॥ सूत उवाच ॥ ॥
एवं महाव्रतं तस्याश्चरन्त्या गुरुसन्निधौ ॥
संवत्सरो व्यतीयाय नियमासक्तचेतसः ॥ १ ॥
संवत्सरान्ते सा बाला तत्रैव पितृमन्दिरे ॥
चकारोद्यापनं सम्यग्विप्रभोजनपूर्वकम् ॥ २ ॥
दत्त्वा च दक्षिणां तेभ्यो ब्राह्मणेभ्यो यथार्हतः ॥
विसृज्य तान्नमस्कृत्य पितृभ्यामभिनन्दिता ॥ ३ ॥
उपोषिता स्वयं तस्मिन्दिने नियममाश्रिता ॥
जजाप परमं मन्त्रमुपदिष्टं महात्मना ॥ ४ ॥
अथ प्रदोषसमये प्राप्ते सम्पूज्य शङ्करम् ॥
तस्मिन्गृहान्तिकमठे गुरोस्तस्य च सन्निधौ ॥ ५ ॥
जपार्चनरता साध्वी ध्यायती परमेश्वरम् ॥
तस्मिञ्जागरणे रात्रावुपविष्टा शिवान्तिके ॥ ६ ॥
युग्मम् ॥
तस्यां रात्रौ तया सार्धं स मुनिर्जगदम्बिकाम् ॥
जपध्यान तपोभिश्च तोषयामास पार्वतीम्॥ ७ ॥
तस्याश्च भक्त्या व्रतभाविताया मुनेस्तपोयोगसमाधिना च ॥
तुष्टा भवानी जगदेकमाता प्रादुर्बभूवा कृतसान्द्रमूर्तिः ॥ ८ ॥
प्रादुर्भूता यदा गौरी तयोरग्रे जगन्मयी ॥
अन्धोऽपि तत्क्षणादेव मुनिः प्राप दृशोर्द्वयम् ॥ ९ ॥
तां वीक्ष्य जगतां धात्रीमाविर्भूतां पुरःस्थिताम् ॥
निपेततुस्तत्पदयोः स मुनिः सा च कन्यका ॥ ३.३.१९.१० ॥
तौ भक्तिभावोच्छ्वसितामलाशयावानन्दबाष्पोक्षित सर्वगात्रौ ॥
उत्थाप्य देवी कृपया परिप्लुता प्रेम्णा बभाषे मृदुवल्गुभाषिणी ॥ ११ ॥
॥ देव्युवाच ॥ ॥
प्रीतास्मि ते मुनिश्रेष्ठ वत्से प्रीतास्मि तेऽनघे ॥
किं वा ददाम्यभिमतं देवानामपि दुर्लभम् ॥ १२ ॥
॥ मुनिरुवाच ॥ ॥
एषा तु शारदा नाम कन्या तु गतभतृका ॥
मया प्रतिश्रुतं चास्यै तुष्टेन गतचक्षुषा ॥ १३ ॥
सह भर्त्रा चिरं कालं विहृत्य सुतमुत्तमम् ॥
लभस्वेति मया प्रोक्तं सत्यं कुरु नमोऽस्तु ते ॥ १४ ॥
॥ श्रीदेव्युवाच ॥ ॥
एषा पूर्वभवे बाला द्राविडस्य द्विजन्मनः ॥
आसीद्द्वितीया दयिता भामिनी नाम विश्रुता ॥ १५ ॥
सा भर्तृप्रेयसी नित्यं रूपमाधुर्यपेशला ॥
भर्तारं वशमानिन्ये रूपवश्यादिकैतवैः । १६ ॥
अस्यां चासक्तहृदयः स विप्रो मोहयन्त्रितः ॥
कदाचिदपि नैवागाज्ज्येष्ठपत्नीं पतिव्रताम् ॥ १७ ॥
अनभ्यागमनाद्भर्तुः सा नारी पुत्रवर्जिता ॥
सदा शोकेन सन्तप्ता कालेन निधनं गता ॥ १८ ॥
अस्या गृहसमीपस्थो यः कश्चिद्ब्राह्मणो युवा ॥
इमां वीक्ष्याथ चार्वङ्गीं कामार्तः करमग्रहीत् ॥ १९ ॥
अनया रोषताम्राक्ष्या स विप्रस्तु निवारितः ॥
