अगस्तिरुवाच ॥ ॥
शृणु सुश्रोणि सुभगे वैश्वानरसमुद्भवम् ॥
पुण्यशीलसुशीलाभ्यां यथोक्तं शिवशर्मणे ॥ १ ॥
अथ कालेन तद्योषिदन्तर्वत्नी बभूव ह ॥
विधिवद्विहिते तेन गर्भाधानाख्य कर्मणि ॥ २ ॥
ततः पुंसवनं तेन स्पन्दनात्प्राग्विपश्चिता ॥
गृह्योक्तविधिना सम्यक्कृतं पुंस्त्वविवृद्धये ॥ ३ ॥
सीमन्तोथाष्टमे मासि गर्भरूपसमृद्धिकृत् ॥
सुखप्रसव सिद्ध्यै च तेनाकारि क्रियाविदा ॥ ४ ॥
अथातः सत्सुतारासु ताराधिप वराननः ॥
केन्द्रे गुरौ शुभे लग्ने सुग्रहेष्वयुगेषु च ॥५॥
अरिष्टं दीपयन्दीप्त्या सर्वारिष्टविनाशकृत् ॥
तनयो नाम तस्यां तु शुचिष्मत्यां बभूव ह ॥६॥
सद्यः समस्तसुखदो भूर्भुवःस्वर्निवासिनाम् ॥
गन्धवाहागन्धवाहादिग्वधूमुखवासनाः ॥ ७ ॥
इष्टगन्धप्रसूनौघैर्ववर्षुस्ते घनाघनाः ॥
देवदुन्दुभयो नेदुः प्रसेदुः सर्वतोदिशः ॥८॥
परितः सरितः स्वच्छा भूतानां मानसैः सह ९ ॥
तमोऽताम्यत्तु नितरां रजोपि विरजोभवत् ॥ ९ ॥
सत्त्वाः सत्त्वसमायुक्ता वसुधासीच्छुभा तदा ॥
कल्याणी सर्वतो वाणी प्राणिनः प्रीणयन्त्यभूत् ॥ 4.1.11.१० ॥
तिलोत्तमोर्वशीरम्भा प्रभा विद्युत्प्रभा शुभा ॥
सुमङ्गला शुभालापा सुशीलाड्या(?) वराङ्गनाः ॥११॥
क्वणत्कङ्कण पात्राणि कृत्वा करतलं मुदा ॥
मुक्तमुक्ताफलाढ्यानि यक्षकर्दमवन्ति च ॥ १२ ॥
वज्रवैदूर्य दीपानि हरिद्रा लेपनानि च ॥
गारुत्मतैकरूपाणि शङ्खशुक्तिदधीनि च ॥ १३ ॥
पद्मरागप्रवालाख्यरत्नकुङ्कुमवन्ति च ॥
गोमेदपुष्परागेन्द्र नीलसन्माल्यभाञ्जि च ॥ १४ ॥
विद्याधर्यश्च किन्नर्यस्तथाऽमर्यः सहस्रशः ॥
चामर व्यग्रहस्ताग्र मङ्गलद्रव्यपाणयः ॥ १५ ॥
गन्धर्वोरगयक्षाणां सुवासिन्यः शुभस्वराः ॥
गायन्त्यो ललितं गीतं तत्राजग्मुरनेकशः ॥ १६ ॥
मरीचिरत्रि पुलहः पुलस्त्यः क्रतुरङ्गिराः ॥
वसिष्ठः कश्यपश्चाहं विभाण्डो माण्डवीसुतः ॥ १७ ॥
लोमशो लोमचरणो भरद्वाजोथ गौतमः ॥
भृगुस्तु गालवो गर्गो जातूकर्ण्यः पराशरः ॥ १८ ॥
आपस्तम्बो याज्ञवल्क्य दक्षवाल्मीकिमुद्गलाः ॥
शातातपश्च लिखितः शिलादः शङ्खउञ्छभुक् ॥ १५ ॥
जमदग्निश्च संवर्तो मतङ्गो भरतोंशुमान् ॥
व्यासः कात्यायनः कुत्सः शौनकः सुश्रुतः शुकः ॥4.1.11.२० ॥
ऋष्यशृङ्गोथ दुर्वासा रुचिर्नारदतुम्बुरू ॥
उत्तङ्को वामदेवश्च च्यवनोसितदेवलौ ॥२१ ॥
शालङ्कायनहारी तौ विश्वामित्रोथभार्गवः ॥
मृकण्डः सह पुत्रेण दाल्भ्य उद्दालकस्तथा ॥ २२ ॥
