॥ शिवशर्मोवाच ॥ ॥
रमयन्ती मनोतीव केयं कस्येयमीशितुः ॥
नयनानन्दसन्दोहदायिनीपूरनुत्तमा ॥ १ ॥
गणावूचतुः ॥ ॥
शिवशर्मन्महाभागसुतीर्थफलितद्रुम ॥
लोकोऽत्र रमते विप्र सहसाक्षपुरी त्वियम् ॥ २ ॥
तपोबलेन महता विहिता विश्वकमर्णा ॥
दिवापि कौमुदी यस्याः सौधश्रेणीश्रियं श्रयेत् ॥ ३ ॥
यदाकलानिधिः क्वापि दर्शे ऽदृश्यत्वमावहेत् ॥
तदा स्वप्रेयसीं ज्योत्स्नां सौधेष्वेषु निगूहयेत् ॥ ४ ॥
यदच्छभित्तौ वीक्ष्य स्वमन्ययोपिद्विशङ्किता ॥
मुग्धानाशुविशेच्चित्रमपिस्वाञ्चित्रशालिकाम् ॥ ५ ॥
हर्म्येषु नीलमणिभिर्निर्मितेष्वत्रनिर्भयम् ॥
स्वनीलिमानमाधाय तमोहःस्वपि तिष्ठति ॥ ६ ॥
चन्द्रकान्तशिलाजालस्रुतमात्रामलञ्जलम् ॥
तत्र चादाय कलशैर्नेच्छन्त्यन्यज्जलं जनाः ॥ ७ ॥
कुविन्दा न च सन्त्यत्र न च ते पश्यतो हराः ॥
चैलान्यलङ्कृतीरत्र यतः कल्पद्रुमोर्पयेत् ॥ ८ ॥
गणका नात्र विद्यन्ते चिन्ताविद्याविशारदाः ॥
यतश्चिकेति सर्वेषां चिन्ता चिन्तामणिर्द्रुतम् ॥ ९ ॥
सूपकारा न सन्त्यत्र रसकर्म विचक्षणाः॥
दुग्धे सर्वरसानेका कामधेनुरतोयतः ॥ 4.1.10.१० ॥
कीर्तिरुच्चैःश्रवा यस्य सर्वतो वाजिराजिषु ॥
रत्नमुच्चैःश्रवाः सोत्र हयानां पौरुषाधिकः ॥ ११ ॥
ऐरावतो दन्तिवरश्चतुर्दन्तोत्र राजते ॥
द्वितीय इव कैलासो जङ्गमस्फटिकोज्ज्वलः ॥ १२ ॥
तरुरत्नम्पारिजातः स्त्रीरत्नं सोर्वशी त्विह ॥
नन्दनं वनरत्नं च रत्नं मन्दाकिनी ह्यपाम् ॥ १३ ॥
त्रयस्त्रिंशत्सुराणां या कोटिः श्रुति समीरिता ॥
प्रतीक्षते साऽवसरं सेवायै प्रत्यहन्त्विह ॥ १४ ॥
स्वर्गेष्विन्द्रपदादन्यन्न विशिष्येत किञ्चन ॥
यद्यत्त्रिलोक्यामैश्वर्यं न तत्तुल्यमनेन हि ॥ १५ ॥
अश्वमेधसहस्रस्य लभ्यं विनिमयेन यत् ॥
किं तेन तुल्यमन्यत्स्यात्पवित्रमथवा महत ॥ १६ ॥
अर्चिष्मती संयमिनी पुण्यवत्यमलावती ॥
गन्धवत्यलकेशी च नैतत्तुल्या महर्धिभिः ॥ १७॥
अयमेव सहस्राक्षस्त्वयमेव दिवस्पतिः ॥
शतमन्युरयं देवो नामान्येतानि नामतः ॥ १८ ॥
सप्तापि लोकपाला ये त एनं समुपासते ॥
नारदाद्यैर्मुनिवरैरयमाशीर्भिरीड्यते ॥ १९ ॥
एतत्स्थैर्येण सर्वेषां लोकानां स्थैर्यमिष्यते ॥
