००३ अगस्त्याश्रमवर्णनम्

सूत उवाच ॥
भगवन्भूतभव्येश सर्वज्ञानमहानिधे ॥
अवाप्य काशीं गीर्वाणैः किमकारि वदाच्युत ॥ १ ॥
अधीत्येमां कथां दिव्यां न तृप्तिमधियाम्यहम् ॥
शेवधिस्तपसां देवैरगस्तिः प्रार्थितः कथम् ॥ २ ॥
कथं विन्ध्योप्यवाप स्वां प्रकृतिं तादृगुन्नतः ॥
तववागमृताम्भोधौ मनो मे स्नातुमुत्सुकम् ॥ ३ ॥
इति कृत्स्नं समाकर्ण्य व्यासः पाराशरो मुनिः ॥
श्रद्धावते स्वशिष्याय वक्तुं समुपचक्रमे ॥ ४ ॥
पाराशर उवाच ॥
शृणु सूत महाबुद्धे भक्तिश्रद्धासमन्वितः ॥
शुकवैशम्पायनाद्याः शृण्वन्त्वेते च बालकाः ॥५ ॥
ततो वाराणसीं प्राप्य गीर्वाणाः समहर्षयः ॥
अविलम्बं प्रथमतो म णिकर्ण्यां विधानतः ॥ ६ ॥
सचैलमभिमज्ज्याथ कृतसन्ध्यादिसत्क्रियाः ॥
सन्तर्प्य तर्प्यादिपितॄन्कुशगन्धतिलोदकैः ॥ ७ ॥
तीर्थवासार्थिनः सर्वान्सन्तर्प्य च पृथक्पृथक् ॥
रत्नैर्हिरण्यवासोभिरश्वाभरणधेनुभिः ॥ ८ ॥
विचित्रैश्च तथा पात्रैः स्वर्णरौप्यादि निर्मितैः ॥
अमृतस्वादुपक्वान्नैः पायसै श्च सशर्करैः ॥ ९ ॥
सगोरसैरन्नदानैर्धान्यदानैरनेकधा ॥
गन्धचन्दनकर्पूरैस्ताम्बूलैश्चारुचामरैः ॥ ॥ 4.1.3.१० ॥
सतूलैर्मृदुपर्यङ्कैर्दीपिकादर्पणासनैः ॥
शिबिकादासदासीभिर्विमानैःपशुभिर्गृहैः ॥ ११ ॥
चित्रध्वजपताकाभिरुल्लोचैश्चन्द्रचारुभिः ॥
वर्षाशनप्रदानैश्च गृहोपस्करसंयुतैः ॥ १२ ॥
उपानत्पादुकाभिश्च यतिनश्च तपस्विनः ॥
योग्यैः पट्टदुकूलैश्च विविधैश्चित्ररल्लकैः ॥ १३ ॥
दण्डैः कमण्डलुयुतैरजिनैर्मृगसम्भवैः ॥
कौपीनैरुच्चमञ्चैश्च परिचारककाञ्चनैः ॥ १४ ॥
मठैर्विद्यार्थिनामन्नैरतिथ्यर्थं महाधनैः ॥
महापुस्तकसम्भारैर्लेखकानां च जीवनैः॥१५॥
बहुधौषधदानैश्च सत्रदानैरनेकशः ॥
ग्रीष्मे प्रपार्थद्रविणैर्हेमन्तेग्निष्टिकेन्धनैः॥१६॥
छत्राच्छादनिकाद्यर्थे वर्षाकालोचितैर्बहु॥
रात्रौ पाठप्रदीपैश्च पादाभ्यञ्जनकादिभिः ॥१७॥
पुराणपाठकांश्चापि प्रतिदेवालयं धनैः ॥
देवालये नृत्यगीतकरणार्थैरनेकशः॥१८॥
देवालय सुधाकार्यैर्जीर्णोद्धारैरनेकधा ॥
