॥ लोपामुद्रोवाच ॥ ॥
जीवितेश कथामेतां पुण्यां पुण्यपुरीश्रिताम् ॥
न तृप्तिमधिगच्छामि श्रुत्वा त्वच्छ्रीमुखेरिताम् ॥ १ ॥
मायापुर्यां मुक्तिपुर्यां शिवशर्मा द्विजोत्तमः ॥
मृतोपि मोक्षं नैवाप ब्रूहि तत्कारणं विभो ॥ २ ॥
॥ अगस्त्य उवाच ॥ ॥
साक्षन्मोक्षो न चैतासु पुरीषु प्रियभाषिणि ॥
पुरोद्दिश्यामुमेवार्थमितिहासो मयाश्रुतः ॥ ३ ॥
शृणु कान्ते विचित्रार्थां कथां पापप्रणाशिनीम् ॥
पुण्यशीलसुशीलाभ्यां कथितां शिवशर्मणे ॥४॥
शिवशर्मोवाच ॥
अयि विष्णुगणौ पुण्यौ पुण्डरीकदलेक्षणौ ॥
किञ्चिद्विज्ञप्तुकामोहं प्रवृद्धकरसम्पुटः ॥ ५ ॥
न नाम युवयोर्वेद्मि वेद्म्याकृत्या च किञ्चन ॥
पुण्यशीलसुशीलाख्यौ युवां भवितुमर्हथः ॥ ६ ॥
॥ गणा वूचतुः ॥ ॥
भगवद्भक्तियुक्तानां किमज्ञातं भवादृशाम् ॥
एतदेव हि नौ नाम यदुक्तं श्रीमता त्वया ॥ ७ ॥
यदन्यदपि ते चित्ते प्रष्टव्यं तदशङ्कितम् ॥
सम्पृच्छस्व महाप्राज्ञ प्रीत्या तत्प्रब्रवावहे ॥ ८ ॥
इति श्रुत्वा स वचनं भगवद्गणभाषितम् ॥
अतिप्रीतिकरं हृद्यं ततस्तौ प्रत्युवाच ह ॥ ९ ॥
॥ दिव्य द्विज उवाच ॥ ॥
क एष लोको ऽल्पश्रीकः स्वल्पपुण्यजनाकृतिः ॥
क इमे विकृताकारा ब्रूतमेतन्ममाग्रतः ॥ 4.1.8.१० ॥ ॥
॥ गणावूचतुः ॥ ॥
अयं पिशाचलोकोत्र वसन्ति पिशिताशनाः ॥
दत्त्वानुतापभाजो ये नोनो कृत्वा ददत्यपि ॥११॥
शिवं प्रसङ्गतोभ्यर्च्य सकृत्त्वशुचिचेतसः ॥
अल्पपुण्याल्पलक्ष्मी काः पिशाचास्त इमे सखे ॥ १२ ॥
ततो गच्छन्ददर्शाग्रे हृष्टपुष्टजनावृतम् ॥
पिचण्डिलैः स्थूलवक्त्रैर्मेघगम्भीरनिःस्वनैः ॥ १३ ॥
लोकैरप्युषितं लोकं श्यामलाङ्गैश्च लोमशैः ॥
गणौ कथयतां केमी को लोकः पुण्यतः कुतः ॥ १४ ॥ ॥
॥ गणावूचतुः ॥ ॥
गुह्यकानामयं लोकस्त्वेते वै गुह्यकाः स्मृताः ॥
न्यायेनोपार्ज्य वित्तानि गूहयन्ति च ये भुवि ॥ १५ ॥
स्वमार्गगाधनाढ्याश्च शूद्रप्रायाः कुटुम्बिनः ॥
संविभज्य च भोक्तारः क्रोधासूयाविवर्जिताः ॥ १६ ॥
न तिथिं नैव वारं च सङ्क्रात्यादि न पर्व च ॥
नाधर्मं न च धर्मं च विदन्त्येते सदा सुखाः ॥१७॥
एकमेव हि जानन्ति कुलपूज्यो हि यो द्विजः ॥
तस्मै गाः सम्प्रयच्छन्ति मन्यन्ते तद्वचःस्फुटम् ॥१८ ॥
समृद्धिभाजोह्यत्रापि तेन पुण्येन गुह्यकाः ॥