पराजयान्महेन्द्रस्य त्रैलोक्यं स्यात्पराजितम् ॥ 4.1.10.२० ॥
दनुजा मनुजा दैत्यास्तपस्यन्त्युग्रसंयमाः ॥
गन्धर्व यक्षरक्षांसि महेन्द्रपदलिप्सवः ॥ २१ ॥
सगराद्या महीपाला वाजिमेधविधायकाः ॥
कृतवन्तो महायत्नं शक्रैश्वर्यजिघृक्षवः ॥ २२ ॥
निष्प्रत्यूहं क्रतुशतं यः कश्चित्कुरुतेऽवनौ ॥
जितेन्द्रियोमरावत्यां स प्राप्नोति पुलोमजाम् ॥ २३ ॥
असमाप्तक्रतुशता वसन्त्यत्र महीभुजः ॥
ज्योतिष्टोमादिभिर्यागैर्ये यजन्त्यपि ते द्विजाः ॥२४॥
तुलापुरुषदानादि महादानानि षोडश ॥
ये यच्छन्त्यमलात्मानस्ते लभन्तेऽमरावतीम् ॥ २५ ॥
अक्लीबवादिनो धीराः सङ्ग्रामेष्वपराङ्मुखाः ॥
विक्रान्ता वीरशयने तेऽत्र तिष्ठन्ति भूभुजः ॥२६॥
इत्युद्देशात्समाख्याता महेन्द्रनगरी स्थितिः ॥
यायजूका वसन्त्यत्र यज्ञविद्याविशारदाः ॥ २७ ॥
इमामर्चिष्मतीं पश्य वीतिहोत्रपुरीं शुभाम् ॥
जातवेदसि ये भक्तास्ते वसन्त्यत्र सुव्रताः ॥ २८ ॥
अग्निप्रवेशं ये कुर्युर्दृढसत्त्वा जितेन्द्रियाः ॥
स्त्रियो वा सत्त्वसम्पन्नास्ते सर्वे अग्नितेजसः ॥ २९ ॥
अग्निहोत्ररता विप्रास्तथाग्निब्रह्मचारिणः ॥
पञ्चाग्निव्रतिनो ये वै तेऽग्निलोकेग्नितेजसः ॥ 4.1.10.३० ॥
शीते शीतापनुत्यै यस्त्विध्मभारान्प्रयच्छति ॥
कुर्यादग्निष्टिकां वाऽथ स वसेदग्निसन्निधौ ॥ ३१ ॥
अनाथस्याग्निसंस्कारं यः कुर्याच्छ्रद्धयान्वितः ॥
अशक्तः प्रेरयेदन्यं सोग्निलोके महीयते ॥३२॥
जठराग्निविवृद्ध्यै यो दद्यादाग्नेयमौषधम् ॥
मन्दाग्नये स पुण्यात्मा वह्निलोके वसेच्चिरम् ॥ ३३ ॥
यज्ञोपस्कर वस्तूनि यज्ञार्थं द्रविणं तु वा ॥
यथाशक्ति प्रदद्याद्यो ह्यर्चिष्मत्यांवसेत्स वै ॥ ३४ ॥
अग्निरेको द्विजातीनां निःश्रेयसकरः परः ॥
गुरुर्देवो व्रतं तीर्थं सर्वमग्निर्विनिश्चितम् ॥ ३५ ॥
अपावनानि सर्वाणि वह्निसंसर्गतः क्षणात् ॥
पावनानि भवन्त्येव तस्माद्यः पावकः स्मृतः ॥ ३६ ॥
अपि वेदं विदित्वा यस्त्यक्त्वा वै जातवेदसम् ॥
अन्यत्र बध्नाति रतिं ब्राह्मणो न स वेदवित् ॥३७॥
अन्तरात्मा ह्ययं साक्षान्निश्चितो ह्याशुशुक्षणिः ॥
मांसग्रासान्पचेत्कुक्षौ स्त्रीणां नो मांसपेशिकाम् ॥३८॥