धौम्योपमन्युवत्साद्या मुनयो मुनिकन्यकाः ।
तच्छान्त्यर्थं समाजग्मुर्धन्यं विश्वानराश्रमम् ॥ २३ ॥
ब्रह्मा बृहस्पतियुतो देवो गरुडवाहनः ॥
नन्दि भृङ्गि समायुक्तो गौर्या सह वृषध्वजः ॥ २४ ॥
महेन्द्रमुख्या गीर्वाणा नागाः पातालवासिनः ॥
रत्नान्यादाय बहुशः ससरित्का महाब्धयः ॥ २५ ॥
स्थावरा जङ्गमं रूपं धृत्वा याताः सहस्रशः ॥
महामहोत्सवे तस्मिन्बभूवाकालकौमुदी ॥ २६॥
जातकर्म स्वयं चक्रे तस्य देवः पितामहः ॥
श्रुतिं विचार्य तद्रूपां नाम्ना गृहपतिस्त्वयम् ॥२७॥
इति नाम ददौ तस्मै देयमेकादशेहनि ॥
नामकर्मविधानेन तदर्थं श्रुतिमुच्चरन् ॥ २८ ॥
अयमग्निर्गृहपतिर्गार्हपत्यः प्रजाया वसुवित्तमः ॥
अग्ने गृहपतेभिद्युम्नमभि सह आयच्छस्व ॥ २९ ॥
अग्ने गृहपते स्थित्या परामपि निदर्शयन् ॥
चतुर्निगममन्त्रोक्तैराशीर्भिरभिनन्द्य च ॥ 4.1.11.३० ॥
कृत्वा बालोचितां रक्षां हरेण हरिणा सह ॥
निर्ययौ हंसमारुह्य सर्वेषां प्रपितामहः ॥ ३१ ॥
अहोरूपमहो तेजस्त्वहो सर्वाङ्गलक्षणम् ॥
अहो शुचिष्मतीभाग्यमाविरासीत्स्वयं हरः ॥ ३२ ॥
अथवा किमिदं चित्रं शर्वभक्तजनेष्वहो ॥
आविर्भवेत्स्वयं रुद्रो यतोरुद्रास्तदर्चकाः ॥ ३३ ॥
इति स्तुवन्तस्त्वन्योन्यं जग्मुः सर्वे यथागतम् ॥
विश्वानरं समापृच्छ्य सम्प्रहृष्टतनूरुहाः ॥ ३४ ॥
अतः पुत्रं समीहन्ते गृहस्थाश्रमवासिनः ॥
पुत्रेण लोकाञ्जयति श्रुतिरेषा सनातनी ॥ ३५ ॥
अपुत्रस्य गृहं शून्यमपुत्रस्यार्जनं वृथा ॥
अपुत्रस्यान्वयश्छिन्नो नापवित्रं ह्यपुत्रतः ॥ ३६ ॥
न पुत्रात्परमो लाभो न पुत्रात्परमं सुखम् ॥
न पुत्रात्परमं मित्रं परत्रेह च कुत्रचित् ॥ ३७ ॥
औरसः क्षेत्रजः क्रीतो दत्तः प्राप्तः सुतासुतः ॥
आपत्सुरक्षितश्चान्यः पुत्राः सप्तात्र कीर्तिताः ॥ ३८ ॥
एषामन्यतमः कार्यो गृहस्थेन विपश्चिता ॥
पूर्वपूर्वः सुतः श्रेयान्हीनःस्यादुत्तरोत्तरः ॥ ३९ ॥
॥ गणावूचतुः ॥ ॥
निष्क्रमोथ चतुर्थेऽस्य मासि पित्राकृतो गृहात् ॥
अन्नप्राशनमब्दार्धे चूडाब्दे चार्थवत्कृता ॥ 4.1.11.४० ॥
कर्णवेधं ततः कृत्वा श्रवणर्क्षे सकर्मवित् ॥
ब्रह्मतेजोभिवृद्ध्यर्थं पञ्चमेऽब्दे व्रतं ददौ ॥ ४१ ॥
उपाकर्म ततः कृत्वा वेदानध्यापयत्सुधीः ॥
त्र्यब्दं वेदान्सविधिनाऽध्यैष्ट साङ्गपदक्रमान् ॥ ४२ ॥
विद्याजातं समस्तं च साक्षिमात्राद्गुरोर्मुखात् ॥
