमभिघ्नन्तः प्रचक्रुः कदनं महत् ॥ 4.1.16.६० ॥
कार्मुकाणां विकृष्टानां पततां च पतत्रिणाम् ॥
भिन्दिपालभुशुण्डीनां क्ष्वेडितानां रवोऽभवत् ॥ ६१ ॥
रणतूर्यनिनादैश्च गजानां बहुबृंहितैः ॥
हेषारवैर्हयानां च महान्कोलाहलोऽभवत् ॥६२॥
प्रतिस्वनैरवापूरि द्यावाभूम्योर्यदन्तरम् ॥
अभीरूणां च भीरूणां महारोमोद्गमोऽभवत् ॥ ६३ ॥
गजवाजिमहाराव स्फुटच्छब्दग्रहाणि च ॥
भग्नध्वजपताकानि क्षीणप्रहरणानि च ॥ ६४ ॥
रुधिरोद्गार चित्राणि व्यश्वहस्तिरथानि च ॥
पिपासितानि सैन्यानि मुमूर्छुरुभयत्र वै ॥ ६५ ॥
दृष्ट्वा सैन्यं च प्रमथैर्भज्यमानमितस्ततः ॥
दुद्राव रथमास्थाय स्वयमेवान्धको गणान् ॥ ६६ ॥
शरवज्रप्रहारैस्तैर्वज्राघातैर्नगा इव ॥
प्रमथानेशिरे वातैर्निस्तोया इव तोयदाः ॥ ६७ ॥
यान्तमायान्तमालोक्य दूरस्थं निकटस्थितम् ॥
प्रत्येकं रोमसङ्ख्याभिर्व्यधाद्बाणैस्तदान्धकः ॥ ६८ ॥
विनायकेन स्कन्देन नन्दिना सोमनन्दिना ॥
नैगमेयेन शाखेन विशाखेन बलीयसा ॥ ६९ ॥
इत्याद्यैस्तु गणैरुग्रैरन्धकोप्यन्धकीकृतः ॥
त्रिशूल शक्तिबाणौघ धारासम्पातपातिभिः ॥ 4.1.16.७० ॥
ततः कोलाहलो जातः प्रमथासुरसैन्ययोः ॥
तेन शब्देन महता शुक्रः शम्भूदरे स्थितः ॥ ७१ ॥
छिद्रान्वेषी भ्रमन्सोथ विनिःकेतो यथानिलः ॥
सप्तलोकान् सपालान्स रुद्रदेहे व्यलोकयत् ॥७२॥
ब्रह्मनारायणेन्द्राणामादित्याप्यरसां तथा ॥
भुवनानि विचित्राणि युद्धं च प्रमथासुरम् ॥ ७३ ॥
सवर्षाणां शतं कुक्षौ भवस्य परितो भ्रमन् ॥
न तस्य ददृशे रन्ध्रं शुचे रन्ध्रं खलो यथा ॥ ७४ ॥
शाम्भवेनाथयोगेन शुक्ररूपेण भार्गवः ॥
चस्कन्दाथ ननामापि ततो देवेन भाषितः ॥ ७५ ॥
शुक्रवन्निःसृतोयस्मात्तस्मात्त्वं भृगुनन्दन ॥
कर्मणानेन शुक्रस्त्वं मम पुत्रोसि गम्यताम् ॥ ७६ ॥
जठरान्निर्गते शुक्रे देवोपि मुमुदेतराम् ॥
भ्रमञ्छ्रेयोभवद्यन्मे न मृतो जठरे द्विजः ॥ ७७ ॥
इत्येवमुक्तो देवेन शुक्रोर्कसदृश द्युतिः ॥
विवेश दानवानीकं मेघमालां यथा शशी ॥ ७८ ॥
शुक्रोदयान्मुदं लेभे स दानव महार्णवः ॥
यथा चन्द्रोदये हर्षमूर्मिमाली महोदधिः ॥ ७९ ॥