तैजसी शाम्भवी मूर्तिः प्रत्यक्षा दहनात्मिका ॥
कर्त्री हन्त्री पालयित्री विनैनां किं विलोक्यते ॥ ३९ ॥
चित्रभानुरयं साक्षान्नेत्रं त्रिभुवनेशितुः ॥
अन्धं तमोमये लोके विनैनं कः प्रकाशकः ॥ 4.1.10.४० ॥
धूपप्रदीपनैवेद्य पयो दधि घृतैक्षवम् ॥
एतद्भुक्तं निषेवन्ते सर्वे दिवि दिवौकसः ॥ ४१ ॥
शिवशर्मोवाच ॥ ॥
कोयं कृशानुः कस्यायं सूनुः कथमिदं पदम् ॥
आग्नेयं लब्धमेतेन ब्रूतमेतन्ममाग्रतः ॥ ४२ ॥
॥ गणावूचतुः ॥ ॥
आकर्णय महाप्राज्ञ वर्णयावो यथातथम् ॥
योयं यस्य यथाऽनेन प्रापि ज्योतिष्मतीपुरी ॥ ४३ ॥
नर्मदायास्तटे रम्ये पुरे नर्मपुरे पुरा ॥
पुरारिभक्तः पुण्यात्माऽभवद्विश्वानरो मुनिः ॥४४॥
ब्रह्मचर्याश्रमे निष्ठो ब्रह्मयज्ञरतःसदा ॥
शाण्डिल्यगोत्रः शुचिमान्ब्रह्मतेजो निधिर्वशी ॥ ४५ ॥
विज्ञाताखिलशास्त्रार्थो लौकिकाचारचञ्चुरः ॥
कदाचिच्चिन्तयामास हृदि ध्यात्वा महेश्वरम् ॥ ४६ ॥
चतुर्णामप्याश्रमाणां कोतीव श्रेयसे सताम् ॥
यस्मिन्प्राप्नोति सङ्क्षुण्णे परत्रेह च वा सुखम् ॥४७॥
इदं श्रेयस्त्विदं श्रेयस्त्विदं तु सुकरं भवेत् ॥
इत्थं सर्वं समालोड्य गार्हस्थ्यं प्रशशम्स ह ॥ ४८ ॥
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ भिक्षुकः ॥
एषामाधारभूतोसौ गृहस्थो नान्यथेति च ॥ ४९ ॥
देवैर्मनुष्यैः पितृभिस्तिर्यग्भिश्चोपजीव्यते ॥
गृहस्थः प्रत्यहं यस्मात्तस्माच्छ्रेष्ठो गृहाश्रमी ॥4.1.10.५० ॥
अस्नात्वा चाप्यहुत्वा वाऽदत्त्वा वाश्नाति यो गृही ॥
देवादीनामृणी भूत्वा नरकं प्रतिपद्यते ॥ ५१ ॥
अस्नाताशी मलं भुङ्क्ते त्वजपी पूयशोणितम् ॥
अहुताशी कृमीन्भुङ्क्तेप्यदत्त्वाविड्विभोजनः ॥ ५२ ॥
ब्रह्मचर्यं हि गार्हस्थ्ये यादृक्कल्पनयोज्झितम् ॥
स्वभावचपले चित्ते क्व तादृग्ब्रह्मचारिणि ॥ ५३ ॥
हठाद्वा लोकभीत्या वा स्वार्थाद्वा ब्रह्मचर्यभाक् ॥
सङ्कल्पयति चित्ते चेत्कृतमप्यकृतं तदा ॥ ५४ ॥
परदारपरित्यागात्स्वदारपरितुष्टितः ॥
ऋतुकालाभिगामित्वाद्ब्रह्मचारी गृहीरितः ॥ ५५ ॥
विमुक्तरागद्वेषो यः कामक्रोधविवर्जितः ॥
साग्निः सदारः स गृही वानप्रस्थाद्विशिष्यते ॥ ५६ ॥
वैराग्याद्गृहमुत्सृज्य गृहधर्मान्हृदि स्मरेत् ॥
