॥ सूत उवाच ॥ ॥
मुनिपृष्टास्तदा देवा भगवंस्ते किमब्रुवन्॥
सर्वलोकहितार्थाय तदाख्याहि महामुने ॥१॥
॥ श्रीव्यास उवाच ॥ ॥
अगस्तिवचनं श्रुत्वा बहुमानपुरस्सरम् ॥
धिषणाधिपतेरास्यं विबुधा व्यालुलोकिरे ॥ २ ॥
वाक्पतिरुवाच ॥
शृण्वगस्ते महाभाग देवागमनकारणम् ॥
धन्योसि कृतकृत्योसि मान्योसि महता मपि ॥ ३ ॥
प्रत्याश्रमं प्रतिनगं प्रत्यरण्यं तपोधनाः ॥
किं न सन्ति मुनिश्रेष्ठ काचिदन्यैव ते स्थितिः ॥४॥
तपोलक्ष्मीस्त्वयीहास्ति ब्राह्मतेजस्त्वयि स्थिरम्॥
पुण्यलक्ष्मीस्त्वयि परा त्वय्यौदार्यं मनस्त्वयि ॥ ५ ॥
पतिव्रतेयं कल्याणी लोपामुद्रा सधर्मिणी॥
तवाङ्गच्छायया तुल्या यत्कथापुण्यकारिणी ॥ ६ ॥
पतिव्रतास्वरुन्धत्या सावित्र्याप्यनसूयया ॥
शाण्डिल्यया च सत्या च लक्ष्म्या च शतरूपया ॥ ७ ॥
मेनया च सुनीत्या च सञ्ज्ञया स्वाहया तथा ॥
यथैषा वर्ण्यते श्रेष्ठा न तथान्येति निश्चितम ॥ ८ ॥
भुङ्क्ते भुक्ते त्वयि मुने तिष्ठति त्वयि तिष्ठति ॥
विनिद्रिते च निद्राति प्रथमं प्रतिबुध्यते ॥ ९॥
अनलङ्कृतमात्मानं तव नो दर्शयेत्क्वचित्॥
कार्यार्थं प्रोषिते क्वापि सर्वमण्डनवर्जिता ॥4.1.4.१०॥
न च ते नाम गृह्णीयात्तवायुष्यविवृद्धये ॥
पुरुषान्तरनामापि न गृह्णाति कदाचन ॥ ११ ॥
आक्रुष्टापि न चाक्रोशेत्ताडितापि प्रसीदति ॥
इदं कुरु कृतं स्वामिन्मन्यतामिति वक्ति च ॥ १२ ॥
आहूता गृहकार्याणि त्यक्त्वा गच्छति सत्वरम् ॥
किमर्थं व्याहृता नाथ सप्रसादो विधीयताम् ॥ १३ ॥
न चिरं तिष्ठति द्वारि न द्वारमुपसेवते ॥
अदापितं त्वया किञ्चित्कस्मैचिन्न ददात्यपि ॥ १४ ॥
पूजोपकरणं सर्वमनुक्ता साधयेत्स्वयम् ॥
नियमोदकबर्हींषि पत्रपुप्पाक्षतादिकम् ॥ १५ ॥
प्रतीक्षमाणावसरं यथाकालोचितं हि यत् ॥
तदुपस्थापयेत्सर्वमनुद्विग्नातिहृष्टवत् ॥ १६ ॥
सेवते भर्त्तुरुच्छिष्टमिष्टमन्नं फलादिकम् ॥
महाप्रसाद इत्युक्त्वा परिदत्तं प्रतीच्छति ॥ १७ ॥
अविभज्य न चाश्नीयाद्देवपित्रतिथिष्वपि ॥
परिचारकवर्गेषु गोषु भिक्षुकुलेषु च ॥ १८ ॥
संयतोपस्करादक्षा हृष्टा व्यय पराङ्मुखी ॥
कुर्यात्त्वयाननुज्ञाता नोपवासव्रतादिकम् ॥ १९ ॥
दूरतो वर्जयेदेषा समाजोत्सवदर्शनम् ॥
न गच्छेत्तीर्थयात्रादि विवाहप्रेक्षणादिषु ॥4.1.4.२० ॥
सुखसुप्तं सुखासीनं रममाणं यदृच्छया ॥