चित्रलेखनमूल्यैश्च रङ्गमालादिमण्डनैः ॥ १९ ॥
नीराजनैर्गुग्गुलुभिर्दशां गादि सुधूपकैः ॥
कर्पूरवर्तिकाद्यैश्च देवार्चार्थैरनेकशः ॥ 4.1.3.२० ॥
पञ्चामृतानां स्नपनैः सुगन्ध स्नपनैरपि ॥
देवार्थं मुखवासैश्च देवोद्यानैरनेकशः ॥ २१ ॥
महापूजार्थमाल्यादि गुम्फनार्थैस्त्रिकालतः ॥
शङ्खभेरीमृदङ्गादिवाद्यनादैः शिवालये ॥ २२ ॥
घण्टागुडुककुम्भादि स्नानोपस्करभाजनैः ॥
श्वेतैर्मार्जनवस्त्रैश्च सुगन्धैर्यक्षकर्दमैः ॥ २३ ॥
जपहोमैः स्तोत्रपाठैः शिवनामोच्चभाषणैः ॥
रासक्रीडादिसंयुक्तैश्चलनैः सप्रदक्षिणैः ॥ २४ ॥
एवमादिभिरुद्दण्डैः क्रियाकाण्डैरनेकशः ॥
पञ्चरात्रमुषित्वा तु कृत्वा तीर्थान्यनेकशः ॥ २५ ॥
दीनानाथांश्च सन्तर्प्य नत्वा विश्वेश्वरं विभुम् ॥
ब्रह्मचर्यादिनियमैस्तीर्थमेवं प्रसाध्य च ॥ २६ ॥
पुनः पुनर्विश्वनाथं दृष्ट्वा स्तुत्वा प्रणम्य च ॥
जग्मुः परोपकारार्थमगस्तिर्यत्र तिष्ठति ॥ २७ ॥
स्वनाम्ना लिङ्गमास्थाप्य कुण्डं कृत्वा तदग्रतः ॥
शतरुद्रियसूक्तेन जपन्निश्चलमानसः ॥ २८ ॥
तं दृष्ट्वा दूरतो देवा द्वितीयमिव भास्करम् ॥
ज्वलज्ज्वलनसङ्काशैरङ्गैः सर्वत्रसोज्ज्वलम् ॥ २९ ॥
साक्षात्किंवाडवाग्निर्वा मूर्त्या वै तप्यते तपः ॥
स्थाणुवन्निश्चलतरं निर्मलं सन्मनो यथा ॥ 4.1.3.३० ॥
अथवा सर्व तेजांसि श्रित्वेमां ब्राह्मणीं तनुम् ॥
शीलयन्ति परं धाम शातंशान्त पदाप्तये ॥ ३१ ॥
तपनस्तप्यतेऽत्यर्थं दहनोपि हि दह्यते ॥
यत्तीव्रतपसाद्यापि चपलाऽचपलाभवत् ॥ ३२ ॥
यस्याश्रमे ऽत्र दृश्यन्ते हिंस्रा अपि समन्ततः ॥
सत्त्वरूपा अमी सत्त्वास्त्यक्त्वा वैरं स्वभावजम् ॥ ३३ ॥
शुण्डादण्डेन करटिः सिंहं कण्डूयतेऽभयः ॥
अष्टापदाङ्के स्वपिति केसरी केसरोद्भटः ॥ ३४ ॥
सूकरः स्तब्धरोमापि विहाय निजयूथकम् ॥
चरेद्वनशुनां मध्ये मुस्तान्यस्तेक्षणोबली ॥ ३५ ॥
भूदारोपि न भूदारं तथाकुर्याद्यथाऽन्यतः ॥
सर्वा लिङ्गमयी काशी यतस्तद्भीतियन्त्रितः ॥ ३६ ॥
क्रोडीकृत्य क्रोडपोतं तरक्षुः क्रीडयत्यहो ॥
शार्दूलबालानुत्सार्य शार्दूलीमेणपोतकः ॥ ३७ ॥