इमां स्मरन्दिवानक्तं निधनं प्रत्यपद्यत ॥ ३.३.१९.२० ॥
एषा सम्मोह्य भर्तारं ज्येष्ठपत्न्यां पराङ्मुखम् ॥
चकार तेन पापेन भवेस्मिन्विधवाऽभवत् ॥ २१ ॥
याः कुर्वन्ति स्त्रियो लोके जायापत्योश्च विप्रियम् ॥
तासां कौमारवैधव्यमेकविंशतिजन्मसु ॥ २२ ॥
यदेतया पूर्वभवे मत्पूजा महती कृता ॥
तेन पुण्येन तत्पापं नष्टं सर्वं तदैव हि ॥ २३ ॥
यो विप्रो विरहार्तः सन्मृतः कामविमोहितः ॥
सोऽस्याः पाणिग्रहं कृत्वा भवेस्मिन्निधनं गतः ॥ २४ ॥
प्राग्जन्मपतिरेतस्याः पाण्ड्यराष्ट्रेषु सोऽधुना ॥
जातो विप्रवरः श्रीमान्सदारः सपरिच्छदः ॥ २५ ॥
तेन भर्त्रा प्रतिनिशं सैषा प्रेम्णाभिसङ्गता ॥
स्वप्ने रतिसुखं यातु श्रेष्ठं जागरणादपि ॥२६॥
षष्ट्युत्तरत्रिशतयोजनदूरसंस्थो देशादितो द्विजवरः स च कर्मगत्या ॥
एनां वधूं प्रतिनिशं मनसोभिरामां स्वप्नेषु पश्यति चिरं रतिमादधानः ॥ २७ ॥
सैषा वै स्वप्नसङ्गत्या पत्युः प्रतिनिशं सती ॥
कालेन लप्स्यते पुत्रं वेदवेदाङ्गपारगम् ॥ २८ ॥
एतस्यां तनयं जातमात्मनश्चिरसङ्गमात् ॥
सोऽपि विप्रोऽनिशं स्वप्ने द्रक्ष्यति प्रेमभावितम् ॥ २९ ॥
अनयाराधिता पूर्वे भवे साहं महामुने ॥
अस्यैव वरदानाय प्रादुर्भूतास्मि साम्प्रतम् ॥ ३.३.१९.३० ॥
॥ सूत उवाच ॥ ॥
अथोवाच महादेवी तां बालां प्रति सादरम् ॥
अयि वत्से महाभागे शृणु मे परमं वचः ॥ ३१ ॥
यदा कदापि भर्त्तारं क्वापि देशे पुरातनम् ॥
द्रक्ष्यसि स्वप्नदृष्टं प्राक्ज्ञास्यसे त्वं विचक्षणा ॥ ३२ ॥
त्वां द्रक्ष्यति स विप्रोपि सुनयां स्वप्नलक्षणाम् ॥
तदा परस्परालापो युवयोः सम्भविष्यति ॥ ३३ ॥
तदा स्वतनयं भद्रे तस्मै देहि बहुश्रुतम् ॥
फलमस्य व्रतस्याग्र्यं तस्य हस्ते समर्पय ॥ ३४ ॥
ततः प्रभृति तस्यैव वशे तिष्ठ सुमध्यमे ॥
युवयोदैहिकः सङ्गो माभूत्स्वप्नरतादृते ॥ ३५ ॥
कालात्पञ्चत्वमापन्ने तस्मिन्ब्राह्मणसत्तमे ॥
अग्निं प्रविश्य तेनैव सह यास्यसि मत्पदम् ॥ ३६ ॥
पुत्रस्ते भविता सुभ्रु सर्वलोकमनोरमः ॥
सम्पदश्च भविष्यन्ति प्राप्स्यते परमं पदम् ॥ ३७ ॥
॥ सूत उवाच ॥ ॥
इत्युक्त्वा त्रिजगन्माता दत्त्वा तस्यै मनोरथम् ॥
तयोः सम्पश्यतोरेव क्षणेनादर्शनं गता ॥ ३८ ॥
सापि बाला वरं लब्ध्वा पार्वत्याः करुणानिधेः ॥
अवाप परमानन्दं पूजयामास तं गुरुम् ॥ ३९ ॥
