गणावूचतुः ॥ ॥
इमां गन्धवतीं पुण्यां पुरीं वायोर्विलोकय ॥
वारुण्या उत्तरे भागे महाभाग्यनिधे द्विज ॥ १ ॥
अस्यां प्रभञ्जनो नाम जगत्प्राणोदिगीश्वरः ॥
आराध्य श्रीमहादेवं दिक्पालत्वमवाप्तवान् ॥ २ ॥
पुरा कश्यपदायादः पूतात्मेति च विश्रुतः ॥
धूर्जटे राजधान्यां स चचार विपुलं तपः ॥ ३ ॥
वाराणस्यां महाभागो वर्षाणामयुतं शतम् ॥
स्थापयित्वा महालिङ्गं पावनं पवनेश्वरम् ॥ ४ ॥
यस्य दर्शनमात्रेण पूतात्मा जायते नरः ॥
पापकञ्चुकमुत्सृज्य स वसेत्पावने पुरे ॥ ५ ॥
ततस्तस्योग्रतपसा तपसाफलदः शिवः ॥
आविरासीत्ततो लिङ्गाज्ज्योतीरूपो महेश्वरः ॥ ५ ॥
उवाच च प्रसन्नात्मा करुणामृतसागरः ॥
उत्तिष्ठोत्तिष्ठ पूतात्मन्वरं वरय सुव्रत ॥ ७ ॥
अनेन तपसोग्रेण लिङ्गस्याराधनेन च ॥
तवादेयं न पूतात्मंस्त्रैलोक्ये सचराचरे ॥८॥
॥ पूतात्मोवाच ॥
देवदेवमहादेव देवानामभयप्रद ॥
ब्रह्मनारायणेन्द्रादि सर्वदेवपदप्रद ॥ ९ ॥
वेदास्त्वां न च विन्दन्ति किमात्मक इति प्रभो॥
प्राप्ताः शतपथत्वं च नेतिनेतीतिवादिनः ॥4.1.13.१०॥
ब्रह्मविष्ण्वोपि गिरां गोचरो न च वाक्पतेः॥
प्रमथेशं कथं स्तोतुं मादृशः प्रभवेत्प्रभो ॥११॥
प्रसह्य प्रमिमीतेश भक्तिर्मांस्तुतिकर्मणि ॥
करोमि किं जगन्नाथ न वश्यानीन्द्रियाणि मे ॥ १२ ॥
विश्वं त्वं नास्ति वै भेदस्त्वमेकः सर्वगो यतः ॥
स्तुत्यं स्तोता स्तुतिस्त्वं च सगुणो निर्गुणो भवान् ॥१३॥
सर्गात्पुरा भवानेको रूपनाम विवर्जितः ॥
योगिनोपि न ते तत्त्वं विन्दन्ति परमार्थतः ॥ १४ ॥
यदैकलो न शक्नोषि रन्तुं स्वैरचर प्रभो ॥
तदिच्छा तवयोत्पन्ना सेव्या शक्तिरभूत्तव ॥ १५ ॥
त्वमेको द्वित्वमापन्नः शिवशक्तिप्रभेदतः ॥
त्वं ज्ञानरूपो भगवान्स्वेच्छा शक्तिस्वरूपिणी ॥ १६ ॥
उभाभ्यां शिवशक्तिभ्या युवाभ्यां निजलीलया ॥
उत्पादिता क्रियाशक्तिस्ततः सर्वमिदं जगत् ॥ १७ ॥
ज्ञानशक्तिर्भवानीश इच्छाशक्तिरुमा स्मृता ॥
क्रियाशक्तिरिदं विश्वमस्य त्वं कारणं ततः ॥ १८ ॥
दक्षिणाङ्गं तव विधिर्वामाङ्गं तव चाच्युतः ॥
चन्द्रसूर्याग्निनेत्रस्त्वं त्वन्निःश्वासः श्रुतित्रयम् ॥ १९ ॥
त्वत्स्वेदादम्बुनिधयस्तव श्रोत्रं समीरणः ॥
बाहवस्ते दशदिशो मुखं ते ब्राह्मणाः स्मृताः ॥ 4.1.13.२० ॥
राजन्यवर्यास्ते बाहु वैश्या ऊरुसमुद्भवाः ॥
पद्भ्यां शूद्रस्तवेशान केशास्ते जलदाः प्रभो ॥ २१ ॥
