व्यास उवाच ॥
सूर्य आत्मास्य जगतस्तस्थुषस्तमसोरिपुः ॥
उदियायोदयगिरौ शुचिप्रसृमरैः करैः ॥ १ ॥
संवर्धयन्सतां धर्मान्त्यक्कुर्वंस्तामसीं स्थितिम् ॥
पद्मिनीं बोधयंस्त्विष्टां रात्रौ मुकुलिताननाम् ॥ २ ॥
हव्यं कव्यं भूतबलिं देवादीनां प्रवर्तयन् ॥
प्राह्णापराह्णमध्याह्न क्रियाकालं विजृम्भयन् ॥ ३ ॥
असतां हृदि वक्त्रेषु निर्दिशंस्तमसः स्थितिम् ॥
यामिनीकालकलितं जगदुज्जीवयन्पुनः ॥ ४ ॥
यस्मिन्नभ्युदिते जातः सम्यक्पुण्यजनोदयः ॥
अहो परोपकरणं सद्यः फलति नेति चेत् ॥ ५ ॥
सायमस्तमितः प्रातः कथं जीवेद्रविः पुनः ॥
सानुरागकरस्पर्शैः प्राचीमाश्वास्य खण्डिताम् ॥ ६ ॥
यामं भुक्त्वा तथाग्नेयीं ज्वलन्तीं विरहादिव ॥
लवङ्गैलामृगमदचन्द्रचन्दनचर्चिताम ॥ ७ ॥
ताम्बूलीरागरक्तौष्ठीं द्राक्षास्तबकसुस्तनीम् ॥
लवलीवल्लिदोर्वल्ली कङ्को ली पल्लवाङ्गुलिम् ॥ ८ ॥
मलयानिल निःश्वासां क्षीरोदकवराम्बराम् ॥
त्रिकूटस्वर्णरत्नाङ्गीं सुवेलाद्रि नितम्बिनीम ॥ ९ ॥
कावेरीगौतमीजङ्घां चोलचोलां शुकावृताम् ॥
सह्यदर्दुरवक्षोजां कान्तीकाञ्चीविभूषणाम ॥ 4.1.2.१० ॥
सुकोमलमहाराष्ट्रीवाग्विलासमनोहराम् ॥
अद्यापि न महालक्ष्मीर्या विमुञ्चति सद्गुणाम् ॥११॥
सुदक्षदक्षिणामाशामाशानाथः प्रतस्थिवान् ॥
क्रमतः सर्वमर्वन्तो हेलया हेलिकस्य खम् ॥१२॥
न शेकुरग्रतो गन्तुं ततोऽनूरुर्व्यजिज्ञपत् ॥१३॥
अनूरुरुवाच ॥ ॥
भानो मानोन्नतो विन्ध्यो निद्ध्यय गगनं स्थितः ॥
स्पर्धते मेरुणाप्रेप्सु स्त्वद्दत्तां तु प्रदक्षिणाम् ॥१४॥
अन्रूरुवाक्यमाकर्ण्य सविता हृद्यचिन्तयत् ॥
अहो गगनमार्गोपि रुध्यते चातिविस्मयः ॥ १५ ॥
व्यास उवाच ॥ ॥
सूरः शूरोपि किं कुर्यात्प्रान्तरे वर्त्मनिस्थितः ॥
त्वरावानपि को रुद्धं मागर्मेको विलङ्घयेत् ॥ १६ ॥
गृह्यत्राप्रत्यूष्टेः क्षणं नावतिष्ठति ॥
शून्यमार्गे निरुद्धः स किङ्करोतु विधिर्बली ॥ १७ ॥
योजनानां सहस्रे द्वे द्वे शते द्वे च योजने ॥
योजनस्य निमेषार्धाद्याति सोपि चिरं स्थितः ॥ १८ ॥
गते बहुतिथेकाले प्राच्यौदीच्यां भृशार्दिताः ॥
चण्डरश्मेः करव्रातपातसन्तापतापिताः ॥ १९ ॥
पाश्चात्या दक्षिणात्याश्च निद्रामुद्रितलोचनाः ॥