अन्धकान्धकहन्त्रोर्वै वर्तमाने महाहवे ॥
इत्थं नाम्नाभवच्छुक्रः स वै भार्गवनन्दनः ॥ 4.1.16.८० ॥
यथा च विद्यां तां प्राप मृतसञ्जीवनीं पराम् ॥
शम्भोरनुग्रहात्काव्यस्तन्निशामय सुव्रत ॥ ८१ ॥
॥ गणावूचतुः ॥ ॥
पुराऽसौ भृगुदायादो गत्वा वाराणसीं पुरीम् ॥
अण्डजस्वेदजोद्भिज्जजरायुज गतिप्रदाम् ॥ ८२ ॥
संस्थाप्य लिङ्गं श्रीशम्भोः कूपं कृत्वा तदग्रतः ॥
बहुकालं तपस्तेपे ध्यायन्विश्वेश्वरं प्रभुम् ॥ ८३ ॥
राजचम्पकधत्तूर करवीरकुशेशयैः ॥
मालती कर्णिकारैश्च कदम्बैर्बकुलोत्पलैः ॥ ८४ ॥
मल्लिकाशतपत्रीभिः सिन्दुवारैः सकिंशुकैः ॥
अशोकैः करुणैः पुष्पैः पुन्नागैर्नागकेसरैः ॥ ८५ ॥
क्षुद्राभिर्माधवीभिश्च पाटला बिल्वचम्पकैः ॥
नवमल्लीविचिकिलैः कुन्दैः समुचुकुन्दकैः ॥ ८६ ॥
मन्दारैर्बिल्वपत्रैश्च द्रोणैर्मरुबकैर्बकैः ॥
ग्रन्थिपर्णैर्दमनकैः सुरभूचूतपल्लवैः ॥ ८७ ॥
तुलसी देवगन्धारी बृहत्पत्री कुशाङ्कुरैः ॥
नद्यावर्तैरगस्त्यैश्च सशालैर्देवदारुभिः ॥ ८८ ॥
काञ्चनारैः कुरबकैर्दूर्वाङ्कुर कुरण्टकैः ॥
प्रत्येकमेभिः कुसुमैः पल्लवैरपरैरपि ॥८९॥
पत्रैः शतसहस्रैश्च स समानर्च शङ्करम्॥
पञ्चामृतैर्द्रोणमितैर्लक्षकृत्वः प्रयत्नतः ॥4.1.16.९०॥
स्नपयामास देवेशं सुगन्धस्नपनैर्बहु ॥
सहस्रकृत्वो देवेशं चन्दनैर्यक्षकर्दमैः ॥९१॥
समालिलिम्प देवेशं सुगन्धोद्वर्तनान्यनु ॥
गीतनृत्योपहारैश्च श्रुत्युक्तस्तुतिभिर्बहुः ॥९२॥
नाम्नां सहस्रैरन्यैश्च स्तोत्रैस्तुष्टाव शङ्करम् ॥
सहस्रं पञ्चशरदामित्थं शुक्रः समर्चयन् ॥ ९३ ॥
यदा देवं नालुलोके मनागपि वरोन्मुखम्॥
तदान्यं नियमं घोरं जग्राहातीवदुःसहम्॥ ९४॥
प्रक्षाल्य चेतसो त्यन्तं चाञ्चल्याख्यं महामलम् ॥
भावनावार्भि रसकृदिन्द्रियैः सहितस्य च ॥ ९५ ॥
निर्मलीकृत्य तच्चेतो रत्नं दत्त्वा पिनाकिने ॥
प्रपपौ कणधूमौघं सहस्रं शरदां कविः ॥९६॥
प्रससाद तदा देवो भार्गवाय महात्मने ॥
तस्माल्लिङ्गाद्विनिर्गत्य सहस्रार्काधिकद्युतिः ॥ ९७ ॥
उवाच च विरूपाक्षः साक्षाद्दाक्षायणीपतिः ॥
तपोनिधे प्रसन्नोस्मि वरं वरय भार्गव ॥ ९८ ॥
निशम्येति वचः शम्भोरम्भोजनयनो द्विजः ॥