आन्तरेष्वपि कार्येषु पतिं नोत्थापयेत्क्वचित्॥२१ ॥
स्त्रीधर्मिणी त्रिरात्रं तु स्वमुखं नैव दर्श येत् ॥
स्ववाक्यं श्रावयेन्नापि यावत्स्नाता न शुद्धितः ॥२२॥
सुस्नाता भर्तृवदनमीहतेन्यस्य न क्वचित् ॥
अथवा मनसि ध्यात्वा पतिं भानुं विलोकयेत्॥२३॥
हरिद्रां कुङ्कुमं चैव सिन्दूर कज्जलं तथा ॥
कूर्पासकं च ताम्बूलं माङ्गल्याभरणं शुभम् ॥२४॥
केशसंस्कारकबरी करकर्णादिभूषणम् ॥
भर्त्तुरायुष्यमिच्छन्ती दूरये न्न पतिव्रता॥ २५ ॥
न रजक्या न हैतुक्या तथा श्रमणया न च ॥
न च दुर्भगया क्वापि सखित्वं कुरुते सती ॥ २६ ॥
भर्तृविद्वेषिणीं नारीं नैषा सम्भाषते क्वचित् ॥
नैकाकिनी क्वचिद्भूयान्न नग्ना स्नाति च क्वचित् ॥ २७ ॥
नोलूखले न मुसले न वर्द्धन्यां दृषद्यपि ॥
न यन्त्रकेन देहल्यां सती चोपविशेत्क्वचित् ॥२८॥
विना व्यवायसमयं प्रागल्भ्यं न क्वचिच्चरेत् ॥
यत्रयत्ररुचिर्भर्त्तुस्तत्र प्रेमवती सदा ॥ २९ ॥
इदमेव व्रतं स्त्रीणामयमेवपरो वृषः ॥
इयमेको देवपूजा भर्त्तुर्वाक्यं न लङ्घयेत ॥ 4.1.4.३० ॥
क्लीबं वा दुरवस्थंवा व्याधितं वृद्धमेव वा ॥
सुस्थितं दुःस्थितं वापि पतिमेकं न लङ्घयेत ॥ ३१ ॥
हृष्टाहृष्टेविषण्णास्या विषण्णास्ये प्रिये सदा ॥
एकरूपा भवेत्पुण्या सम्पत्सु च विपत्सु च ॥ ३२ ॥
सर्पिर्लवणतैलादि क्षयेपि च पतिव्रता ॥
पतिं नास्तीति न ब्रूयादायासेषु न योजयेत्॥३३॥
तीर्थस्नानार्थिनी नारी पतिपादोदकं पिबेत् ॥
शङ्करादपि विष्णोर्वा पतिरेकोधिकः स्त्रियाः ॥ ३४ ॥
व्रतोपवासनियमं पतिमुल्लङ्घ्य या चरेत् ॥
आयुष्यं हरते भर्त्तुर्मृता निरयमृच्छति॥३५॥
उक्ता प्रत्युत्तरं दद्याद्या नारी क्रोधतत्परा ॥
सरमा जायते ग्रामे सृगाली निर्जने वने॥३६॥
स्त्रीणां हि परमश्चैको नियमः समुदाहृतः ॥ऽ
अभ्यर्च्य चरणौ भर्त्तुर्भोक्तव्यं कृतनिश्चयम् ॥३७॥
उच्चासनं न सेवेत न व्रजेत्परवेश्मसु ॥
न त्रपाकर वाक्यानि वक्तव्यानि कदाचन ॥ ३८ ॥
अपवादो न वक्तव्यः कलहं दूरतस्त्यजेत् ॥
गुरूणां सन्निधौ क्वापि नोच्चैर्ब्रूयान्न वा हसेत् ॥ ३९ ॥
या भर्तारं परित्यज्य रहश्चरति दुर्मतिः ॥
उलूकी जायते क्रूरा वृक्षकोटरशायिनी ॥ 4.1.4.४० ॥
ताडिता ताडितुं चेच्छेत्सा व्याघ्री वृषदंशिका ॥
कटाक्षयतियाऽन्यं वै केकराक्षी तु सा भवेत ॥ ४१ ॥