शयिता एव वीक्षन्ते सतारग्रहमम्बरम् ॥4.1.2.२०॥
अहोनाहस्कराभावान्निशानैवाऽनिशाकरात्॥
अस्तङ्गतर्क्षान्नभसः कः कालस्त्वेप नेक्ष्यते ॥२१॥
ब्रह्माण्डं किमकाण्डे वै लयमेष्यति तत्कथम् ॥
परापतन्ति नाद्यापि पारावारा इतस्ततः ॥ २२ ॥
स्वाहास्वधावषट्कारवर्जिते जगतीतले ॥
पञ्चयज्ञक्रियालोपाच्चकम्पे भुवनत्रयम् ॥ २३ ॥
सूर्योदयात्प्रवर्तन्ते यज्ञाद्याः सकलाः क्रियाः ॥
ताभिर्यज्ञभुजान्तृप्तिः सविता तत्र कारणम् ॥ २४ ॥
चित्रगुप्तादयः सर्वे कालं जानन्ति सूर्यतः ॥
स्थितिसर्गविसर्गाणां कारणं केवलं रविः ॥ २५ ॥
तत्सूर्यस्य गतिस्तम्भात्स्तम्भितं भुवनत्रयम् ॥
यद्यत्रतत्स्थितं तत्र चित्रन्यस्तमिवा खिलम् ॥ २६ ॥
एकतस्तिमिरान्नैशादेकतस्तु दिवातपात् ॥
बहूनां प्रलयो जातः कान्दिशीकमभूज्जगत् ॥ २७ ॥
इति व्याकुलिते लोके सुरासुरनरोरगे ॥
आःकिमेतदकाण्डेभूद्रुरुदुर्दुद्रुवुः प्रजाः ॥२८॥
ततः सर्वे समालोक्य ब्रह्माणं शरणं ययुः ॥
स्तुवन्तो विविधैः स्तोत्रै रक्षरक्षेति चाब्रुवन् ॥२९॥
॥ देवा ऊचुः॥
नमो हिरण्यरूपाय ब्रह्मणे ब्रह्मरूपिणे ॥
अविज्ञातस्वरूपाय कैवल्यायामृताय च ॥ 4.1.2.३० ॥
यन्न देवा विजानन्ति मनो यत्रापि कुण्ठितम्॥
न यत्र वाक्प्रसरति नमस्तस्मै चिदात्मने ॥ ३१ ॥
योगिनो यं हृदाकाशे प्रणिधानेन निश्चलाः ॥
ज्योतीरूपं प्रपश्यन्ति तस्मै श्रीब्रह्मणे नमः ॥ ३२ ॥
कालात्पराय कालाय स्वेच्छयापुरुषाय च ॥
गुणत्रय स्वरूपाय नमः प्रकृतिरूपिणे ॥ ३३ ॥
विष्णवे सत्त्वरूपाय रजोरूपाय वेधसे ॥
तमसे रुद्ररूपाय स्थितिसर्गान्तकारिणे ॥ ३४ ॥
नमो बुद्धिस्वरूपाय त्रिधाहङ्कृतये नमः ॥
पञ्चतन्मात्र रूपाय पञ्चकर्मेद्रियात्मने ॥ ३५ ॥
नमो मनःस्वरूपाय पञ्चबुद्धीन्द्रियात्मने ॥
क्षित्यादि पञ्चरूपाय नमस्ते विषयात्मने ॥ ३५ ॥
नमो ब्रह्माण्डरूपाय तदन्तर्वर्तिने नमः ॥
अर्वाचीनपराची न विश्वरूपाय ते नमः ॥ ३७ ॥
अनित्यनित्यरूपाय सदसत्पतये नमः ॥
समस्तभक्तकृपया स्वेच्छाविष्कृतविग्रह ॥ ३६ ॥
तव निःश्वसितं वेदास्तव स्वे दोखिलं जगत् ॥
विश्वा भूतानि ते पादः शीर्ष्णो द्यौः समवर्तत ॥ ३९ ॥
नाभ्या आसीदन्तरिक्षं लोमानि च वनस्पतिः ॥
