००९ अप्सरःसूर्यलोकवर्णनम्

॥ शिवशर्मोवाच ॥
का इमा रूपलावण्य सौभाग्यनिधयः स्त्रियः ॥
दिव्यालङ्कारधारिण्यो दिव्यभोगसमन्विताः ॥ १ ॥
॥ गणावूचतुः ॥ ॥
एता वारविलासिन्यो यज्ञभाजां प्रियङ्कराः ॥
गीतज्ञा नृत्यकुशला वाद्यविद्या विचक्षणाः ॥२॥
कामकेलिकलाभिज्ञा द्यूतविद्याविशारदाः ॥
रसज्ञा भाववेदिन्यश्चतुराश्चोचितोक्तिषु ॥ ३ ॥
नानादेश विशेषज्ञा नानाभाषा सुकोविदाः ॥
सङ्केतोदन्तनिपुणा नैकास्वैरचरा मुदा ॥ ४ ॥
लीलानर्मसुसाभिज्ञाः सुप्रलापेषु पण्डिताः ॥
यूनां मनांसि सततं स्वैर्हावै रमयन्त्यमूः ॥५॥
निर्मथ्यमानात्क्षीरोदात्पूर्वमप्सरसस्त्वमूः ॥
निःसृतास्त्रिजगज्जेतुर्मोहनास्त्रमनोभुवः ॥ ६ ॥
उर्वशी मेनका रम्भा चन्द्रलेखा तिलोत्तमा ॥
वपुष्मतीकान्तिमती लीलावत्युत्पलावती ॥ ७ ॥
अलम्बुषा गुणवती स्थूलकेशी कलावती ॥
कलानिधिर्गुणनिधिः कर्पूरतिलकोर्वरा ॥ ८ ॥
अनङ्गलतिका चापि तथा मदनमोहिनी ॥
चकोराक्षी चन्द्रकला तथा मुनिमनोहरा ॥ ९ ॥
ग्रावद्रावा तपोद्वेष्टी चारुनासा सुकर्णिका ॥
दारुसञ्जीविनी सुश्रीः क्रतुशुल्का शुभानना ॥ 4.1.9.१० ॥
तपःशुल्का तीर्थशुल्का दानशुल्का हिमावती ॥
पञ्चाश्वमेधिका चैव राजसूयार्थिनी तथा ॥ ११ ॥
अष्टाग्निहोमिका तद्वद्वाजपेयशतोद्भवा ॥
इत्याद्यप्सरसां श्रेष्ठं सहस्रं षष्टिसम्मितम् ॥ १२ ॥
एतस्मिन्नप्सरोलोके वसन्त्यन्या अपिस्त्रियः ॥
सदा स्खलितलावण्याः सदास्खलितयौवनाः ॥ १३ ॥
दिव्याम्बरा दिव्यमाल्या दिव्यगन्धानुलेपनाः ॥
दिव्यभोगैः सुसम्पन्नाः स्वेच्छाविधृतविग्रहाः ॥१४॥
कृत्वा मासोपवासानि स्खलन्ति ब्रह्मचर्यतः ॥
सकृदेव द्विकृत्वो वा त्रिःकृत्वो दैवयोगतः ॥१५॥
ता इमा दिव्यभोगिन्यो रूपलावण्यसम्पदः॥
निवसन्त्यप्सरोलोके सर्वकामसमन्विताः ॥१६॥
कृत्वा व्रतानि साङ्गानि कामिकानि विधानतः ॥
भवन्ति स्वैरचारिण्यो देवभोग्या इहागताः ॥ १७ ॥
पतिव्रतधृता नार्यो बलेन बलिना धृताः ॥
भर्तबुद्ध्यारमन्तेतं(?) कदाचित्ता इमा द्विज ॥१८ ॥
भर्तरि प्रोषिते याश्च ब्रह्मचर्यव्रताः सदा ॥
विप्लवं ते सकृद्दैवात्ता एता वामलोचनाः॥१९॥
कुसुमानि सुगन्धीनि सुवासं चन्दनं तथा ॥
