०१५ नक्षत्रबुधलोकयोर्वर्णनम्

अगस्तिरुवाच ॥
शृणु पत्नि महाभागे लोपामुद्रे सधर्मिणि ॥
कथा विष्णुगणाभ्यां च कथितां शिवशर्मणे ॥ १ ॥
शिवशर्मोवाच ॥
अहो गणौ विचित्रेयं श्रुता चान्द्रमसी कथा ॥
उडुलोककथां ख्यातं विष्वगाख्यानकोविदौ ॥ २ ॥
गणावूचतुः ॥
पुरा सिसृक्षतः सृष्टिं स्रष्टुरङ्गुष्ठपृष्ठतः ॥
दक्षः प्रजाविनिर्माणे दक्षो जातः प्रजापतिः॥
षष्टिर्दुहितरस्तस्य तपोलावण्यभूषणाः ॥
सर्वलावण्यरोहिण्यो रोहिणीप्रमुखाः शुभाः ॥ ४ ॥
ताभिस्तप्त्वा तपस्तीव्रं प्राप्य वैश्वेश्वरीं पुरीम् ॥
आराधितो महादेवः सोमः सोमविभूपणः ॥ ५ ॥
यदा तुष्टोयमीशानो दातुं वरमथाययौ ॥
उवाच च प्रसन्नात्मा याचध्वं वरमुत्तमम् ॥ ६ ॥
शम्भोर्वाक्यमथाकर्ण्य ऊचुस्ताश्च कुमारिकाः ॥
यदि देयो वरोऽस्माकं वरयोग्याः स्म शङ्कर ॥ ७ ॥
भवतोपि महादेव भवतापहरो हि यः ॥
रूपेण भवता तुल्यः स नो भर्ता भवत्विति ॥ ८ ॥
लिङ्गं संस्थाप्य सुमहन्नक्षत्रेश्वर सञ्ज्ञितम् ॥
वारणायास्तटे रम्ये सङ्गमेश्वरसन्निधौ। ॥ ९ ॥
दिव्यं वर्ष सहस्रं तु पुरुषायितसञ्ज्ञितम् ॥
तपस्तप्तं महत्ताभिः पुरुषैरपि दुष्करम् ॥ 4.1.15.१० ॥
ततस्तुष्टो हि विश्वेशो व्यतरद्वरमुत्तमम् ॥
सर्वासामेकपत्नीनामकत्रे(?) स्थिरचेतसाम् ॥ ११ ॥
श्री विश्वेश्वर उवाच ॥ ॥
न क्षान्तं हि तपोत्युग्रमेतदन्याभिरीदृशम् ॥
पुराऽबलाभिस्तस्माद्वो नाम नक्षत्रमत्र वै ॥ १२ ॥
पुरुषायितसञ्ज्ञेन तप्तं यत्तपसाधुना ॥
भवतीभिस्ततः पुंस्त्वमिच्छया वो भविष्यति ॥ १३ ॥
ज्योतिश्चक्रे समस्तेऽस्मिन्नग्रगण्या भविष्यथ ॥
मेषादीनां च राशीनां योनयो यूयमुत्तमाः ॥ १४ ॥
ओषधीनां सुधायाश्च ब्राह्मणानां च यः पतिः ॥
पतिमत्यो भवत्योपि तेन पत्या शुभाननाः॥ १५ ॥
भवतीनामिदं लिङ्गं नक्षत्रेश्वर सञ्ज्ञितम् ॥
पूजयित्वा नरो गन्ता भवतीलोकमुत्तमम् ॥ १६ ॥
उपरिष्टान्मृगाङ्कस्य लोको वस्तु भविष्यति ॥
सर्वासां तारकाणां च मध्ये मान्या भविष्यथ ॥ १७ ॥
नक्षत्रपूजका ये च नक्षत्रव्रतचारिणः ॥
ते वो लोके वसिष्यन्ति नक्षत्र सदृशप्रभाः ॥ १८ ॥
नक्षत्रग्रहराशीनां बाधास्तेषां कदाचन ॥
न भविष्यन्ति ये काश्यां नक्षत्रेश्वरवीक्षकाः ॥ १९ ॥
अगस्त्य उवाच ॥ ॥
अतिथित्वमवाप नेत्रयोर्बुधलोकः शिवशर्मणस्त्वथ ॥
गणयोर्भगणस्य सङ्कथां कथयित्रो रिति विष्णुचेतसोः ॥ 4.1.15.२० ॥
शिवशर्मोवाच ॥ ॥
कस्य लोकोयमतुलो ब्रूतं श्रीभगवद्गणौ ॥
पीयूषभानोरिव मे मनः प्रीणयतेतराम् ॥ २१ ॥
॥ गणावूचतुः ॥ ॥
शिवशर्मञ्छृणु कथामेतां पापापहारिणीम्॥
स्वर्गमार्गविनोदाय तापत्रयविनाशिनीम् ॥ २२ ॥
योसौ पूर्वं महाकान्तिरावाभ्यां परिवर्णितः ॥
साम्राज्यपदमापन्नो द्विजराजस्तवाग्रतः ॥ २३ ॥