भुञ्जते स्वर्गसौख्यानि देववच्चाकुतोभयाः ॥ १९ ॥
ततो विलोकयामास लोकं लोचनशर्मदम् ॥
केऽमी जनास्त्वसौ लोकः किन्नामा वदतां गणौ ॥ 4.1.8.२० ॥
॥ गणावूचतुः ॥ ॥
गान्धर्वस्त्वेषलोकोऽमी गन्धर्वाश्च शुभव्रताः॥
देवानां गायनाद्येते चारणाः स्तुतिपाठकाः ॥ २१ ॥
गीतज्ञा अतिगीतेन तोषयन्ति नराधिपान् ॥
स्तुवन्ति च धनाढ्यांश्च धनलोभेन मोहिता. ॥ २२ ॥
राज्ञां प्रसादलब्धानि सुवासांसि धनान्यपि॥
द्रव्याण्यपि सुगन्धीनि कर्पूरादीन्यनेकशः ॥ २३ ॥
ब्राह्मणेभ्यः प्रयच्छन्ति गीतं गायन्त्यहर्निशम् ॥
श्रुतावेव मनस्तेषां नाट्यशास्त्रकृतश्रमाः ॥ २४ ॥
तेन पुण्येन गान्धर्वो लोकस्त्वेषां विशिष्यते ॥
ब्राह्मणास्तोषिता यद्वै गीतविद्यार्जितैर्धनैः ॥ २५ ॥
गीतविद्याप्रभावेन देवर्षिर्नारदो महान् ॥
मान्यो वैष्णवलोके वै श्रीशम्भोश्चातिवल्लभः ॥ २६ ॥
तुम्बुरुर्ना रदश्चोभौ देवानामतिदुर्लभौ ॥
नादरूपी शिवः साक्षान्नादतत्त्वविदौ हि तौ ॥ २७ ॥
यदि गीतं क्वचिद्गीतं श्रीमद्धरिहरान्तिके ॥
मोक्षस्तु तत्फलं प्राहुः सा न्निध्यमथवा तयोः ॥ २८ ॥
गीतज्ञो यदि गीतेन नाप्नोति परमं पदम् ॥
रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ॥ २९ ॥
अस्मिल्ँलोके सदा कालं स्मृतिरे षा प्रगीयते ॥
तद्गीतमालया पूज्यौ देवौ हरिहरौ सदा ॥ 4.1.8.३० ॥
इति शृण्वन्क्षणात्प्राप पुनरन्यन्मनोहरम् ॥
शिवशर्माथ पप्रच्छ किं सञ्ज्ञं नगरं त्विदम् ॥ ३१ ॥
गणावूचतुः ॥ ॥
असौ वैद्याधरो लोको नाना विद्या विशारदाः ॥
एते विद्यार्थिनामन्नमुपानद्वस्त्रकम्बलम् ॥ ३२ ॥
औषधान्यपि यच्छं ति तत्पीडाशमनानि हि ॥
नानाकलाः शिक्षयन्ति विद्यागर्वविवर्जिताः ॥ ३३ ॥
शिष्यं पुत्रेण पश्यन्ति वस्त्र ताम्बूल भोजनैः ॥
अलङ्कृताश्च सत्कन्या धर्मा दुद्वाहयन्ति च ॥ ३४ ॥
अभिलाषधिया नित्यं पूजयन्तीष्टदेवताः ॥
एतः पुण्यैर्वसन्तीह विद्याधर वरा इमे ॥३५॥
यावदित्थं कथां चक्रुस्तावत्संयमिनीपतिः ॥
धर्मराजोभिसम्प्राप्तो देवदुन्दुभि निःस्वनैः ॥३६॥
सोम्यमूर्तिर्विमानस्थो धर्मज्ञैः परिवारितः ॥
सेवाकर्मसु चतुरैर्भृत्यैस्त्रिचतुरैः सह ॥३७॥
धर्मराज उवाच ॥
साधुसाधु महाबुद्धे शिवशर्मन्द्विजोत्तम ॥
