०१२ निर्ऋतिवरुणलोकवर्णनम्

शिवशर्मोवाच ॥
नैर्ऋतादीन् क्रमाल्लोकानाख्यातं पुरुषोत्तमौ ॥
पुरुषोत्तमपादाब्जपरागोद्धूसरालकौ ॥ १ ॥
गणावूचतुः ॥
आकर्णय महाभाग संयमिन्याः पुरीं पराम् ॥
दिक्पतेर्निर्ऋतस्यासौ पुण्यापुण्यजनोषिता ॥ २ ॥
राक्षसानिवसन्त्यस्यामपरद्रोहिणः सदा ॥
जातिमात्रेण रक्षांसि वृत्तैः पुण्यजना इमे ॥ ३ ॥
स्मृत्युक्तश्रुतिवर्त्मानो जातवर्णावरेष्वपि ॥
नाद्रियन्तेऽन्नपानानामस्मृत्युक्तं कदाचन ॥ ४ ॥
परदार परद्रव्य परद्रोहपराङ्मुखाः ॥
जाताजातौ निकृष्टायामपिपुण्यानुसारिणः ॥ ५ ॥
द्विजातिभक्त्युत्पन्नार्थैरात्मानं पोषयन्ति ये ॥
सदा सङ्कुचिताङ्गाश्च द्विजसम्भाषणादिषु ॥ ६ ॥
आहूता वस्त्रवदना वदन्ति द्विजसन्निधौ ॥
जयजीवभगोनाथ स्वामिन्निति हि वादिनः ॥ ७ ॥
तीर्थस्नानपरानित्यं नित्यं देवपरायणाः ॥
द्विजेषु नित्यं प्रणताः स्वनामाख्यानपूर्वकम् ॥ ८ ॥
दम दान दया क्षान्ति शौचेन्द्रिय विनिग्रहाः ॥
अस्तेय सत्याहिंसाश्च सर्वेषां धर्महेतवः ॥ ९ ॥
आवश्येषु सदोद्युक्ता ये जाता यत्रकुत्रचित् ॥
सर्वभोगसमृद्धास्ते वसन्त्यत्र पुरोत्तमे ॥4.1.12.१०॥
म्लेच्छा अपि सुतीर्थेषु ये मृतानात्मघातकाः ॥
विहाय काशीं निर्वाण विश्राणान्तेऽत्र भोगिनः ॥ ॥ ११ ॥
अन्धं तमो विशेयुस्ते ये चैवात्महनो जनाः ॥
भुक्त्वा निरयसाहस्रं ते च स्युर्ग्रामसूकराः ॥ १२ ॥
आत्मघातो न कर्तव्यस्तस्मात्क्वापि विपश्चिता ॥
इहापि च परत्रापि न शुभान्यात्मघातिनाम् ॥ १३ ॥
यथेष्टमरणं केचिदाहुस्तत्त्वावबोधकाः ॥
प्रयागे सर्वतीर्थानां राज्ञिसर्वाभिलाषदे ॥ १४ ॥
अन्त्यजा अपि ये केचिद्दयाधर्मानुसारिणः ॥
परोपकृतिनिष्ठास्ते वसन्त्यत्र तु सत्तमाः ॥ १५ ॥
अस्य स्वरूपं वक्ष्यावो दिक्पतेः क्षणतः शृणु ॥
मध्ये विन्ध्याटवि पुरा पक्कणस्थजनाग्रणीः ॥ १५ ॥
पल्लीपतिरभूदुग्रः पिङ्गाक्ष इति विश्रुतः ॥
निर्विन्ध्यायास्तटे शूरः क्रूरकर्मपराङ्मुखः ॥ १७ ॥
घातयेद्दूरसंस्थोपि यः पान्थपरिपन्थिनः ॥
व्याघ्रादीन् दुष्टसत्त्वांश्च स हिनस्ति प्रयत्नतः ॥ १८ ॥
जीवेन्मृगयु धर्मेण तत्रापि करुणापरः ॥
न विश्वस्तान्पक्षिमृगान्न सुप्तान्न व्यवायिनः ॥ १९ ॥
न तोयगृध्नून्न शिशून्नान्तर्वर्त्नित्वलक्षणान् ॥
स घातयति धर्मज्ञो जातिधर्मपराङ्मुखः ॥ 4.1.12.२० ॥
