०२० रुद्राक्षमहिमवर्णनम्

॥ सूत उवाच ॥ ॥
अथ रुद्राक्षमाहात्म्यं वर्णयामि समासतः ॥
सर्वपापक्षयकरं शृण्वतां पठतामपि ॥ ॥ १ ॥
अभक्तो वापि भक्तो वा नीचो नीचतरोपि वा ॥
रुद्राक्षान्धारयेद्यस्तु मुच्यते सर्वपातकैः ॥ २ ॥
रुद्राक्षधारणं पुण्यं केन वा सदृशं भवेत् ॥
महाव्रतमिदं प्राहुर्मुनयस्तत्त्वदर्शिनः ॥ ३ ॥
सहस्रं धारयेद्यस्तु रुद्राक्षाणां धृतव्रतः ॥
तं नमन्ति सुराः सर्वे यथा रुद्रस्तथैव सः ॥ ४ ॥
अभावे तु सहस्रस्य बाह्वोः षोडश षोडश ॥
एकं शिखायां करयोर्द्वादश द्वादशैव हि ॥ ५ ॥
द्वात्रिंशत्कण्ठदेशे तु चत्वारिंशत्तु मस्तके ॥
एकैक कर्णयोः षट् षट् वक्षस्यष्टोत्तरं शतम् ॥
यो धारयति रुद्राक्षान्रुद्रवत्सोपि पूज्यते ॥ ६ ॥
मुक्ताप्रवालस्फटिकरौप्यवैदूर्यकाञ्चनैः ॥
समेतान्धारयेद्यस्तु रुद्राक्षान्स शिवो भवेत् ॥ ७ ॥
केवलानपि रुद्राक्षान्यथालाभं बिभर्ति यः ॥
तं न स्पृशन्ति पापानि तमांसीव विभावसुम् ॥ ८ ॥
रुद्राक्षमालया जप्तो मन्त्रोऽनन्तफलप्रदः ॥
अरुद्राक्षो जपः पुंसां तावन्मात्रफलप्रदः ॥ ९ ॥
यस्याङ्गे नास्ति रुद्राक्ष एकोपि बहुपुण्यदः ॥
तस्य जन्म निरर्थं स्यात्त्रिपुण्ड्ररहितं यदि ॥ ३.३.२०.१० ॥
रुद्राक्षं मस्तके बद्ध्वा शिरःस्नानं करोति यः ॥
गङ्गास्नानफलं तस्य जायते नात्र संशयः ॥ ११ ॥
रुद्राक्षं पूजयेद्यस्तु विना तोयाभिषेचनम् ॥
यत्फलं लिङ्गपूजायास्तदेवाप्नोति निश्चितम् ॥ १२ ॥
एकवक्त्राः पञ्चवक्त्रा एकादशमुखाः परे ॥
चतुर्दशमुखाः केचिद्रुद्राक्षा लोकपूजिताः ॥ १३ ॥
भक्त्या सम्पूजितो नित्यं रुद्राक्षः शङ्करात्मकः ॥
दरिद्रं वापि कुरुते राजराजश्रियान्वितम् ॥ १४ ॥
अत्रेदं पुण्यमाख्यानं वर्णयन्ति मनीषिणः ।
महापापक्षयकरं श्रवणात्कीर्त्तनादपि ॥ १५ ॥
राजा काश्मीरदेशस्य भद्रसेन इति श्रुतः ॥
तस्य पुत्रो ऽभवद्धीमान्सुधर्मानाम वीर्यवान् ॥ १६ ॥
तस्यामात्यसुतः कश्चित्तारको नाम सद्गुणः ॥
बभूव राजपुत्रस्य सखा परमशोभनः ॥ १७ ॥
तावुभौ परमस्निग्धौ कुमारौ रूपसुन्दरौ ॥
विद्याभ्यासपरौ बाल्ये सह क्रीडां प्रचक्रतुः ॥ १८ ॥