विनयादिगुणानाविष्कुर्वञ्जग्राह शक्तिमान् ॥ ४३ ॥
ततोथ नवमे वर्षे पित्रोः शुश्रूषणे रतम् ॥
वैश्वानरं गृहपतिं दृष्ट्वा कामचरो मुनिः ॥ ४४ ॥
विश्वानरोटजं प्राप्य देवर्षिर्नारदः सुधीः ॥
पप्रच्छ कुशलं तत्र गृहीतार्घासनः क्रमात् ॥ ४५ ॥
॥ नारद उवाच ॥ ॥
विश्वानर महाभाग शुचिष्मति शुभव्रते ॥
कुरुते युवयोर्वाक्यमयं गृहपतिः शिशुः ॥ ४६ ॥
नान्यत्तीर्थं न वा देवो न गुरुर्न च सत्किया ॥
विहाय पित्रोर्वचनं नान्यो धर्मः सुतस्य हि ॥ ४७ ॥
न पित्रोरधिकं किञ्चित्त्रिलोक्यां तनयस्य हि ॥
गर्भधारणपोषाभ्यां पितुर्माता गरीयसी ॥ ४८ ॥
अम्भोभिरभिषिच्यस्वं जननीचरणच्युतैः ॥
प्राप्नुयात्स्वर्धुनीशुद्ध कबन्धाधिकशुद्धताम् ॥ ४९ ॥
सन्न्यस्ताखिलकर्मापि पितुर्वन्द्यो हिमस्करी ॥
सर्ववन्द्येन यतिना प्रसूर्वन्द्या प्रयत्नतः ॥ 4.1.11.५० ॥
इदमेव तपोत्युग्रमिदमेवपरं व्रतम् ॥
अयमेव परो धर्मो यत्पित्रोः परितोषणम् ॥ ५१ ॥
मन्येमान्यो नाधमस्य तथान्यस्य यथा युवाम् ॥
सुखाकारैर्विनीतस्य शिशोर्गृहपतेरहम् ॥ ५२ ॥
वैश्वानरसमभ्येहि ममोत्सङ्गे निषीद भो ॥
लक्षणानि परीक्षेहं पाणिं दर्शय दक्षिणम् ॥ ५३ ॥
इत्युक्तो मुनिना बालः पित्रोराज्ञामवाप्य सः ॥
प्रणम्य नारदं श्रीमान्भक्त्याप्रह्व उपाविशत् ॥ ५४ ॥
ततो दृष्ट्वास्य सर्वाङ्गं तालुजिह्वाद्विजानपि ॥
आनीय कुङ्कुमारक्तं सूत्रं च त्रिगुणीकृतम् ॥ ५५ ॥
स्मृत्वा शिवौ गणाध्यक्षमूर्ध्वीभूतमुदङ्मुखम् ॥
मुनिः परिममौ बालमापादतलमस्तकम् ॥ ५६ ॥
तिर्यगूर्ध्वं समो माने योष्टोत्तरशताङ्गुलः ॥
स भवेत्पृथिवीपालो बालोऽयं ते यथा द्विज ॥ ५७ ॥
पञ्चसूक्ष्मः पञ्चदीर्घः सप्तरक्तः षडुन्नतः ॥
त्रिपृथुर्लघुगम्भीरो द्वात्रिंशल्लक्षणस्त्विति ॥ ५८ ॥
पञ्चदीर्घाणि शस्यानि यथादीर्घायुषोस्य वै ॥
भुजौ नेत्रे हनुर्जानु नासाऽस्य तनयस्य ते ॥ ५९ ॥
ग्रीवाजङ्घा मेहनैश्च त्रिभिर्ह्रस्वोयमीडितः ॥
स्वरेण सत्त्वनाभिभ्यां त्रिगम्भीरः शिशुः शुभः ॥ 4.1.11.६० ॥
त्वक्केशाङ्गुलिदशनाः पर्वाण्यङ्गुलिजान्यपि ॥
तथास्य पञ्चसूक्ष्माणि दिक्पालपदभाग्यथा ॥ ६१ ॥
वक्षः कुक्ष्यलकं स्कन्ध करं वक्त्रं षडुन्नतम् ॥
तथाऽत्र दृश्यते बाले महदैश्वर्यभाग्यथा ॥ ६२ ॥
पाण्योस्तले च नेत्रान्ते तालुजिह्वाधरौष्ठकम् ॥
सप्तारुणं च सनखमस्मिन्राज्यसुखप्रदम् ॥ ६३ ॥