या भर्तारं परित्यज्य मिष्टमऽश्नाति केवलम् ॥
ग्रामे वासकरी भूयाद्वल्गुर्वापि श्वविट्भुजा ॥ ४२ ॥
या त्वं(हुम्) कृत्याऽप्रियं ब्रूते मूका सा जायते खलु ॥
या सपत्नीं सदेर्ष्येत दुर्भगा सा पुनःपुन्ः ॥ ४३ ॥
दृष्टिं विलुप्य भर्तुर्या कञ्चिदन्यं समीक्षते ॥
काणा च विमुखी चापि कुरूपा चापि जायते ॥ ४४ ॥
बाह्यादायान्तमालोक्य त्वरिता च जलाशनैः ॥
ताम्बूलैर्व्यजनैश्चैव पादसंवाहनादिभिः ॥ ४५ ॥
तथैव चाटुवचनैः खेदसन्नोदनैः परैः ॥
या प्रियं प्रीणयेत्प्रीता त्रिलोकी प्रीणिता तया ॥ ४६ ॥
मितं ददाति हि पिता मितं भ्राता मितं सुतः ॥
अमितस्य हि दातारं भर्त्तारं पूजये त्सदा ॥ ४७ ॥
भर्ता देवो गुरुर्भर्ता धर्म तीर्थ व्रतानि च ॥
तस्मात्सर्वं परित्यज्य पतिमेकं समर्चयेत ॥ ४८ ॥
जीवहीनो यथा देहः क्षणादशुचितां व्रजेत् ॥
भर्तृहीना तथा योषित्सुस्नाताप्यशुचिः सदा ॥ ४९ ॥
अमङ्गलेभ्यः सर्वेभ्यो विधवा त्यक्तमङ्गला ॥
विधवा दर्शनात्सिद्धिः क्वापि जातु न जायते ॥ 4.1.4.५० ॥
विहाय मातरं चैकां सर्वमङ्गलवर्जिताम ॥
तदाशिषमपि प्राज्ञस्त्यजेदाशीविषोपमाम ॥ ५१ ॥
कन्याविवाहसमये वाचयेयुरिति द्विजाः ॥
भर्तुः सहचरी भूयाज्जीवतोऽजीवतोपिवा ॥ ५२ ॥
भर्ता सदानुयातव्यो देहवच्छायया स्त्रिया ॥
चन्द्रमा ज्योत्स्नया यद्वद्विद्युत्वान्विद्युता यथा ॥ ५३ ॥
अनुव्रजति भर्तारं गृहात्पितृवनं मुदा ॥
पदेपदेऽश्वमेधस्य फलं प्राप्नोत्यसंशयम ॥ ५४ ॥
व्यालग्राही यथा व्यालं बलादुद्धरते बिलात ॥
एवमुत्क्रम्य दूतेभ्यः पतिं स्वर्गं नयेत्सती ॥ ५५ ॥
यमदूताः पलायन्ते सतीमालोक्य दूरतः ॥
अपि दुष्कृतकर्माणं समुत्सृज्य च तत्पतिम् ॥ ५६ ॥
न तथा बिभीमो वह्नेर्नतथा विद्युतो यथा ॥
आपतन्तीं समालोक्य वयं दूताः पतिव्रताम् ॥ ५७ ॥
तपनस्तप्यतेत्यन्तं दहनोपि च दह्यते ॥
कम्पन्ते सर्व तेजांसि दृष्ट्वा पातिव्रतं महः ॥ ५८ ॥
यावत्स्वलोमसङ्ख्यास्ति तावत्कोट्ययुतानि च ॥
भर्त्रा स्वर्गसुखं भुङ्क्ते रममाणा पतिव्रता ॥ ५९ ॥
धन्या सा जननी लोके धन्योसौ जनकः पुनः ॥
धन्यः स च पतिः श्रीमान्येषां गेहे पतिव्रता ॥ 4.1.4.६० ॥
पितृवंश्यामातृवंश्याःपतिवंश्यास्त्रयस्त्रयः ॥
पतिव्रतायाः पुण्येन स्वर्गसौख्यानि भुञ्जते ॥ ६१ ॥
शीलभङ्गेन दुर्वृत्ताः पातयन्ति कुलत्रयम् ॥
