००१ विन्ध्यवर्धनम्

श्रीगणेशाय नमः ॥ ॥
तं मन्महे महेशानं महेशानप्रियार्भकम् ॥
गणेशानं करिगणेशानाननमनामयम् ॥ १ ॥
भूमिष्ठापि न यात्रभूस्त्रिदिवतोप्युच्चैरधःस्थापि या या बद्धा भुवि मुक्तिदास्युरमृतं यस्यां मृता जन्तवः ॥
या नित्यं त्रिजगत्पवित्रतटिनी तीरे सुरैः सेव्यते सा काशी त्रिपुरारिराजनगरी पायादपायाज्जगत् ॥ २ ॥
नमस्तस्मै महेशाय यस्य सन्ध्यात्त्रयच्छलात् ॥
यातायातं प्रकुर्वन्ति त्रिजगत्पतयोऽनिशम् ॥ ३ ॥
अष्टादशपुराणानां कर्त्ता सत्यवतीसुतः ॥
सूताग्रे कथयामास कथां पापापनोदिनीम् ॥ ४ ॥
श्रीव्यास उवाच ॥ ॥
कदाचिन्नारदः श्रीमान्स्नात्वा श्रीनर्मदाम्भसि ॥
श्रीमदोङ्कारमभ्यर्च्य सर्वदं सर्वदेहिनाम् ॥ ५ ॥
व्रजन्विलोकयाञ्चक्रे पुरोविन्ध्यं धराधरम् ॥
संसारतापसंहारि रेवावारिपरिष्कृतम् ॥ ६ ॥
द्वैरूप्येणापि कुर्वन्तं स्थावरेण चरेण च ॥
साभिख्येन यथार्थाख्यामुच्चैर्वसु मतीमिमाम् ॥ ७ ॥
रसालयं रसालैस्तैरशोकैः शोकहारिणाम् ॥
तालैस्तमालेर्हिन्तालैः सालैः सर्वत्रशालितम् ॥ ८॥
खपुरैः खपुराकारं श्रीफलं श्रीफलैः किल ॥
गुरुश्रियन्त्वगुरुभिः कपिपिङ्गं कपित्थकैः ॥ ९ ॥
वनश्रियः कुचाकारैर्लकुचैश्च मनोहरम् ॥
सुधाफलसमारम्भि रम्भाभिः परिभासितम् ॥4.1.1.१०॥
सुरङ्गैश्चापि नारङ्गैरङ्गमण्डपवच्छियः ॥
वानीरैश्चापि जम्बीरैर्बीजपूरैः प्रपूरितम् ॥ ११ ॥
अनिलालोल कङ्कोल वल्लीहल्ली सकायितम् ॥
लवलीलवलीलाभिर्लास्यलीलालयं किल ॥ १२ ॥
मन्दान्दोलितकर्पूर कदलीदल सञ्ज्ञया ॥
विश्रमाय श्रमापन्नानाहूयन्तमिवाध्वगान् ॥ १३ ॥
पुन्नागमिव पुन्नागपल्लवैःकरपल्लवैः ॥
कलयन्तमिवाऽलोलैर्मल्लिकास्तबकस्तनम् ॥ १४ ॥
विदीर्णदाडिमैः स्वान्तं दर्शयन्तं तु रागवत् ॥
माधवीं धवरूपेण श्लिष्यन्तमिव कानने ॥ १५ ॥
उदुम्बरैरम्बरगैरनन्तफलमालितैः ॥
ब्रह्माण्डकोटीर्बिभ्रन्तमनन्तमिव सर्वतः ॥ १६ ॥
पनसैर्वनासाभैः शुकनासैः पलाशकैः॥
पलाशनाद्विरहिणां पत्रत्यक्तैरिवावृतम्॥१७॥
कदम्बवादिनो नीपान्दृष्ट्वा कण्टकितैरिव॥
समन्ततो भ्राजमानं कदम्बककदम्बकैः ॥ १८ ॥
नमेरुभिश्च मेरूच्चशिखरैरिव राजितम् ॥
राजादनैश्च मदनैः सदनैरिव कामिनाम् ॥ १९ ॥
तटेतटेपटुवटैरुच्चैःपटकुटी वृतम् ॥
कुटजस्तबकैर्भान्तमधिष्ठितबकैरिव ॥ 4.1.1.२० ॥
करमर्दैः करीरैश्च करजैश्चकरम्बकैः ॥
सहस्रकरवद्भान्तमर्थिप्रत्युद्गतैः करैः ॥ २१ ॥
नीराजितमिवोद्दीपैराजचम्पककोरकैः ॥
