॥ सूत उवाच ॥ ॥
अथाहं सम्प्रवक्ष्यामि सर्वधर्मोत्तमोत्तमम् ॥
उमामहेश्वरं नाम व्रतं सर्वार्थसिद्धिदम् ॥ १ ॥
आनर्त्त सम्भवः कश्चिन्नाम्ना वेदरथो द्विजः ॥
कलत्रपुत्रसम्पन्नो विद्वानुत्तमवंशजः ॥ २ ॥
तस्यैवं वर्तमानस्य ब्राह्मणस्य गृहाश्रमे ॥
बभूव शारदानाम कन्या कमललोचना ॥३॥
तां रूपलक्षणोपेतां बालां द्वादशहायनाम् ॥
ययाचे पद्मनाभाख्यो मृतदारश्च स द्विजः ॥ ४ ॥
महाधनस्य शान्तस्य सदा राजसखस्य च ॥
याञ्चाभङ्गभयात्तस्य तां कन्यां प्रददौ पिता ॥ ५ ॥
मध्यन्दिने कृतोद्वाहः स विप्रः श्वशुरालये ॥
सन्ध्यामुपासितुं सायं सरस्तटमुपाययौ ॥६॥
उपास्य सन्ध्यां विधिवत्प्रत्यागच्छत्तमोवृते ॥
मार्गे दष्टो भुजङ्गेन ममार निजकर्मणा ॥७॥
तस्मिन्मृते कृतोद्वाहे सहसा तस्य बान्धवाः ॥
चुक्रुशुः शोकसन्तप्तौ श्वशुरावस्य कन्यका ॥ ८ ॥
निर्हृत्य तं बन्धुजना जग्मुः स्वं स्वं निवेशनम् ॥
शारदा प्राप्तवैधव्या पितुरेवालये स्थिता ॥९॥
भूताच्छादनभोज्येन भर्त्रा विरहिता सती॥
निनाय कतिचिन्मासान्सा बाला पितृमन्दिरे॥३.३.१८.१०॥
एकदा नैध्रुवो नाम कश्चिद्वृद्धतरो मुनिः॥
अन्धः शिष्यकरग्राही तन्मन्दिरमुपाययौ ॥ ११ ॥
तस्मिन्वृद्धे गृहं प्राप्ते क्वापि यातेषु बन्धुषु ॥
साक्षादिवात्मनो दैवं सा बाला समुपागमत् ॥ ॥ १२ ॥
स्वागतं ते महाभाग पीठेस्मिन्नुपविश्यताम् ॥
नमस्ते मुनिनाथाय प्रियं ते करवाणि किम् ॥ १३ ॥
इत्युक्त्वा भक्तिमास्थाय कृत्वा पादावनेजनम् ॥
वीजयित्वा परिश्रान्तं तं मुनिं पर्यतोषयत् ॥ १४ ॥
श्रान्तं पीठे समावेश्य कृत्वाभ्यङ्गं स्वपाणिना ॥
कृतस्नानं च विधिवत्कृतदेवार्चनं मुनिम् ॥ १५ ॥
सुखासनोपविष्टं तं धूपमाल्यानुलेपनैः ॥
अर्चयित्वा वरान्नेन भोजयामास सादरम् ॥ १६ ॥
भुक्त्वा च सम्यक्छनकैस्तृप्तश्चानन्दनिर्भरः ॥
चकारान्धमुनिस्तस्यै सुप्रीतः परमाशिषम् ॥ १७ ॥
विहृत्य भर्त्रा सहसा च तेन लब्ध्वा सुतं सर्वगुणैर्वरिष्ठम् ॥
कीर्तिं च लोके महतीमवाप्य प्रसादयोग्या भव देवतानाम् ॥ १८ ॥
इत्यभिव्याहृतं तेन मुनिना गतचक्षुषा ॥
निशम्य विस्मिता बाला प्रत्युवाच कृताञ्जलिः ॥ १९ ॥
ब्रह्मंस्त्वद्वचनं सत्यं कदाचिन्न मृषा भवेत् ॥
तदेतन्मन्दभाग्यायाः कथमेतत्फलिष्यति ॥ ३.३.१८.२० ॥