त्वं पुं प्रकृतिरूपेण ब्रह्माण्डमसृजः पुरा॥
मध्ये ब्रह्माण्डमखिलं विश्वमेतच्चराचरम्॥ २२ ॥
अतस्त्वत्तो न मन्येऽहं किञ्चिद्भिन्नं जगन्मय ॥
त्वयि सर्वाणि भूतानि सर्वभूतमयो भवान् ॥ २३ ॥
नमस्तुभ्यं नमस्तुभ्यं नमस्तुऽभ्यं नमोनमः ॥
अयमेव वरो नाथ त्वयि मेऽस्तु स्थिरा मतिः ॥ २४ ॥
इत्युक्तवति देवेश स्तस्मिन्पूतात्मनि प्रभुः ॥
स्वमूर्तित्वं समारोप्य दिक्पालपदमादधे ॥ २५ ॥
सर्वगो मम रूपेण सर्वतत्त्वावबोधकः ॥
सर्वेषामायुषोरूपं भवानेव भविष्यति ॥ २६ ॥
तव लिङ्गमिदं दिव्यं ये द्रक्ष्यन्तीह मानवाः ॥
सर्वभोगसमृद्धास्ते त्वल्लोकसुखभागिनः ॥ २७ ॥
पवमानेश्वरं लिङ्गं मध्ये जन्मसकृन्नरः ॥
यथोक्तविधिना पूज्य सुगन्धस्नपनादिभिः ॥ २८ ॥
सुगन्धचन्दनैः पुष्पैर्मम लोके महीयते ॥
ज्येष्ठेशात्पश्चिमेभागे वायुकुण्डोत्तरेण तु ॥ २९ ॥
पावमानं समाराध्य पूतो भवति तत्क्षणात् ॥
इति दत्त्वा वरान्देवस्तस्मिल्ँलिङ्गे लयं ययौ ॥4.1.13.३०॥
गणावूचतुः ॥
इति गन्धवती पुर्याः स्वरूपं ते निरूपितम् ॥
तस्याः प्राच्यां कुबेरस्य श्रीमत्येषालकापुरी ॥ ३१ ॥
शम्भोः सखित्वमापेदे नाथोस्या भक्तियोगतः ॥
निधीनां पद्ममुख्यानां दाता भोक्ता हरार्चनात् ॥ ३२ ॥
॥ शिवशर्मोवाच ॥ ॥
कोसौ कस्य पुनः कीदृग्भक्तिरस्य सदाशिवे ॥
यया सखित्वमापन्नो देवदेवस्यधूर्जटेः ॥ ३३ ॥
इति श्रोतुं मम मनः श्रुतिगोचरतां गतम् ॥
युवयोर्वाक्सुधास्वाद मेदुरोदरमन्थरम् ॥ ३४ ॥
गणावूचतुः ॥ ॥
शिवशर्मन्महाप्राज्ञ परिशुद्धेन्द्रियेश्वर ॥
सुतीर्थक्षालिताशेषजन्मजातमहामल ॥ ३५ ॥
सुहृदि प्रेमसम्पन्ने त्वय्यनुद्यं न किञ्चन ॥
साधुभिः सह संवादः सर्वश्रेयोऽभिवृद्धये ॥ ३६ ॥
आसीत्काम्पिल्यनगरे सोमयाजिकुलोद्भवः ॥
दीक्षितो यज्ञदत्ताख्यो यज्ञविद्याविशारदः ॥ ३७ ॥
वेदवेदाङ्गवेदार्थान्वेदोक्ताचारचञ्चुरः ॥
राजमान्यो बहुधनो वदान्यः कीर्तिभाजनम् ॥ ३८ ॥
अग्निशुश्रूषणरतो वेदाध्ययनतत्परः ॥
तस्य पुत्रो गुणनिधिश्चन्द्रबिम्बसमाकृतिः ॥ ३९ ॥
कृतोपनयनः सोथ विद्यां जग्राह भूरिशः ॥
अथ पित्रानभिज्ञातो द्यूतकर्मरतोऽभवत् ॥ 4.1.13.४० ॥
आदायादाय बहुशो धनं मातुः सकाशतः ॥
ददाति द्यूतकारेभ्यो मैत्री तैश्च चकार सः ॥ ४१ ॥
सन्त्यक्त ब्राह्मणाचारः सन्ध्यास्नानपराङ्मुखः ॥
निन्दको वेदशास्त्राणां देवब्राह्मणनिन्दकः ॥।४२॥।