कुलोचितं ब्राह्मणानां भवता प्रतिपादितम् ॥ ३८ ॥
वेदाभ्यासः कृतः पूर्वं गुरवश्चापि तोषिताः ॥
धर्मशास्त्रपुराणे षु दृष्टो धर्मस्त्वयाऽऽदृतः ॥ ३९ ॥
क्षालितं मुक्तिपुर्यद्भिराशुगन्तृशरीरकम् ॥
कोविदोऽस्ति भवानेव जीविते जीवितेतरे ॥ 4.1.8.४० ॥
कलेवरं पूतिगन्धि सदैवाशुचिभाजनम् ॥
सुतीर्थपुण्य पण्येन सम्यग्विनिमितं त्वया ॥ ४१ ॥
अतएवाहि पाण्डित्यमाद्रिंयते विचक्षणाः ॥
अहःक्षेपं न क्षिपन्ति क्षणमेकं हि ते बुधाः ॥ ४२ ॥
निमेषान्पञ्चपान्मर्त्ये प्राणन्ति प्राणिनो ध्रुवम् ॥
तत्रापि न प्रवर्तेयुरघकर्मणि गर्हिते ॥ ४३ ॥
स्थिरापायः सदा कायो न धनं निधनेऽवति ॥
तन्मूढः प्रौढकार्ये किं न यतेत भवानिव ॥४४॥
सत्वरं गत्वरं चायुर्लोकः शोकसमाकुलः ॥
तस्माद्धर्मे मतिः कार्या भवतेव सुधार्मिकैः॥४५॥
सत्कर्मणो विपाकोऽयं तव वन्द्यौ ममाप्यहो ॥
यदेतौ भगवद्भक्तौ सखित्वं भवतो गतौ ॥ ४६ ॥
ममाज्ञा दीयतां तस्मात्साहाय्यं करवाणि किम् ॥
यत्कर्तव्यं मादृशैस्ते तत्कृतं भवतैवहि ॥ ४७ ॥
अद्य धन्यतरोस्मीह यद्दृष्टौ भगवद्गणौ ॥
सेवा सदैव मे ज्ञाप्या श्रीमच्चरणसन्निधौ ॥ ४८ ॥
ततः प्रस्थापितस्ताभ्यां प्राविशत्स्वपुरीं यमः ॥
अप्राक्षीच्च ततो विप्रस्तौ गणौ प्रस्थिते यमे ॥४९ ॥
॥ शिवशर्मोवाच ॥ ॥
साक्षादयं धर्मराजो ननु सौम्यतराकृतिः ॥
धर्म्याण्येव वचांस्यस्य मनः प्रीतिकराणि च ॥ 4.1.8.५० ॥
पुरी संयमनी सेयमतीव शुभलक्षणा ॥
आकर्ण्य यस्य नामापि पापिनोऽतीव बिभ्यति ॥ ५१ ॥
यमरूपं वर्ण यन्ति मर्त्यलोकेऽन्यथा जनाः ॥
अन्यथाऽयं मया दृष्टो ब्रूतं तत्कारणं गणौ ॥ ५२ ॥
केन पश्यन्त्यमुं लोकं निवसन्ति तथात्र के ॥
इदमेवास्य किं रूपं किं चान्यच्च निवेद्यताम् ॥५३॥
॥ गणावूचतुः ॥ ॥
शृणु सौम्य सुसौम्योऽसौ दृश्यतेत्र भवादृशैः॥
धर्ममूर्तिः प्रकृत्यैव निःशङ्कैः पुण्यराशिभिः ॥५४॥
अयमेव हि पिङ्गाक्षः क्रोधरक्तान्तलोचनः ॥
दंष्ट्राकरालवदनो विद्युल्ललनभीषणः ॥ ५५ ॥
ऊर्ध्वकेशोऽतिकृष्णाङ्गः प्रलयाम्बुदनिःस्वनः ॥
कालदण्डोद्यतकरो भुकुटी कुटिलाननः ॥ ५६ ॥
आनयैनं पातयैनं बधानामुञ्च दुर्दम ॥
घातयैनं सुदुर्वृत्तं मूर्ध्नि तीव्रमयोघनैः ॥ ५७ ॥
आताडयैनं दुर्वृत्तं धृत्वा पादौ शिलातले ॥