तौ सदा सर्वगात्रेषु रुद्राक्षकृतभूषणौ ॥
विचेरतुरुदाराङ्गौ सततं भस्मधारिणौ ॥ १९ ॥
हारकेयूरकटककुण्डलादिविभूषणम् ॥
हेमरत्नमयं त्यक्त्वा रुद्राक्षान्दधतुश्च तौ ॥ ३.३.२०.२० ॥
रुद्राक्षमालितौ नित्यं रुद्राक्षकरकङ्कणौ ॥
रुद्राक्षकण्ठाभरणौ सदा रुद्राक्षकुण्डलौ ॥ २१ ॥
हेमरत्नाद्यलङ्कारे लोष्टपाषाणदर्शनौ ॥
बोध्यमानावपि जनैर्न रुद्राक्षान्व्यमुञ्चताम् ॥ २२ ॥
तस्य काश्मीरराजस्य गृहं प्राप्तो यदृच्छया ॥
पराशरो मुनिवरः साक्षादिव पितामहः ॥ २३ ॥
तमर्चयित्वा विधिवद्राजा धर्मभृतां वरः ॥
प्रपच्छ सुखमासीनं त्रिकालज्ञं महामुनिम् ॥ २४ ॥
॥ राजोवाच ॥ ॥
भगवन्नेष पुत्रो मे सोपि मन्त्रिसुतश्च मे ॥
रुद्राक्षधारिणौ नित्यं रत्नाभरणनिःस्पृहौ ॥ २५ ॥
शास्यमानावपि सदा रत्नाकल्पपरिग्रहे ॥
विलङ्घितास्मद्वचनौ रुद्राक्षेष्वेव तत्परौ ॥ २६ ॥
नोपदिष्टाविमौ बालौ कदाचिदपि केनचित् ॥
एषा स्वाभाविकी वृत्तिः कथमासीत्कुमारयोः ॥ २७ ॥
॥ पराशर उवाच ॥ ॥
शृणु राजन्प्रवक्ष्यामि तव पुत्रस्य धीमतः ॥
यथा त्वं मन्त्रिपुत्रस्य प्राग्वृत्तं विस्मयावहम् ॥२८॥
नन्दिग्रामे पुरा काचिन्महानन्देति विश्रुता॥
बभूव वारवनिता शृङ्गारललिताकृतिः ॥२९॥
छत्रं पूर्णेन्दुसङ्काशं यानं स्वर्णविराजितम् ॥
चामराणि सुदण्डानि पादुके च हिरण्मये॥३.३.२०.३०॥
अम्बराणि विचित्राणि महार्हाणि द्युमन्ति च ॥
चन्द्ररश्मिनिभाः शय्या पर्यङ्काश्च हिरण्मयाः ॥ ३१ ॥
गावो महिष्यः शतशो दासाश्च शतशस्तथा ॥ ३२ ॥
सर्वाभरणदीप्ताङ्ग्यो दास्यश्च नवयौवना ॥
भूषणानि परार्ध्याणि नवरत्नोज्ज्वलानि च ॥ ३३ ॥
गन्धकुङ्कुमकस्तूरीकर्पूरागुरुलेपनम् ॥
चित्रमाल्यावतंसश्च यथेष्टं मृष्टभोजनम् ॥३४॥
नानाचित्रवितानाढ्यं नानाधान्यमयं गृहम् ॥
बहुरत्नसहस्राढ्यं कोटिसङ्ख्याधिकं धनम् ॥ ३५ ॥
एवं विभवसम्पन्ना वेश्या कामविहारिणी ॥
शिवपूजारता नित्यं सत्यधर्मपरायणा ॥ ३६ ॥
सदाशिवकथासक्ता शिवनामकथोत्सुका ॥
शिवभक्ताङ्घ्र्यवनता शिवभक्तिरतानिशम् ॥ ३७ ॥
विनोदहेतोः सा वेश्या नाट्यमण्डपमध्यतः॥
रुद्राक्षैभूषयित्वैकं मर्कटं चैव कुक्कुटम् ॥३८॥