सपुष्पशाल्मलीभिश्च जितपद्माकरश्रियम् ॥ २२ ॥
क्वचिच्चलदलैरुच्चैः क्वचित्काञ्चनकेतकैः ॥
कृतमालैर्न क्तमालैः शोभमानं क्वचित्क्वचित् ॥ २३ ॥
कर्कन्धु बन्धुजीवैश्च पुत्रजीवैर्विराजितम् ॥
सतिन्दुकेङ्गुदीभिश्च करुणैःकरुणालयम् ॥ २४ !।
गलन्मधू ककुसुमैर्धरारूपधरंहरम् ॥
स्वहस्तमुक्तमुक्ताभिरर्चयन्तमिवानिशम् ॥ २५ ॥
सर्जार्जुनाञ्जनैर्बीजैर्व्यजनैर्वीज्यमानवत् ॥
नारिकेलैः सखर्जूरैर्धृतच्छत्रमिवाम्बरे ॥ २६ ॥
अमन्दैः पिचुमन्दैश्च मन्दारैः कोविदारकैः ॥
पाटलातिन्तिणीघोण्टाशाखोटैः करहाटकैः ॥ २७ ॥
उद्दण्डैश्चापि शेहुण्डैरेरण्डैर्गुडपुष्पकैः ॥
बकुलैस्तिलकैश्चैव तिलकाङ्कितमस्तकम् ॥ २८ ॥
अक्षैः प्लक्षैः शल्लकीभिर्देवदारुहरिद्रुमैः ॥
सदाफलसदापुष्प वृक्षवल्लीविराजितम् ॥ २९ ॥
एलालवङ्ग मरिचकुलुं जनवनावृतम् ॥
जम्ब्वाम्रातकभल्लातशेलुश्रीपर्णिवर्णितम् ॥ 4.1.1.३० ॥
शाकशङ्खवनैरम्यं चदनैरक्तचन्दनैः ॥
हरीतकीकर्णिकार धात्रीवनविभूषणम् ॥ ३१ ॥
द्राक्षावल्लीनागवल्लीकणावल्लीशतावृतम् ॥
मल्लिकायूथिकाकुन्दम दयन्ती सुगन्धिनम् ॥३२॥
भ्रमद्भ्रमरमालाभिर्मालतीभिरलङ्कृतम् ॥
अलिच्छलागतङ्कृष्णं गोपीरन्तुमनेकशः ॥३३॥
नानामृगगणाकीर्णं नानापक्षिविनादितम् ॥
नानासरित्सरः स्रोतः पल्वलैः परितो वृतम् ॥३४॥
तुच्छश्रियः स्वर्गभूमीः परिहायागतैरिव ॥
नानासुरनिकायैश्च विष्वग्भोगेच्छयोषितम् ॥३५॥
उत्सृजन्तमिवार्घ्यं वै पत्रपुष्पैरितस्ततः ॥
केकिकेकारवैर्दूरात्कुर्वन्तं स्वागतं किल ॥ ३६ ॥
अथ सूर्यशताभासं नभसि द्योतिताम्बरम् ॥
नारदं दृष्टवाञ्छैलो दूरात्प्रत्युज्जगाम तम् ॥ ३७ ॥
ब्रह्मसूनुवपुस्तेजो दूरीकृतदरीतमाः ॥
तमागच्छन्तमालोक्य मानसं तम उज्जहौ ॥ ३८ ॥
ब्रह्मतेजःसमुद्भूत साध्वसः साधुस त्क्रियः ॥
कठिनोपि परित्यज्य धत्ते मृदुलतां किल ॥ ३९ ॥
दृष्ट्वा मृदुलतां तस्य द्वैरूप्येपि स नारदः ॥
मुमुदे सुतरां सन्तः प्रश्रयग्राह्यमानसाः ॥ 4.1.1.४० ॥
गृहानायान्तमालोक्य गुरुंवाऽगुरुमेव वा ॥
योऽगुरुर्नम्रतां धत्ते स गुरुर्न गुरुर्गुरुः ॥ ४१ ॥
तं प्रत्युच्चैः शिराःसोपि विनम्रतरकन्धरः ॥
शैलस्त्विलामिलन्मौलिः प्रणनाम महामुनिम्॥४२॥
तमुत्थाप्य कराग्राभ्यामाशीर्भिरभिनन्द्य च ॥
तदुद्दिष्टासनं भेजे मनसोपि समुच्छ्रितम् ॥४३॥
स दध्नामधुनाज्येन नीरार्द्राक्षतदूर्व या ॥
तिलैः कुशैः प्रसूनैस्तमष्टाङ्गार्घ्यैरपूजयत् ॥ ४४ ॥