उत्पाटयास्य नेत्रे त्वं निधाय चरणं गले ॥ ५८ ॥
एतस्य गल्लावुत्फुल्लौ क्षुरेणाशुवि पाटय ॥
पाशेन कण्ठं बद्धास्य समुल्लम्बय भूरुहे ॥ ५९ ॥
विदारयास्य मूर्धानं करपत्रेण दारुवत् ॥
पार्ष्णिघातैर्घ्नतास्यास्यं समुच्चूर्णय दारुणैः ॥ 4.1.8.६० ॥
परदारप्रसृमरं करं छिन्ध्यस्य पापिनः ॥
परदारगृहं यातुः पादौ चास्य विखण्डय ॥ ६१ ॥
सूचीभी रोमकूपेषु तनुं व्यधिहि सर्वतः ॥
दातुः परकलत्राङ्गे नखपङ्क्ती दुरात्मनः ॥ ६२ ॥
परदारमुखाघ्रातुर्मुखे निष्ठीवयास्य हि ॥
वक्तुः परापवादस्य कीलं तीक्ष्णं मुखे क्षिप ॥ ६३ ॥
भर्जयैनं चणकवत्तप्तवालुक कर्परैः ॥
भ्राष्ट्रे विकटवक्त्रत्वं परसन्तापकारिणम् ॥ ६४ ॥
दोषारोपं सदाकर्तुरदोषे क्रूरलोचन ॥
निमज्जयास्य वदनं पूयशोणितकर्दमे ॥ ६५ ॥
अदत्तपरवस्तूनां गृह्णतः करपल्लवम् ॥
आप्लुत्याप्लुत्य तैलेन तप्ताङ्गारे पचोत्कट ॥ ६६ ॥
अपवादं गुरोर्वक्तुर्निन्दाकर्तुः सुपर्वणाम् ॥
तप्तलोहशलाकाश्च मुखे भीषण निक्षिप ॥६७॥
परमर्म स्पृशश्चास्य परच्छिद्रप्रकाशितुः॥
सुतप्तायोमयाञ्च्छङ्कून्सर्वसन्धिषु रोपय ॥ ६८ ॥
अन्ये न दीयमाने स्वे निषेद्धुःपापकारिणः ॥
आच्छेत्तुः परवृत्तीनां जिह्वां छिन्ध्यस्य दुर्मुख ॥६९॥
देवस्वभोक्तुः क्रोडास्य ब्राह्मणस्वस्यभोजिनः ॥
विदार्योदरमस्याशु विट्कीटैः परिपूरय ॥ 4.1.8.७० ॥
न देवार्थे न विप्रार्थे नातिथ्यर्थे पचेत्क्वचित् ॥
तममुं स्वार्थपक्तारं कुम्भीपाके पचान्धक ॥ ७१ ॥
उग्रास्य शिशुहन्तारममुं विश्रम्भघातिनम् ॥
कृतघ्नं नय वेगेन महारौरव रौरवम् ॥ ७२ ॥
ब्रह्मघ्नं चान्धतामिस्रे सुरापं पूयशोणिते ॥
कालसूत्रे हेमचौरमवीचौ गुरुतल्पगम् ॥७३॥
तत्संसर्गिणमावर्षमसिपत्रवने तथा ॥
एतान्महापातकिनस्तप्ततैलकटाहके ॥ ७४ ॥
आप्लुत्याप्लुत्य दुर्दंष्ट्रकाकोलैर्लोहतुण्डकैः ॥
सन्तोद्यमानान्पापिष्ठान्नित्यं कल्पं निवासय ॥ ७५ ॥
स्त्रीघ्नं गोघ्नं च मित्रघ्नं कूटशाल्मलिपादपे॥
उल्लम्बय चिरङ्कालमूर्ध्वपादमधोमुखम् ॥७६॥
त्वचमस्य च सन्दंशैस्त्रोटय त्वं महाभुज॥
आश्लेषितुर्मित्रपत्न्या भुजावुत्पाटया शुच ॥७७॥
ज्वालाकीले महाघोरे नरकेऽमुं नि पातय ॥
यो वह्निना दाहयति परक्षेत्रं परालयम् ॥ ७८ ॥
कालकूटे च गरदं कूटसाक्ष्याभिवादिनम्॥