स भवेदुभयभ्रष्टो वानप्रस्थो न वा गृही ॥ ५७ ॥
अयाचितोपस्थितया यो वृत्त्या वर्तते गृही ॥
येन केनापि सन्तुष्टो भिक्षुकात्स विशिष्यते ॥ ५८ ॥
प्राथयेद्यत्क्वचित्किञ्चिद्दुष्प्रापं वा भविष्यति ॥
अशनेषु न सन्तुष्टः स यतिः पतितो भवेत् ॥ ५९ ॥
गुणागुणविचार्येत्थं स वै विश्वानरो द्विजः ॥
उद्ववाह विधानेन स्वोचितां कुलकन्यकाम् ॥ 4.1.10.६० ॥
अग्निशुश्रूषणरतः पञ्चयज्ञपरायणः ॥
षट्कर्मनिरतो नित्यं देवपित्रतिथिप्रियः ॥ ६१ ॥
धर्मार्थकामान्युक्तात्मा सोर्जयन्स्वस्वकालतः ॥
परस्परमसङ्कोचं दम्पत्योरानुकूल्यतः ॥ ६२ ॥
पूर्वाह्णे दैविकं कर्म सोकरोत्कर्मकाण्डवित् ॥
मध्यन्दिने मनुष्याणां पितॄणामपराह्नके ॥६३॥
एवं बहुतिथे काले गते तस्याग्रजन्मनः ॥
भार्या शुचिष्मती नाम कामपत्नी वसुव्रता ॥ ६४ ॥
अपश्यन्त्यङ्कुरमपि सन्ततेः स्वर्गसाधनम् ॥
विज्ञाय शङ्कंरं कान्तं प्रणिपत्य व्यजिज्ञपत् ॥ ६५ ॥
शुचिष्मत्युवाच॥
आर्यपुत्रार्यधिषण प्राणनाथ प्रियव्रत ॥
न दुर्लभं ममास्तीह किञ्चित्त्वच्चरणार्चनात् ॥ ६६ ॥
ये वै भोगाः समुचिताः स्त्रीणां ते त्वत्प्रसादतः ॥
अलङ्कृत्य मया भुक्ताः प्रसङ्गाद्वच्मि तान्यपि ॥६७॥
सुवासांसि सुवासाश्च सुशय्या सुनितम्बिनी॥
स्रक्ताम्बूलान्नपानाश्च अष्टौ भोगाः स्वधर्मिणाम् ॥ ६८ ॥
एकं मे प्रार्थितं नाथ चिराय हृदिसंस्थितम् ॥
गृहस्थानां समुचितं तत्त्वं दातुमिहार्हसि ॥ ६९ ॥
विश्वानर उवाच ॥
किमदेयं हि सुश्रोणि तव प्रियहितैषिणि ॥
तत्प्रार्थय महाभागे प्रयच्छाम्यविलम्बितम् ॥4.1.10.७०॥
महेशितुः प्रसादेन मम किञ्चिन्न दुर्ल्भम् ॥
इहामुत्र च कल्याणि सर्वकल्याणकारिणः ॥ ७१ ॥
इति श्रुत्वा वचः पत्युस्तस्य सा पतिदेवता ॥
उवाच हृष्टवदना यदि देयो वरो मम ॥७२॥
वरयोग्यास्मि चेन्नाथ नान्यं वरमहं वृणे ॥
महेशसदृशं पुत्रं देहि माहेश्वरानव ॥ ७३ ॥
इति तस्या वचः श्रुत्वा शुचिष्मत्याः शुचिव्रतः ॥
क्षणं समाधिमाधाय हृ(?)द्येतत्समचिन्तयत् ॥७४॥
अहो किमेतया तन्व्या प्रार्थितं ह्यतिदुर्लभम् ॥
मनोरथपथाद्दूरमस्तुवा स हि सर्वकृत् ॥७५॥
तेनैवास्या मुखे स्थित्वा वाक्स्वरूपेण शम्भुना ॥