गृहीतार्घ्यङ्किल श्रान्तं पादसंवाहनादिभिः ॥
गतश्रममथालोक्य बभाषे ऽवनतो गिरिः ॥ ४५ ॥
अद्य सद्यः परिहृतं त्वदङ्घ्रिरजसारजः ॥
त्वदङ्गसङ्गिमहसा सहसाऽप्यान्तरन्तमः ॥ ४६ ॥
सफलर्धिरहं चाद्य सुदिवाद्यच मे मुने ॥
प्राक्कृतैः सुकृतैरद्य फलितं मे चिरार्जितैः ॥ ४७ ॥
धराधरत्वं कुलिषुमान्यं मेऽद्य भविष्यति ॥
इति श्रुत्वा तदा किञ्चिदुच्छुस्य स्थितवान्मुनिः ॥ ४८ ॥
पुनरूचे कुलिवरः सम्भ्रमाप न्नमानसः ॥
उच्छ्वासकारणं ब्रह्मन्ब्रूहि सर्वार्थकोविद ॥ ४९ ॥
अदृष्टं तव नोदृष्टं यदिष्टंविष्टपत्रये ॥
अनुक्रोशोत्र मयिचेदुच्यतां प्रणतोस्म्यहम् ॥ 4.1.1.५० ॥
त्वदागमनजानन्दसन्दोहैर्मे दुरारवः ॥
अलं न वक्तुमसकृत्तथाप्येकं वदाम्यहम् ॥ ५१ ॥
धराधरणसामर्थ्यं मेर्वादौ पूर्वपूरुषैः ॥
वर्ण्यते समुदायात्तदहमेको दधे धराम् ॥ ५२ ॥
गौरीगुरुत्वाद्धिमवानादिपत्याच्च भूभृताम् ॥
सम्बन्धित्वात्पशुपतेः स एको मान्यभृत्सताम्॥ ५३ ॥
नमेरुः स्वर्णपूर्णत्वाद्रत्नसानुतयाथवा ॥
सुरसद्मतयावापि क्वापि मान्यो मतो मम ॥ ५४ ॥
परं शतं न किंशैला इलाकलनकेलयः ॥
इह सन्ति सतां मान्या मान्यास्ते तु स्वभूमिषु ॥ ॥५५ ॥
मन्देहदेहसन्देहादुदयैकदयाश्रितः ॥
निषधो नौषधिधरोऽप्यस्तोप्यस्तमितप्रभः ॥ ५६ ॥
नीलश्च नीलीनिलयो मन्दरो मन्दलोचनः ॥
सर्पालयः समलयो रायं नावैति रैवतः ॥ ५७ ॥
हेमकूटत्रिकूटाद्याः कूटोत्तरपदास्तुते ॥
किष्किन्धक्रौञ्चसह्याद्या भारसह्या न ते भुवः ॥ ५८ ॥
इति विन्ध्यवचः श्रुत्वा नारदोऽचिन्तयद्धृदि ॥
अखर्वगर्वसंसर्गो न महत्त्वाय कल्पते ॥ ५९ ॥
श्रीशैलमुख्याः किंशैलानेह सन्त्यमलश्रियः ॥
येषां शिखरमात्रादि दर्शनं मुक्तये सताम् ॥ 4.1.1.६० ॥
अद्यास्य बलमालोक्यमिति ध्यात्वाब्रवीन्मुनिः ॥
सत्यमुक्तं हि भवता गि रिसारंविवृण्वता ॥ ६१ ॥
परं शैलेषु शैलेन्द्रो मेरुस्त्वामवमन्यते ॥
मया निःश्वसितं चैतत्त्वयि चापि निवेदितम् ॥ ६२ ॥
अथवा मद्विधानां हि केयं चिन्ता महात्मनाम् ॥
स्वस्त्यस्तु तुभ्यमित्युक्त्वा ययौ स व्योमवर्त्मनि ॥ ६३ ॥
गते मुनौ निनिन्दस्वमतीवोद्विग्नमानसः ॥
चिन्तामवाप महतीं विन्ध्यो र्वन्ध्यमनोरथः ॥ ६४ ॥
विन्ध्य उवाच ॥ ॥
धिग्जीवितंशास्त्रकलोज्झितस्य धिग्जीवितं चोद्यमवर्जितस्य ॥
धिग्जीवितं ज्ञातिपराजितस्य धिग्जीवितं व्यथर्मनोरथस्य ॥ ६५ ॥
कथं भुनक्ति स दिवा कथं रात्रौ स्वपित्यहो ॥