ललाटकटिवक्षोभिस्त्रिविस्तीर्णो यथाह्यसौ ॥
सर्वतेजोतिरैश्वर्यं तथा प्राप्स्यति नान्यथा ॥ ६४ ॥
कमठीपृष्ठकठिनावकर्मकरणौ करौ ॥
राज्यहेतू शिशोरस्य पादौ चाध्वनि कोमलौ ॥६५॥
अच्छिन्ना तर्जनीं व्याप्य तथा रेखास्य दृश्यते ॥
कनिष्ठा पृष्ठनिर्याता दीर्घायुष्यं यथार्पयेत् ॥ ६६ ॥
पादौ सुमांसलौ रक्तौ समौ सूक्ष्मौ सुशौभनौ ॥
समगुल्फौ स्वेदहीनौ स्निग्धावैश्वर्यसूचकौ ॥६७॥
स्वल्पाभिः कररेखाभिरारक्ताभिः सदासुखी ॥
लिङ्गेन कृशह्रस्वेन राजराजो भविष्यति ॥ ६८ ॥
उत्कण्टासनगुल्फास्फिग्नाभिरस्यापि वर्तुला ॥
दक्षिणावर्तमरुणं महदैश्वर्यसूचिका ॥ ६९॥
धारैका मूत्रयत्यस्मिन्दक्षिणावर्तिनी यदि ॥
गन्धश्च मीनमधुनोर्यदि वीर्ये तदा नृपः ॥ 4.1.11.७० ॥
विस्तीर्णौ मांसलौ स्निग्धौ स्फिचावस्य सुखोचितौ ॥
वामावर्तौ सुप्रलम्बौ दोषौ दिग्रक्षणोचितौ ॥७१॥
श्रीवत्सवज्रचक्राब्ज मत्स्यकोदण्डदण्डभृत् ॥
तथास्य करगा रेखा यथा स्यात्त्रिदिवस्पतिः ॥ ७२ ॥
द्वात्रिंशद्दशनश्चायं करकम्बु शिरोधरः ॥
कौञ्चदुन्दुभिहंसाभ्र स्वरः सर्वेश्वराधिकः ॥ ७३ ॥
मधुपिङ्गलनेत्रोऽसौ नैनं श्रीस्त्यजति क्वचित् ॥
पञ्चरेखललाटस्तु तथा सिंहोदरः शुभः॥।७४॥
ऊर्ध्वरेखाङ्कितपदो निःश्वसन्पद्मगन्धवान् ॥
अच्छिद्रपाणिः सुनखो महालक्षणवानयम् ॥ ७५ ॥
किन्तु सर्वगुणोपेतं सर्वलक्षणलक्षितम् ॥
सम्पूर्णनिर्मलकलं पातयेद्विधुवद्विधिः ॥ ७६ ॥
तस्मात्सर्वप्रयत्नेन रक्षणीयस्त्वसौ शिशुः ॥
गुणोपि दोषतां याति वक्रीभूते विधातरि ॥ ७७ ॥
शङ्केऽस्य द्वादशेवर्षे प्रत्यूहो विद्युदग्नितः ॥
इत्युक्त्वा नारदो धीमान्स जगाम यथागतम् ॥ ७८ ॥
विश्वानरः सपत्नीकस्तच्छ्रुत्वा नारदेरितम् ॥
तदैव मन्यमानोभूद्वज्रपातं सुदारुणम् ॥ ७९ ॥
हाहतोस्मीति वचसा हृदयं समताडयत् ॥
मूर्च्छामवाप महतीं पुत्रशोकसमाकुलः ॥ 4.1.11.८० ॥
शुचिष्मत्यपि दुःखार्ता रुरोदातीव दुःसहम् ॥
आर्तस्वरेण हारावैरत्यन्त व्याकुलेद्रिया ॥ ८१ ॥
हाशिशो हागुणनिधे हा पितुर्वाक्यकारक ॥
हा कुतो मन्दभाग्याया जठरे मे समागतः ॥ ८२ ॥
त्वदेकपुत्रां हापुत्रकोऽत्र मां त्रायते पुरा ॥
त्वदृते त्वद्गुणोर्म्याढ्ये पतितां शोकसागरे ॥ ८३ ॥
हा बाल हा विमल हा कमलायताक्ष हा लोकलोचनचकोर कुरङ्गलक्ष्मन् ॥
हा तात तात नयनाब्ज मयूखमालिन्हा मातुरुत्सवसहस्रसुखैकहेतो ॥ ८४ ॥
हा पूर्णचन्द्रमुख हा सुनखाङ्गुलीक हा चाटुकारवचनामृतवीचिपूर ॥