व्याहृतं कोऽन्यथाकर्तुमुत्सहेत भवेदिदम् ॥७६॥
ततः प्रोवाच तां पत्नीमेकपत्निव्रते स्थितः ॥
विश्वानरमुनिः श्रीमानिति कान्ते भविष्यति ॥ ७७ ॥
इत्थमाश्वास्य तां पत्नीं जगाम तपसे मुनिः ॥
यत्र विश्वेश्वरः साक्षात्काशीनाथोधितिष्ठति ॥ ७८ ॥
प्राप्य वाराणसीं तूर्णं दृष्ट्वाथ मणिकर्णिकाम् ॥
तत्याज तापत्रितयमपिजन्मशतार्जितम् ॥ ७९ ॥
दृष्ट्वा सर्वाणि लिङ्गानि विश्वेश प्रमुखानि च ॥
स्नात्वा सर्वेषु कुण्डेषु वापीकूटसरःसु च ॥ 4.1.10.८० ॥
नत्वा विनायकान्सर्वान्गौरीः सर्वाः प्रणम्य च ॥
सम्पूज्य कालराजं च भैरवं पापभक्षणम् ॥ ८१ ॥
दण्डनायकमुख्यांश्च गणान्स्तुत्वा प्रयत्नतः ॥
आदिकेशवमुख्यांश्च केशवान्परितोष्य च ॥ ८२ ॥
लोलार्कमुख्य सूर्यांश्च प्रणम्य च पुनः पुनः ॥
कृत्वा पिण्डप्रदानानि सर्वतीर्थेष्वतन्द्रितः ॥ ८३ ॥
सहस्रभोजनाद्यैश्च यतीन्विप्रान्प्रतर्प्य च ॥
महापूजोपचारैश्च लिङ्गान्यभ्यर्च्य भक्तितः ॥ ८४ ॥
असकृच्चिन्तयामास किं लिङ्गं क्षिप्रसिद्धिदम् ॥
यत्र निश्चलतामेति तपस्तनयकाम्यया ॥ ८५ ॥
श्रीमदोङ्कारनाथं वा कृत्तिवासेश्वरं किमु ॥
कालेशं वृद्धकालेशं कलशेश्वरमेव च ॥ ८६ ॥
केदारेशं तु कामेशं चन्द्रेशं वा त्रिलोचनम् ॥
ज्येष्ठेशं जम्बुकेशं वा जैगीषव्येश्वरं तु वा ॥ ८७ ॥
दशाश्वमेधमीशानं द्रुमि चण्डेशमेव च ॥
दृक्केशं गरुडेशं च गोकर्णेशं गणेश्वरम् ॥ ८८ ॥
ढुण्ढ्याशागजसिद्धाख्यं धर्मेशं तारकेश्वरम् ॥
नन्दिकेशं निवासेशं पत्रीशं प्रीतिकेश्वरम् ॥ ८९ ॥
पर्वतेशं पशुपतिं ब्रह्मेशं मध्यमेश्वरम् ॥
बृहस्पतीश्वरं वाथ विभाण्डेश्वरमेव च ॥ 4.1.10.९० ॥
भारभूतेश्वरं किं वा महालक्ष्मीश्वरं तु वा ॥
मरुत्तेशं तु मोक्षेशं गङ्गेशं नर्मदेश्वरम् ॥ ९१ ॥
मार्कण्डं मणिकर्णीश रत्नेश्वरमथापि वा ॥
अथवा योगिनीपीठं साधकस्यैव सिद्धिदम् ॥ ९२ ॥
यामुनेशं लाङ्गलीशं श्रीमद्विश्वेश्वरं विभुम् ॥
अविमुक्तेश्वरं वाथ विशालाक्षीशमेव च ॥ ९३ ॥
व्याघ्रेश्वरं वराहेशं व्यासेशं वृषभध्वजम् ॥
वरुणेशं विधीशं वा वसिष्ठेशं शनीश्वरम् ॥ ९४ ॥
सोमेश्वरं किमिन्द्रेशं स्वर्लीनं सङ्गमेश्वरम् ॥