सुगौरं चापि कर्पूरं सुसूक्ष्माण्यम्बराणि च ॥ 4.1.9.२० ॥
पर्णानि ऋजुताराणि जीर्णानि कठिनानि च ॥
साग्राणि स्वर्णवर्णानि स्थूलनीलशिराणि च ॥ २१ ॥
सुवासोपस्कराढ्यानि नागवल्ल्या द्विजोत्तम ॥
शय्याविचित्राभरणा रतिशालोचितानि च ॥ २२ ॥
बहुकौतुकवस्तूनि समर्च्यद्विजदम्पती ॥
भोगदानमिदं काम्यं प्रतिसङ्क्रमणं रवेः ॥ २३ ॥
किंवा प्रतिव्यतीपातमेकसंवत्सरावधि॥
कोदादिति च मन्त्रेण या दद्याद्वरवर्णिनी॥२४॥
कामरूपधरो देवः प्रीयतामिति वादिनी ॥
सा श्रेष्ठाऽप्सरसां मध्ये वसेत्कल्पमिहाङ्गना ॥२५॥
कन्यारूपधराकाचिद्याभुक्ता केनचित्क्वचित् ॥
देवरूपेण तं कालमारभ्य ब्रह्मचारिणी ॥ २६ ॥
तदेव वृत्तं ध्यायन्ती निधनं याति कालतः ॥
दिव्यरूपधरा सेह जायते दिव्य भोगभाक् ॥ २७ ॥
निदानमप्सरोलोकस्येतिशृण्वन्द्विजाग्रणीः ॥
सौरं लोकमथ प्राप्य क्षणेन स विमानगः ॥ २८ ॥
यथा कदम्बकुसुमं किञ्जल्कैः सर्वतोवृतम् ॥
देदीप्यमानं हि तथा समन्ताद्भानुभानुभिः ॥ २९ ॥
दूराद्रविं स विज्ञाय धृततामरसद्वयम् ॥
नवभिर्योजनानां च सहस्रैः सम्मितेन ह ॥ 4.1.9.३० ॥
विचित्रेणैकचक्रेण सप्तसप्तियुतेन च ॥
अनूरुणाधिष्ठितेन पुरतोधृतरश्मिना ॥ ३१ ॥
अप्सरोमुनिगन्धर्व सर्पग्रामणि नैर्ऋतैः ॥
स्यन्दनेनातिजविना प्रणनाम कृताञ्जलिः ॥ ३२ ॥
तस्य प्रणामन्देवोपि भ्रूभङ्गेनानुमन्य च॥
अतिदूरं नभोवर्त्म व्यतिचक्राम सक्षणात् ॥ ३३ ॥
प्रक्रान्ते द्युमणौ दूरं शिवशर्मातिशर्मवान् ॥
प्रोवाच भगवद्भक्तौ कथं लभ्यं रवेः पदम् ॥ ३४ ॥
एतदिच्छाम्यहं श्रोतुमाचक्षाथां ममाग्रतः ॥
सतां साप्तपदी मैत्री तन्मे मैत्र्या प्रणोदितौ ॥ ३५ ॥
॥ गणावूचतुः ॥
शृणु द्विज महाप्राज्ञ त्वय्यकथ्यं न किञ्चन ॥
सत्सङ्गादेव साधूनां सत्कथा सम्प्रवर्तते ॥ ३६ ॥
नियन्ता सर्वभूतानां य एकःकारणं परम् ॥
अनामा गोत्ररहितो रूपादि परिवर्जितः ॥ ३७ ॥
आविर्भाव तिरोभावौ यद्भूनर्तनवर्तिनौ ॥
स एव वक्ति सततं सर्वात्मा वेदपूरुषः ॥ ३८ ॥
योसावादित्यपुरुषः सोसावहमिति स्फुटम् ॥
अन्धतमः प्रविशन्ति ये चैवान्यमुपासते ॥ ३९ ॥
निश्चितार्थां श्रुतिमिमां ब्राह्मणासो द्विजोत्तम ॥
तमेकमुपतिष्ठन्ते निश्चित्येति पुनःपुनः ॥ 4.1.9.४० ॥