चन्द्रमा मनसो जातश्चक्षोः सूर्यस्तव प्रभो ॥ 4.1.2.४० ॥
त्वमेव सर्वं त्वयि देव सर्वं स्तोता स्तुतिः स्तव्य इह त्वमेव ॥
ईश त्वयाऽवास्यमिदं हि सर्वं नमोस्तु भूयोपि नमो नमस्ते ॥ ४१ ॥
इति स्तुत्वा विधिं देवा निपेतुर्दण्डवत्क्षितौ ॥
परितुष्टस्तदा ब्रह्मा प्रत्युवाच दिवौकसः ॥ ४२ ॥
॥ ब्रह्मोवाच ॥ ॥
यथार्थयाऽनया स्तुत्या तुष्टोस्मि प्रणताः सुराः ॥
उत्तिष्ठत प्रसन्नोस्मि वृणुध्वं वरमुत्तमम् ॥ ४३ ॥
यः स्तोष्यत्यनया स्तुत्या श्रद्धावान्प्रत्यहं शुचिः ॥
मां वा हरं वा विष्णुं वा तस्य तुष्टाः सदा वयम् ॥ ४४ ॥
दास्यामः सकलान्कामान्पुत्रान्पौत्रान्पशून्वसु ॥
सौभाग्यमायुरारोग्यं निर्भयत्वं रणे जयम् ॥ ४५ ॥
ऐहिकामुष्मिकान्भोगानपवर्गं तथाऽक्षयम् ॥
यद्यदिष्टतमं तस्य तत्तत्सर्वं भविष्यति ॥४६॥
तस्मात्सर्वप्रयत्नेन पठितव्यः स्तवोत्तमः ॥
अभीष्टद इति ख्यातः स्तवोयं सर्वसिद्धिदः॥४७॥
पुनः प्रोवाच तान्वेधाः प्रणिपत्योत्थितान्सुरान् ॥
स्वस्थास्तिष्ठत भो यूयं किमत्रापि समाकुलाः ॥ ४८ ॥
एते वेदा मूर्तिधरा इमा विद्यास्तथाखिलाः ॥
सदक्षिणा अमी यज्ञाः सत्यं धर्मस्तपो दमः ॥ ४९ ॥
ब्रह्मचर्यमिदं चैषा करुणा भारतीत्वियम् ॥
श्रुतिस्मृतीतिहासार्थ चरितार्था अमीजनाः ॥ 4.1.2.५० ॥
नेह क्रोधो न मात्सर्यं लोभः कामोऽधृतिर्भयम् ॥
हिंसा कुटिलता गर्वो निन्दासूयाऽशुचिः क्वचित् ॥ ५१ ॥
ये ब्राह्मणा ब्रह्मरतास्तपोनिष्ठास्तपोधनाः ॥
मासोपवासषण्मासचातुर्मास्यादि सद्व्रताः ॥ ५२ ॥
पातिव्रत्यरता नार्यो ये चान्ये ब्रह्मचारिणः ॥
ते चामीपश्यत सुरा ये षण्ढाः परयोषिति ॥ ५३ ॥
मातापित्रोरमी भक्ता अमी गोग्रहणे हताः ॥
व्रते दाने जपे यज्ञे स्वाध्याये द्विजतर्पणे ॥ ५४ ॥
तीर्थे तपस्युपकृतौ सदाचारादिकर्मणि ॥
फलाभिलाषिणीबुद्धिर्न येषां ते जना अमी ॥ ५५ ॥
गायत्री जाप्यनिरता अग्निहोत्र परायणाः ॥
द्विमुखी गो प्रदातारः कपिलादान तत्पराः ॥ ५६ ॥
निस्पृहाः सोमपा ये वै द्विजपादोदपाश्च ये ॥
मृताः सारस्वते तीर्थे द्विजशुश्रूषकाश्च ये ॥ ५७ ॥
प्रतिग्रहे समर्था हि ये प्रतिग्रहवर्जिताः ॥
त एते मत्प्रिया विप्रास्त्यक्ततीर्थ प्रतिग्रहाः ॥ ५८ ॥