पितुर्मातुस्तथापत्युरिहामुत्र च दुःखिताः ॥ ६२ ॥
पतिव्रतायाश्चरणो यत्र यत्र स्पृशेद्भुवम् ॥
तत्रेति भूमिर्मन्येत नात्र भारोस्तिपावनी ॥ ६३ ॥
बिभ्यत्पतिव्रतास्पर्शं कुरुते भानुमानपि ॥
सोमो गन्धवहश्चापि स्वपावित्र्याय नान्यथा ॥ ६४ ॥
आपः पतिव्रता स्पर्शमभिलष्यन्ति सर्वदा ॥
अद्य जाड्यविनाशो नो जातास्त्वद्याऽन्यपावनाः ॥ ६५ ॥
गृहेगृहे न किं नार्यो रूपलावण्यगर्विताः ॥
परं विश्वेशभक्त्यैव लभ्यते स्त्री पतिव्रता ॥ ६६ ॥
भार्या मूलं गृहस्थस्य भार्या मूलं सुखस्य च ॥
भार्या धर्मफला भार्या सं तानवृद्धये ॥ ६७ ॥
परलोकस्त्वयं लोको जीयते भार्यया द्वयम् ॥
देवपित्रतिथीज्यादि नाभार्यः कर्म चार्हति ॥ ६८ ॥
गृहस्थः स हि विज्ञेयो यस्य गेहे पतिव्रता ॥
ग्रसतेऽन्या प्रतिपदं राक्षस्या जरयाथवा ॥ ६९ ॥
यथा गङ्गाऽवगाहेन शरीरं पावनं भवेत् ॥
तथा पतिव्रता दृष्ट्या शुभया पावनं भवेत् ॥ 4.1.4.७० ॥
अनुयाति न भर्तारं यदि दैवात्कथञ्चन ॥
तत्रापि शीलं संरक्ष्यं शीलभङ्गात्पतत्यधः ॥ ७१ ॥
तद्वैगुण्यादपिस्वर्गात्पतिः पतति नान्यथा ॥
तस्याः पिता च माता च भ्रातृवर्गस्तथैव च ॥ ७२ ॥
पत्यौ मृते च यायोषिद्वैधव्यं पालयेत्क्वचित् ॥
सा पुनः प्राप्य भर्तारं स्वर्गभोगान्समश्नुते ॥ ७३ ॥ ।
विधवा कबरीबन्धो भर्तृबन्धाय जायते ॥
शिरसो वपनं तस्मात्कार्यं विधवया सदा ॥ ७४ ॥
एकाहारः सदा कार्यो न द्वितीयं कदाचन ॥
त्रिरात्रं पञ्चरात्रं वा पक्षव्रतमथापि वा ॥ ७५ ॥
मासोपवासं वा कुर्याच्चान्द्रायणमथापि वा ॥
कृच्छ्रं वराकं वा कुर्यात्तप्तकृच्छ्रमथापि वा ॥ ७६ ॥
यवान्नैर्वा फलाहारैः शाकाहारैः पयोव्रतैः ॥
प्राणयात्रां प्रकुर्वीत यावत्प्राणः स्वयं व्रजेत् ॥ ७७ ॥
पर्यङ्कशायिनी नारी वि धवा पातयेत्पतिम् ॥
तस्माद्भूशयनं कार्यं पतिसौख्यसमीहया ॥ ७८ ॥
न चाङ्गोद्वर्तनं कार्यं स्त्रिया विधवया क्वचित् ॥
गन्धद्रव्यस्य संयोगो नैव कार्यस्तया पुनः ॥ ७९ ॥
तर्पणं प्रत्यहं कार्यं भर्तुः कुशतिलोदकैः ॥
तत्पितुस्तत्पितुश्चापि नामगोत्रादिपूर्वकम ॥ 4.1.4.८० ॥
विष्णोस्तु पूजनं कार्यं पति बुद्ध्या न चान्यथा ॥
पतिमेव सदा ध्यायेद्विष्णुरूपधरं हरिम् ॥ ८१ ॥
यद्यदिष्टतमं लोके यच्च पत्युः समीहितम् ॥
तत्तद्गुणवते देयं पतिप्रीणनकाम्यया ॥ ८२ ॥