उपलभ्य च सावित्रीं नोपतिष्ठेत यः पराम् ॥
काले त्रिकालं सप्ताहात्स पतेन्नात्र संशयः ॥४१॥
तावत्प्रातर्जपंस्तिष्ठेद्यावदर्धोदयो रवेः ॥
आसनस्थो जपेन्मौनी प्रत्यगातारकोदयात् ॥ ४२ ॥
सादित्यां मध्यमां सन्ध्यां जपेदादित्यसम्मुखः ॥
काललोपो न कर्तव्यस्ततः कालं प्रतीक्षयेत् ॥ ४३ ॥
काले फलन्त्योषधयः काले पुष्पन्ति पादपाः ॥
वर्षन्ति तोयदाः काले तस्मात्कालं न लङ्घयेत् ॥ ४४ ॥
मन्देहदेहनाशार्थमुदयास्तमये रविः ॥
समीहते द्विजोत्सृष्टं मन्त्रतोयाञ्जलित्रयम् ॥ ४५ ॥
गायत्रीमन्त्रतोयाढ्यं दत्तं येनाञ्जलित्रयम् ॥
काले सवित्रे किं न स्यात्तेन दत्तं जगत्त्रयम् ॥ ४६ ॥
किं किं न सविता सूते काले सम्यगुपासितः ॥
आयुरारोग्यमैश्वर्यं वसूनि सपशूनि च ॥ ४७ ॥
मित्रपुत्र कलत्राणि क्षेत्राणि विविधानि च ॥
भोगानष्टविधांश्चापि स्वर्गं चाप्यपवर्गकम् ॥ ४८ ॥
अष्टादश सुविद्यासु मीमांसातिगरीयसी ॥
ततोपि तर्कशास्त्राणि पुराणं तेभ्य एव च ॥ ४९ ॥
ततोपि धर्मशास्त्राणि तेभ्यो गुर्वी श्रुतिर्द्विज ॥
ततोप्युपनिषच्छ्रेष्ठा गायत्री च ततोधिका ॥ 4.1.9.५० ॥
दुर्लभा सर्वमन्त्रेषु गायत्री प्रणवान्विता ॥
न गायत्र्याधिकं किञ्चित्त्रयीषु परिगीयते ॥ ५१ ॥
न गायत्री समो मन्त्रो न काशी सदृशी पुरी ॥
न विश्वेश समं लिङ्गं सत्यंसत्यं पुनःपुनः ॥ ५२ ॥
गायत्री वेदजननी गायत्री ब्राह्मणप्रसूः ॥
गातारं त्रायते यस्माद्गायत्री तेन गीयते ॥ ५३ ॥
वाच्यवाचकसम्बन्धो गायत्र्याः सवितुर्द्वयोः ॥
वाच्योसौ सविता साक्षाद्गायत्रीवाचिकापरा ॥ ५४ ॥
प्रभावेणैव गायत्र्याः क्षत्रियः कौशिको वशी ॥
राजर्षित्वं परित्यज्य ब्रह्मर्षिपदमीयिवान्॥५५॥
सामर्थ्यं प्राप चात्युच्चैरन्यद्भुवनसर्जने ॥
किं किं न दद्याद्गायत्री सम्यगेवमुपासिता ॥ ५६ ॥
न ब्राह्मणो वेदपाठान्न शास्त्रपठनादपि ॥
देव्यास्त्रिकालमभ्यासाद्बाह्मणः स्याद्धि नान्यथा ॥ ५७ ॥
गायत्र्येव परं विष्णुर्गायत्र्येव परःशिवः ॥
गायत्र्येव परोब्रह्मा गायत्र्येव त्रयी ततः ॥ ५८ ॥
देवत्रयं स भगवानंशुमाली दिवाकरः ॥
सर्वेषां महसां राशिः कालकालप्रवर्तकः ॥ ५९ ॥