चलत्पुच्छोथ पिबति फेनिलेनाननेन वै ॥
स्वपन्तं लोमशं भल्लं वानरश्चलदङ्गुलिः॥३८॥
यूका संवीक्ष्यवीक्ष्यैव भक्षयेद्दन्तकोटिभिः ॥
गोलाङ्गूलारक्तमुखानीलां गा यूथथनायकाः॥३९॥
जातिस्वभावमात्सर्यं त्यक्त्वैकत्र रमन्ति च ॥
शशाः क्रीडन्ति च वृकैस्तैः पृष्ठलुण्ठनैर्मुहुः॥4.1.3.४०॥
आखुश्चाखुभुजः कर्णं कण्डूयेत चलाननः ॥
मयूरपुच्छपुटगो निद्रात्योतुः सुखाधिकम् ॥ ४१ ॥
स्वकण्ठं घर्षयत्येव केकिकण्ठे भुजङ्गमः ॥
भुजङ्गमफणापृष्ठे नकुलः स्वकुलोचितम् ॥ ४२ ॥
वैरं परित्यज्य लुठेदुत्प्लुत्योत्प्लुत्य लीलया ॥
आलोक्य मूषकं सर्पश्चरन्तं वदनाग्रतः ॥ ४३ ॥
क्षुधान्धोपि न गृह्णाति सोपि तस्माद्बिभेति नो ॥
प्रसूयमानां हरिणीं दृष्ट्वा कारुण्यपूर्णदृक् ॥ ४४ ॥
तद्दृष्टिपातं मुञ्चन्वै व्याघ्रो दूरं व्रजत्यहो ॥
व्याघ्री व्याघ्रस्य चरितं मृगी मृगविचेष्टितम् ॥
उभे कथयतो ऽन्योन्यं सख्याविवमुदान्विते ॥४५॥
दृष्ट्वाप्युद्दण्डकोदण्डं शबरं शम्बरोमृगः ॥
धृष्टो न वर्त्म त्यजति सोपि कण्डूयतेपि तम् ॥ ४६ ॥
रोहितोऽरण्यमहिषमुद्धर्षति निराकुलः॥
चमरीशबरीकेशैः सम्मिमीते स्ववालधिम् ॥४७॥
गवयः शल्यकश्चाऽयमुभावेकत्रतिष्ठतः ॥
तीव्रमात्सर्यमुत्सृज्य मुनितेजोनियन्त्रितौ ॥ ४५ ॥
हुण्डौ च मुण्ड युद्धाय न सज्जेते जयैषिणौ ॥
एणशावं सृगालोपि मृदुस्पृशति पाणिना॥४९॥
तृण्वन्ति तृणगुल्मादीन्श्वापदास्त्वापदास्पदम्॥
लोकद्वये दुःखहंहि धिक्तन्मांसस्य भक्षणम्॥ 4.1.3.५० ॥
यः स्वार्थं मांसपचनं कुरुते पापमोहितः ॥
यावन्त्यस्य तु रोमाणि तावत्स नरके वसेत् ॥५१॥
परप्राणैस्तु ये प्राणान्स्वान्पुष्णं ति हि दुर्धियः ॥
आकल्पं नरकान्भुक्त्वा ते भुज्यन्तेत्र तैः पुनः॥५२ ॥
जातुमांसं न भोक्तव्यं प्राणैः कण्ठगतैरपि ॥
भोक्तव्यं तर्हि भोक्तव्यं स्वमांसं नेतरस्य च ॥ ५३ ॥
वरमेतेश्वापदा वै मैत्रावरुणि सेवया ॥
येषां न हिंसने बुद्धिर्नतु हिंसापरा नराः ॥५४ ॥
बकोपि पल्वले मत्स्यान्नाश्नात्यग्रेचरानपि ॥
न महान्तोप्यमहतो मत्स्या मत्स्यानदन्ति वै ॥ ५५ ॥