स्मृत्याचारविहीनस्तु गीतवाद्यविनोदभाक् ॥
नटपाखण्डिभण्डैश्च बद्धप्रेमपरम्परः ॥ ४३ ॥
प्रेरितोपि जनन्या स न याति पितुरन्तिकम् ॥
गृहकार्यान्तरव्यग्रो दीक्षितो दीक्षितायिनीम् ॥ ४४ ॥
यदा यदैव तां पृच्छेदयेगुणनिधिः सुतः ॥
न दृश्यते मया गेहे क्व याति विदधाति किम् ॥ ४५ ॥
तदा तदेति सा ब्रूयादिदानीं स बहिर्गतः ॥
स्नात्वा समर्च्य वै देवानेतावन्तमनेहसम् ॥ ४६ ॥
अधीत्याध्ययनार्थं स द्वित्रैर्मित्रैः समं ययौ ॥
एकपुत्रेति तन्माता प्रतारयति दीक्षितम् ॥ ४७ ॥
न तत्कर्म च तद्वृत्तं किञ्चिद्वेत्ति स दीक्षितः ॥
स च केशान्तकर्मास्य कृत्वा वर्षेऽथ षोडशे ॥ ४८ ॥
गृह्योक्तेन विधानेन पाणिग्राहमकारयत् ॥
प्रत्यहं तस्य जननी सुतं गुणनिधिं मृदु ॥ ४९ ॥
शास्ति स्नेहार्द्रहृदया क्रोधनस्ते पितेत्यलम् ॥
यदि ज्ञास्यति ते वृत्तं त्वां च मां ताडयिष्यति ॥4.1.13.५०॥
आच्छादयामि ते नित्यं पितुरग्रे कुचेष्टितम् ॥
लोकमान्योस्ति ते तातः सदाचारैर्न वै धनैः ॥ ५१ ॥
ब्राह्मणानां धनं पुत्र सद्विद्या साधुसङ्गमः ॥
सच्छ्रोत्रियास्त्वनूचाना दीक्षिताः सोमयाजिनः ॥ ॥ ५२ ॥
इति रूढिमिह प्राप्तास्तव पूर्वपितामहाः ॥
त्यक्त्वा दुर्वृत्तसंसर्गं साधुसङ्गरतो भव ॥ ५३ ॥
सद्विद्या सुमनो धेहि ब्राह्मणाचारमाचर ॥
तवानुरूपारूपेण वयसाकुलशीलतः ॥ ५४ ॥
ऊनविंशतिकोऽसि त्वमेषा षोडशवार्षिकी ॥
तव पत्नी गुणनिधे साध्वी मधुरभाषिणी ॥ ५५ ॥
एतां संवृणु सद्वृत्तां पितृभक्तियुता भव ॥
श्वशुरोपि हि ते मान्यः सर्वत्र गुणशीलतः ॥ ५६ ॥
ततोऽपत्रपसे किं न त्यज दुर्वृत्ततां शिशो ॥
मातुलास्तेऽतुलाः पुत्र विद्याशीलकुलादिभिः॥ ॥ ५७ ॥
तेभ्योपि न बिभेषि त्वं शुद्धोस्युभय वंशतः ॥
पश्यैतान्प्रतिवेश्मस्थान्ब्राह्मणानां कुमारकान् ॥ ५८ ॥
गृहेपि शिष्यान्पश्यैतान्पितुस्ते विनयोचितान् ॥
राजापि श्रोष्यति यदा तव दुश्चेष्टितं सुत ॥ ५९ ॥
श्रद्धां विहाय ते ताते वृत्तिलोपं करिष्यति ॥
बालचेष्टितमेवैतद्वदन्त्यद्यापि ते जनाः ॥ 4.1.13.६० ॥
अनन्तरं हसिष्यन्ति युक्तं दीक्षिततास्त्विति ॥
सर्वेप्याक्षारयिष्यन्ति तव विप्रं च मां च वै ॥६१॥
मातुश्चरित्रं तनयो धत्ते दुर्भाषणैरिति ॥
पिता पितेन पापीयाञ्च्छ्रुतिस्मृतिपथीनकिम् ॥ ६२ ॥
तदङ्घ्रिलीनमनसो मम साक्षी महेश्वरः ॥
न चर्तुस्नातयापीह मुखं दुष्टस्य वीक्षितम् ॥६३॥