दुःखैः कियद्भिरहहां गमयात्वमाप्तः किं किं कृतं गृहपते न मया त्वदाप्त्यै ॥ ८५ ॥
नोप्तो बलिर्न बत कासु च देवता सुतीर्थानि कानि न मयाध्युषितानि वत्स ॥
के के मया न नियमौषधमन्त्रयन्त्राः संसाधितास्तव कृते सुकृतैकलभ्य ॥ ८६ ॥
संसारसागरतरे हर दुःखभारं सारं मुखेन्दुमभिदर्शय सौख्यसिन्धो ॥
पुन्नामतीव्रनरकार्णव वाडवाग्नेस्सञ्जीवयस्व पितरं निजवाक्सुधोक्षैः ॥ ८७ ॥
किन्देवता अहह जन्ममहोत्सवेऽस्य ज्ञात्वेति भाविमिलिता युगपत्समस्ताः ॥
एकस्थ सर्वगुण शील कलाकलाप सौन्दर्यलक्षणपरीक्षणपूर्णहर्षाः ॥ ८८ ॥
शम्भो महेश करुणाकर शूलपाणे मृत्युञ्जयस्त्वमिति वेदविदो वदन्ति ॥
त्वद्दत्त बालतनये यदि कालकालः स्यादेवमत्र वद कस्य भवेन्न पातः ॥ ८९ ॥
हा हन्तहन्तभवता भव तापहारी कस्माद्विधेऽत्र विदधे बहुभिः प्रयत्नैः ॥
बालो विशालगुणसिन्धुमगाधमध्यं सद्रत्नसारमखिलं सविधं विधाय ॥ 4.1.11.९० ॥
हा कालबालकवती किमुतेन राज्ञी त्वत्कालतां न हृतवान्नसुताननेन्दुः ॥
बालेति कोमलमृणाल लताङ्गलीलं दम्भोलिनिष्ठुरकठोरकुठारदंष्ट्रः ॥ ९१ ॥
इत्थं विलप्य बहुशो नयनाम्बुधारासम्पातजात तटिनी शतमुत्तरङ्गम् ॥
सा तोकशोकजनितानल तापतप्ता प्रोच्छ्वस्यदीर्घविपुलोष्णमहो शुशोष॥ ९२ ॥
आकर्ण्य तत्करुणवत्परिदेवितानि तानि द्रुमा व्रततयः कुसुमाश्रुपातैः ॥
प्रायो रुदन्ति पततां विरुतार्तरावैरालोल्यमौलिमसकृत्पवनच्छलेन ॥ ९३ ॥
रुण्णं तया किल तथा बहुमुक्तकण्ठमार्तस्वरैः प्रतिरवच्छलतो यथोच्चैः ॥
तद्दुःखतोनुरुरुदुर्गिरिकन्दरास्याः सर्वा दिशः स्थगितपत्रिमृगागमा हि ॥ ९४ ॥
श्रुत्वार्तनादमिति विश्वनरोपि मोहं हित्वोत्थितः किमिति किन्त्विति किङ्किमेतत् ॥
उच्चैर्वदन्गृहपतिः क्व समे बहिस्थः प्राणोन्तरात्मनिलयः सकलेन्द्रियेशः ॥ ९५ ॥
अगस्त्य उवाच ॥ ॥
ततो दृष्ट्वा स पितरौ बहुशोकसमावृतौ ॥
स्मित्वोवाच ततो मातस्त्रासस्त्वीदृक्कुतो हि वाम् ॥९६॥
न माङ्कृत वपुस्त्राणं भवच्चरणरेणुभिः ॥
कालः कलयितुं शक्तो वराकी चञ्चलाल्पिका ॥ ९७ ॥
प्रतिज्ञां शृणुतं तातौ यदि वां तनयो ह्यहम् ॥
करिष्येहं तथा तेन विद्युन्मत्तस्त्रसिष्यति ॥ ९८ ॥
मृत्युञ्जयं समाराध्य सर्वज्ञं सर्वदं सताम् ॥
कालकालं महाकालं कालकूटविषादिनम् ॥ ९९ ॥
इति श्रुत्वा वचस्तस्य जरितौ द्विजदम्पती ॥