एकतः सर्वमांसानि मत्स्यमांसं तथकैतः॥
स्मृतिः स्मृतेति किन्त्वेभिरतोमत्स्याञ्जहत्यमी ॥ ५६ ॥
श्येनोपि वर्तिकां दृष्ट्वा भवत्येष पराङ्मुखः ॥
चित्रमत्रापि मधुपा भ्रमन्ति मलिनाशयाः ॥ ५७ ॥
सुचिरं नरकान्भुक्त्वा मदिरापानलम्पटाः ॥
मधुपा एव गायन्ते भ्रान्तिभाजः पुनः पुनः ॥ ५८ ॥
अतएव पुराणेषु गाथेति परिगीयते ॥
स्फुटार्थात्र पुराणज्ञैर्ज्ञात्वा तत्त्वं पिनाकिनः ॥ ५९ ॥
क्व मांसं क्व शिवे भक्तिः क्व मद्यं क्व शिवार्चनम् ॥
मद्यमांसरतानां च दूरे तिष्ठति शङ्करः ॥ 4.1.3.६० ॥
विना शिवप्रसादं हि भ्रान्तिः क्वापि न नश्यति ॥
अतएव भ्रमन्त्येते भ्रमराः शिववर्जिताः ॥ ६१ ॥
इत्याश्रमचरान्दृष्ट्वा तिर्यञ्चोपि मुनीनिव ॥
अबोधिविबुधैरित्थं प्रभावः क्षेत्रजस्त्वयम् ॥ ६२ ॥
यतो विश्वेश्वरेणैते तिर्यञ्चोप्यत्रवासिनः ॥
निधनावसरे मोच्यास्तारक स्योपदेशतः ॥ ६३ ॥
ज्ञात्वा क्षेत्रस्य माहात्म्यं यो वसेत्कृतनिश्चयः ॥
तं तारयति विश्वेशो जीवन्तमथवा मृतम् ॥ ६४ ॥
अविमुक्तरहस्यज्ञा मुच्यन्ते ज्ञानि नो नराः॥
अज्ञानिनोपि तिर्यञ्चो मुच्यन्ते गतकिल्बिषाः ॥ ६५ ॥
इत्याश्चर्यपरा देवा यावद्यान्त्याश्रमं मुनेः ॥
तावत्पक्षिकुलं दृष्ट्वा भृशं मुमुदिरे पुनः ॥ ६६ ॥
सारसो लक्ष्मणाकण्ठे कण्ठमाधाय निश्चलः ॥
मन्यामहे न निद्रातिध्यायेद्विश्वेश्वरं किल ॥ ६७
कण्डूयमाना वरटा स्वचञ्चुपुटकोटिभिः ॥
हंसं कामयमानं तु वारयेत्पक्षधूननैः ॥ ६८ ॥
निरुद्ध्यमान चक्रेण चक्रीक्रेङ्कितभाषणैः॥
वदतीति किमत्रापि कामिता कामिनां वर ॥ ६९ ॥
कलकण्ठः किलोत्कण्ठं मञ्जुगुञ्जति कुञ्जगः॥
ध्यानस्थः श्रोष्यति मुनिः पारावत्येति वार्यते॥4.1.3.७०॥
केकीकेकां परित्यज्य मौनं तिष्ठति तद्भयात्॥
चकोरश्चन्द्रिका भोक्ता नक्तव्रतमिवास्थितः॥७१॥
पठन्ती सारिकासारं शुकंसम्बोधयत्यहो ॥
अपारावारसंसारसिन्धुपारप्रदः शिवः ॥ ७२ ॥
कोकिलः कोमलालापैः कलयन्किलकाकलीम् ॥
कलिकालौ कलयतः काशीस्थान्नेतिभाषते ॥ ७३ ॥
मृगाणां पक्षिणामित्थं दृष्ट्वा चेष्टां त्रिविष्टपम् ॥