श्रमातुरेभ्यः पान्थेभ्यः स विश्रामं प्रयच्छति ॥
हरेत्क्षुधा क्षुधार्तानामुपानद्दोऽनुपानहे ॥ २१ ॥
मृगत्त्वचोतिमृदुला विवस्त्रेभ्यातिसर्जति ॥
अनुव्रजति कान्तारे प्रान्तरे पथिकान्पथि ॥ २२ ॥
न जिघृक्षति तेभ्योर्थमभयं चेति यच्छति ॥
आविन्ध्याटवि मे नाम ग्राह्यं दुष्टभयापहम् ॥ २३ ॥
नित्यं कार्पटिकान्सर्वान् स पुत्रेण प्रपश्यति ॥
तेपि च प्रतितीर्थं हि तमाशीर्वादयं ति वै ॥२४॥
इति तिष्ठति पिङ्गाक्षे साटवी नगरायिता ॥
अध्वनीने ऽध्वगान्कोपि न रुणद्धि ससाध्वसः ॥२५॥
कदाचित्तत्पितृव्येण समीप ग्रामवासिना ॥
श्रुतः कार्पटिकानां हि सार्थः सार्थो महास्वनः ॥ २०५ ॥
लुब्धकस्तद्धने लुब्धः क्षुद्रस्तन्निधनोद्यतः ॥
स रुरोध तमध्वानमग्रे गत्वाऽतिगूढवत् ॥ २७ ॥
तदा युप्यस्यशेषेण पिङ्गाक्षो मृगयां गतः ॥
तस्मिन्नरण्ये तन्मार्गं निकषाध्युषितो निशि ॥ २८ ॥
परप्राणद्रुहां पुंसां न सिद्ध्येयुर्मनोरथाः ॥
विश्वं कुशलितेनैतद्विश्वेशपरिरक्षितम् ॥ २९ ॥
न चिन्तयेदनिष्टानि तस्मात्कृष्टिः कदाचन ॥
विधिदृष्टं यतो भावि कलुषम्भावि केवलम् ॥4.1.12.३०॥
तस्मादात्मसुखम्प्रेप्सु रिष्टानिष्टं न चिन्तयेत् ॥
चिन्तयेच्चेत्तदाचिन्त्यो मोक्षोपायो न चेतरः ॥३१॥
व्युष्टायामथयामिन्यामभूत्कोलाहलो महान् ॥
घातयध्वं पातयध्वं नग्नयध्वं द्रुतं भटाः ॥३२॥
मा मारयध्वं त्रायध्वं भटाः कार्पटिका वयम् ॥
अनायासं लुण्ठयध्वं नयध्वं च यदस्ति नः ॥ ३३ ॥
वयं पान्था अनाथाः स्मो विश्वनाथपरायणाः ॥
सनाथास्ते न दूरं सनाथतां पथिकोऽपरः ॥ ३४ ॥
वयं पिङ्गाक्षविश्वासादस्मिन्मार्गेऽकुतोभयाः ॥
यातायातं सदा कुर्मः स च दूर इतो वनात् ॥३५॥
इति श्रुत्वाऽथ पिङ्गाक्षो भटः कार्पटिकेरितम ॥
दूरान्मा भैष्ट माभैष्ट ब्रुवन्निति समागतः ॥ ३६ ॥
तत्कर्मसूत्रैराकृष्टो भिल्लःकार्पटिकप्रियः ॥
तूर्णं तदायुष्यमिव तत्रोपस्थितवान् क्षणात् ॥ ३७ ॥
कोयङ्कोयं दुराचारः पिङ्गाक्षे मयि जीवति ॥
उल्लुलुण्ठयिषुः पान्थान्प्राणलिङ्गसमान्मम ॥ ३८ ॥
इति तद्वाक्यमाकर्ण्य ताराक्षस्तत्पितृव्यकः ॥
धनलोभेन पिङ्गाक्षे पापं पापो व्यचिन्तयत् ॥३९॥
कुलधर्मं व्यपास्यैष वर्तते कुलपांसनः ॥
चिरं चिन्तितमद्यामुं घातयिष्याम्यसंशयम् ॥ 4.1.12.४० ॥