हरिश्चन्द्रेश्वरं किं वा हरिकेशेश्वरं तु वा॥९५॥
त्रिसन्ध्येशं महादेवमुपशान्ति शिवं तथा॥
भवानीशं कपर्दीशं कन्दुकेशं मखेश्वरम् ॥ ९६ ॥
मित्रावरुणसञ्ज्ञं वा किमेषामाशुपुत्रदम् ॥
क्षणं विचार्य स मुनिरिति विश्वानरः सुधीः ॥ ९७ ॥
आज्ञातं विस्मृतं तावत्फलितो मे मनोरथः ॥
सिद्धैः संसेवितं लिङ्गं सर्वसिद्धिकरं परम् ॥ ९८ ॥
दर्शनात्स्पर्शनाद्यस्य मनो निर्वृतिभाग्भवेत् ॥
उद्घाटितं सदैवास्ते स्वर्गद्वारं हि यत्र वै ॥ ९९ ॥
दिवानिशं पूजनार्थं विज्ञाप्य त्रिदशेश्वरम् ॥
पञ्चमुद्रे महापीठे सिद्धिदे सर्वजन्तुषु ॥ 4.1.10.१०० ॥
यत्र सा विकटा देवी प्रकटा सिद्धिरूपिणी ॥
यत्र स्थितानां भक्तानां साक्षात्सिद्धिविनायकः ॥ १ ॥
निर्धूय विघ्नजालानि सर्वाः सिद्धीः प्रयच्छति ॥
अविमुक्ते महाक्षेत्रे सिद्धिक्षेत्रं हि तत्परम् ॥ २ ॥
यत्र वीरेश्वरं लिङ्गं महागुह्यतमं मतम् ॥
तिलान्तरापि नो काश्यां भूमिर्लिङ्गं विना क्वचित् ॥ ३ ॥
परं वीरेश सदृशं न लिङ्गं त्वाशुसिद्धिदम् ॥
धर्मदं चार्थदं सम्यक्कामदं मोक्षदं तथा ॥४॥
यथा वीरेश्वरं लिङ्गं काश्यां नान्यत्तथा धुवम् ॥
पञ्चस्वरोत्र गन्धर्वः परां सिद्धिमगात्पुरा॥५॥
विद्याधरः स्वच्छविद्यो वसुपूर्णश्च यक्षराट् ॥
नृत्यन्ती निजभावेन पुराह्यत्राप्सरोवरा ॥ ६ ॥
सदेहा कोकिलालापा लिङ्गमध्ये लयं गता ॥
ऋषिर्वेदशिरा नाम जपन्वै शतरुद्रियम् ॥ ७ ॥
मन्त्रज्योतिर्मये लिङ्गे सशरीरो विशत्पुरा ॥
चन्द्रमौलि भरद्वाजावुभौ पाशुपतोत्तमौ ॥ ८ ॥
वीरेश्वरं समभ्यर्च्य गायमानौ लयं गतौ ॥
शङ्खचूडो हि नागेन्द्रः स्वफणामणिभिर्निशि ॥ ९ ॥
षण्मासात्सिद्धिमगमद्बहुनीराजनैरिह ॥
किन्नरी हंसपद्यत्र भर्त्रा वेणुप्रियेण वै ॥ 4.1.10.११० ॥
गायन्ती सुस्वरं याता परां निर्वाणभूमिकाम् ॥
असङ्ख्याताः सहस्राणि सिद्धाः सिद्धिमिहागताः ॥ ११ ॥
सिद्धलिङ्गमिहाख्यातं तस्माद्वीरेश्वरं परम् ॥ १२ ॥
वीरेश्वरं समाराध्य भ्रष्टराज्यो जयद्रथः ॥
हत्वा रिपूनस्खलितं राज्यं प्राप विदेहजः ॥ १३ ॥
विदूरथोऽथ नृपतिरपुत्रः पुत्रवानभूत् ॥
वीरेश्वरप्रसादेन मगधाधिपतिर्वशी ॥ १४ ॥
वसुदत्तोत्र च वणिक्सुतां वसुसुतोपमाम् ॥