करतालैश्च गीतैश्च सदा नर्तयति स्वयम् ॥
पुनश्च विहसन्त्युच्चैः सखीभिः परिवारिता ॥ ३९ ॥
युग्मम् ॥
रुद्राक्षैः कृतकेयूरकर्णाभरणभूषणः ॥
मर्कटः शिक्षया तस्याः सदा नृत्यति बालवत् ॥ ३.३.२०.४० ॥
शिखायां बद्धरुद्राक्षः कुक्कुटः कपिना सह ॥
चिरं नृत्यति नृत्यज्ञः पश्यतां चित्रमावहन् ॥४१॥
एकदा भवनं तस्याः कश्चिद्वैश्यः शिवव्रती॥
आजगाम सरुद्राक्षस्त्रिपुण्ड्री निर्ममः कृती ॥ ४२ ॥
स बिभ्रद्भस्म विशदे प्रकोष्ठे वरकङ्कणम् ॥
महारत्नपरिस्तीर्णं ज्वलन्तं तरुणार्कवत् ॥४३॥
तमागतं सा गणिका सम्पूज्य परया मुदा।
तत्प्रकोष्ठगतं वीक्ष्य कङ्कणं प्राह विस्मिता ॥ ४४ ॥
महारत्नमयः सोऽयं कङ्कणस्त्वत्करे स्थितः ॥
मनो हरति मे साधौ दिव्यस्त्रीभूषणोचितः ॥ ४५ ॥
इति तां वररत्नाढ्य सस्पृहां करभूषणे ॥
वाक्ष्योदारमतिर्वैश्यः सस्मितं समभाषत ॥ ४६ ॥ ॥
॥ वैश्य उवाच ॥ ॥
अस्मिन्रत्नवरे दिव्ये यदि ते सस्पृहं मनः ॥
तमेवादत्स्व सुप्रीता मौल्यमस्य ददासि किम् ॥ ४७ ॥
॥ वेश्यो वाच ॥ ॥
वयं तु स्वैरचारिण्यो वेश्यास्तु न पतिव्रताः ॥
अस्मत्कुलोचितो धर्मो व्यभिचारो न संशयः ॥ ४८ ॥
यद्येतद्रत्नखचितं ददासि करभूषणम्॥
दिनत्रयमहोरात्रं तव पत्नी भवाम्यहम् ॥ ४९ ॥
॥ वैश्य उवाच ॥ ॥
तथास्तु यदि ते सत्यं वचनं वारवल्लभे ॥
ददामि रत्नवलयं त्रिरात्रं भव मद्वधूः ॥ ३.३.२०.५० ॥
एतस्मिन्व्यवहारे तु प्रमाणं शशिभास्करौ ॥
त्रिवारं सत्यमित्युक्त्वा हृदयं मे स्पृश प्रिये ॥ ५१ ॥ ॥
॥ वेश्योवाच ॥ ॥
दिनत्रयमहोरात्रं पत्नी भूत्वा तव प्रभो ॥
सहधर्मं चरामीति सा तद्धृदयमस्पृशत् ॥ ५२ ॥
अथ तस्यै स वैश्यस्तु प्रददौ रत्नकङ्कणम् ॥
लिङ्गं रत्नमयं चास्या हस्ते दत्त्वेदमब्रवीत् ॥ ५३ ॥
इदं रत्नमयं शैवं लिङ्गं मत्प्राणसन्निभम् ॥
रक्षणीयं त्वया कान्ते तस्य हानिर्मृतिर्मम ॥ ५४ ॥
एवमस्त्विति सा कान्ता लिङ्गमादाय रत्नजम् ॥
नाट्यमण्डपिकास्तम्भे निधाय प्राविशद्गृहम् ॥ ५५ ॥
सा तेन सङ्गता रात्रौ वैश्येन विटधर्मिणा ॥
सुखं सुष्वाप पर्यङ्के मृदुतल्पोपशोभिते ॥ ५६ ॥
ततो निशीथसमये नाट्यमण्डपिकान्तरे ॥