शिलाग्र्यामिव सद्वृष्टिः शुनक्यामिव सत्क्रिया ॥
विफला मन्दभाग्यायामाशीर्ब्रह्मविदामपि ॥ २१ ॥
सैषाहं विधवा ब्रह्मन्दुष्कर्मफलभागिनी ॥
त्वदाशीर्वचनस्यास्य कथं यास्यामि पात्रताम् ॥ २२ ॥
॥ मुनिरुवाच ॥ ॥
त्वामनालक्ष्य यत्प्रोक्तमन्धेनापि मयाऽधुना ॥
तदेतत्साधयिष्यामि कुरु मच्छासनं शुभे ॥ २३ ॥
उमामहेश्वरं नाम व्रतं यदि चरिष्यसि ॥
तेन व्रतानुभावेन सद्यः श्रेयोऽनुभोक्ष्यसे ॥ २४ ॥
॥ शारदोवाच ॥ ॥
त्वयोपदिष्टं यत्नेन चरिष्याम्यपि दुश्चरम् ॥
तद्व्रतं ब्रूहि मे ब्रह्मन्विधानं वद विस्तरात् ॥ २५ ॥
॥ मुनिरुवाच ॥ ॥
चैत्रे वा मार्गशीर्षे वा शुक्लपक्षे शुभे दिने ॥
व्रतारम्भं प्रकुर्वीत यथावद्गुर्वनुज्ञया ॥ २६ ॥
अष्टम्यां च चतुर्दश्यामुभयोरपि पर्वणोः ॥
सङ्कल्पं विधिवत्कृत्वा प्रातःस्नानं समाचरेत् ॥ २७ ॥
सन्तर्प्य पितृदेवादीन्गत्वा स्वभवनं प्रति ॥
मण्डपं रचयेद्दिव्यं वितानाद्यैरलङ्कृतम् ॥ २८ ॥
फलपल्लवपुष्पाद्यैस्तोरणैश्च समन्वितम् ॥
पञ्चवर्णैश्च तन्मध्ये रजोभिः पद्ममुद्धरेत् ॥ २९ ॥
चतुर्दशदलैर्बाह्ये द्वाविंशद्भिस्तदन्तरे ॥
तदन्तरं षोडशभिरष्टभिश्च तदन्तरे ॥ ३.३.१८.३० ॥
एवं पद्मं समुद्धत्य पञ्चवर्णैर्मनोरमम् ॥
चतुरस्रं ततः कुर्यादन्तर्वर्तुलमुत्तमम् ॥ ३१ ॥
व्रीहितण्डुलराशिं च तन्मध्ये च सकूर्चकम् ॥
कूर्चोपरि सुसंस्थाप्य कलशं वारिपूरितम् ॥ ३२ ॥
कलशोपरि विन्यस्य वस्त्रं वर्णसमन्वितम् ॥
तस्योपरिष्टात्सौवर्ण्यौ प्रतिमे शिवयोः शुभे ॥
निधाय पूजयेद्भक्त्या यथाविभवविस्तरम् ॥ ३३ ॥
पञ्चामृतैस्तु संस्नाप्य तथा शुद्धोदकेन च ॥
रुद्रैकादशकं जप्त्वा पञ्चाक्षरशताष्टकम् ॥ ३४ ॥
अभिमन्त्र्य पुनः स्थाप्य पीठं मध्ये तथार्चयेत् ॥
स्वयं शुद्धासनासीनो धौतशुक्लाम्बरः सुधीः ॥ ३५ ॥
पीठमामन्त्र्य मन्त्रेण प्राणायामान्समाचरेत् ॥
सङ्कल्पं प्रवदेत्तत्र शिवाग्रे विहिताञ्जलिः ॥ ३६ ॥
यानि पापानि घोराणि जन्मान्तरशतेषु मे ॥
तेषां सर्वविनाशाय शिवपूजां समारभे ॥ ३७ ॥
सौभाग्यविजयारोग्यधर्मैश्वर्याभिवृद्धये ॥
स्वर्गापवर्गसिद्ध्यर्थं करिष्ये शिवपूजनम् ॥ ३८ ॥
इति सङ्कल्पमुच्चार्य यथावत्सुसमाहितः ॥
अङ्गन्यासं ततः कृत्वा ध्यायेदीशं च पार्वतीम् ॥ ३९ ॥
कुन्देन्दुधवलाकारं नागाभरणभूषितम् ॥