विचार्येति स दुष्टात्मा भृत्यानाज्ञापयत्क्रुधा ॥
आदावेनं घातयन्तु ततः कार्पटिकानिमान् ॥ ४१ ॥
ततो ऽयुध्यन्दुराचारास्तेनैकेन च तेऽखिलाः ॥
यथाकथञ्चित्ताननयत्स च स्वावसथान्तिकम् ॥ ४२ ॥
आच्छिन्नं हि धनुर्वाणं छिन्नं सन्नहनं शरैः ॥
असूदयिष्यमेतांस्तदभविष्यं यदीश्वरः ॥ ४३ ॥
अभिलप्यन्निति प्राणानत्याक्षीत्स परार्थतः ॥
तेपि कार्पटिकाः प्राप्तास्तत्पल्लीं गतसाध्वसाः ॥ ४४ ॥
या मतिस्त्वन्तकाले स्याद्गतिस्तदनुरूपतः ॥
दिगीशत्वमतः प्राप्तो निर्ऋत्यां नैर्ऋतेश्वरः ॥ ४५ ॥
इत्थमस्य स्वरूपं ते आवाभ्यां समुदीरितम् ॥
एतस्योत्तरतो लोको वरुणस्यायमद्भुतः ॥४६॥
कूपवापीतडागानां कर्तारो निर्मलैर्धनैः ॥
इह लोके महीयन्ते वारुणे वरुणप्रभाः ॥४७॥
निर्जले जलदातारः परसन्तापहारिणः ॥
अर्थिभ्यो ये प्रयच्छन्ति चित्रच्छत्रकमण्डलून् ॥४८॥
पानीयशालिकाः कुर्युर्नानोपस्करसंयुताः ॥
दद्युर्धर्मघटांश्चापि सुगन्धोदकपूरितान् ॥४९॥
अश्वत्थसेकं ये कुर्युः पथि पादपरोपकाः ॥
विश्रामशालाकर्तारः श्रान्तसन्तापनोदकाः ॥4.1.12.५०॥
ग्रीष्मोष्प्रहन्ति मायूरपिच्छादि रचितान्यपि ॥
चित्राणि तालवृन्तानि वितरन्ति तपागमे ॥५१॥
रसवन्ति सुगन्धीनि हिमवन्ति तपर्तुषु ॥
विश्राणयन्ति वा तृप्ति पानकानि प्रयत्नतः ॥ ५२ ॥
इक्षुक्षेत्राणि सङ्कल्प्य ब्राह्मणेभ्यो ददत्यपि ॥
तथा नानाप्रकारांश्च विकारानैक्षवान्बहून् ॥ ५३ ॥
गोरसानां प्रदातारस्तथा गोमहिषीप्रदाः ॥
धारामण्डपकर्तारश्छायामण्डपकारिणः ॥५४॥
देवालयेषु ये दद्युर्बहुधारागलन्तिकाः ॥
तीर्थे वा करहर्तारस्तीर्थमार्गावनेजका. ॥ ५५ ॥
अभयं ये प्रयच्छन्ति भयार्तोद्यत पाणयः ॥
निर्भया वारुणे लोके ते वसन्ति लसन्ति च ॥ ५६ ॥
विपाशयन्ति ये पुण्या दुर्वृतैः कण्ठपाशितान् ॥
ते पाशपाणे लोकेस्मिन्निवसन्त्यकुतोभयाः ॥ ५७ ॥
नौकाद्युपायैर्न द्यादौ पान्थान्ये तारयन्त्यपि ॥
तारयन्त्यपि दुःखाब्धेस्तत्र नागरिका द्विज ॥५८ ॥
घट्टान्पुण्यतटिन्यादेर्बन्धयन्ति शिलादिभिः ॥
तोयार्थिसुखसिद्ध्यर्थं ये नरास्तेत्र भोगिनः ॥ ५९ ॥
वितर्पयन्ति ये पुण्यास्तृषिताञ्शीतलैर्जलैः ॥
तेऽत्र वै वारुणे लोके सुखसन्ततिभागिनः ॥ 4.1.12.६० ॥
जलाशयानां सर्वेषामयमेकतमः पतिः ॥
प्रचेता यादसान्नाथः साक्षी सर्वेषुकर्मसु ॥ ६१ ॥