प्रयागे माघ मासो यैरुषः स्नातोऽमलात्मभिः ॥
मकरस्थे रवौ शुद्धास्त इमे सूर्यवर्चसः ॥ ५९ ॥
वाराणस्यां पाञ्चनदे त्र्यहं स्नातास्तु कार्तिके ॥
अमी ते शुद्धवपुषः पुण्यभाजोतिनिर्मलाः ॥ 4.1.2.६० ॥
स्नात्वा तु मणिकर्णिक्यां प्रीणिता ब्राह्मणा धनैः ॥
त एते सर्वभोगाढ्याः कल्पं स्थास्यन्ति मत्पुरे ॥ ६१ ॥
ततः काशीं समासाद्य तेन पुण्येन नोदिताः ॥
विश्वेश्वरप्रसादेन मोक्षमेष्यन्त्यसंशयम् ॥ ६२ ॥
अविमुक्ते कृतं कर्म यदल्पमपि मानवैः ॥
श्रेयोरूपं तद्विपाको मोक्षो जन्मान्तरेष्वपि ॥ ६३ ॥
अहो वैश्वेश्वरे क्षेत्रे मरणादपिनोभयम् ॥
यत्र सर्वे प्रतीक्षन्ते मृत्युं प्रियमिवाति थिम् ॥ ६४ ॥
ब्राह्मणेभ्यः कुरुक्षेत्रे यैर्दत्तं वसु निर्मलम् ॥
निर्मलाङ्गास्त एते वै तिष्ठन्ति मम सन्निधा ॥६५ ॥
पितामहं समासाद्य गयायां यैः पितामहाः ॥
तर्पिता ब्राह्मणमुखे तेषामेते पितामहाः ॥६६॥
न स्नानेन न दानेन न जपेन न पूजया ॥
मल्लोकः प्राप्यते देवाः प्राप्यते द्विज तर्पणात् ॥६७॥
सोपस्कराणिवेश्मानिमु सलोलूखलादिभिः ॥
यैर्दत्तानि सशय्यानि तेषां हर्म्याण्यमूनि वै ॥ ६८ ॥
ब्रह्मशालां कारयन्ति वेदमध्यापयन्ति च ॥
विद्यादानं च ये कुर्युः पुराणं श्रावयन्ति च ॥ ६९ ॥
पुराणानि च ये दद्युः पुस्तकानि ददत्यपि ॥
धर्मशास्त्राणि ये दद्युस्तेषां वासोत्र मे पुरे ॥ 4.1.2.७० ॥
यज्ञार्थं च विवाहार्थं व्रतार्थं ब्राह्मणाय वै ॥
अखण्डं वसु ये दद्युस्तेत्र स्युर्वसुवर्चसः ॥ ७१ ॥
आरोग्यशालां यः कुर्याद्वैद्यपोषणतत्परः ॥
आकल्पमत्र वसति सर्वभोग समन्वितः ॥ ७२ ॥
मुक्ती कुर्वन्ति तीर्थानि ये च दुष्टावरोधतः ॥
ममावरोधे ते मान्या औरसास्तनया इव ॥ ७३ ॥
विष्णोर्वाममवाशम्भोर्ब्राह्मणा एव सुप्रियाः ॥
तेषां मूर्त्या वयं साक्षाद्विचरामो महीतले ॥ ७४ ॥
ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधाकृतम् ॥
एकत्र मन्त्रास्तिष्ठन्ति हविरेकत्र तिष्ठति ॥ ७५ ॥
ब्राह्मणा जङ्गमं तीर्थं निर्मितं सार्वभौमिकम् ॥
येषां वाक्योदकेनैव शुद्ध्यन्ति मलिना जनाः ॥ ७६ ॥
गावः पवित्रमतुलं गावो मङ्गलमुत्तमम् ॥