तस्यां रात्र्यां व्यतीतायां स मुनिर्लब्धलोचनः ॥
तस्याः पित्रोश्च तत्सर्वं रहस्याचष्ट धर्मवित् ॥ ३.३.१९.४० ॥
अथ सर्वानुपामन्त्र्य शारदां च यशस्विनीम् ॥
विधायानुग्रहं तेषां ययौ स्वैरगतिर्मुनिः ॥ ४१ ॥
एवं दिनेषु गच्छत्सु सा बाला च प्रतिक्षणम् ॥
भर्तुः समागमं लेभे स्वप्ने सुख विवर्धनम् ॥ ४२ ॥
गौर्या वरप्रदानेन शारदा विशदव्रता ॥
दधार गर्भं स्वप्नेपि भर्तुः सङ्गानुभावतः ॥ ४३ ॥
तां श्रुत्वा भर्तृरहितां शारदां गर्भिणी सतीम्॥
सर्वे धिगिति प्रोचुस्तां जारिणीति जगुर्जनाः ॥ ४४ ॥
सम्परेतस्य तद्भर्तुर्ये जातिकुलवबान्धवाः ॥
तां वार्तां दुःसहां श्रुत्वा ययुस्तत्पितृमन्दिरम् ॥ ४५ ॥
अथ सर्वे समायाता ग्रामवृद्धाश्च पण्डिताः ॥
समाजं चक्रिरे तत्र कुलवृद्धैः समन्वितम् ॥ ४६ ॥
अन्तर्वत्नीं समाहूय शारदां विनताननाम् ॥
अतर्जयन्सुसङ्क्रुद्धाः केचिदासन्पराङ्मुखाः ॥ ४७ ॥
अयि जारिणि दुर्बुद्धे किमेतत्ते विचेष्टितम् ॥
अस्मत्कुले सुदुष्कीर्त्तिं कृतवत्यसि बालिशे ॥ ४८ ॥
इति सन्तर्जयन्तस्ते ग्रामवृद्धा मनीषिणः ॥
सर्वे सम्मन्त्रयामासुः किं कुर्म इति भाषिणः ॥ ४९ ॥
तत्रोचुः के च वृद्धास्तां बालां प्रति विनिर्दयाः ॥
एषा पापमतिर्बाला कुलद्वयविनाशिनी। ॥ ३.३.१९.५० ॥
कृत्वास्याः केशवपनं छित्त्वा कर्णौ च नासिकाम् ॥
निर्वास्यतां बहिर्ग्रामात्परित्यज्य स्वगोत्रतः ॥ ५१ ॥
इति सर्वे समालोच्य तां तथा कर्तुमुद्यताः ॥
अथान्तरिक्षे सम्भूता शुश्रुवे वागगोचरा ॥ ५२ ॥
अनया न कृतं पापं न चैव कुलदूषणम् ॥
व्रतभङ्गो न चैतस्यास्सुचरित्रेयमङ्गना ॥ ५३ ॥
इतः परमियं नारी जारिणीति वदन्ति ये ॥
तेषां दोषविमूढानां सद्यो जिह्वा विदीर्यते ॥ ५४ ॥
इत्यन्तरिक्षे जनितां वाणीं श्रुत्वाऽशरीरिणीम् ॥
सर्वे प्रजहृषुस्तस्या जननीजनकादयः ॥५५॥
ततः ससम्भ्रमाः सर्वे ग्रामवृद्धाः सभाजनाः ॥
मुहूर्त्तं मौनमालम्ब्य भीतास्तस्थुरधोमुखाः ॥५६॥
तत्र केचिदविश्वस्ता मिथ्यावाणीत्यवादिषुः॥
तेषां जिह्वा द्विधा भिन्ना ववमुस्ते कृमीन्क्षणात् ॥ ५७ ॥
ततः सम्पूजयामासुस्तां बालां ज्ञातिबान्धवाः ॥
बान्धवाश्च स्त्रियो वृद्धाः शशंसुः साधुसाध्विति ॥ ५८ ॥
मुमुचुः केचिदानन्दबाष्पबिन्दून्कुलोत्तमाः॥
कुलस्त्रियः प्रमुदितास्तामुद्दिश्य समाश्वसन् ॥ ५९ ॥
अथ तत्रापरे प्रोचुर्देवो वदति नानृतम् ॥