अहो बलीयान्सविधिर्येन जाता भवानिति ॥
प्रतिक्षणं जनन्येति शिक्ष्यमाणोतिदुर्मदः ॥ ६४ ॥
न तत्याज च तद्धर्मं दुर्बोधो व्यसनी यतः ॥
मृगया मद्य पैशुन्य वेश्याचौर्यदुरोदरैः ॥ ६५ ॥
सपारदारैर्व्यसनैरेभिः कोत्र न खण्डितः ॥
यद्यन्मध्ये गृहे पश्येत्तत्तन्नीत्वा सुदुर्मतिः ॥ ६६ ॥
अर्पयेद्द्यूतकाराणां सकुप्यं वसनादिकम् ॥
नवरत्नमयीं मातुः करतः पितुरूर्मिकाम ॥ ६७ ॥
स्वपन्त्यास्त्वेकदाऽऽदाय दुरोदरिकरेऽर्पयत् ॥
एकदा गच्छता राजभवनान्निजमुद्रिका ॥ ६८ ॥
दीक्षितेन परिज्ञाता दैवाद्द्यूतकृतः करे ॥
उवाच दीक्षितस्तं च कुतो लब्धा त्वयोर्मिका ॥
पृष्टस्तेनाथ निर्बन्धादसकृत्प्रत्युवाच किम् ॥ ६९ ॥
ममाक्षिपसि विप्रोच्चैः किं मया चौर्य कर्मणा ॥
लब्धा मुद्रा त्वदीयेन पुत्रेणैषा ममार्पिता ॥ 4.1.13.७० ॥
मम मातुर्हि पूर्वे द्युर्जित्वानीतो हि शाटकः ॥
न केवलं ममाप्येतदङ्गुलीयं समर्पितम् ॥ ७१ ॥
अन्येषां द्यूतकर्तृणां भूरि तेनार्पितं वसु ॥
रत्नकुप्यदुकूलानि भृङ्गारुप्रभृतीनि च ॥ ७२ ॥
भाजनानि विचित्राणि कांस्य ताम्रमयानि च ॥
नग्नीकृत्यप्रति दिनं बद्ध्यन्ते द्यूतकारिभिः ॥ ७३ ॥
न तेन सदृशः कश्चिदाक्षिको भूमिमण्डले ॥
अद्य यावत्त्वया विप्र दुरोदरशिरोमणिः ॥ ७४ ॥
कथं नाज्ञायि तनयो ऽविनयानयकोविदः ॥
इति श्रुत्वा त्रपाभार विनम्रतरकन्धरः ॥ ७५ ॥
प्रावृत्य वाससा मौलिं प्राविशन्निजमन्दिरम् ॥
महापतिव्रतामास्य पत्नीं प्रोवाच तामथ ॥ ७६ ॥
दीक्षितायिनि कुत्रासि क्व ते गुणनिधिः सुतः ॥
अथ तिष्ठतु किं तेन क्व सा मम शुभोर्मिका ॥ ७७ ॥
अङ्गोद्वर्तन काले या त्वया मेंऽगुलितो हृता ॥
नवरत्नमयीं शीघ्रं तामानीय प्रयच्छ मे ॥ ७८ ॥
इति श्रुत्वाथ तद्वाक्यं भीता सा दीक्षितायिनी ॥
प्रोवाच सा तु माध्याह्नीं क्रियां निष्पादयत्वथ ॥ ७९ ॥
व्यग्रास्मि देवपूजार्थमुपहारादि कर्मणि ॥
समयोयमतिक्रामेदतिथीनां प्रियातिथे ॥ 4.1.13.८० ॥
इदानीमेव पक्वान्नकरणव्यग्रया मया ॥
स्थापिता भाजने क्वापि विस्मृतेति न वेद्म्यहम् ॥ ८१ ॥
दीक्षित उवाच ॥ ॥
हंहो सत्पुत्रजननि नित्यं सत्यप्रभाषिणि ॥
यदायदा त्वां सम्पृच्छे तनयः क्व गतस्त्विति ॥ ८२ ॥
तदातदेति त्वं ब्रूया नाथेदानीं स निर्गतः ॥
अधीत्याध्ययनार्थं च द्वित्रैर्मित्रैः सयुग्बहिः ॥ ८३ ॥
