०२१ रुद्राध्यायमहिमवर्णनम्

॥ सूत उवाच ॥ ॥
एवं ब्रह्मर्षिणा प्रोक्तां वाणीं पीयूषसन्निभाम् ॥
आकर्ण्य मुदितो राजा प्राञ्जलिः पुनरब्रवीत् ॥ १ ॥
॥ राजोवाच ॥ ॥
अहो सत्सङ्गमः पुंसामशेषाघप्रशोधनः ॥
कामक्रोधनिहन्ता च इष्टदोग्धा जनस्य हि ॥ २ ॥
मम मायातमो नष्टं ज्ञानदृष्टिः प्रकाशिता ॥
तव दर्शनमात्रेण प्रायोहममरोत्तमः ॥ ॥ ३ ॥
श्रुतं च पूर्वचरितं बालयोः सम्यगेतयोः ॥
भविष्यदपि पृच्छामि मत्पुत्राचरणं मुने ॥ ४ ॥
अस्यायुः कति वर्षाणि भाग्यं वद च कीदृ शम् ॥
विद्या कीर्तिश्च शक्तिश्च श्रद्धा भक्तिश्च कीदृशी ॥ ५ ॥
एतत्सर्वमशेषेण मुने त्वं वक्तुमर्हसि ॥
तव शिष्योस्मि भृत्योस्मि शरणं त्वां गतोस्मयहम् ॥ ६ ॥
॥ पराशर उवाच ॥ ॥
अत्रावाच्यं हि यत्किञ्चित्कथं शक्तोस्मि शंसितुम् ॥
यच्छ्रुत्वा धृतिमन्तोपि विषादं प्राप्नुयुर्जनाः ॥ ॥ ७ ॥
तथापि निर्व्यलीकेन भावेन परिपृच्छतः ॥
अवाच्यमपि वक्ष्यामि तव स्नेहान्महीपते ॥ ८ ॥
अमुष्य त्वत्कुमारस्य वर्षाणि द्वादशात्ययुः ॥
इतः परं प्रपद्येत सप्तमे दिवसे मृतिम् ॥ ९ ॥
इति तस्य वचः श्रुत्वा कालकूटमिवोदितम् ॥
मूर्च्छितः सहसा भूमौ पतितो नृपतिः शुचा ॥ ३.३.२१.१० ॥
तमुत्थाप्य समाश्वास्य स मुनिः करुणार्द्रधीः ॥
उवाच मा भैर्नृपते पुनर्वक्ष्यामि ते हितम् ॥ ११ ॥
सर्गात्पुरा निरालोकं यदेकं निष्कलं परम् ॥
चिदानन्दमयं ज्योतिः स आद्यः केवलः शिवः ॥ १२ ॥
स एवादौ रजोरूपं सृष्ट्वा ब्रह्माणमात्मना ॥
सृष्टिकर्मनियुक्ताय तस्मै वेदांश्च दत्तवान् ॥ १३ ॥
पुनश्च दत्तवानीश आत्मतत्त्वैकसङ्ग्रहम् ॥
सर्वोपनिषदां सारं रुद्राध्यायं च दत्तवान् ॥ १४ ॥
यदेकमव्ययं साक्षाद्ब्रह्मज्योतिः सनातनम् ॥
शिवात्मकं परं तत्त्वं रुद्राध्याये प्रतिष्ठितम् ॥ १५ ॥
स आत्मभूः सृजद्विश्वं चतुर्भिर्वदनैर्विराट् ॥
ससर्ज वेदांश्चतुरो लोकानां स्थितिहेतवे ॥ १६ ॥
तत्रायं यजुषां मध्ये ब्रह्मणो दक्षिणान्मुखात् ॥
अशेषोपनिषत्सारो रुद्राध्यायः समुद्गतः ॥ १७ ॥
स एष मुनिभिः सर्वैर्मरीच्यत्रिपुरोगमैः ॥
सह देवैर्धृतस्तेभ्यस्तच्छिष्या जगृहुश्च तम् ॥ १८ ॥
तच्छिष्यशिष्यैस्तत्पुत्रैस्तत्पुत्रैश्च क्रमागतैः ॥
धृतो रुद्रात्मकः सोऽयं वेदसारः प्रसादितः ॥ १९ ॥
एष एव परो मन्त्र एष एव परं तपः ॥
रुद्राध्यायजपः पुंसां परं कैवल्यसाधनम् ॥ ३.३.२१.२० ॥
महापातकिनः प्रोक्ता उपपातकिनश्च ये ॥
रुद्राध्यायजपात्सद्यस्तेऽपि यान्ति परां गतिम् ॥ २१ ॥
भूयोपि ब्रह्मणा सृष्टाः सदसन्मिश्रयोनयः ॥