दक्षिणा राजसूयस्य येन त्रिभुवनं कृता ॥
तपस्तताप योत्युग्रं पद्मानां दशतीर्दश ॥२४॥
अत्रिनेत्रसमुद्भूतः पौत्रो वै द्रुहिणस्य यः ॥
नाथः सर्वौषधीनां च ज्योतिषां पतिरेव च ॥ २५ ॥
निर्मलानां कलानां च शेवधिर्यश्च गीयते ॥
उद्यन्परोपतापं यः स्वकरैर्गलहस्तयेत् ॥ २६ ॥
मुदङ्कुमुदिनीनांयस्तनोति जगता सह ॥
दिग्वधू चारु शृङ्गारदर्शनादर्शमण्डलः ॥ २७ ॥
किमन्यैर्गुणसम्भारैरतोपि न समं विधोः ॥
निजोत्तमाङ्गे सर्वज्ञः कलां यस्यावतंसयेत् ॥ २८ ॥
बृहस्पतेस्स वै भार्यामैश्वर्यमदमोहितः ॥
पुरोहितस्यापिगुरोर्भ्रातुराङ्गिरसस्य वै ॥ २९ ॥
जहार तरसा तारां रूपवान्रूपशालिनीम्॥
वार्यमाणोपि गीर्वाणैर्बहुदेवर्षिभिः पुनः ॥ 4.1.15.३० ॥
नायं कलानिधेर्दोषो द्विजराजस्य तस्य वै ॥
हित्वा त्रिनेत्रं कामेन कस्य नो खडितं मनः ॥३१॥
ध्वान्तमेतदभितः प्रसारियत्तच्छमाय विधिनाविनिर्मितम्॥
दीपभास्करकरामहौषधं नाधिपत्य तमसस्तुकिञ्चन ॥ ३२ ॥
आधिपत्यमदमोहितं हितं शंसितं स्पृशति नो हरेर्हितम् ॥
दुर्जनविहिततीर्थमज्जनैः शुद्धधीरिव विरुद्धमानसम्॥ ३३ ॥
धिग्धिगेतदधिकर्द्धि चेष्टितं चङ्क्रमेक्षणविलक्षितं यतः ॥
वीक्षते क्षणमचारुचक्षुषा घातितेन विपदःपदेन च ॥ ३४ ॥
कः कामेन न निर्जितस्त्रिजगतां पुष्पायुधेनाप्यहो कः क्रोधस्यवशङ्गतो ननच को लोभेन सम्मोहितः ॥
योषिल्लोचनभल्लभिन्नहृदयः को नाप्तवानापदं को राज्यश्रियमाप्यनान्धपदवीं यातोपि सल्लोचनः ॥ ३५ ॥
आधिपत्यकमलातिचञ्चला प्राप्यतां च यदिहार्जितं किल ॥
निश्चलं सदसदुच्चकैर्हितं कार्यमार्यचरितैः सदैव तत् ॥ ३६ ॥
न यदाङ्गिरसे तारां स व्यसर्जयदुल्बणः ॥
रुद्रोथ पार्ष्णिं जग्राह गृहीत्वाजगवं धनुः ॥ ३७ ॥
तेन ब्रह्मशिरोनाम परमास्त्रं महात्मना ॥
उत्सृष्टं देवदेवायतेन तन्नाशितं ततः ॥ ३८ ॥
तयोस्तद्युद्धमभवद्घोरं वै तारकामयम् ॥
ततस्त्वकाण्ड ब्रह्माण्ड भङ्गाद्भीतोभवद्विधिः ॥३९॥
निवार्य रुद्रं समरात्संवर्तानलवर्चसम् ॥
ददावाङ्गिरसे तारां स्वयमेव पितामहः ॥4.1.15.४०॥
अथान्तर्गर्भमालोक्य तारां प्राह बृहस्पतिः ॥
मदीयायां न ते योनौ गर्भो धार्यः कथञ्चन ॥४१॥
इषीकास्तम्बमासाद्य गर्भं सा चोत्ससर्ज ह ॥
जातमात्रः स भगवान्देवानामाक्षिपद्वपुः ॥ ४२ ॥
ततः संशयमापन्नास्तारामूचुः सुरोत्तमाः ॥
सत्यं बूहि सुतः कस्य सोमस्याथ बृहस्पतेः ॥ ४३ ॥
पृच्छमाना यदा देवै र्नाह ताराऽतिसत्रपा ॥
तदा सा शप्तुमारब्धा कुमारेणातितेजसा ॥ ४४ ॥
तं निवार्य तदा ब्रह्मा तारां पप्रच्छ संशयम्॥
प्रोवाच प्राञ्जलिः सा तं सोमस्येति पितामहम् ॥ ४५ ॥
तदा स मूर्ध्न्युपाघ्राय राजा गर्भं प्रजापतिः ॥