अर्कमुद्दिश्य सततमस्मल्लोकनिवासिनः ॥
श्रुतिं ह्युदाहरन्तीमां सारासारविवेकिनः ॥4.1.9.६०॥
एषो ह देवः प्रदिशोनु सर्वाः पूर्वो ह जातः स उ गर्भे अन्तः ॥
स एव जातः स जनिष्यमाणः प्रत्यङ्जानास्तिष्ठति सर्वतोमुखः ॥ ६१ ॥
सदैवमुपतिष्ठेरन्सौरसूक्तैरतन्द्रिताः ॥
ये नमन्त्यत्र ते विप्रा विप्रा भास्करसन्निभाः ॥ ६२ ॥
पुष्यार्केप्यथ हस्तार्के मूलार्केप्यथवा द्विज ॥
उत्तरार्केऽथ यत्कार्यं तत्फलत्येव नान्यथा ॥ ६३ ॥
पौषे मास्यर्कदिवसे यः स्नात्वा भास्करोदये ॥
दानहोमञ्जपङ्कुर्यादर्चामर्कस्य सुव्रत ॥ ६४ ॥
श्रद्धावानेकभक्तश्च कामक्रोधविवर्जितः ॥
सहाप्सरोभिर्द्युतिमान्स वसेदत्र भोगवान् ॥ ६५ ॥
अयने विषुवे चापि षडशीतिमुखेषु वा ॥
विष्णुपद्यां च ये दद्युर्महादानानि सुव्रताः ॥ ६६ ॥
तिलाञ्जुह्वति साज्यांश्च ब्राह्मणान्भोजयन्ति च ॥
पितॄनुद्दिश्य च श्राद्धं ये कुर्वन्ति विपश्चितः ॥ ६७ ॥
महापूजां च ये कुर्युर्महामन्त्राञ्जपन्ति च ॥
तेऽत्र वैकर्तने लोके विकर्तनसमप्रभा ॥६८॥
न दरिद्रा न च दुःखार्ता न व्याधि परिपीडिताः ॥
सङ्क्रमेष्वर्कभक्ता ये न विरूपा न दुर्भगाः ॥६९॥
सङ्क्रमेषु न यैर्दत्तं न स्नातं तीर्थवारिषु॥
विशेषहोमो न कृतः कपिलाज्याप्लुतैस्तिलैः ॥ 4.1.9.७० ॥
ते दृश्यन्ते प्रतिद्वारं विहीन नयनाननाः ॥
देहिदेहीति जल्पन्तो देहिनः सपटच्चराः ॥ ७१ ॥
समं कृष्णलकेनापि यो दद्यात्काञ्चनं कृती ॥
सूर्यग्रहे कुरुक्षेत्रे स वसेदत्र पुण्यभाक् ॥ ७२ ॥
सर्वं गङ्गासमं तोयं सर्वे ब्रह्मसमा द्विजाः ॥
सर्वं देयं स्वर्णसमं राहुग्रस्ते दिवाकरे ॥ ७३ ॥
दत्तं जप्तं हुतं स्नातं यत्किञ्चित्सदनुष्ठितम्॥
भानूपरागे श्राद्धादि तद्धेतुर्ब्रध्न सन्निधे ॥७४॥
रविवारे सङ्क्रमश्चेदुपरागोऽथवाभवेत् ॥
तदा यदर्जितं पुण्यं तदिहाक्षयमाप्यते ॥ ७५ ॥
भानुवारो यदा षष्ठ्यां सप्तम्यामथ जायते ॥
तदा यत्सुकृतं कर्म कृतं तदिह भुज्यते ॥ ७६ ॥
हंसो भानुः सहस्रांशुस्तपनस्तापनो रवि ॥
विकर्तनो विवस्वांश्च विश्वकर्मा विभावसुः ॥ ७७ ॥
विश्वरूपो विश्वकर्ता मार्तण्डो मिहिरोंऽशुमान् ॥
आदित्यश्चोष्णगुः सूर्योऽर्यमा ब्रध्नो दिवाकरः ॥ ७८ ॥