कथमेषां दधौ गर्भं शीलान्न चलिता ध्रुवम् ॥ ३.३.१९.६० ॥
इति सर्वान्सभ्यजना न्संशयाविष्टचेतसः ॥
विलोक्य वृद्धस्तत्रैको सर्वज्ञो लोकतत्त्ववित् ॥ ६१ ॥
मायामयमिदं विश्वं दृश्यते श्रूयते च यत् ॥
किं भाव्यं किमभाव्यं वा संसारेऽस्मिन्क्षणात्मके ॥ ६२ ॥
अनिरूप्यमभूतार्थं मायया जायते स्फुटम् ॥
ईश्वरस्य वशे माया तस्य को वेद चेष्टितम् ॥ २३ ॥
यूपकेतोश्च राजर्षेः शुक्रं निपतितं जले ॥
सशुक्रं तज्जलं पीत्वा वेश्या गर्भं दधौ किल ॥ ६४ ॥
मुनेर्विभाण्डकस्यापि शुक्रं पीत्वा सहाम्भसा ॥
हरिणी गर्भिणी भूत्वा ऋष्यशृङ्गमसूयत ॥ ६५ ॥
सुराष्ट्रस्य तथा राज्ञः करं स्पृष्ट्वा मृगाङ्गना॥
तत्क्षणाद्गर्भिणी भूत्वा मुनिं प्रासूत तापसम् ॥ ६६ ॥
तथा सत्यवती नारी शफरीगर्भसम्भवा ॥
तथैव महिषीगर्भो जातश्च महिषासुरः॥ ६७ ॥
तथा सन्ति पुरा नार्यः कारुण्याद्गर्भसम्भवाः॥
तथा हि वसुदेवेन रोहिण्या स्तनयोऽभवत् ॥ ६८ ॥
देवतानां महर्षीणां शापेन च वरेण च ॥
अयुक्तमपि यत्कर्म युज्यते नात्र संशयः ॥ ६९ ॥
साम्बस्य जठराज्जातं मुसलं मुनिशापतः ॥
युवनाश्वस्य गर्भोऽभून्मुनीनां मन्त्रगौरवात् ॥ ३.३.१९.७० ॥
नूनमेषापि कल्याणी महर्षेः पादसेवनात् ॥
महाव्रतानुभावाच्च धत्ते गर्भमनिं दिता ॥ ७१ ॥
अस्मिन्नर्थे रहस्येनां सत्यं पृच्छन्तु योषितः ॥
ततो निवृत्तसन्देहो भविष्यति महाजनः ॥ ७२ ॥
ततस्तद्वचनादेव तामपृच्छन्स्त्रियो मिथः ॥
ताभ्यः शशम्स तत्सर्वं सा स्ववृत्तं महाद्भुतम् ॥ ७३ ॥
विजानन्तस्ततः सर्वे मानयित्वा च तां सतीम् ॥
मोदमानाः प्रशंसन्तः प्रययुः स्वं स्वमालयम्॥ ७४ ॥
अथ काले शुभे प्राप्ते शारदा विमलाशया ॥
असूत तनयं बाला बालार्कसमतेजसम् ॥ ७५ ॥
स कुमारो महोदारलक्षणः कमलेक्षणः ॥
अवाप्य महतीं विद्यां बाल्य एव महामतिः ॥ ७६ ॥
अथोपनीतो गुरुणा काले लोकमनोरमः ॥
स शारदेय एवेति लोके ख्याति मवाप ह ॥ ७७ ॥
ऋग्वेदमष्टमे वर्षे नवमे यजुषां गणम् ।
दशमे सामवेदं च लीलयाध्यगमत्सुधीः ॥ ७८ ॥
अथ त्रिलोकमहिते सम्प्राप्ते शिवपर्वणि ॥
गोकर्णं प्रययुः सर्वे जनाः सर्वनिवासिनः ॥ ७९ ॥
शारदापि स्वपुत्रेण गोकर्णं प्रययौ सती ॥ ३.३.१९.८० ॥
तत्रापश्यत्समायातं सदा स्वप्नेषु लक्षितम् ॥
पूर्वजन्मनि भर्त्तारं द्विजबन्धुजनावृतम् ॥ ८१ ॥
तं दृष्ट्वा प्रेमनिर्विण्णा पुलकाङ्कितविग्रहा ॥