मानकूटं तुलाकूटं कण्ठमोटे निपातय ॥ ७९ ॥
लालापिबेच दुष्प्रेक्ष्य तीर्थासुष्ठीविनं(?) नय ॥
आमपाके च गर्भघ्नं शूलपाकेऽन्यतापिनम् ॥ 4.1.8.८० ॥
रसविक्रयिणं विप्रमिक्षुयन्त्रे प्रपीडय ॥
प्रजापीडाकरं भूपमन्धकूपे निपातय ॥ ८१ ॥
गोतिलांश्च तुरङ्गांश्च विक्रेतारं द्विजाधमम् ॥
मातुलान्याः सुरायाश्च विक्रेतारं हलायुध ॥ ८२ ॥
मुसलोलूखले वैश्यं कण्डयैनं पुनःपुनः ॥
शूद्रं द्विजावमन्तारं द्विजाग्रे मञ्चसेविनम् ॥ ८३ ॥
अधोमुखे च नरके दीर्घग्रीवप्रपीड्य ॥८४॥
शूद्रं ब्राह्मणजेतारं वैश्यं बाह्मणमानिनम् ॥
क्षत्रियं याजकं चापि विप्रं वेदविवर्जितम् ॥ ८५ ॥
लाक्षालवणमांसानां सतैलविषसर्पिषाम् ॥
आयुधेक्षुविकाराणां विक्रेतारं द्विजाधमम् ॥ ८६ ॥
पाशपाणेकशापाणे बद्ध्वैतांश्चरणेदृढम् ॥
घातयन्तौ कशाघातैर्नयतं तप्तकर्दमे ॥ ८७ ॥
इमां स्त्रियं श्लेषयाशु पुंश्चलीं कुलकल्मषाम् ॥
तेनोपपतिना सार्धं तप्तायसमयेन च ॥ ८८ ॥
स्वयं गृहीत्वा नियमं यस्त्यजेदजितेन्द्रियः ॥
तं प्रापय दुराधर्षं बहुभ्रमरदंशके ॥ ८९ ॥
इत्यादिजल्पन्दुर्वृत्तैः श्रूयते दूरतो यमः ॥
स्वकर्मशङ्कितैः पापै र्दृश्यतेति भयङ्करः ॥ 4.1.8.९० ॥
ये प्रजाः पालयन्तीह पुत्रानेव निजौरसान् ॥
दण्डयन्ति च धर्मेण भूपास्तेऽस्य सभासदः ॥ ९१ ॥
वर्णाश्रमाश्च यद्राष्ट्रे ऽनुतिष्ठन्ति निजां क्रियाम् ॥
कालेनापन्ननिधना भूपास्तेऽस्य सभासदः ॥ ९२ ॥
नैव दीनो न दुर्वृत्तो नापद्ग्रस्तो न शोकभाक् ॥
येषां राष्ट्रे प्रदृश्यन्ते भूपास्तेऽस्य सभासदः ॥ ९३ ॥
ब्राह्मणाः क्षत्रिया वैश्याः स्वधर्म निरताः सदा ॥
अन्येपि ये संयमिनः संयमिन्यां वसन्ति ते ॥ ९४ ॥
उशीनरः सुधन्वा च वृषपर्वा जयद्रथः ॥
रजिः सहस्रजित्कुक्षिर्दृढधन्वा रिपुञ्जयः ॥ ९५ ॥
युवनाश्वो दन्तवक्त्रो नाभागो रिपुमङ्गलः ॥
करन्धमो धर्मसेनः परमर्दः परान्तकः ॥ ९६ ॥
एते चान्ये च बहवो राजानो नीतिवर्तिनः ॥
धर्माधर्मविचारज्ञाः सुधर्मायां समासते ॥ ९७ ॥
अन्यच्च ते प्रवक्ष्यावो येन पश्यन्ति भास्करिम् ॥
दण्डपाशोद्यतकरान्दूतानुग्राननान्क्वचित् ॥९॥॥
गोविन्दमाधवमुकुन्द हरेमुरारे शम्भो शिवेश शशिशेखर शूलपाणे ॥
दामोदराच्युत जनार्दन वासुदेव त्याज्या भटाय इति सन्ततमामनन्ति॥९९॥