अब्दमभ्यर्च्य वीरेशं रत्नदत्तोप्यवाप्तवान् ॥ १५ ॥
अहमप्यत्र वीरेशं समाराध्यत्रिकालतः ॥
आशु पुत्रमवाप्स्यामि यथाभिलषितं स्त्रिया ॥ १६ ॥
इति कृत्वा मतिं धीरो विप्रो विश्वानरः कृती ॥
चन्द्र्कूपजलैः स्नात्वा जग्राह नियमं व्रती ॥ १७ ॥
एकाहारोभवन्मासं मासं नक्ताशनोभवत ॥
अयाचिताशनो मासं मासं त्यक्ताशनः पुनः ॥ १८ ॥
पयोव्रतोभवन्मासं मासं शाकफलाशनः ॥
मासं मुष्टितिलाहारो मासं पानीयभोजनः ॥ १९ ॥
पञ्चगव्याशनो मासं मासं चान्द्रायणव्रती ॥
मासं कुशाग्रजलभुङ्मासं श्वसनभक्षणः ॥ 4.1.10.१२० ॥
अथ त्रयोदशे मासि स्नात्वा त्रिपथगाम्भसि ॥
प्रत्यूष एव वीरेशं यावदायाति स द्विजः ॥ २१ ॥
तावद्विलोकयाञ्चक्रे मध्ये लिङ्गं तपोधनः ॥
विभूतिभूषितं बालमष्टवर्षाकृतिं शुभम् ॥२२॥
आकर्णपूर्णनेत्रं च सुरक्तदशनच्छदम् ॥
चारुपिङ्गजटामौलिं नग्नं प्रहसिताननम् ॥ २३ ॥
शैशवोचितनेपथ्यधारिणं चित्तहारिणम् ॥
पठन्तं श्रुतिसूक्तानि हसन्तं च स्वलीलया ॥ २४ ॥
तमालोक्य स्तुतिं चक्रे रोमकञ्चुकितो मुदा ॥
प्रोच्चरद्गद्गदालापो नमोस्त्विति पुनः पुनः ॥ २५ ॥
विश्वानर उवाच ॥ ॥
एकब्रह्मैवाद्वितीयं समस्तं सत्यं सत्यं नेहनानास्ति किञ्चित् ॥
एको रुद्रो न द्वितीयोवतस्थे तस्मादेकं त्वां प्रपद्ये महेशम् ॥ २६ ॥
एकः कर्ता त्वं हि सर्वस्य शम्भो नानारूपेष्वेकरूपोस्य रूपः ॥
यद्वत्प्रत्यप्स्वर्क एकोप्यनेकस्तस्मान्नान्यं त्वां विनेशं प्रपद्ये ॥२७॥
रज्जौ सर्पः शुक्तिकायां च रूप्यन्नैरःपूरस्तन्मृगाख्ये मरीचौ ॥
यद्वत्तद्वद्विष्वगेष प्रपञ्चो यस्मिञ्ज्ञाते तं प्रपद्ये महेशम् ॥ २८ ॥
तोये शैत्यं दाहकत्वं च वह्नौ तापो भानौ शीत भानौप्रसादः ॥
पुष्पे गन्धो दुग्धमध्येपि सर्पिर्यत्तच्छम्भो त्वं ततस्त्वां प्रपद्ये ॥ २९ ॥
शब्दं गृह्णास्यश्रवास्त्वं हि जिघ्रेरघ्राणस्त्वं व्यङ्घ्रिरायासि दूरात् ॥
व्यक्षः पश्येस्त्वं रसज्ञोप्यजिह्वः कस्त्वां सम्यग्वेत्त्यतस्त्वां प्रपद्ये ॥ 4.1.10.१३० ॥
नोवेदस्त्वामीश साक्षाद्धिवेदनो वा विष्णुर्नोविधाताऽखिलस्य ॥
नो योगीन्द्रानेन्द्रमुख्याश्च देवा भक्तो वेद त्वामतस्त्वां प्रपद्ये ॥ ३१ ॥