निरुद्धबाष्पप्रसरा तस्थौ तन्न्यस्तलोचना ॥ ८२ ॥
स च विप्रोऽपि तां दृष्ट्वा रूपलक्षणलक्षिताम्॥
स्वप्ने सदा भुज्यमानामात्मनो रतिदायिनीम् । ८३ ॥
तं कुमारमपि स्वप्ने दृष्ट्वा चात्म शरीरजम् ॥
विलोक्य विस्मयाविष्टस्तदन्तिकमुपाययौ ॥ ८४ ॥
भद्रे त्वां प्रष्टुमिच्छामि यत्किञ्चिन्मनसि स्थितम् ॥
इति प्रथममाभाष्य रहः स्थानं निनाय ताम्॥ ८५॥
का त्वं कथय वामोरु कस्य भार्यासि सुव्रते ॥
को देशः कस्य वा पुत्री किन्नामेत्यब्रवीच्च ताम् ॥ ८६ ॥
इति तेन समापृष्टा सा नारी बाष्पलोचना ॥
व्याजहारात्मनोवृत्तं बाल्ये वैधव्यकारणम् ॥ ८७ ॥
पुनः पप्रच्छ तां बालां पुत्रः कस्यायमुत्तमः ॥
कथं धृतो वा जठरे बालोऽयं चन्द्रसन्निभः ॥ ८८ ॥
। शारदोवाच ॥ ॥
एष मे तनयः स्वामिन्सर्वविद्याविशारदः॥
शारदेय इति प्रोक्तो मम नाम्नैव कल्पितः ॥ ६९ ॥
इति तस्या वचः श्रुत्वा विहस्य ब्राह्मणोत्तमः ॥
प्रोवाच कष्टात्कष्टं हि चरितं तव भामिनि ॥ ३.३.१९.९० ॥
पाणिग्रहणमात्रं ते कृत्वा भर्त्ता मृतः किल ॥
कथं चायं सुतो जातस्तस्य कारणमुच्यताम् ॥ ९१ ॥
इति तेनोदितां वाणीमाकर्ण्यातीव लज्जिता ॥
क्षणं चाश्रुमुखी भूत्वा धैर्यादित्थमभाषत ॥ ९२ ॥
॥ शारदोवाच ॥ ॥
तदलं परिहासोक्त्या त्वं मां वेत्सि महामते ॥
त्वामहं वेद्मि चार्थेऽस्मिन्प्रमाणं मन आवयोः ॥ ९३ ॥
इत्युक्त्वा सर्वमावेद्य देव्या दत्तं वरादिकम् ॥
व्रतस्यार्धं कुमारं तं ददौ तस्मै धृतव्रतम् ॥ ९४ ॥
सोऽपि प्रमुदितो विप्रः कुमारं प्रतिगृह्य तम्॥
पित्रोरनुमतेनैव तां निनाय निजालयम् ॥ ९५ ॥
सापि स्थित्वा बहून्मासांस्तस्य विप्रस्य मन्दिरे ॥
तस्मिन्कालवशं प्राप्ते प्रविश्याग्निं तमन्वगात् ॥ ९६ ॥
ततस्तौ दम्पती भूत्वा विमानं दिव्यमास्थितौ ॥
दिव्यभोगसमायुक्तौ जग्मतुः शिवमन्दिरम् ॥ ९७ ॥
इत्येततत्पुण्यमाख्यानं मया समनुवर्णितम् ॥
पठतां शृण्वतां सम्यग्भुक्तिमुक्तिफलप्रदम् ॥ ९८ ॥
आयुरारोग्यसम्पत्तिधनधत्यविवर्द्धनम् ॥
स्त्रीणां मङ्गलसौभाग्यसन्तानसुखसाधनम् ॥ ९९ ॥
एतन्महाख्यानमघौघनाशनं गौरीमहेशव्रतपुण्यकीर्तनम् ॥
भक्त्या सकृद्यः शृणुयाच्च कीर्त्तयेद्भुक्त्वा स भोगान्पदमेति शाश्वतम् ॥ ३.३.१९.१०० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे शारदाख्यानवर्णनं नामैकोनविंशोऽध्यायः ॥ १९ ॥