वरदाभयहस्तं च बिभ्राणं परशुं मृगम् ॥ ३.३.१८.४० ॥
सूर्यकोटिप्रतीकाशं जगदानन्दकारणम् ॥
जाह्नवीजलसम्पर्काद्दीर्घपिङ्गजटाधरम् ॥ ४१ ॥
उरगेन्द्रफणोद्भूतमहामुकुटमण्डितम् ॥
शीतांशुखण्डविलसत्कोटीराङ्गदभूषणम् ॥ ४२ ॥
उन्मीलद्भालनयनं तथा सूर्येन्दुलोचनम् ॥
नीलकण्ठं चतुर्बाहुं गजेन्द्राजिनवाससम् ॥ ४३ ॥
रत्नसिंहासनारूढं नागाभरणभूषितम् ॥
देवीं च दिव्यवसनां बालसूर्यायुतद्युतिम् ॥ ४४ ॥
बालवेषां च तन्वङ्गीं बालशीतांशुशेखराम् ॥
पाशाङ्कुशवराभीतिं बिभ्रतीं च चतुर्भुजाम् ॥ ४५ ॥
प्रसादसुमुखीमम्बां लीलारसविहारिणीम् ॥
लसत्कुरबकाशोकपुन्नागनवचम्पकैः ॥ ४६ ॥
कृतावतंसामुत्फुल्लमल्लिकोत्कलितालकाम् ॥
काञ्चीकलापपर्यस्तजघनाभोगशालिनीम् ॥ ४७ ॥
उदारकिङ्किणीश्रेणीनूपुराढ्यपदद्वयाम् ॥
गण्डमण्डलसंसक्तरत्नकुण्डलशोभिताम् ॥ ४८ ॥
बिम्बाधरानुरक्तांशुलसद्दशन कुड्मलाम् ॥
महार्हरत्नग्रेवेयतारहारविराजिताम् ॥४९॥
नवमाणिक्यरुचिरकङ्कणाङ्गदमुद्रिकाम् ॥
रक्तांशुकपरीधानां रत्नमाल्यानुलेपनाम् ॥ ३.३.१८.५० ॥ ।
उद्यत्पीनकुचद्वन्द्वनिन्दिताम्भोजकुड्मलाम् ॥
लीलालोलासितापाङ्गीं भक्तानुग्रहदायिनीम् ॥ ५१ ॥
एवं ध्यात्वा तु हृत्पद्मे जगतः पितरौ शिवौ ॥
जप्त्वा तदात्मकं मन्त्रं तदन्ते बहिरर्चयेत् ॥ ५२ ॥
आवाह्य प्रतिमायुग्मे कल्पयेदासनादिकम् ॥
अर्घ्यं च दद्याच्छिवयोर्मन्त्रेणानेन मन्त्रवित् ॥ ५३ ॥
नमस्ते पार्वतीनाथ त्रैलोक्यवरदर्षभ ॥
त्र्यम्बकेश महादेव गृहाणार्घ्यं नमोऽस्तु ते ॥ ५४ ॥
नमस्ते देवदेवेशि प्रपन्नभयहारिणि ॥
अम्बिके वरदे देवि गृहाणार्घ्यं शिवप्रिये ॥ ५५ ॥
इति त्रिवारमुच्चार्य दद्यादर्घ्यं समाहितः ॥
गन्धपुष्पाक्षतान्सम्यग्धूपदीपान्प्रकल्पयेत् ॥ ५६ ॥
नैवेद्यं पायसान्नेन घृताक्तं परिकल्पयेत् ॥
जुहुयान्मूलमन्त्रेण हविरष्टोत्तरं शतम् ॥ ५७ ॥
तत उद्वास्य नैवेद्यं धूपनीराजनादिकम् ॥
कृत्वा निवेद्य ताम्बूलं नमस्कुर्यात्समाहितः ॥ ५८ ॥
अथाभ्यर्च्योपचारेण भोजयेद्विप्रदम्पती ॥ ५९ ॥
एवं सायन्तनीं पूजां कृत्वा विप्रानुमोदितः ॥
भुञ्जीत वाग्यतो रात्रौ हविष्यं क्षीरभावितम् ॥ ३.३.१८.६० ॥
एवं संवत्सरं कुर्याद्व्रतं पक्षद्वये बुधः ॥
ततः संवत्सरे पूर्णे व्रतोद्यापनमाचरेत् ॥ ६१ ॥
शतरुद्राभिजप्तेन स्नापयेत्प्रतिमे जलैः ॥