अस्योत्पत्तिं शृणु पतेर्वरुणस्यमहात्मनः ॥
आसीन्मुनिरमेयात्मा कर्दमस्य प्रजापतेः ॥ ६२॥
शुचिष्मानिति विख्यातस्तनयो विनयोचितः ॥
स्थैर्य माधुर्य धैर्याद्यैर्गुणैरुपचितोहितः ॥ ६३ ॥
अच्छोदे सरसि स्नातुं स गतो बालकैः सह ॥
जलक्रीडनसंसक्तं शिशुमारो हरच्च तम् ॥६४॥
ततस्तस्मिन्मुनिसुते हृतेऽत्याहितशंसिभिः ॥
तैः समागत्य शिशुभिः कथितं तत्पितुः पुरः ॥ ६५ ॥
हरार्चनोपविष्टस्य समाधौ निश्चलात्मनः ॥
श्रुतबालविपत्तेश्च चचाल न मनोहरात् ॥ ६६ ॥
अधिकं शीलयामास स सर्वज्ञं त्रिलोचनम् ॥
पश्यञ्शम्भोः समीपे स भुवनानि चतुर्दश ॥ ६७ ॥
नाना भूतानि भूतानि ब्रह्माण्डान्तर्गतानि च ॥
चन्द्रसूर्यर्क्षताराश्च पर्वतान्सरितो द्रुमान् ॥ ६८ ॥
समुद्रानन्तरीयाणि ह्यरण्यानीस्सरांसि च ॥
नाना देवनिकायांश्च बह्वीर्दिविषदां पुरीः ॥ ६९ ॥
वापीकूपतडागानि कुल्याः पुष्करिणीर्बहु ॥
एकस्मिन्क्वापि सरसि जलक्रीडापरायणान् ॥ 4.1.12.७० ॥
बहून्मुनिकुमारांश्च मज्जनोन्मज्जनादिभिः ॥
करयन्त्रविनिर्मुक्ततोयधाराभिषेचनैः ॥ ७१ ॥
करताडितपानीयशब्ददिङ्मुखनादिभिः ॥
जलखेलनकैरित्थं संसक्तान्बहुबालकान् ॥७२॥
तेषां मध्ये ददर्शाथ समाधिस्थः स कर्दमः ॥
स्वं शिशुं शिशुमारेण नीयमानं सुविह्वलम् ॥ ७३ ॥
कयाचिज्जलदेव्याथ तस्माच्चक्रूरयादसः ॥
प्रसह्य नीत्वोदधये दृष्टवांस्तं समर्पितम् ॥ ७४ ॥
निर्भर्त्स्य सरितान्नाथं केनचिद्रुद्ररूपिणा ॥
त्रिशूलपाणिनेत्युक्तं क्रोधताम्राननेनच ॥ ७५ ॥
कुतो जलानामधिप शिवभक्तस्य बालकः ॥
प्रजापतेः कर्दमस्य महाभागस्य धीमतः ॥ ७६॥
अज्ञात्वा शिवसामर्थ्यं भवताचिरमासितः ॥
भयत्रस्तेन तद्वाक्यश्रवणात्तमुदन्वता ॥७७॥
बालं रत्नैरलङ्कृत्य बद्ध्वा तं शिशुमारकम् ॥
समर्पितं समानीय शम्भुपादाब्जसन्निधौ ॥ ॥ ७८ ॥
नत्वा विज्ञापयत्तं च नापराध्याम्यहं विभो ॥
अनाथनाथविश्वेश भक्तापत्तिविनाशन ॥ ७९ ॥
भक्तकल्पतरो शम्भोऽनेनायं दुष्टयादसा ॥
अनायिन मया नाथ भवद्भक्तजनार्भकः ॥ 4.1.12.८० ॥
गणेन तेन विज्ञाय शम्भोरथ मनोगतम् ॥
पाशेन बद्ध्वा तद्यादः शिशुहस्ते समर्पितम् ॥ ८१ ॥
गृहाणेमं स्वतनयं पार्षदे शङ्कराज्ञया ॥
याहि स्वभवनं वत्स ब्रुवतीति स कर्दमः ॥ ८२॥
समाधिसमये सर्वमिति शृण्वन्नुदारधीः॥