उद्यदानन्दसन्दोह रोमाञ्चाञ्चित विग्रहः ॥ ९९ ॥
तुष्टावाष्टतनुं तुष्टः प्रफु ल्ल नयनाञ्चलः ॥
मौलावञ्जलिमाधाय वदञ्जयजयेति च ॥ 4.1.16.१०० ॥
भार्गव उवाच ॥ ॥
त्वं भाभिराभिरभिभूय तमः समस्तमस्तं नयस्यभिमतानि निशाचराणाम् ॥
देदीप्यसे मणेगगनेहिताय लोकत्रयस्य जगदीश्वर तन्नमस्ते ॥ १०१ ॥
लोकेतिवेलमतिवेलमहामहोभिर्निर्मासि कौमुदमुदं च समुत्समुद्रम् ॥
विद्राविताखिलतमाः सुतमोहिमांशो पीयूषपूरपरिपूरित तन्नमस्ते ॥ २ ॥
त्वं पावने पथि सदागतिरस्युपास्यः कस्त्वां विना भुवनजीवनजीवतीह ॥
स्तब्धप्रभञ्जन विवर्धित सर्वजन्तोसन्तोषिताहि कुलसर्वगतन्नमस्ते ॥ ३ ॥
विश्वैकपावकनतावकपावकैक शक्तेर्ऋतेऽमृतवतामृतदिव्यकार्यम् ॥
प्राणित्यदो जगदहो जगदन्तरात्मंस्तत्पावक प्रतिपदं शमदं नमस्ते ॥ ४ ॥
पानीयरूप परमेश जगत्पवित्र चित्रं विचित्रसुचरित्र करोषि नूनम् ॥
विश्वपवित्रममलं किल विश्वनाथ पानावगाहनत एतदतो नतोस्मि ॥ ५ ॥
आकाशरूप बहिरन्तरुतावकाश दानाद्विकस्वरमिहेश्वर विश्वमैतत् ॥
त्वत्तः सदा सदयसंश्वसिति स्वभावात्सङ्कोचमेति भवतोस्मि नतस्ततस्त्वाम् ॥ ६ ॥
विश्वम्भरात्मक बिभर्ति विभोऽत्रविश्वं को विश्वनाथ भवतोन्य तमस्तमोरे ॥
तत्त्वां विना न शमिनां हिमजाहिभूषस्तव्योऽपरः परपरप्रणतस्ततस्त्वाम् ॥ ७ ॥
आत्मस्वरूप तव रूप परम्पराभिराभिस्ततं हर चराचर रूपमेतत् ॥
सर्वान्तरात्मनिलयप्रतिरूपरूपनित्यन्नतोस्मि परमात्मतनोऽष्टमूर्ते ॥ ८ ॥
इत्यष्टमूर्तिभि रिमाभिरुमाभिवन्द्यवन्द्यातिवन्द्य भव विश्वजनीनमूर्ते ॥
एतत्ततं सुविततं प्रणतप्रणीत सर्वाथर्सार्थपरमार्थ ततो नतोस्मि ॥ ९ ॥
अष्टमूर्त्यष्टकेनेष्टं परिष्टूयेति भार्गवः ॥
भर्गभूमिमिलन्मौलिः प्रणनाम पुनःपुनः ॥ 4.1.16.११० ॥
इति स्तुतो महादेवो भार्गवेणातितेजसा ॥
उत्थाप्य भूमेर्बाहुभ्यां धृत्वा तं प्रणतं द्विजम् ॥ ११ ॥
उवाच दशनज्योत्स्ना प्रद्योतित दिगन्तरः ॥
अनेनात्युग्रतपसा ह्यनन्याचरितेन च ॥ १२ ॥
लिङ्गस्थापनपुण्येन लिङ्गस्याराधनेन च ॥
चित्तरत्नोपहारेण शुचिना निश्चलेन च ॥१३॥