आगमोक्तेन मन्त्रेण सम्पूज्य गिरिजाशिवौ ॥ ६२ ॥
सवस्त्रं ससुवर्ण च कलशं प्रति मान्वितम्॥
दत्त्वाचार्याय महते सदाचाररताय च ॥
ब्राह्मणान्भोजयेद्भक्त्या यथाशक्त्याभिपूज्य च ॥ ६३ ॥
दद्याच्च दक्षिणां तेभ्यो गोहिरण्याम्बरादिकम् ॥
भुञ्जीत तदनुज्ञातः सहेष्टजनबन्धुभिः ॥ ६४ ॥
एवं यः कुरुते भक्त्या व्रतं त्रैलोक्यविश्रुतम् ॥
त्रिःसप्तकुलमुद्धृत्य भुक्त्वा भोगान्यथेप्सि तान् ॥ ६५ ॥
इन्द्रादिलोकपालानां स्थानेषु रमते धुवम् ॥
ब्रह्मलोके च रमते विष्णुलोके च शाश्वते ॥ ६६ ॥
शिवलोकमथ प्राप्य तत्र कल्पशतं पुनः ॥
भुक्त्वा भोगान्सुविपुलाञ्छिवमेव प्रपद्यते ॥ ६७ ॥
महाव्रतमिदं प्रोक्तं त्वमपि श्रद्धया चर ॥
अत्यन्तदुर्लभं वापि लप्स्यसे च मनोरथम् ॥ ॥ ६८ ॥
इत्यादिष्टा मुनीन्द्रेण सा बाला मुदिता भृशम् ॥
प्रत्यग्रहीत्सुविश्रब्धा तद्वाक्यं सुमनोहरम् ॥ ६९ ॥
अथ तस्याः समायाताः पितृमातृ सहोदराः ॥
तं मुनिं सुखमासीनं ददृशुः कृतभोजनम् ॥ ३.३.१८.७० ॥
सहसागत्य ते सर्वे नमश्चक्रुर्महात्मने ॥
प्रसीद नः प्रसीदेति गृणतः पर्यपूज यन् ॥ ७१ ॥
श्रुत्वा च ते तया साध्व्या पूजितं परमं मुनिम् ॥
अनुग्रहवतं तस्यै श्रुत्वा हर्षं परं ययुः ॥ ७२ ॥
ते कृताञ्जलयः सर्वे तमूचुर्मुनि पुङ्गवम् ॥ ७३ ॥
अद्य धन्या वयं सर्वे तवागमनमात्रतः ॥
पावितं नः कुलं सर्वं गृहं च सफलीकृतम् ॥ ७४ ॥
इयं च शारदा नाम कन्या वैधव्यमागता ॥
केनापि कर्मयोगेन दुर्विलङ्घ्येन भूयसा ॥ ७५ ॥
सैषाद्य तव पादाब्जं प्रपन्ना शरणं सती ॥
इमां समुद्धरासह्यात्सुघोराद्दुःख सागरात् ॥ ७६ ॥
त्वयापि तावदत्रैव स्थातव्यं नो गृहान्तिके ॥
अस्मद्गृहमठेऽप्यस्मिन्स्नानपूजाजपोचिते ॥ ७७ ॥
एषा बालापि भगवन्कुर्वन्ती त्वत्पदार्चनम् ॥
व्रतं त्वत्सन्निधावेव चरिष्यति महामुने ॥ ७८ ॥
यावत्समाप्तिमायाति व्रतमस्यास्त्वदन्तिके ॥
उषित्वा तावदत्रैव कृतार्थान्कुरु नो गुरो ॥ ७९ ॥
एवमभ्यर्थितः सर्वैस्तस्या भ्रातृजनादिभिः ॥
तथेति स मुनिश्रेष्ठस्तत्रोवास मठे शुभे ॥ ३.३.१८.८० ॥
सापि तेनोपदिष्टेन मार्गेण गिरिजाशिवौ ॥
अर्चयन्ती व्रतं सम्यक्चचार विमला सती ॥ ८१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे उमामहेश्वरव्रताचरणं नामाष्टादशोऽध्यायः ॥ १८ ॥