अकस्मादुत्थितो वह्निस्तमेव सहसावृणोत् ॥ ५७ ॥
मण्डपे दह्यमाने तु सहसोत्थाय सम्भ्रमात् ॥
सा वेश्या मर्कटं तत्र मोचयामास बन्धनात् ॥ ५८ ॥
स मर्कटो मुक्तबन्धः कुक्कुटेन सहामुना ॥
भीतो दूरं प्रदुद्राव विधूयाग्निकणान्बहून् ॥ ५९ ॥
स्तम्भेन सह निर्दग्धं तल्लिङ्गं शकलीकृतम् ॥
दृष्ट्वा वेश्या च वैश्यश्च दुरन्तं दुःखमापतुः ॥ ३.३.२०.६० ॥
दृष्ट्वा प्राणसमं लिङ्गं दग्धं वैश्यपतिस्तथा ॥
स्वयमप्याप्तनिर्वेदो मरणाय मतिं दधौ ॥ ६१ ॥
निर्वेददान्नितरां खेदाद्वैश्यस्तामाह दुःखिताम् ॥
शिवलिङ्गे तु निर्भिन्ने नाहं जीवितुमुत्सहे ॥ ६२ ॥
चितां कारय मे भद्रे तव भृत्यैर्बलाधिकैः ॥
शिवे मनः समावेश्य प्रविशामि हुताशनम् ॥ ६३ ॥
यदि ब्रह्मेन्द्रविष्ण्वाद्या वारयेयुः समेत्य माम् ॥
तथाप्यस्मिन्क्षणे धीरः प्रविश्याग्निं त्यजाम्यसून् ॥ ६४ ॥
तमेवं दृढबन्धं सा विज्ञाय बहुदुःखिता ॥
स्वभृत्यैः कारयामास चितां स्वनगराद्बहिः ॥ ६५ ॥
ततः स वैश्यः शिवभक्तिपूतः प्रदक्षिणीकृत्य समिद्धमग्निम् ॥
विवेश पश्यत्सु जनेषु धीरः सा चानुतापं युवती प्रपेदे ॥ ६६ ॥
अथ सा दुःखिता नारी स्मृत्वा धर्मं सुनिर्मलम् ॥
सर्वान्बन्धून्समीक्ष्यैव बभाषे करुणं वचः ॥ ६७ ॥
रत्नकङ्कणमादाय मया सत्यमुदाहृतम् ॥
दिनत्रयमहं पत्नी वैश्यस्यामुष्य सम्मता॥ ६८॥
कर्मणा मत्कृतेनायं मृतो वैश्यः शिवव्रती।
तस्मादहं प्रवेक्ष्यामि सहानेन हुताशनम् ॥
सधर्मचारिणीत्युक्तं सत्यमेतद्धि पश्यथ ॥ ६९ ॥
सत्येन प्रीतिमायान्ति देवास्त्रिभुवनेश्वराः ॥
सत्यासक्तिः परो धर्मः सत्ये सर्वं प्रतिष्ठितम् ॥ ३.३.२०.७० ॥
सत्येन स्वर्गमोक्षौ च नासत्येन परा गतिः ॥
तस्मासत्यं समाश्रित्य प्रवेक्ष्यामि हुताशनम् ॥ ७१ ॥
इति सा दृढनिर्बन्धा वार्यमाणापि बन्धुभिः ॥
सत्यलोपभयान्नारी प्राणांस्त्यक्तुं मनो दधे ॥ ७२ ॥
सर्वस्वं शिवभक्तेभ्यो दत्त्वा ध्यात्वा सदाशिवम् ॥
तमग्निं त्रिः परिक्रम्य प्रदेशाभिमुखी स्थिता ॥ ७३ ॥
तां पतन्तीं समिद्धेऽग्नौ स्वपदार्पितमानसाम् ॥
वारयामास विश्वात्मा प्रादुर्भूतः शिवः स्वयम् ॥ ७४ ॥