देवतिर्यङ्मनुष्याद्यास्ततः सम्पूरितं जगत् ॥ २२ ॥
तेषां कर्माणि सृष्टानि स्वजन्मानुगुणानि च ॥
लोकास्तेषु प्रवर्तन्ते भुञ्जते चैव तत्फलम् ॥ २३ ॥
लोकसृष्टिप्रवाहार्थं स्वयमेव प्रजापतिः॥
धर्माधर्मौ ससर्जाग्रे स्ववक्षःपृष्ठभागतः ॥ २४ ॥
धर्ममेवानुतिष्ठन्तः पुण्यं विन्दन्ति तत्फलम् ॥
अधर्ममनुतिष्ठन्तस्ते पापफलभोगिनः ॥ २५ ॥
पुण्यकर्मफल स्वर्गो नरकस्तद्विपर्ययः ॥
तयोर्द्वावधिपौ धात्रा कृतौ शतमखान्तकौ ॥ २६ ॥
कामः क्रोधश्च लोभश्च मदमानादयः परे ॥
अधर्मस्य सुता आसन्सर्वे नरकनायकाः ॥ २७ ॥
गुरुतल्पः सुरापानं तथान्यः पुल्कसीगमः ॥
कामस्य तनया ह्येते प्रधानाः परिकीर्तिताः ॥ २८ ॥
क्रोधात्पितृवधो जातस्तथा मातृवधः परः ॥
ब्रह्महत्या च कन्यैका क्रोधस्य तनया अमी ॥ २९ ॥
देवस्वहरणश्चैव ब्रह्मस्वहरणस्तथा ॥
स्वर्णस्तेय इति त्वेते लोभस्य तनयाः स्मृताः ॥ ३.३.२१.३० ॥
एतानाहूय चाण्डालान्यमः पातकनायकान् ॥
नरकस्य विवृद्ध्यर्थमाधिपत्यं चकार ह ॥ ३१ ॥
ते यमेन समादिष्टा नव पातकनायकाः ॥
ते सर्वे सङ्गता भूयो घोराः पातकनायकाः ॥ ३२ ॥
नरकान्पालयामासुः स्वभृत्यैश्चोपपातकैः ॥
रुद्राध्याये भुवि प्राप्ते साक्षात्कैवल्यसाधने ॥ ३३ ॥
भीताः प्रदुद्रुवुः सर्वे तेऽमी पातकनायकाः ॥
यमं विज्ञापयामासुः सहान्यैरुपपातकैः ॥ ३४ ॥
जय देव महाराज वयं हि तव किङ्कराः ॥
नरकस्य विवृद्ध्यर्थं साधिकाराः कृतास्त्वया ॥ ३५ ॥
अधुना वर्तितुं लोके न शक्ताः स्मो वयं प्रभो ॥
रुद्राध्यायानुभावेन निर्दग्धाश्चैव विद्रुताः ॥ ३६ ॥
ग्रामेग्रामे नदीकूले पुण्येष्वायतनेषु च ॥
रुद्रजाप्ये तु पर्याप्ते कथं लोके चरेमहि ॥ ३७ ॥
प्रायश्चित्तसहस्रं वै गणयामो न किञ्चन ॥
रुद्रजाप्याक्षराण्येव सोढुं बत न शक्नुमः ॥ ३८ ॥
महापातकमुख्यानामस्माकं लोकघातिनाम् ॥
रुद्रजाप्यं भयं घोरं रुद्रजाप्यं महद्विषम् ॥ ३९ ॥
अतो दुर्विषहं घोरमस्माक व्यसनं महत् ॥
रुद्रजाप्येन सम्प्राप्तमपनेतुं त्वमर्हसि ॥ ३.३.२१.४० ॥
इति विज्ञापितः साक्षाद्यमः पातकनायकैः ॥
ब्रह्मणोंऽतिकमासाद्य तस्मै सर्वं न्यवेदयत् ॥ ४१ ॥
देवदेव जगन्नाथ त्वामेव शरणं गतः ॥
त्वया नियुक्तो मर्त्यानां निग्रहे पापकारिणाम् ॥ ४२ ॥
अधुना पापिनो मर्त्या न सन्ति पृथिवीतले ॥
रुद्राध्यायेन निहतं पातकानां महत्कुलम् ॥ ४३ ॥
पातकानां कुले नष्टे नरकाः शून्यतां गताः ॥
नरके शून्यतां याते मम राज्यं हि निष्फलम् ॥ ४४ ॥
तस्मात्त्वयैव भगवन्नुपायः परिचिन्त्यताम् ॥
यथा मे न विहन्येत स्वामित्वं मर्त्यदेहिनाम् ॥ ४५ ॥