अकाण्डपातसङ्कष्टं निनिन्दुस्त्रिदशा बहु ॥ ॥ ७४ ॥
वरमेतेपक्षिमृगाः पशवः काशिवासिनः ॥
येषां न पुनरावृत्तिर्नदेवानपुनर्भवाः ॥ ७५ ॥
काशीस्थैः पतितैस्तुल्या न वयं स्वर्गिणः क्वचित् ॥
काश्यां पाताद्भयं नास्ति स्वर्गेपाताद्भयं महत् ॥ ७६ ॥
वरं काशीपुरी वासो मासोपवसनादिभिः ॥
विचित्रच्छत्रसञ्छायं राज्यं नान्यत्र नीरिपु ॥ ७७ ॥
शशकैर्मशकैः काश्यां यत्पदं हेलयाप्यते ॥
तत्पदं नाप्यतेऽन्यत्र योगयुक्त्यापि योगिभिः ॥ ७८ ॥
वरं वाराणसीरङ्को निःशङ्कोयो यमादपि ॥
न वयं त्रिदशायेषां गिरितोपीदृशी दशा ॥ ७९ ॥
ब्रह्मणो दिवसाष्टांशेषपदमैन्द्रं विनश्यति ॥
सलोकपाल सार्कं च सचन्द्रग्रहतारकम् ॥ 4.1.3.८० ॥
परार्धद्वयनाशेपि काशीस्थो यो न नश्यति ॥
तस्मात्सर्वप्रयत्नेन काश्यां श्रेयः समाचरेत् ॥ ८१ ॥
यत्सुखं काशिवासेत्र न तद्ब्रह्माण्डमण्डपे ॥
अस्ति चेत्तत्कथं सर्वे काशीवासाभिलाषुकाः ॥ ८२ ॥
जन्मान्तरसहस्रेषु यत्पुण्यं समुपार्जितम् ॥
तत्पुण्यपरिवर्तेन काश्यां वासोऽत्र लभ्यते ॥ ८३ ॥
लब्धोपि सिद्धिं नो यायाद्यदि कुद्ध्येत्त्रिलोचनः ॥
तस्माद्विश्वेश्वरं नित्यं शरण्यं शरणं व्रजेत् ॥ ८४ ॥
धर्मार्थकाममोक्षाख्यं पुरुषार्थचतुष्टयम् ॥
अखण्डं हि यथा काश्यां न तथा न्यत्र कुत्रचित् ॥ ८५॥
आलस्येनापि यो यायाद्गृहाद्विश्वेश्वरालयम् ॥
अश्वमेधाधिको धर्मस्तस्य स्याच्च पदेपदे ॥ ८६ ॥
यः स्नात्वोत्तरवाहिन्यां याति विश्वे शदर्शने ॥
श्रद्धया परया तस्य श्रेयसोन्तो न विद्यते ॥ ८७ ॥
स्वर्धुनी दर्शनात्स्पर्शात्स्नानादाचमनादपि ॥
सन्ध्योपासनतो जप्यात्तर्पणाद्देवपूजनात् ॥८८॥
पञ्चतीर्थावलोकाच्च ततो विश्वेश्वरेक्षणात् ॥
श्रद्धास्पर्शनपूजाभ्यां धूपदीपादिदानतः ॥ ८९ ॥
प्रदक्षिणैः स्तोत्रजपैर्नमस्कारैस्तु नर्त्तनैः ॥
देवदेवमहादेव शम्भो शिवशिवेति च ॥ 4.1.3.९० ॥
धूर्जटे नीलकण्ठेश पिनाकिञ्शशिशेखर ॥
त्रिशूलपाणे विश्वेश रक्षरक्षेतिभाषणैः ॥ ९१ ॥
मुक्तिमण्डपिकायां च निमेषार्धो पवेशनात् ॥
तत्र धर्मकथालापात्पुराणश्रवणादपि ॥ ९२ ॥