यासां खुरोत्थितो रेणुर्गङ्गावारिसमो भवेत् ॥ ७७ ॥
शृङ्गाग्रे सर्वतीर्थानि खुराग्रे सर्व पर्वताः ॥
शृङ्गयोरन्तरे यस्याः साक्षाद्गौरीमहेश्वरी ॥ ७८ ॥
दीयमानां च गां दृष्ट्वा नृत्यन्ति प्रपितामहाः ॥
प्रीयन्ते ऋषयः सर्वे तुष्यामो दैवतैः सह ॥ ७९ ॥
रोरूयन्ते च पापानि दारिद्र्यं व्याधिभिः सह ॥
धात्र्यः सर्वस्य लोकस्य गावो मातेव सर्वथा ॥ 4.1.2.८० ॥
गवां स्तुत्वा नमस्कृत्य कृत्वा चैव प्र दक्षिणाम्॥
प्रदक्षिणीकृतातेन सप्तद्वीपा वसुन्धरा ॥ ८१ ॥
या लक्ष्मीः सवर्भूतानां या देवेषु व्यवस्थिता ॥
धेनुरूपेण सा देवी मम पापं व्यपोहतु ॥ ८२ ॥
विष्णोर्वक्षसि या लक्ष्मीः स्वाहा चैव विभावसोः ॥
स्वधा या पितृमुख्यानां सा धेनुर्वरदा सदा ॥ ८३ ॥
गोमयं यमुना साक्षाद्गोमूत्रं नर्मदा शुभा ॥
गङ्गा क्षीरं तु यासां वै किं पवित्रमतः परम् ॥ ८४ ॥
गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश ॥
यस्मात्तस्माच्छिवं मे स्यादिहलोके परत्र च ॥ ८५ ॥
इति मन्त्रं समुच्चार्य धेनूर्वाधेनु मेव वा ॥
यो दद्याद्द्विजवर्याय स सर्वेभ्यो विशिष्यते ॥ ८६ ॥
मया च विष्णुना सार्धं शिवेन च महर्षिभिः ।
विचार्य गोगुणान्नित्यं प्रार्थनेति विधीयते ॥ ८७ ॥
गावो मे पुरतः सन्तु गावो मे सन्तु पृष्ठतः ॥
गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम् ॥ ८८ ॥
नीराजयति योङ्गानि गवां पुच्छेन भाग्यवान् ॥
अलक्ष्मीः कलहो रोगास्तस्याङ्गाद्यान्ति दूरतः॥८९॥
गोभिर्विप्रश्च वेदैश्च सतीभिः सत्यवादिभिः॥
अलुब्धैर्दा नशीलैश्च सप्तभिर्धार्यते मही॥4.1.2.९०।
मम लोकात्परोलोको वैकुण्ठ इति गीयते॥
तस्योपरिष्टात्कौमार उमालोकस्ततः परम्॥९१॥
शिवलोकस्तदुपरि गोलो कस्तत्समीपतः ॥
गोमातरः सुशीलाद्यास्तत्र सन्ति शिवप्रियाः ॥ ९२ ॥
गवां शुश्रूरूषकाये च गोप्रदाये च मानवाः ॥
एषामन्यतमे लोके ते स्युः सर्वसमृद्धयः ॥ ९३ ॥
यत्र क्षीरवहा नद्यो यत्र पायस कर्दमाः ॥
न जरा बाधते यत्र तत्र गच्छन्ति गोप्रदाः ॥ ९४ ॥
श्रुतिस्मृतिपुराणज्ञा ब्राह्मणाः परिकीर्तिताः॥
तदुक्ताचारचरणा इतरे नामधारकाः॥९५॥
श्रुतिस्मृती तु नेत्रे द्वे पुराणं हृदयं स्मृतम् ॥