वैशाखे कार्तिके माघे विशेषनियमांश्चरेत् ॥
स्नानं दानं तीर्थयात्रां विष्णोर्नामग्रहं मुहुः ॥ ८३ ॥
वैशाखे जलकुम्भांश्च कार्तिके घृतदीपकाः ॥
माघे धान्य तिलोत्सर्गः स्वर्गलोके विशिष्यते ॥ ८४ ॥
प्रपा कार्या च वैशाखे देवे देया गलन्तिका ॥
उपानद्व्यजनं छत्रं सूक्ष्मवासांसि चन्दनम् ॥ ८५ ॥
सकर्पूरं च ताम्बूलं पुष्पदानं तथैव च ॥
जलपात्राण्यनेकानि तथा पुष्प गृहाणि च ॥ ८६ ॥
पानानि च विचित्राणि द्राक्षा रम्भा फलानि च ॥
देयानि द्विजमुख्येभ्यः पतिर्मे प्रीयतामिति ॥ ८७ ॥
ऊर्जे यवान्नमश्नीयादेकान्नमथवा पुनः ॥
वृन्ताकं सूरणं चैव शूकशिम्बिं च वर्जयेत् ॥ ८८ ॥
कार्तिके वर्जयेत्तैलं कार्तिके वर्जये न्मधु ॥
कार्तिके वर्जयेत्कांस्यं कार्तिके चापिसन्धितम् ॥ ८९ ॥
कार्तिके मौननियमे घण्टां चारु प्रदापयेत ॥
पत्रभोजी कांस्यपात्रं घृतपूर्णं प्रयच्छति ॥4.1.4.९०॥
भूमिशय्याव्रते देया शय्या श्लक्ष्णा सतूलिका ॥
फलत्यागे फलं देयं रसत्यागे च तद्रसम् ॥ ९१ ॥
धान्यत्यागे च तद्धान्यमथवा शालयः स्मृताः ॥
धेनूर्दद्यात्प्रयत्नेन सालङ्काराः सकाञ्चनाः ॥ ९२ ॥
एकतः सर्वदानानि दीपदानं तथैकतः ॥
कार्तिके दीपदानस्य कलां नार्हन्ति षोडशीम् ॥ ९३ ॥
किञ्चिदभ्युदिते सूर्ये माघस्नानं समाचरेत् ॥
यथाशक्त्या च नियमान्माघस्नायी समाचरेत् ॥ ९४ ॥
पक्वान्नैर्भो जयेद्विप्रान्यतिनोपि तपस्विनः ॥
लड्डुकैः फेणिकाभिश्च वटकेण्डरिकादिभिः ॥ ९५ ॥
घृतपक्वैः समीरचैः शुचिकर्पूरवासितैः ॥
गर्भे शर्करया पूर्णैर्नेत्रानं दैः सुगन्धिभिः ॥ ९६ ॥
शुष्केन्धनानां भारांश्च दद्याच्छीतापनुत्तये ॥
कञ्चुकं तूलगर्भं च तूलिकां सूपवीतिकाम् ॥ ९७ ॥
मञ्जिष्ठा रक्तवासांसि तथा तूलवतीं पटीम् ॥
जातीफल लवङ्गैश्च ताम्बूलानि बहून्यपि ॥ ९८ ॥
कम्बलानि विचित्राणि निर्वातानि गृहाणि च ॥
मृदुलाः पादरक्षाश्च सुगन्ध्युद्वर्त्तनानि च॥९९॥
घृतकम्बलपूजाभिर्महास्नानपुरःसरम् ॥
कृष्णागुरुप्रभृतिभिर्गर्भागारे प्रधूपनैः ॥ 4.1.4.१०० ॥
स्थूलवर्तिप्रदीपैश्च नैवेद्यैर्विविधैस्तथा ॥
भर्तृस्वरूपो भगवान्प्रीयतामिति चोच्चरेत् ॥ १ ॥
एवंविधैश्च विधवा विविधैर्नियमैर्व्रतैः ॥
वैशाखान्कार्तिकान्माघानेवमेवातिवाहयेत् ॥ २ ॥
नाधिरोहेदनड्वाहं प्राणैः कण्ठगतैरपि ॥