अकालामृतवर्षौघ शान्ततापौ तदोचतुः ॥ 4.1.11.१०० ॥
अपयोदपयोवृष्टिरदुग्धाब्धिः सुधोदयः ॥
अनिन्दुः कौमुदीकान्तिः कुतो नौ सुखयत्यलम् ॥ १ ॥
पुनर्ब्रूहिपुनर्ब्रूहि कीदृक्कीदृक्पुनःपुनः ॥
कालः कलयितुं नालं वराकी चञ्चलाल्पिका ॥२॥
आवयोस्तापनाशाय महोपायस्त्वयेरितः ॥
मृत्युञ्जयस्य देवस्य समाराधनलक्षणः॥ ॥३ ॥
तद्गच्छ शरणं तात नातः परतरं हितम् ॥
मनोरथपथातीत कारिणः कालहारिणः ॥ ४ ॥
किं न श्रुतं त्वया तात श्वेतकेतु यथा पुरा ॥
पाशितं कालपाशेन ररक्ष त्रिपुरान्तकः ॥ ५ ॥
शिलादतनयं मृत्युग्रस्तमष्टाब्दमर्भकम् ॥
शिवो निजजनं चक्रे नन्दिनं विश्वनन्दिनम् ॥ ६ ॥
क्षीरोदमथनोद्भूतप्रलयानलसन्निभम् ॥
पीत्वा हालाहलं घोरमरक्षद्भुवनत्रयम् ॥ ७ ॥
जालन्धरं महादर्पं हृतत्रैलोक्यसम्पदम् ॥
चरणाङ्गुष्ठरेखोत्थचक्रेणनिजघानयः ॥ ८ ॥
य एकेषु निपातोत्थ ज्वलनैस्त्रिपुरं पुरा ॥
विधाय पत्रिणं विष्णुं ज्वालयामास धूर्जटिः ॥ ९ ॥
अन्धकं यस्त्रिशूलाग्रप्रोतं वर्षायुतं पुरा ॥
त्रैलोक्यैश्वर्यसम्मूढं शोषयामास भानुना॥ 4.1.11.११० ॥
कामं दृष्टिनिपातेन त्रैलोक्यविजयोर्जितम् ॥
निनायानङ्गपदवीं वीक्षमाणेष्वजादिषु ॥ ११ ॥
तं ब्रह्माद्येककर्तारं मेघवाहनमच्युतम् ॥
प्रयाहि पुत्र शरणं विश्वरक्षामणिं शिवम् ॥ १२ ॥
पित्रोरनुज्ञां प्राप्येति प्रणम्य चरणौ तयोः ॥
प्रदक्षिणमुपावृत्य बह्वाश्वास्य विनिर्ययौ ॥ १३ ॥
स प्राप्य काशीं दुष्प्रापां ब्रह्मनारायणादिभिः ॥
महासंवर्तसंवृत्त तापाद्विश्वेशपालिताम् ॥ १४ ॥
फिरस्वर्धुन्या हारयष्ट्येव राजितां कण्ठभूमिषु ॥
विचित्रगुणशालिन्याहारनीहारगौरया ॥ १५ ॥
बहुसंसारसन्तापसन्तप्तजनतोद्भवम् ॥
वारयन्तीं वरणया छिन्दन्तीमसिधारया ॥ १६ ॥
यल्लभ्यते च कैवल्यं सुदृढाष्टाङ्गयोगतः ॥
विकासयन्तीं तत्सम्यक्काशिकांयाञ्जगुर्बुधाः ॥ ॥ १७ ॥
संसारतापतप्ताभ्यां लोचनाभ्यां स दृष्टवान् ॥
कर्णाकर्णप्रकीर्णाभ्यां प्राग्ययौ मणिकर्णिकाम् ॥ १८ ॥
तत्र स्नात्वा विधानेन दृष्ट्वा विश्वेश्वरं विभुम् ॥
त्रैलोक्यप्राणिसन्त्राणकारिणं प्रणनाम ह ॥ १९ ॥
आलोक्यालोक्य तल्लिङ्गं तुतोष हृदये बहु ॥
परमानन्दकन्दाख्यं स्फुटमेतन्न संशयः ॥ 4.1.11.१२० ॥
अहो न मत्तो धन्योस्ति त्रैलोक्ये सचराचरे ॥
यदद्राक्षिषमद्याहं श्रीमद्विश्वेश्वरं विभुम् ॥२१॥
त्रिलोकीसारसर्वस्वं पिण्डीभूतमिदं किल ॥