इति विज्ञापितो धाता यमेन परिखिद्यता ॥
रुद्रजाप्यविघातार्थमुपायं पर्यकल्पयत् ॥४६॥
अश्रद्धां चैव दुर्मेधामविद्यायाः सुते उभे ॥
श्रद्धामेधाविघातिन्यौ मर्त्येषु पर्यचोदयत् ॥ ४७ ॥
ताभ्यां विमोहिते लोके रुद्राध्यायपराङ्मुखे ॥
यमः स्वस्थानमासाद्य कृतार्थ इव सोऽभवत् ॥ ४८ ॥
पूर्वजन्मकृतैः पापैर्जायन्तेऽल्पायुषो जनाः ॥
तानि पापानि नश्यन्ति रुद्रं जप्तवतां नृणाम् ॥ ४९ ॥
क्षीणेषु सर्वपापेषु दीर्घमायुर्बलं धृतिः ॥
आरोग्यं ज्ञानमैश्वर्यं वर्धते सर्वदेहिनाम् ॥ ३.३.२१.५० ॥
रुद्राध्यायेन ये देवं स्नापयन्ति महेश्वरम् ॥
तज्जलैः कुर्वतः स्नानं ते मृत्युं सन्तरन्ति च ॥ ५१ ॥
रुद्राध्यायाभिजप्तेन स्नानं कुर्वन्ति येंऽभसा ॥
तेषां मृत्युभयं नास्ति शिवलो के महीयते ॥ ५२ ॥
शतरुद्राभिषेकेण शतायुर्जायते नरः ॥
अशेषपापनिर्मुक्तः शिवस्य दयितो भवेत् ॥ ५३ ॥
एष रुद्रायुतस्नानं करोतु तव पुत्रकः ॥
दशवर्षसहस्राणि मोदते भुवि शक्रवत् ॥ ९४ ॥
अव्याहतबलैश्वर्यो हतशत्रुर्निरामयः ॥
निर्धूताखिलपापौघः शास्ता राज्यमकण्टकम् ॥ ५५ ॥
विप्रा वेदविदः शान्ताः कृतिनः शंसितव्रताः ॥
ज्ञानयज्ञतपोनिष्ठाः शिवभक्तिपरायणाः ॥ ५६ ॥
रुद्राध्याय जपं सम्यक्कुर्वन्तु विमलाशयाः ॥
तेषां जपानुभावेन सद्यः श्रेयो भविष्यति ॥ ५७ ॥
इत्युक्तवन्तं नृपतिर्महामुनिं तमेव वव्रे प्रथमं क्रियागुरुम् ॥
अथापरांस्त्यक्तधनाशयान्मुनीनावाहयामास सहस्रशः क्षणात् ॥ ५८ ॥
ते विप्राः शान्तमनसः सहस्रपरिसम्मिताः ॥
कलशानां शतं स्थाप्य पुण्य वृक्षरसैर्युतम् ॥ ५९ ॥
रुद्राध्यायेन संस्नाप्य तमुर्वीपतिपुत्रकम् ॥
विधिवत्स्नापयामासुः सम्प्राप्ते सप्तमे दिने ॥ ३.३.२१.६० ॥
स्नाप्यमानो मुनिजनैः स राजन्यकुमारकः ॥
अकस्मादेव सन्त्रस्तः क्षणं मूर्च्छामवाप ह ॥ ६१ ॥
सहसैव प्रबुद्धोऽसौ मुनिभिः कृतरक्षणः ॥
प्रोवाच कश्चित्पुरुषो दण्डहस्तः समागतः ॥ ६२ ॥
मां प्रहर्तुं कृतमतिर्भीमदण्डो भयानकः ॥
सोऽपि चान्यैर्महावीरै पुरुषैरभिताडितः ॥ ६३ ॥
बद्ध्वा पाशेन महता दूरं नीत इवाभवत् ॥
एतावदहमद्राक्षं भवद्भिः कृतरक्षणः ॥ ६४ ॥
इत्युक्तवन्तं नृपतेस्तनूजं द्विजसत्तमाः ॥
आशीर्भिः पूजयामासुर्भयं राज्ञे न्यवेदयन् ॥ ॥ ६५ ॥
अथ सर्वानृषीञ्छ्रेष्ठान्दक्षिणाभिर्नृपोत्तमः ॥
पूजयित्वा वरान्नेन भोजयित्वा च भक्तितः ॥ ६६ ॥
प्रतिगृह्याशिषस्तेषां मुनीनां ब्रह्मवादि नाम् ॥
भक्त्या बन्धुजनैः सार्धं सभायां समुपाविशत् ॥ ६७ ॥
तस्मिन्समागते वीरे मुनिभिः सह पार्थिवे ॥