द्वादशात्मा सप्तहयो भास्करो हस्करः खगः ॥
सुरः प्रभाकरः श्रीमाल्ँलोकचक्षुर्ग्रहेश्वरः ॥ ७९ ॥
त्रिलोकेशो लोकसाक्षीतमोरिः शाश्वतः शुचिः ॥
गभस्तिहस्तस्तीव्रांशुस्तरणिः सुमहोरणिः ॥4.1.9.८०॥
द्युमणिर्हरिदश्वोर्को भानुमान्भयनाशनः॥
छन्दोश्वो वेदवेद्यश्च भास्वान्पूषा वृषाकपिः ॥ ८१ ॥
एकचक्ररथो मित्रो मन्देहारिस्तमिस्रहा ॥
दैत्यहा पापहर्ता च धर्मोधर्म प्रकाशकः ॥ ८२ ॥
हेलिकश्चित्रभानुश्च कलिघ्नस्तार्क्ष्यवाहनः ॥
दिक्पतिः पद्मिनीनाथः कुशेशयकरो हरिः ॥ ८३ ॥
घर्मरश्मिर्दुर्निरीक्ष्यश्चण्डांशुः कश्यपात्मजः ॥
एभिः सप्ततिसङ्ख्याकैः पुण्यैः सूर्यस्य नामभिः ॥ ८४ ॥
प्रणवादि चतुर्थ्यन्तैर्नमस्कार समन्वितैः ॥
प्रत्येकमुच्चरन्नाम दृष्ट्वादृष्ट्वा दिवाकरम्॥ ८५ ॥
विगृह्य पाणियुग्मेन ताम्रपात्रं सुनिर्मलम् ॥
जानुभ्यामवनिं गत्वा परिपूर्य जलेन च ॥ ८६ ॥
करवीरादि कुसुमै रक्तचन्दनमिश्रितैः ॥
दूर्वाङ्कुरैरक्षतैश्च निक्षिप्तैः पात्रमध्यतः ॥ ८७ ॥
दद्यादर्घ्यमनर्घ्याय सवित्रे ध्यानपूर्वकम् ॥
उपमौलि समानीय तत्पात्रं नान्यदृङ्मनाः ॥ ८८ ॥
प्रतिमन्त्रं नमस्कुर्यादुदयास्तमये रविम् ॥
अनया नामसप्तत्या महामन्त्ररहस्यया ॥ ८९ ॥
एवं कुर्वन्नरो जातु न दरिद्रो न दुःखभाक् ॥
व्याधिभिर्मुच्यते घोरैरपिजन्मान्तरार्जितैः ॥ 4.1.9.९० ॥
विनौषधैर्विना वैद्यैर्विनापथ्यपरिग्रहैः ॥
कालेन निधनं प्राप्तः सूर्यलोके महीयते ॥ ९१ ॥
इत्येकदेशः कथितो भानुलोकस्य सत्तम ॥
महातेजोनिधेरस्य कोविशेषमवैत्यहो ॥ ९२ ॥
स्वकर्णविषयीकुर्वन्नितिपुण्यकथामिमाम् ॥
क्षणादालोकयाञ्चक्रे महेन्द्रस्य महापुरीम् ॥ ९३ ॥
॥ अगस्तिरुवाच ॥ ॥
श्रुत्वा सौरीं कथमेतामप्सरोलोकसंयुताम् ॥
न दरिद्रो भवेत्क्वापि नाधर्मेषु प्रवर्तते ॥ ९४ ॥
ब्राह्मणैः सततं श्राव्यमिदमाख्यानमुत्तमम् ॥
वेदपाठेन यत्पुण्यं तत्पुण्यफलदायकम् ॥ ९५ ॥
ब्राह्मणाः क्षत्रिया वैश्याः शृण्वन्तोऽध्यायमुत्तमम् ॥
पातकानि विसृज्येह गतिं यास्यन्त्यनुत्तमाम् ॥ ९६ ॥
इति श्रीस्कान्दमहापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्धे अप्सरःसूर्यलोकवर्णनन्नामनवमोऽध्यायः ॥ ॥।९॥