नित्यादिकर्मकरणात्तथातिथिसमर्चनैः ॥
परोपकरणाद्यैश्च धर्मस्स्यादुत्तरोत्तरः ॥ ९३ ॥
शुक्लपक्षे यथा चन्द्रः कलया कलयैधते ॥
एवं काश्यां निवसतां धर्मराशिः पदेपदे ॥ ९४ ॥
श्रद्धाबीजो विप्रपादाम्बुसिक्तः शाखाविद्यास्ताश्चतस्रो दशापि ॥
पुष्पाण्यर्था द्वे फले स्थूलसूक्ष्मे मोक्षःकामो धर्मवृक्षोयमीड्यः ॥ ९५ ॥
सर्वार्थानामत्रदात्री भवानी सर्वान्कामान्पूरयेदत्र ढुण्ढिः ॥
सर्वाञ्जन्तून्मोचयेदन्तकाले विश्वेशोत्रश्रोत्रमन्त्रोपदेशात् ॥ ९६ ॥
काश्यां धर्मस्तच्चतुष्पादरूपः काश्यामर्थः सोप्यने कप्रकारः ॥
काश्यां कामः सर्वसौख्यैकभूमिः काश्यां श्रेयस्तत्तु किन्नात्र यच्च ॥ ९७ ॥
विश्वेश्वरो यत्र न तत्र चित्रं धर्मार्थकामामृतरूपरूपः ॥
स्वरूपरूपः स हि विश्वरूपस्तस्मान्न काशी सदृशी त्रिलोकी ॥ ९८ ॥
इति ब्रुवाणा गीर्वाणा ददृशुस्तूटजं मुनेः ॥
होमधूमसुगन्धाढ्यं बटुभिर्बहुभिर्वृतम् ॥ ९९ ॥
श्यामाकाञ्जलियाञ्चार्थमृषिकन्यानुयायिभिः ॥
धृतोपग्रहदर्भास्यैर्मृगशावैरलङ्कृतम् ॥ 4.1.3.१०० ॥
सार्द्रवल्कलकौपीनैर्वृक्षशाखावलम्बिभिः ॥
बद्धुं विघ्नमृगान्दिक्षु वागुराभिरिवावृतम् ॥ १ ॥
पतिव्रता शिरोरत्नलोपामुद्राङ्घ्रिमुद्रया ॥
मुद्रितं वीक्ष्य सन्नेमुः पर्णशालांऽगणं सुराः ॥ २ ॥
विसर्जितसमाधिं च धृतकर्णाक्षमालिकम् ॥
अधिष्ठितं बृसीपृष्ठं परमेष्ठिवदुत्कटम् ॥ ३ ॥
पुरोगस्त्यं समालोक्य सर्वे देवाः सवासवाः ॥
प्रहृष्टवदनाः प्रोचुः प्रोच्चैर्जयजयेति च ॥ ४ ॥
मुनिरुत्थाय तान्सर्वानुपावेश्य यथोचितम् ॥
आशीर्भिरभिनन्द्याथ पप्रच्छागमकारणम् ॥ ५ ॥
व्यास उवाच ॥
इदं पुण्यतमाख्यानं श्रुत्वा भक्तिसमन्वितः ॥
पठित्वा पाठयित्वा च व्रतश्रद्धावतां पुरः ॥ ६ ॥
विधूय सर्व पापानि ज्ञात्वाऽज्ञात्वा कृतान्यपि ॥
हंसवर्णेन यानेन गच्छेच्छिवपुरं ध्रुवम् ॥ १०७ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहरुयां संहितायां चतुर्थे काशीखण्डे पूर्वार्द्धे अगस्त्याश्रमवर्णनन्नाम तृतीयोऽध्यायः ॥ ३ ॥ ॥