किं वा पीयूषपिण्डोयमुद्गतः क्षीरनीरधेः ॥२२ ॥
आत्मावबोधमहसः किमसौ प्रथमाङ्कुरः ॥
ब्रह्मानन्द सुकन्दो वा किमु ब्रह्मरसायनम् ॥ २३ ॥
योगिहृत्पद्मनिलयं यदनाकारमुच्यते ॥
तदाकारत्वमापेदे किमिदं लिङ्गकैतवात् ॥ २४ ॥
ब्रह्माण्डभाण्डमथवा नाना रत्नौघपूरितम् ॥
अथवा मोक्षवृक्षस्य फलमेतन्नसंशयः ॥ २५ ॥
निर्वाणलक्ष्म्याः किमथ केशपाशः सुपुष्पयुक ॥
कैवल्यमल्लीवल्ल्याः किंस्तबकः स्तावकार्थदः ॥ २६ ॥
निःश्रेयसश्रियः किंवाऽऽनन्दक्रीडनकन्दुकः ॥
अपवर्गो दयाद्रेः किमुदियाय सुधाकरः ॥ २७ ॥
संसारमोहतिमिरभिदुरःकिमसौ रविः ॥
किमु कल्याणरमणीरम्यशृङ्गारदर्पणः ॥ २८ ॥
आज्ञातं नभवेदन्यत्सर्वेषां देहधारिणाम् ॥
अनेककर्मबीजानां बीजपूरोऽयमद्भुतः ॥२९॥
विश्वेषां विश्वबीजानां कर्माख्यानां लयो यतः ॥
अस्मिन्निर्वाणदे लिङ्गे विश्वलिङ्गमिदं ततः ॥ 4.1.11.१३० ॥
मम भाग्योदयेनैव नारदेन महर्षिणा ॥
तदागत्य तथोक्तं यत्कृतकृत्योस्म्यहं ततः ॥ ३१ ॥
इत्यानन्दामृतरसैर्विधायसहि पारणम् ॥
ततःशुभेऽह्नि संस्थाप्य लिङ्गं सर्वहितप्रदम् ॥ ३२ ॥
जग्राह नियमान्घोरान्दुष्करानकृतात्मनाम् ॥
अष्टोत्तरशतैः कुम्भैः पूर्णैर्गङ्गामृतोद्रवैः ॥ ३३ ॥
संस्नाप्य वाससा पूतैः पूतात्मा प्रत्यहं शिवम् ॥
नीलोत्पलमयीं मालां समर्पयति सोऽन्वहम् ॥ ३४ ॥
अष्टाधिकसहस्रैस्तु सुमनोभिर्विनिर्मिताम् ॥
सपक्षार्धेन षण्मासं कन्दमूलफलाशनः॥३५॥
शीर्णपर्णाशनः पक्षे त्वाषण्मासं बभूव सः ॥
षण्मासं वायुभक्षोभूत्षण्मासं जलबिन्दुभुक् ॥३६॥
एवं वर्षद्वयं तस्य व्यतिक्रान्तं तथा सतः ॥
जन्मतो द्वादशे वर्षे तद्वचो नारदेरितम् ॥ ३७ ॥
सत्यं करिष्यन्निवतमभ्यगात्कुलिशायुधः ॥
उवाच च वरं ब्रूहि दद्मि तन्मनसि स्थितम् ॥३८॥
अहं शतक्रतुर्विप्र प्रसन्नोस्मि शुभव्रतैः ॥
इत्याकर्ण्य महेन्द्रस्य वाक्यं मुनिकुमारकः॥३९॥
उवाच मधुरं धीरः कीरवन्मधुराक्षरम्॥
मघवन्वृत्रशत्रो त्वां जाने कुलिशपाणिनम् ॥ 4.1.11.१४० ॥
नाहं वृणे वरं त्वत्तः शङ्करो वरदोस्ति मे ॥ ४१ ॥
इन्द्र उवाच ॥
न मत्तः शङ्करोस्त्वन्यो देवदेवोस्म्यहं शिशो ॥
विहाय बालिशत्वं त्वं वरयाचस्व मां वरम् ॥ ४२ ॥
ब्राह्मण उवाच ॥
गच्छाहल्यापतेऽसाधो गोत्रारे पाकशासन ॥
न प्रार्थये पशुपतेरन्यदेवान्तरं स्फुटम् ॥४३॥
इति तस्य वचः श्रुत्वा क्रोधसंरक्तलोचनः ॥
उद्यम्य कुलिशं घोरं भीषयामास बालकम् ॥४४॥