अविमुक्त महाक्षेत्रे पवित्राचरणेन च ॥
त्वां सुताभ्यां प्रपश्यामि तवादेयं न किञ्चन ॥ १४ ॥
अनेनैव शरीरेण ममोदरदरीं गतः ॥
मद्वरेन्द्रियमार्गेण पुत्र जन्मत्वमेष्यसि ॥ ।५ ॥
अन्यं वरं प्रयच्छामि दुष्प्रापं पार्षदैरपि ॥
हरौ हिरण्यगर्भेपि प्रायशोऽहं जुगोपयाम् ॥ १६ ॥
मृतसञ्जीवनी नाम विद्या या मम निर्मला ॥
तपोबलेन महता मयैव परिनिर्मिता ॥ १७ ॥
त्वां तां तु प्रापयाम्यद्य मन्त्ररूपां महाशुचे ॥
योग्यता तेऽस्ति विद्यायास्तस्याः शुचितपोनिधे ॥ १८ ॥
यंयमुद्दिश्यनियतमेतामावर्तयिष्यसि ॥
विद्यां विद्येश्वरश्रेष्ठ स स प्राणिष्यति धुवम् ॥१९॥
अत्यर्कमत्यग्निं(?) च ते तेजो व्योम्न्यतितारकम् ॥
देदीप्यमानं भविता ग्रहाणां प्रवरो भव ॥4.1.16.१२०॥
अभि त्वां ये करिष्यन्ति यात्रां नार्यो नरोपि वा ॥
तेषां त्वदृष्टिपातेन सर्वं कार्यं प्रणङ्क्ष्यति ॥ २१ ॥
तवोदये भविष्यन्ति विवाहादीनि सुव्रत ॥
सर्वाणि धर्मकार्याणि फलवन्ति नृणामिह ॥ २२ ॥
सर्वाश्च तिथयो मन्दास्तव संयोगतः शुभाः ॥
तव भक्ता भविष्यन्ति बहुशुक्रा बहुप्रजाः ॥ २३ ॥
त्वयेदं स्थापितं लिङ्गं शुक्रेशमिति सञ्ज्ञितम् ॥
येऽर्चयिष्यन्ति मनुजास्तेषां सिद्धिर्भविष्यति ॥ २४ ॥
आवर्षं प्रतिशुक्रं ये नक्तव्रतपरा नराः ॥
त्वद्दिने शुक्रकूपे ये कृतसर्वोदकक्रियाः ॥ २५ ॥
शुक्रेशमर्चयिष्यन्ति शृणु तेषां तु यत्फलम् ॥
अवन्ध्यशुक्रास्ते मर्त्याः पुत्रवन्तोऽतिरेतसः ॥ २६ ॥
पुंस्त्वसौभाग्यसम्पन्ना भविष्यन्ति न संशयः ॥
व्यपेतविघ्नास्ते सर्वे जनाः स्युः सुखवासिनः ॥
इति दत्त्वा वरान्देवस्तत्र लिङ्गे लयं ययौ ॥२७॥
गणावूचतुः ॥ ॥
शुक्रेश्वरस्य ये भक्ताः शुक्रलोके वसन्ति ते ॥
विश्वेश्वराद्दक्षिणतः शुक्रेशोस्ति परन्तप ॥ २८ ॥
तस्य दर्शनमात्रेण शुक्रलोके महीयते ॥
इत्येषा शुक्रलोकस्य स्थितिरुक्ता महामते ॥२९ ॥
अगस्त्य उवाच ॥ ॥
इत्थं सधर्मिणि कथां शुक्रलोकस्य सुव्रते ॥
शृण्वन्नाङ्गारकं लोकमालुलोकेऽथ स द्विजः ॥ 4.1.16.१३० ॥
इति श्रीस्कान्दे महापुराणे चतुर्थे काशीखण्डे पूर्वार्धे शुक्रलोकवर्णनं नाम षोडशोऽध्यायः ॥१६॥