कुतस्त्वच्छाटकः पत्नि माञ्जिष्ठो यो मयाऽर्पितः ॥
लम्बते वस्त्रधान्यांयस्तथ्यं ब्रूहि भयं त्यज ॥ ८४ ॥
साम्प्रतं नेक्ष्यते सोपि भृङ्गारुर्मणिमण्डितः ॥
पट्टसूत्रमयीसापि त्रिपटी क्व नृपार्पिता ॥ ८५ ॥
क्व दाक्षिणात्यं तत्कांस्यं गौडी ताम्रघटी क्व सा ॥
नागदन्तमयी सा क्व सुखकौतुकमञ्चिका ॥ ८६ ॥
क्व सा पर्वतदेशीया चन्द्रकान्तशिलोद्भवा ॥
दीपिका व्यग्रहस्ताग्रा सालङ्कृच्छालभञ्जिका ॥ ८७ ॥
किं बहूक्तेन कुलजे तुभ्यं कुप्याम्यहं वृथा ॥
तदाभ्यवहरिष्येहमुपयंस्याम्यहं यदा ॥ ८८ ॥
अनपत्योस्मि तेनाहं दुष्टेन कुलदूषिणा ॥
उत्तिष्ठानय दर्भाम्बु तस्मै दद्यां तिलाञ्जलिम् ॥ ८९ ॥
अपुत्रत्वं वरं नृणां कुपुत्रात्कुलपांसनात् ॥
त्यजेदेकं कुलस्यार्थे नीतिरेषा सनातनी ॥ 4.1.13.९० ॥
स्नात्वा नित्यविधिं कृत्वा तस्मिन्नेवाह्निकस्यचित् ॥
श्रोत्रियस्य सुतां प्राप्य पाणिं जग्राह दीक्षितः ॥ ९१ ॥
श्रुत्वा तथा स वृत्तान्तं प्राक्तनं स्वं विनिन्द्य च ॥
काञ्चिद्दिशं समालोच्य निर्ययौ दीक्षिताङ्गजः ॥९२॥
चिन्तामवाप महतीं क्व यामि करवाणि किम् ॥
नाहमभ्यस्तविद्योस्मि न चैवास्ति धनोस्म्यहम् ॥ ९३ ॥
देशान्तरे ह्यस्ति धनः सद्विद्यः सुखमेधते ॥
भयमस्ति धने चौरात्सविद्यः सर्वतोऽभयः ॥ ९४ ॥
यायजूके कुले जन्म क्वक्व मे व्यसनं तथा ॥
अहो बलीयान्स विधिर्भाविकर्मानुसन्धयेत् ॥९५॥
भिक्षितुं नाधिगच्छामि न मे परिचितः क्वचित् ॥
न च पार्श्वे धनं किञ्चित्किमत्र शरणं भवेत् ॥ ९६ ॥
सदाभ्युदिते भानौ प्रसूर्मे मृष्टभोजनम्॥
दद्यादद्यात्र कं याचे याचेह जननी न मे ॥९७॥
इति चिन्तयतस्तस्य भानुरस्ताचलं गतः ॥
एतस्मिन्नेव समये कश्चिन्माहेश्वरो नरः॥९८॥
महोपहारानादाय नगराद्बहिरभ्यगात् ॥
समभ्यर्चितुमीशानं शिवरात्रावुपोषितः ॥ ९९ ॥
पक्वान्नगन्धमाघ्राय क्षुधितः स तमन्वगात् ॥
इदमन्नं मया ग्राह्यं शिवायोपस्कृतं निशि ॥ 4.1.13.१०० ॥
इत्याशामवलम्ब्याथ द्वारि शम्भोरुपाविशत् ॥
ददर्श च महापूजां तेन भक्तेन निर्मिताम् ॥ १ ॥
विधाय नृत्यगीतादि भक्ताः सुप्ताः क्षणं यदा ॥
नैवेद्यं स तदाऽऽदातुं गर्भागारं विवेश ह ॥ २ ॥
दीपं मन्दप्रभं दृष्ट्वा पक्वान्नावेक्षणाय सः ॥
निजचैलाञ्चलाद्वर्तिं दत्त्वा समुददीपयत् ॥ ३ ॥
ततः पक्कान्नमादाय त्वरितं गच्छतो बहिः ॥
तस्य पादतलाघातात्प्रसुप्तः कोप्यबुध्यत ॥ ४ ॥