स दृष्ट्वा बालको वज्रं विद्युज्ज्वालाशताकुलम् ॥
स्मरन्नारदवाक्यं च मुमूर्च्छ भयविह्वलः ॥ ४५ ॥
अथ गौरीपतिः शम्भुराविरासीत्तमोनुदः ॥
उत्तिष्ठोत्तिष्ठ भद्रं ते स्पर्शैः सञ्जीवयन्निव ॥ ४६ ॥
उन्मील्य नेत्रकमले सुप्ते इव दिवाक्षये ॥
अपश्यदग्रे चोत्थाय शम्भुमर्कशताधिकम् ॥ ४७ ॥
भाले लोचनमालोक्य कण्ठे कालं वृषध्वजम् ॥
वामाङ्गसन्निविष्टाद्रितनयं चं द्रशेखरम् ॥ ४८ ॥
कपर्देन विराजन्तं त्रिशूलाजगवायुधम् ॥
स्फुरत्कर्पूरगौराङ्गं परिणद्ध गजाजिनम् ॥४९॥
परिज्ञाय महादेवं गुरुवाक्यत आगमात् ॥
हर्ष बाष्पाकुलः सन्न कठो रोमाञ्चकञ्चुकः ॥ 4.1.11.१५० ॥
क्षणंस्थगितवत्तस्थौ चित्रकृत्रिमपुत्रकः ॥
यथातथा सुसम्पन्नो विस्मृत्यात्मानमेव च ॥ ५१ ॥
न स्तोतुं न नमस्कर्तुं किञ्चिद्विज्ञप्तुमेव च ॥
यदासनशशाकालं तदा स्मित्वाऽऽह शङ्करः ॥ ५२ ॥
ईश्वर उवाच ॥
शिशो गृहपते शक्राद्वज्रोद्यतपरादहो ॥
ज्ञातो भीतोसि मा भैषीर्जिज्ञासा ते कृता मया ॥ ५३ ॥
मम भक्तस्य नो शक्रो न वज्रं नान्तकोपि वा ॥
प्रभवेदिन्द्ररूपेण मयैव त्वं हि भाषितः ॥ ५४ ॥
वरं ददामि ते भद्र त्वमग्निपदभाग्भव ॥
सर्वेषामेव देवानां वदनं त्वं भविष्यसि ॥५५॥
सर्वेषामेव भूतानां त्वमग्नेंऽतश्चरो भव ॥
धर्मराजेन्द्रयोर्मध्ये दिगीशो राज्यमाप्नुहि ॥५६ ॥
त्वयेदं स्थापितं लिङ्गं तव नाम्ना भविष्यति ॥
अग्नीश्वरं इति ख्यातं सर्वतेजोभिबृंहणम् ॥ ५७ ॥
अग्नीश्वरस्य भक्तानां न भयं विद्युदग्निजम् ॥
अग्निमान्द्य भयं नैव नाकालमरणं क्वचित् ॥ ५८ ॥
अग्नीश्वरं समभ्यर्च्य काश्यां सर्वसमृद्धिदम् ॥
अन्यत्रापि मृतो दैवादग्निलोके महीयते ॥५९॥
ततः काशीं पुनः प्राप्य कल्पान्ते मोक्षमाप्नुयात् ॥
वीरेश्वरस्य पूर्वेण गङ्गायाः पश्चिमे तटे ॥ 4.1.11.१६० ॥
अग्नीश्वरं समाराध्य वह्निलोके वसेन्नरः ॥
पितृभ्यां स्वजनैः सार्धं मित्रबन्धुसमायुतः ॥ ६१ ॥
विमानमिदमारुह्य प्रयाह्येव दिशःपते ॥
इत्युक्त्वानीय तद्बन्धून् पित्रोश्च परिपश्यतोः ॥
दिक्पतित्वेऽभिषिच्याग्निं तत्र लिङ्गे शिवोविशत् ॥ ६२ ॥
गणावूचतुः ॥ ॥
इत्थमग्निस्वरूपं ते शिवशर्मन्प्रवर्णितम् ॥
किमन्यच्छ्रोतुकामोसि कथयावस्तदीरय ॥ १६३ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वाद्धें वह्निलोकवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