गङ्गाधरान्धकरिपो हरनीलकण्ठ वैकुण्ठ कैटभरिपो कमठाब्जपाणे॥
भूतेशखण्डपरशोमृडचण्डिकेश त्याज्या भटाय इति सन्ततमामनन्ति॥ 4.1.8.१००॥
विष्णोनृसिंहमधुसूदनचक्रपाणे गौरीपते गिरिश शङ्कर चन्द्रचूड ॥
नारायणासुरनिबर्हणशार्ङ्गपाणे त्याज्या भटाय इति सन्ततमामनन्ति ॥ १ ॥
मृत्युञ्जयोग्रविषमेक्षणकामशत्रो श्रीकान्तपीतवसनाम्बुद नीलशौरे ॥
ईशानकृत्तिवसनत्रिदशैकनाथ त्याज्या भटाय इति सन्ततमामनन्ति ॥ २ ॥
लक्ष्मीपते मधुरिपो पुरुषोत्तमाद्यश्रीकण्ठदिग्वसन शान्तपिनाकपाणे ॥
आनन्दकन्द धरणीधर पद्मनाभ त्याज्या भटाय इति सन्ततमामनति ॥ ३ ॥
सर्वेश्वर त्रिपुरसूदन देवदेव ब्रह्मण्यदेवगरुडध्वज शङ्खपाणे ॥
त्र्यक्षोरगाभरणबालमृगाङ्कमौले त्यज्या भटाय इति सन्ततमामनन्ति ॥ ४ ॥
श्रीरामराघवरमेश्वररावणारे भूतेशमन्मथरिपो प्रमथाधिनाथ ॥
चाणूरमर्दनहृषीकपतेमुरारे त्याज्या भटाय इति सन्ततमामनति ॥ ५ ॥
शूलिन्गिरीश रजनीश कलावतं सकंसप्रणाशन सनातनकेशिनाश ॥
भर्गत्रिनेत्रभवभूतपते पुरारे त्याज्या भटाय इति सन्ततमामनन्ति ॥ ६ ॥
गोपीपते यदुपते वसुदेवसूनो कर्पूरगौरवृषभध्वजभालनेत्र ॥
गोवर्धनोद्धरणधर्मधुरीणगोप त्याज्या भटाय इति सन्ततमामनन्ति ॥ ७ ॥
स्थाणो त्रिलोचन पिनाकधरस्मरारे कृष्णानिरुद्धकमलाकरकल्मषारे ॥
विश्वेश्वर त्रिपथगार्द्रजटाकलाप त्याज्या भटाय इति सन्ततमामनन्ति ॥ ८ ॥
अष्टोत्तराधिकशतेनसुचारुनाम्नां सन्दर्भितां ललितरत्नकदम्बकेन ॥
सन्नायकां दृढगुणां द्धिजकण्ठगां यः कुर्यादिमां स्रजमहो स यमं न पश्येत् ॥ ९ ॥
इत्थं द्विजेन्द्र निजभृत्यगणान्सदैव संशिक्षयेदवनिगान्स हि धर्मराजः ॥
अन्येपि ये हरिहराङ्कधरा धरायां ते दूरतः पुनरहो परिवर्जनीयाः ॥ 4.1.8.११० ॥
अगस्तिरुवाच ॥
यो धर्मराजरचितां ललितप्रबन्धां नामावलिं सकलकल्मषबीजहन्त्रीम् ॥
धीरोत्र कौस्तुभभृतः शशिभूषणस्य नित्यं जपेत्स्तनरसं स पिबेन्न मातुः ॥ ११ ॥
इति शृण्वन्कथां रम्यां शिवशर्माप्रियेऽनघाम ॥
प्रहृष्टवक्त्रः पुरतो ददर्शाप्सरसापुरीम् ॥ ११२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्या संहितायां चतुर्थे काशीखण्डे पूर्वार्द्धे यमलोकवर्णनन्नामाऽष्टमोऽध्यायः ॥ ८ ॥