नो ते गोत्रं नेशजन्मापिनाख्यानो वा रूपं नैव शीलं न देशः ॥
इत्थम्भूतोपीश्वरस्त्वं त्रिलोक्याः सर्वान्कामान्पूरयेस्तद्भजे त्वाम् ॥ ३२ ॥
त्वत्तः सर्वं त्वं हि सर्वं स्मरारे त्वं गौरीशस्त्वं च नग्नोऽतिशान्तः ॥
त्वं वै वृद्धस्त्वं युवा त्वं च बालस्तत्त्वं यत्किन्नास्यतस्त्वां नतोस्मि ॥ ३३ ॥
स्तुत्वेति भूमौ निपपात विप्रः स दण्डवद्यावदतीव हृष्टः ॥
तावत्स बालोखिलवृद्धवृद्धः प्रोवाच भूदेव वरं वृणीहि ॥ ३४ ॥
तत उत्थाय हृष्टात्मा मुनिर्विश्वानरः कृती ॥
प्रत्यब्रवीत्किमज्ञातं सर्वज्ञस्य तव प्रभो ॥ ३५ ॥
सर्वान्तरात्मा भगवान्सर्वः सर्वप्रदो भवान् ॥
याच्ञां प्रतिनियुङ्क्ते मां किमीशो दैन्यकारिणीम् ॥ ३६ ॥
इति श्रुत्वा वचस्तस्य देवो विश्वानरस्य ह ॥
शुचेः शुचिव्रतस्याशु शुचिस्मित्वाब्रवीच्छिशुः ॥ ३७ ॥
बाल उवाच ॥
त्वया शुचे शुचिष्मत्यां योभिलाषः कृतो हृदि ॥
अचिरेणैवकालेन स भविष्यत्यसंशयः ॥ ३८ ॥
तव पुत्रत्वमेष्यामि शुचिष्मत्यां महामते ॥
ख्यातो गृहपतिर्नाम्ना शुचिः सर्वामरप्रियः ॥ ३९ ॥
अभिलाषाष्टकं पुण्यं स्तोत्रमेतत्त्वयेरितम् ॥
अब्दं त्रिकालपठनात्कामदं शिवसन्निधौ ॥ 4.1.10.१४० ॥
एतत्स्तोत्रस्य पठनं पुत्र पौत्र धनप्रदम् ॥
सर्वशान्तिकरं चापि सर्वापत्परिनाशनम् ॥ ४१ ॥
स्वर्गापवर्ग सम्पत्तिकारकं नात्र संशयः ॥
प्रातरुत्थाय सुस्नातो लिङ्गमभ्यर्च्य शाम्भवम् ॥ ४२ ॥
वर्षं जपन्निदं स्तोत्रमपुत्रः पुत्रवान्भवेत् ॥
वैशाखे कार्तिके माघे विशेषनियमैर्युतः ॥ ४३ ॥
यः पठेत्स्नानसमये स लभेत्सकलं फलम् ॥
कार्तिकस्य तु मासस्य प्रसादादहमव्ययः ॥ ४४ ॥
तव पुत्रत्वमेष्यामि यस्त्वन्यस्तत्पठिष्यति ॥
अभिलाषाष्टकमिदं न देयं यस्य कस्यचित् ॥ ४५ ॥
गोपनीयं प्रयत्नेन महावन्ध्याप्रसूतिकृत् ॥
स्त्रिया वा पुरुषेणापि नियमाल्लिङ्ग सन्निधौ ॥ ४६ ॥
अब्दं जप्तमिदं स्तोत्रं पुत्रदं नात्र संशयः ॥
इत्युक्त्वान्तर्दधे बालः सोपि विप्रो गृहं गतः ॥ १४७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्यां संहितायां चतुर्थे काशीखण्डे पूवार्द्धे इन्द्राग्निलोकवर्णनन्नाम दशमोऽध्यायः ॥ १० ॥