श्रुतिस्मृतिभ्यां हीनोन्धः काणः स्यादेकया विना॥
पुराणहीनाद्धृच्छून्यात्काणान्धावपि तौ वरौ ॥
श्रुतिस्मृत्युदितोधर्मः पुराणे परिगीयते॥९७॥
तद्बाह्मणाय गोर्देया सर्वत्र सुखमिच्छता ॥
न देया द्विजमात्राय दातारं सोप्यधो नयेत्॥९८॥
यस्य धर्मेऽस्ति जिज्ञासा यस्य पापाद्भयं महत्॥
श्रोतव्यानि पुराणानि धमर्मूलानि तेन वै॥९९॥
चतुर्दशसु विद्यासु पुराणं दीप उत्तमः॥
अन्धोपि न तदा लोकात्संसाराब्धौ क्वचित्पतेत् ॥4.1.2.१००॥
श्रोतव्यानि पुराणानि वस्तव्यं जाह्नवी तटे ॥
तर्पणीया द्विजा नित्यं ममलोकेप्सुभिः सदा ॥ १ ॥
इत्युद्देशान्मयाख्याता सत्यलोकव्यवस्थितिः ॥
अभयं यद्भयार्तानां न भेतव्यं च हे सुराः ॥२॥
स्पर्धते मेरुणा विन्ध्यो ब्रध्नाध्व परिरोधकृत ॥
तदर्थमागता यूयं तदुपायं दिशामि वः॥३॥
अस्त्यगस्त्यस्तप्यमानस्तप उग्रं महातपाः ॥
मैत्रावरुणिराधाय चित्तं विश्वेश्वरे विभौ ॥ ४ ॥
अविमुक्तमहाक्षेत्रे सर्वेषां मुक्तिहेतुके ॥
तारकस्योपदेशार्थं विश्वेशाऽधिष्ठिते स्वयम् ॥ ५ ॥
याचध्वं तत्र गत्वा तं स वः कार्यं विधास्यति ॥
तेनैकदाविता लोका वातापील्वलभक्षणात् ॥ ६ ॥
अतिमित्रं तत्र तेजो मित्रावरुणजे मुनौ॥
तदाप्रभृति लोकेषु कोगस्त्यान्नैव बिभ्यति ॥७॥
इत्युक्त्वान्तर्दधे वेधास्तेपि प्रमुदिताननाः ॥
देवाः परस्परं प्रोचुरहोधन्य तमा वयम् ॥ ८ ॥
प्रसङ्गतोपि द्रष्टव्यौ काशीकाशीपती शिवौ॥।
अहो अहोभिर्बहुभिः फलितो नो मनोरथः॥ ९ ॥
उत्फुल्लपद्मनयना निर्मिताः सुकृतार्थिनः॥
तावेव चरणौ धन्यौ काशीमभिप्रयायिनौ ॥ 4.1.2.११० ॥
येयं कथा श्रुतास्माभिर्वेधसा समुदीरिता ॥
तस्याः श्रवणजात्पुण्यात्प्राप्नुमस्त्वद्य काशिकाम्॥ ११ ॥
एका क्रिया द्व्यर्थकरी प्राप्यते पुण्यगौरवात् ॥
एवं वदन्तो हृष्टास्याः सुराः काशीं समाययुः ॥१२॥
व्यास उवाच ॥
इदं पुण्यतमाख्यानं ये श्रोष्यन्तीह मानवाः ॥
विधूय सर्वपापानि पुत्रदारसमन्विताः ॥ १३ ॥
इह वंशं परिस्थाप्य भुक्त्वा सर्व सुखानि च ॥
सत्यलोके चिरं स्थित्वा ततो यास्यन्ति शाश्वतम् ॥ ११४ ॥
इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्धे सत्यलोकवर्णनन्नाम द्वितीयोऽध्यायः ॥२ ॥ ॥