रहः शर्म कथं तस्य यस्याभिभवनं रिपोः ॥ ६६ ॥
अहोदवाग्निदवथुस्तथामां न स बाधते ॥
बाधते तु यथा चित्ते चिन्तासन्तापसन्ततिः ॥ ६७ ॥
युक्तमुक्तं पुराविद्भिश्चिन्तामूर्तिः सुदारुणा ॥
न भेषजैर्लङ्घनैर्वा न चान्यैरुपशाम्यति ॥६८॥
चिन्ताज्वरो मनुष्याणां क्षुधान्निद्राम्बलं हरेत् ॥
रूपमुत्साहबुद्धिं श्री जीवितं च न संशयः ॥ ६९ ॥
ज्वरो व्यतीते षडहे जीर्णज्वर इहोच्यते ॥
असौ चिन्ताज्वरस्तीव्रः प्रत्यहं नवतां व्रजेत् ॥ 4.1.1.७० ॥
धन्यो धन्वतरिर्नात्र चरकश्चरतीह न ॥
नासत्यावपिनाऽ सत्यावत्र चिन्ताज्वरे किल ॥ ७१ ॥
किं करोमि क्व गच्छामि कथं मेरुं जयाम्यहम् ॥
उत्प्लुत्य तस्य शिरसि पतामि न पताम्यतः ॥ ७२ ॥
शक्रं कोपयता पूर्वमस्मद्गोत्रेण केनचित् ॥
पक्षहीनः कृतो यत्र धिगपक्षस्यचेष्टितम् ॥ ७३ ॥
अथवा स कथं मेरुस्तथोच्चैः स्पर्द्धते मया ॥
भूमेर्भारभृतःप्रायो भवन्ति भ्रान्ति भूमयः ॥ ७४ ॥
अलीकवाक्त्वमथवा सम्भाव्यं नारदे कथम् ॥
ब्रह्मचारिणि वेदज्ञे सत्यलोकनिवासिनि ॥ ७५॥
युक्तायुक्तविचारोथ मादृशेनोपयुज्यते ॥
पराक्रमेष्वशक्तानां विचारं गाहते मनः ॥ ७६ ॥
अथवा चिन्तनैरेतैः किंव्यर्थैर्विश्वकारकम् ॥
विश्वेशं शरणं यायां समे बुद्धिं प्रदास्यति ॥ ७७॥
अनाथनाथः सर्वेषां विश्वनाथो हि गीयते ॥
क्षणं मनसि सञ्चित्य भवेदित्थमसंशयम् ॥ ७८ ॥
एतदेव करिष्यामि नेष्टं कालविलम्बनम् ॥
विचक्षणैरुपेक्ष्यौ न वर्द्धमानौ परामयौ ॥७९॥
मेरुं प्रदक्षिणीकुर्यान्नित्यमेव दिवाकरः ॥
सग्रहर्क्षगणो नूनं मन्यमानो बलाधिकम् ॥ 4.1.1.८० ॥
इति निश्चित्य विन्ध्याद्रिर्ववृधे स मृधेक्षणः ॥
अनन्तगगनस्यान्तं कुर्वद्भिः शिखरैरिव ॥ ८१ ॥
कैश्चित्सार्द्धं विरोधो न कर्तव्यः केनचित्क्वचित् ॥
कर्तव्यश्चेत्प्रयत्नेन यथा नोपहसेज्जनः ॥ ८२ ॥
निरुध्य ब्राध्नमध्वानं कृतकृत्य इवाद्रिराट् ॥
स्वस्थोऽभवद्भवाधीना प्राणिनां हि भविष्यता ॥ ८३ ॥
यमद्ययमकर्तासौ दक्षिणं प्रक्रमिष्यति ॥
सकुलीनः स च श्रीमान्समहान्महितः स च ॥ ८४ ॥
यावत्स्वश क्तिं शक्तोपि न दर्शयति कर्हिचित् ॥
तावत्स लङ्घ्यः सर्वेषां ज्वलनो दारुगो यथा ॥ ८५ ॥
इति चिन्तामहाभारं त्यक्त्वा तस्थौ स्थिरोद्यमः ॥
आकाङ्क्षमाणस्तरणे रुदयं ब्राह्मणो यथा ॥ ८६ ॥
इति श्रीस्कान्देमहापुराणे एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्धे विन्ध्यवर्धनन्नाम प्रथमोऽध्यायः ॥ १ ॥