उन्मील्य नयने यावत्प्रणिधानं विसृज्य च॥८३॥
सम्पश्यते शिशुं तावत्पुरतः समवैक्षत ॥
गृहीतशिशुमारं च पार्श्वेऽलङ्कृतकर्णिकम् ॥ ८४ ॥
तोयार्द्रकाकपक्षाग्रं कषायनयनाञ्चलम् ॥
किञ्चिद्विरूक्षं त्वक्क्षोभं सम्भ्रमापन्नमानसम् ॥ ८५ ॥
कृतप्रणाममालिङ्ग्य जिघ्रंस्तन्मुखपङ्कजम् ॥
पुनर्जातमिवामंस्त पश्यंश्चापि मुहुर्मुहुः ॥ ८६ ॥
शतानिपञ्चवर्षाणि प्रणिधानस्थितस्य हि ॥
कर्दमस्य व्यतीतानि शम्भुमर्चयतस्तदा ॥ ८७ ॥
कर्दमोपि च तत्कालमज्ञासीत्क्षणसङ्गतम् ॥
यतो न प्रभवेत्कालो महाकालस्य सन्निधौ ॥ ८८ ॥
ततस्तं तनयः पृष्ट्वा पितरं प्रणिपत्य च ॥
जगाम तूर्णं तपसे श्रीमद्वाराणसीं पुरीम् ॥ ८९ ॥
तत्र तप्त्वा तपो घोरं लिङ्गं संस्थाप्य शाम्भवम् ॥
पञ्चवर्षसहस्राणि स्थितः पाषाणनिश्चलः ॥ 4.1.12.९० ॥
आविरासीन्महादेवस्तुष्टस्तत्तपसा ततः ॥
उवाच कार्दमे ब्रूहि कं ददामि वरोत्तमम् ॥ ९१ ॥
कार्दमिरुवाच ॥ ॥
यदि नाथ प्रसन्नोसि भक्तानामनुकम्पक ॥
सर्वासामाधिपत्यं मे देह्यपां यादसामपि ॥ ९२ ॥
इति श्रुत्वा महेशानः सर्वचिन्तितदः प्रभुः ॥
अभ्यषिञ्चत तं तत्र वारुणे परमे पदे ॥ ९३ ॥
रत्नानामब्धिजातानामब्धीनां सरितामपि ॥
सरसां पल्वलानां च वाप्यम्बु स्रोतसा पुनः ॥ ९४ ॥
जलाशयानां सर्वेषां प्रतीच्याश्चापि वैदिशः ॥
अधीश्वरः पाशपाणिर्भव सर्वामरप्रियः ॥ ९५ ॥
ददामि वरमन्यं च सर्वेषां हितकारकम् ॥
त्वयैतत्स्थापितं लिङ्गं तव नाम्ना भविष्यति ॥ ९६ ॥
वरुणेशमिति ख्यातं वाराणस्यां सुसिद्धिदम् ॥
मणिकर्णेश लिङ्गस्य नैर्ऋत्यां दिशि संस्थितम् ॥ ९७ ॥
आराधितं सदा पुंसां सर्वजाड्यविनाशकृत् ॥
वरुणेशस्य ये भक्ता न तेषामब्भयं क्वचित् ॥ ९८ ॥
न सन्तापभयं तेषां नापायमरणं क्वचित् ॥
जलोदरभयं नैव न भयं वै तृषः क्वचित् ॥ ९९ ॥
नीरसान्यन्नपानानि वरुणेश्वर संस्मृतेः ॥
सरसानि भविष्यन्ति नात्र कार्या विचारणा ॥ 4.1.12.१०० ॥
इत्युक्त्वान्तर्दधे शम्भुर्वरुणोपि स्वबन्धुभिः ॥
इमं लोकमलङ्कुर्वंस्तदारभ्य स्थितो द्विजः ॥ १ ॥
इदं वरुणलोकस्य स्वरूपं ते निरूपितम् ॥
यच्छ्रुत्वा न नरः क्वापि दुरपायैः प्रबाध्यते ॥ १०२ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वाद्धे निर्ऋतिवरुणलोकवर्णनन्नाम द्वादशोऽध्यायः ॥ १२ ॥