आजगाम महायोगी देवर्षिर्नारदः स्वयम् ॥ ६८ ॥
तमागतं प्रेक्ष्य गुरुं मुनीनां सार्धं सदस्यैरखिलैर्मुनीन्द्रैः ॥
प्रणम्य भक्त्या विनिवेश्य पीठे कृतोपचारं नृपतिर्बभाषे ॥ ६९ ॥ ॥
॥ राजोवाच ॥ ॥
दृष्टं किमस्ति ते ब्रह्मस्त्रिलोक्यां किञ्चिदद्भुतम् ॥
तन्नो ब्रूहि वयं सर्वे त्वद्वाक्यामृतलालसाः ॥ ३.३.२१.७० ॥
॥ नारद उवाच ॥ ॥
अद्य चित्रं महद्दृष्टं व्योम्नोवतरता मया ॥
तच्छृणुष्व महाराज सहैभिर्मुनिपुङ्गवैः ॥ ७१ ॥
अद्य मृत्युरिहायातो निहन्तुं तव पुत्रकम्॥
दण्डहस्तो दुराधर्षो लोकमुद्बाधयन्सदा ॥ ७२ ॥
ईश्वरोपि विदित्वैनं त्वत्पुत्रं हन्तुमागतम् ॥
सहैव पार्षदैः कञ्चिद्वीरभद्रमचोदयत् ॥ ७३ ॥
स आगत्य हठान्मृत्युं त्वत्पुत्रं हन्तुमागतम् ॥
गृहीत्वा सुदृढं बद्ध्वा दण्डेनाभ्यहनद्रुषा ॥ ७४ ॥
तं नीयमानं जगदीशसन्निधिं शीघ्रं विदित्वा भगवान्यमः स्वयम् ॥
कृताञ्जलिर्देव जयेत्युदीरयन्प्रणम्य मूर्ध्ना निजगाद शूलिनम् ॥ ७५ ॥
॥ यम उवाच ॥ ॥
देवदेव महारुद्र वीरभद्र नमोऽस्तु ते ॥
निरागसि कथं मृत्यौ कोपस्तव समुत्थितः॥७६॥
निजकर्मानुबन्धेन राजपुत्रं गतायुषम्॥
प्रहर्तुमुद्यते मृत्यौ कोपराधो वद प्रभो॥७७॥
॥वीरभद्र उवाच॥
दशवर्षसहस्रायुः स राजतनयः कथम्॥
विपत्तिमन्तरायाति रुद्रस्नानहताशुभः॥७८॥
अस्ति चेत्तव सन्देहो मद्वाक्येऽप्यनिवारिते ॥
चित्रगुप्तं समाहूय प्रष्टव्योऽद्यैव मा चिरम्॥ ७९ ॥
॥ नारद उवाच ॥ ॥
अथाहूतश्चित्रगुप्तो यमेन सहसागतः ॥
आयुःप्रमाण त्वत्सूनोः परिपृष्टः स चाब्रवीत् ॥ ३.३.२१.८० ॥
द्वादशाब्दं च तस्यायुरित्युक्त्वाथ विमृश्य च ॥
पुनर्लेख्यगतं प्राह स वर्षायुतजीवितम् ॥८१॥
अथ भीतो यमो राजा वीरभद्रं प्रणम्य च ॥
कथञ्चिन्मोचयामास मृत्युं दुर्वारबन्धनात् ॥ ८२ ॥
वीरभद्रेण मुक्तोऽथ यमोऽगान्निजमन्दिरम् ॥
वीरभद्रश्च कैलासमहं प्राप्तस्तवान्तिकम् ॥ ८३ ॥
अतस्तव कुमारोऽयं रुद्रजाप्यानुभावतः ॥
मृत्योर्भयं समुत्तीर्य सुखी जातोऽयुतं समाः ॥ ८४ ॥
इत्युक्त्वा नृपमामन्त्र्य नारदे त्रिदिवं गते ॥
विप्राः सर्वे प्रमुदिताः स्वस्वजग्मुरथाश्रमम् ॥ ८५ ॥
इत्थं काश्मीरनृपती रुद्राध्यायप्रभावतः ॥
निस्तीर्याशेषदुः खानि कृतार्थोभूत्सपुत्रकः॥८६॥
ये कीर्तयन्ति मनुजाः परमेश्वरस्य माहात्म्यमेतदथ कर्णपुटैः पिबन्ति ॥
ते जन्मकोटिकृतपापगणैर्विमुक्ताः शान्ताः प्रयान्ति परमं पदमिन्दुमौलेः ॥ ८७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे रुद्राध्यायमहिमवर्णनन्नामैक विंशोऽध्यायः ॥ २१ ॥