कोयङ्कोयं त्वरापन्नश्चोरोयं गृह्यतामिति ॥
यावद्भूयात्समागत्य तावत्स पुररक्षकैः ॥ ५ ॥
पलायमानो निहतः क्षणात्पञ्चत्वमागतः ॥
अभक्षयच्च नैवेद्यं भाविपुण्यबलान्न सः ॥ ६ ॥
अथ बद्धः समागत्य पाशमुद्गरपाणिभिः ॥
निनीषुभिः सयमिनीं यामैः स विकटैर्भटैः ॥ ७ ॥
तावत्पारिषदाः प्राप्ताः किङ्किणीजालमालितम् ॥
दिव्यंविमानमादाय तं नेतुं शूलपाणयः ॥ ८ ॥
शम्भोर्गणान्समालोक्य भीतैस्तैर्यमकिङ्करैः ॥
अवादिप्रणतैरित्थं दुर्वृत्तोयं गणा द्विजः ॥ ९ ॥
कुलाचारप्रतीपोयं पित्रोर्वाक्यपराङ्मुखः ॥
सत्यशौचपरिभ्रष्टःसन्ध्यास्नानविवर्जितः ॥ 4.1.13.११० ॥
आस्तां दूरेऽस्य कर्माणि शिवनिर्माल्यहारकः ॥
प्रत्यक्षतोऽत्र वीक्षध्वमस्पृश्योयं भवादृशाम् ॥ ११ ॥
शिवनिर्माल्यभोक्तारः शिवनिर्माल्यलङ्घकाः(?) ॥
शिवनिर्माल्यदातारः स्पर्शस्तेषां ह्यपुण्यकृत् ॥१२॥
विषमालोड्य वापे यं श्रेयोवाऽनशनं परम् ॥
सेवितव्यं शिवस्वं न प्राणः कण्ठगतैरपि ॥ १३ ॥
यूयं प्रमाणं धर्मेषु यथा न च तथा वयम् ॥
अस्ति चेद्धर्मलेशोस्य गणास्तच्छृणुमो वयम् ॥ १४ ॥
इत्थं तद्वाक्यमाकर्ण्य प्रोचुः पारिषदास्ततः ॥
किङ्कराः शिवधर्मा ये सूक्ष्मास्ते वै भवादृशैः ॥ १५ ॥
स्थूललक्ष्यैः कथं लक्ष्या लक्ष्या ये सूक्ष्मदृष्टिभिः ॥
अनेनानेन सा कर्म यत्कृतं शृणुतेह तत् ॥ १६ ॥
पतन्ती लिङ्गशिरसि दीपच्छाया निवारिता ॥
स्वचैलाञ्चलतोऽनेन दत्त्वादीपे दशां निशि ॥१७॥
अपरोपि परो धर्मो जातस्तत्रास्य किङ्कराः ॥
शृण्वता शिवनामानि प्रसङ्गादपिगृह्णतः ॥ १८ ॥
भक्तेन विधिना पूजा क्रियमाणा निरीक्षिता ॥
उपोषिते न भूतायामनेन स्थिरचेतसा ॥ १९ ॥
कलिङ्गराजोभविताऽधुनाविधुतकल्मषः ॥
एष द्विजवरो दूता यूयं यात यथागताः ॥ 4.1.13.१२० ॥
पार्षदैर्यमदूतेभ्यो मोचितस्त्विति स द्विजः ॥
अरिन्दमस्य तनयः कलिङ्गाधितेर्दमः ॥ २१ ॥
क्रमाद्राज्यमवाप्याथ पितर्युपरते युवा ॥
नान्यं धर्मं विजानाति दुर्दमो भूपतिर्दमः ॥२२॥
शिवालयेषु सर्वेषु दीपदानादृते द्विज॥
ग्रामाधीशान्समाहूय सर्वान्त्स्वविषयस्थितान् ॥२३॥
इत्थमाज्ञापयामास स मे दण्ड्यो भविष्यति ॥
यस्य यस्याभितो ग्रामं यावन्तश्च शिवालयाः ॥ २४ ॥
तत्र तत्र सदा दीपो द्योतनीयोऽविचारितम् ॥
ममाज्ञाभङ्गदोषेण शिरश्छेत्स्याम्यसंशयम् ॥ २५ ॥
इति तद्भयतो दीप्ता दीपाः प्रति शिवालयम् ॥