कञ्चुकं न परीदध्याद्वासो न विकृतं न्यसेत्॥३॥
अपृष्ट्वा तु सुतान्किञ्चिन्न कुर्याद्भर्तृतत्परा ॥
एवं चर्यापरा नित्यं विधवापि शुभा मता ॥ ४ ॥
एवं धर्मसमायुक्ता विधवापि पतिव्रता ॥
पतिलोकानवाप्नोति नभवेत्क्वापि दुःखभाक् ॥५॥
न गङ्गया तया भेदो या नारी पतिदेवता ॥
उमाशिवसमा साक्षात्त स्मात्तां पूजयेद्बुधः ॥६॥
बृहस्पतिरुवाच ॥
गङ्गास्नानफलं त्वेतद्यज्जातं तव दर्शनम् ॥
लोपामुद्रे महामातर्भर्तृपादाम्बुजेक्षणे ॥ ७ ॥
इति स्तुत्वा महाभागां राजपुत्रीं पतिव्रताम् ॥
प्रणम्य च गुरुः प्राह मुनिं सर्वार्थकोविदः ॥ ८. ॥
प्रणवस्त्वं श्रुतिरियं क्षमैषा त्वं स्वयं तपः ॥
सत्क्रियेयं फलं त्वं हि धन्योसीति महामुने ॥ ९ ॥
इदं पातिव्रतं तेजो ब्रह्मतेजो भवान्परम् ॥
तत्राप्येतत्तपस्तेजः किमसाध्यतमं तव ॥ 4.1.4.११० ॥
तव नाविदितं किञ्चित्तथापि च वदाम्यहम् ॥
यदर्थमागता देवास्तन्मुनेत्र निशामय ॥ ११ ॥
अयं शतमखः श्रीमान्वृत्रहा कुलिशायुधः ॥
सिद्ध्यष्टकं हि यद्द्वारि दृक्प्रसादं समीक्षते ॥ १२ ॥
यस्यपुर्याः परिसरे कामधेनु व्रजश्चरेत् ॥
यत्पौराः कल्पवृक्षाणां नित्यं छायासु शेरते ॥ १३ ॥
यद्रथ्यासु च तिष्ठन्ति ते चिन्तामणिकर्कराः ॥
अयमग्निर्जगद्योनिर्धर्मराजस्त्वयं पुनः ॥ १४ ॥
निर्ऋतिर्वरुणोवायुःश्रीदरुद्रादयस्त्वमी ॥
आराध्यन्ते च चारित्रैः सर्वकामार्थ मीश्वराः ॥ १५ ॥
ममभ्यर्थयितारोमी त्वं याच्यस्तु जगत्कृते ॥
वाङ्मात्रोद्यमसाध्यं तत्तवविश्वोपकारकम् । १६ ।
कश्चिच्छैलो विन्ध्यनामा भानुमार्गावरोधकः ॥
वर्धितः स्पर्धया मेरोस्तद्वृद्धिं त्वं निवारय ॥१७॥
ये च स्वभावकठिना ये च मार्गावरोधकाः ॥
ये स्पर्द्धया वृद्धिमन्तस्तद्वृद्धिर्वर्धिताऽशुभा ॥ १८॥
इति श्रुत्वा गुरोर्वाक्यमविचार्य महामुनिः ॥
क्षणं मुनिःसमाधाय तथेति प्रत्युवाच ह ॥ १९ ॥
साधयिष्यामि वः कार्यं विसर्ज्येति दिवौकसः ॥
पुनश्चिन्तापरो भूत्वाऽगस्तिर्ध्यानपरोभवत् ॥ 4.1.4.१२० ॥
वेदव्यास उवाच ॥ ॥
इमं पतिव्रताध्यायं श्रुत्वा स्त्रीपुरुषोपिवा ॥
पापकञ्चुकमुत्सृज्य शक्रलोकं प्रयास्यति ॥ १२१ ॥
इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्र्यां संहितायां चतुर्थै काशीखण्डे पूर्वार्द्धे पतिव्रताख्यानन्नाम चतुर्थोऽध्यायः ॥ ४ ॥