बुध इत्यकरोन्नाम तस्य बालस्य धीमतः ॥ ४६ ॥
ततश्च सर्वदेवेभ्यस्तेजोरूपबलाधिकः ॥
बुधः सोमं समापृच्छय तपसे कृतनिश्चयः ॥४७॥
जगाम काशीं निर्वाणराशिं विश्वेशपालिताम् ॥
तत्र लिगं प्रतिष्ठाप्य स स्वनाम्ना बुधेश्वरम् ॥ ४८ ॥
तपश्चचार चात्युग्रमुग्रं संशीलयन्हृदि ॥
वर्षाणामयुतं बालो बालेन्दुतिलकं शिवम् ॥ ४९ ॥
ततो विश्वपतिः श्रीमान्विश्वेशो विश्वभावनः ॥
बुधेश्वरान्महालिङ्गादाविरासीन्महोदयः ॥ 4.1.15.५० ॥
उवाच च प्रसन्नात्मा ज्योतीरूपो महेश्वरः ॥
वरं ब्रूहि महाबुद्धे बुधान्य विबुधोत्तमः ॥ ५१ ॥
तवानेनाति तपसा लिङ्गसंशीलनेन च ॥
प्रसन्नोस्मि महासौम्य नादेयं त्वयि विद्यते ॥ ५२ ॥
इति श्रुत्वा वचः सोथ मेघगम्भीर निःस्वनम्॥
अवग्रहपरिम्लान सस्यसञ्जीवनोपमम्॥ ५३ ॥
उन्मील्यलोचने यावत्पुरः पश्यति बालकः ॥
तावल्लिङ्गे ददर्शाथ त्र्यम्बकं शशिशेखरम्॥५४॥
बुध उवाच ॥ ॥
नमः पूतात्मने तुभ्यं ज्योतीरूप नमोस्तु ते ॥
विश्वरूप नमस्तुभ्यं रूपातीताय ते नमः ॥५५ ॥
नमः सर्वार्ति नाशाय प्रणतानां शिवात्मने ॥
सर्वज्ञाय नमस्तुभ्यं सर्वकर्त्रे नमोस्तु ते ॥ ५६ ॥
कृपालवे नमस्तुभ्यं भक्तिगम्याय ते नमः ॥
फलदात्रे च तपसां तपोरूपाय ते नमः ॥ ५७ ॥
शम्भो शिवशिवाकान्त शान्तश्री कण्ठशूलभृत् ॥
शशिशेखरशर्वेश शङ्करेश्वर धूर्जटे ॥ ५८ ॥
पिनाकपाणे गिरिश शितिकण्ठ सदाशिव ॥
महादेव नमस्तुभ्यं देवदेव नमोस्तु ते ॥ ५९ ॥
स्तुतिकर्तुं न जानामि स्तुतिप्रिय महेश्वर ॥
तव पादाम्बुजद्वन्द्वे निर्द्वन्द्वा भक्तिरस्तु मे ॥ 4.1.15.६० ॥
अयमेव वरो नाथ प्रसन्नोसि यदीश्वर ॥
नान्यं वरं वृणे त्वत्तः करुणामृतवारिधे ॥ ६१ ॥
ततः प्राह महेशानस्तत्स्तुत्या परितोषितः ॥
रौहिणेय महाभाग सौम्यसौम्यवचोनिधे ॥ ६२ ॥
नक्षत्रलोकादुपरि तव लोको भविष्यति ॥
मध्ये सर्वग्रहाणां च सपर्यां लप्स्यसे पराम् ॥ ६३ ॥
त्वयेदं स्थापितं लिङ्गं सर्वेषां बुद्धिदायकम् ॥
दुर्बुद्धिहरणं सौम्य त्वल्लोकवसतिप्रदम् ॥ ६४ ॥
इत्युक्त्वा भगवाञ्छम्भुस्तत्रैवान्तरधीयत ॥
बुधः स्वर्लोकमगमद्देवदेवप्रसादतः ॥ ६५ ॥
गणावूचतुः ॥ ॥
काश्यां बुधेश्वरसमर्चनलब्धबुद्धिः संसारसिन्धुमधिगम्य नरो ह्यगाधम् ॥
मज्जेन्न सज्जनविलोचन चन्द्रकान्तिः कान्ताननस्त्वधिवसेच्च बुधेऽत्र लोके ॥ ६६ ॥
चन्द्रेश्वरात्पूर्वभागे दृष्ट्वा लिङ्गं बुधेश्वरम् ॥
न बुद्ध्या हीयते जन्तुरन्तकालेपि जातुचित् ॥६७॥
गणौ यावत्कथामित्थं चक्राते बुधलोकगाम् ॥
तावद्विमानं सम्प्राप्तं शुक्रलोकमनुत्तमम् ॥ ६८ ॥ ॥
इति श्री स्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्द्धे नक्षत्रबुधलोकयोर्वर्णनं नाम पञ्चदशोध्यायः ॥ १५ ॥