अनेनैव स धर्मेण यावज्जीवं दमो नृपः ॥ २६ ॥
धर्मर्द्धि महतीं प्राप्य कालधर्मवशं गतः ॥
सदीपवासनायागोद्बहून्दीपान्प्रदीप्य वै ॥ २७ ॥
अलकायाः पतिरभूद्रत्नदीपशिखाश्रयः ॥
एवं फलति कालेन शिवेऽल्पमपि यत्कृतम् ॥ २८ ॥
इति ज्ञात्वा शिवे कार्यं भजनं स्वसुखार्थिभिः ॥
क्व स दीक्षितदायादः सर्वधर्म पराङ्मुखः ॥ २९ ॥
स्वार्थदीपदशोद्योत लिङ्गमौलि तमोहरः ॥
कलिङ्गविषये राज्यं प्राप्तो धर्मरतिः सदा ॥ 4.1.13.१३० ॥
शिवालये समुद्दीप्य दीपान्प्राग्वासनोदयात् ॥
क्वैषा दिक्पालपदवी शिवशर्मन्विलोकय ॥
मनुष्यधर्मणानेन साम्प्रतं येह भुज्यते ॥ ३१ ॥
गणावूचतुः ॥ ॥
सर्वदैव शिवेनासौ सखित्वं च यथेयिवान् ॥
तदप्येकमना विप्र संशृणुष्व ब्रवावहै ॥ ३२ ॥
पाद्मे कल्पे पुरा विप्र ब्रह्मणो मानसात्सुतात् ॥
पुलस्त्याद्विश्रवा जज्ञे तस्य वैश्रवणः सुतः॥३३॥
तेनेयमलका भुक्ता पुरी विश्वकृता कृता ॥
आराध्यं त्र्यम्बकं देवमत्युग्रतपसा पुरा ॥ ३४ ॥
व्यतीते तत्र कल्पे वै प्रवृत्ते मेघवाहने ॥
याज्ञदत्तिरसौश्रीदस्तपस्तेपे सुदुःसहम् ॥ ३५ ॥
भक्तिप्रभावं विज्ञाय शम्भोस्तद्दीपमात्रतः ॥
पुरीं पुरारेः सम्प्राप्य काशिकां चित्प्रकाशिकाम् ॥ ३६ ॥
शिवैकदशमुद्बोध्य चित्ररत्नप्रदीपकम् ॥
अनन्यभक्तिस्नेहाढ्यं तन्महोध्याननिश्चलम् ॥ ३७ ॥
शिवैक्यसुमहापात्रं तपोग्निपरिबृंहितम् ॥
कामक्रोधमहाविघ्नपतङ्गाघातवर्जितम् ॥ ३८ ॥
प्राणसंरोधनिर्वातं निर्मलं निर्मलेक्षणात्॥
संस्थाप्य शाम्भवं लिङ्गं सद्भावकुसुमार्चितम् ॥३९॥
तावत्तताप स तपस्त्वगस्थिपरिशेषितम्॥
यावद्बभूव तद्वर्ष्म वर्षाणामयुतं शतम्॥4.1.13.१४०॥
ततः सह विशालाक्ष्या देवो विश्वेश्वरः स्वयम् ॥
अलकापतिमालोक्य प्रसन्नेनान्तरात्मना ॥ ४१ ॥
लिङ्गे मनः समाधाय स्थितं स्थाणुस्वरूपिणम् ॥
उवाच वरदोस्मीति तप्त्वालमलकापते ॥ ४२ ॥
उन्मील्य नयने यावत्स पश्यति तपोधनः ॥
तावदुद्यत्सहस्रांशु सहस्राधिक तेजसम् ॥ ४३ ॥
पुरो ददर्श श्रीकण्ठं चन्द्रचूडमुमाधवम् ॥
तत्तेजः परिभूताक्षितेजाः सम्मील्य लोचने ॥ ४४ ॥
उवाच देवदेवेशं मनोरथपथातिगम् ॥
निजाङ्घ्रिदर्शनेनाथ दृक्सामर्थ्यं प्रयच्छ मे ॥४५॥
अयमेव वरो नाथ यत्त्वं साक्षान्निरीक्ष्यसे ॥
किमन्येन वरेणेश नमस्ते शशिशेखर ॥ ४६ ॥
इति तद्वचनं श्रुत्वा देवदेव उमापतिः ॥
ददौ दर्शनसामर्थ्यं स्पृष्ट्वा पाणितलेन तम् ॥ ४७ ॥