सा तं विलोक्याखिलदेव देवं त्रिलोचनं चन्द्रकलावतंसम् ॥
शशाङ्कसूर्यानलकोटिभासं स्तब्धेव भीतेव तथैव तस्थौ ॥ ७५ ॥
तां विह्वलां परित्रस्तां वेपमानां जडी कृताम् ॥
समाश्वास्य गलद्बाष्पां करे गृह्याब्रवीद्वचः ॥ ७६ ॥
॥ शिव उवाच ॥ ॥
सत्यं धर्मं च ते धैर्यं भक्तिं च मयि निश्चलाम् ॥
निरीक्षितुं त्वत्सकाशं वैश्यो भूत्वाहमागतः ॥ ७७ ॥
माययाग्निं समुत्थाप्य दग्धवान्नाट्यमण्डपम् ॥
दग्धं कृत्वा रत्नलिङ्गं प्रवृष्टोस्मि हुताशनम् ॥ ॥ ७८ ॥
वेश्याः कैतवकारिण्यः स्वैरिण्यो जनवञ्चकाः ॥
सा त्वं सत्यमनुस्मृत्य प्रविष्टाग्निं मया सह ॥ ७९ ॥
अतस्ते सम्प्रदास्यामि भोगांस्त्रिदशदुर्लभान् ॥
आयुश्च परमं दीर्घमारोग्यं च प्रजोन्नतिम् ॥
यद्यदिच्छसि सुश्रोणि तत्तदेव ददामि ते ॥ ३.३.२०.८० ॥
॥ सूत उवाच ॥ ॥
इति ब्रुवति गौरीशे सा वेश्या प्रत्यभाषत ॥ ८१ ॥
॥ वेश्योवाच ॥ ॥
न मे वाञ्छास्ति भोगेषु भूमौ स्वर्गे रसातले ॥
तव पादाम्बुजस्पर्शादन्यत्किञ्चिन्न वै वृणे ॥ ८२ ॥
एते भृत्याश्च दास्यश्च ये चान्ये मम बान्धवाः ॥
सर्वे त्वदर्चनपरास्त्वयि सन्न्यस्तवृत्तयः ॥ ८३ ॥
सर्वानेतान्मया सार्धं नीत्वा तव परं पदम् ॥
पुनर्जन्मभयं घोरं विमोचय नमोस्तु ते ॥ ८४ ॥
तथेति तस्या वचनं प्रतिनन्द्य महेश्वरः ॥
तान्सर्वांश्च तया सार्धं निनाय परमं पदम् ॥ ८५ ॥
॥ पराशर उवाच ॥ ॥
नाट्यमण्डपिकादाहे यौ दूरं विद्रुतौ पुरा ॥
तत्रावशिष्टौ तावेव कुक्कुटो मर्कटस्तथा ॥ ८६ ॥
कालेन निधनं यातो यस्तस्या नाट्यमर्कटः ॥
सोभूत्तव कुमारोऽसौ कुवकुटो मन्त्रिणः सुतः ॥ ८७ ॥
रुद्राक्षधारणोद्भूतात्पुण्यात्पूर्वभवार्जितात् ॥
कुले महति सञ्जातौ वर्तेते बालकाविमौ ॥ ८८ ॥
पूर्वाभ्यासेन रुद्राक्षान्दधाते शुद्धमानसौ ॥
अस्मिञ्जन्मनि तं लोकं शिवं सम्पूज्य यास्य तः ॥ ८९ ॥
एषा प्रवृत्तिस्त्वनयोर्बालयोः समुदाहृता ॥
कथा च शिवभक्ताया किमन्यत्प्रष्टुमिच्छसि ॥ ९० ॥
इति श्रीस्कान्दे महापुराण एका शीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे रुद्राक्षमहिमवर्णनं नाम विंशोऽध्यायः ॥ २० ॥ ॥ अ ॥