प्रसार्य नयने पूर्वमुमामेव व्यलोकयत् ॥
शम्भोः समीपे कायोषिदेषा सर्वाङ्गसुन्दरी ॥ ४८ ॥
अनया किन्तपस्तप्तं ममापि तपसोधिकम् ॥
अहो रूपमहो प्रेम सौभाग्यश्रीरहो भृशम् ॥ ४९ ॥
क्रूरदृग्वीक्षते यावत्पुनःपुनरिदं वदन् ॥
तावत्पुस्फोट तन्नेत्रं वामं वामा विलोकनात ॥ 4.1.13.१५० ॥
अथ देव्यब्रवीद्देवं किमसौ दुष्टतापसः ॥
असकृद्वीक्ष्य मां वक्ति न्यक्कुर्वन्मे तपःप्रभाम् ॥ ५१ ॥
असकृद्दक्षिणेनाक्ष्णा पुनर्मामेवपश्यति ॥
असूयमानो मे रूपं प्रेमसौभाग्यसम्पदः ॥ ५२ ॥
इति देवीगिरं श्रुत्वा प्रहस्य प्राह तां प्रभुः ॥
उमे त्वदीयः पुत्रोयं न च क्रूरेण चक्षुषा ॥ ५३ ॥
सम्पश्यते तपो लक्ष्मीं तव किं त्वधिवर्णयेत् ॥
इति देवीं समाभाष्य तमीशः पुनरब्रवीत् ॥ ५४ ॥
वरान्ददामि ते वत्स तपसानेन तोषितः ॥
निधीनामधिनाथस्त्वं गुह्यकानां भवेश्वरः ॥ ५५ ॥
यक्षाणां किन्नराणां च राजा राज्ञां च सुव्रत ॥
पतिः पुण्यजनानां च सर्वेषां धनदो भव ॥ ५६ ॥
मया सख्यं च ते नित्यं वत्स्यामि च तवान्तिके ॥
अलकां निकषामित्र तव प्रीतिविवृद्धये ॥ ५७ ॥
आगच्छ पादयोरस्याः पत ते जननी त्वियम् ॥
इति दत्त्वा वरान्देवः पुनराह शिवां शिवः ॥
प्रसादं कुरु देवेशि तपस्विन्यङ्गजेऽत्र वै ॥ ५८ ॥
देव्युवाच ॥ ॥
वत्स ते निश्चला भक्तिर्भवे भवतु सर्वदा ॥
भवैकांषेङ्गो(?)गोनेत्रेण वामेन स्फुटितेन ह ॥ ५९ ॥
देवेन दत्ता ये तुभ्यं वराः सन्तु तथैव ते ॥
कुबेरो भव नाम्ना त्वं मम रूपेर्ष्यया सुत ॥ 4.1.13.१६० ॥
त्वयेदं स्थापितं लिङ्गं तव नाम्ना भविष्यति ॥
सिद्धिदं साधकानां च सर्वपापहरं परम् ॥ ६१ ॥
न धनेन वियुज्येत न सख्या न च बान्धवैः ॥
कुबेरेश्वरलिङ्गस्य कुर्याद्यो दर्शनं नरः ॥ ६२ ॥
विश्वेशाद्दक्षिणेभागे कुबेरेशं समर्चयेत् ॥
नरो लिप्येत नो पापैर्न दारिद्र्येण नोऽसुखैः ॥ ६३ ॥
इति दत्त्वा वरान्देवो देव्या सह महेश्वरः ॥
धनदाया विवेशाथ धाम वैश्वेश्वरं परम् ॥ ६४ ॥
॥ गणावूचतुः ॥
इत्थं सखित्वं श्रीशम्भोः प्रापैष धनदः परम् ॥
अलकां निकषाचैष कैलासः शङ्करालयः ॥ ६५ ॥
पुर्यां यक्षेश्वराणां ते स्वरूपमिति वर्णितम् ॥
यच्छ्रुत्वा सर्वपापेभ्यो नरो मुच्येदसंशयम् ॥१६६॥ ॥
इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्द्धे गन्धवत्यलकावर्णनं नाम त्रयोदशोध्यायः ॥ १३ ॥