०१७ भस्ममाहात्म्यवर्णनम्

॥ ऋषय ऊचुः ॥ ॥
वेदवेदाङ्गतत्त्वज्ञैर्गुरुभिर्ब्रह्मवादिभिः ॥
नृणां कृतोपदेशानां सद्यः सिद्धिर्हि जायते॥१॥
अथान्यजनसामान्यैर्गुरुभिर्नीतिकोविदैः॥
नृणां कृतोपदेशानां सिद्धिर्भवति कीदृशी ॥ २ ॥
॥ ॥ सूत उवाच ॥ ॥
श्रद्धैव सर्वधर्मस्य चातीव हितकारिणी ॥
श्रद्धयैव नृणां सिद्धिर्जायते लोकयोर्द्वयोः ॥ ३ ॥
श्रद्धया भजतः पुंसः शिलापि फलदायिनी ॥
मूर्खोऽपि पूजितो भक्त्या गुरुर्भवति सिद्धिदः ॥ ४ ॥
श्रद्धया पठितो मन्त्रस्त्वबद्धोपि फलप्रदः ॥
श्रद्धया पूजितो देवो नीचस्यापि फलप्रदः ॥ ६. ॥
अश्रद्धया कृता पूजा दानं यज्ञस्तपो व्रतम् ॥
सर्वं निष्फलतां याति पुष्पं वन्ध्यत रोरिव ॥ ६ ॥
सर्वत्र संशयाविष्टः श्रद्धाहीनोऽतिचञ्चलः ॥
परमार्थात्परिभ्रष्टः संसृतेर्न हि मुच्यते ॥ ७ ॥
मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ ॥
यादृशी भावना यत्र सिद्धिर्भवति तादृशी ॥ ८ ॥
अतो भावमयं विश्वं पुण्यं पापं च भावतः ॥
ते उभे भावहीनस्य न भवेतां कदाचन ॥ ९ ॥
अत्रेदं परमाश्चर्यमाख्यानमनुवर्ण्यते ॥
अश्रद्धा सर्वमर्त्यानां येन सद्यो निवर्तते ॥ ३.३.१७.१० ॥
आसीत्पाञ्चालराजस्य सिंहकेतुरिति श्रुतः ॥
पुत्रः सर्वगुणोपेतः क्षात्रधर्मरतः सदा ॥ ११ ॥
स एकदा कतिपयैर्भृत्यैर्युक्तो महाबलः ॥
जगाम मृगयाहेतोर्बहु सत्त्वान्वितं वनम् ॥ १२ ॥
तद्भृत्यः शबरः कश्चिद्विचरन्मृगयां वने ॥
ददर्श जीर्णं स्फुटितं पतितं देवतालयम् ॥ १३ ॥
तत्रापश्यद्भिन्नपीठं पतितं स्थण्डिलोपरि ॥
शिवलिङ्ङ्गमृजुं सूक्ष्मं मूर्तं भाग्यमिवात्मनः ॥ १४ ॥
स समादाय वेगेन पूर्वकर्मप्रचोदितः ॥
तस्मै सन्दर्शयामास राज पुत्राय धीमते ॥ १५ ॥
पश्येदं रुचिरं लिङ्गं मया दृष्टमिह प्रभो ॥
तदेतत्पूजयिष्यामि यथाविभवमादरात् ॥ १६ ॥
अस्य पूजाविधिं ब्रूहि यथा देवो महेश्वरः ॥
अमन्त्रज्ञैश्च मन्त्रज्ञैः प्रीतो भवति पूजितः ॥ १७ ॥
इति तेन निषादेन पृष्टः पार्थिवनन्दनः ॥
प्रत्युवाच प्रहस्यैनं परिहास विचक्षणः ॥ १८ ॥
सङ्कल्पेन सदा कुर्यादभिषेकं नवाम्भसा ॥
उपवेश्यासने शुद्धे शुभैर्गन्धाक्षतैर्नवैः ॥
वन्यैः पत्रैश्च कुसुमैर्धूपैर्दीपैश्च पूजयेत ॥ ॥ १९ ॥
चिताभस्मोपहारं च प्रथमं परिकल्पयेत् ॥
आत्मोपभोग्येनान्नेन नैवद्यं कल्पयेद्बुधः ॥ ३.३.१७.२० ॥
पुनश्च धूपदीपादीनुपचारान्प्रकल्पेत् ॥
नृत्यवादित्रगीतादीन्यथावत्परिकल्पयेत् ॥ २१ ॥
नमस्कृत्वा तु विधिवत्प्रसादं धारयेद्बुधः ॥
एष साधारणः प्रोक्तः शिवपूजाविधिस्तव ॥ ॥ २२ ॥
चिताभस्मोपहारेण सद्यस्तुष्यति शङ्करः ॥ २३ ॥
॥ सूत उवाच ॥ ॥
परिहासरसेनेत्थं शासितः स्वामिनाऽमुना ॥
स चण्डकाख्यः शबरो मूर्ध्ना जग्राह तद्वचः ॥ २४ ॥
ततः स्वभवनं प्राप्य लिङ्गमूर्ति महेश्वरम् ॥
प्रत्यहं पूजयामास चिताभस्मोपहारकृत् ॥ २५ ॥
यच्चात्मनः प्रियं वस्तु गन्धपुष्पाक्षतादिकम् ॥
निवेद्य शम्भवे नित्यमुपायुङ्क्त ततः स्वयम् ॥ २६ ॥
एवं महेश्वरं भक्त्या सह पत्न्याभ्यपूजयत् ॥
शबरः सुखमासाद्य निनाय कतिचित्समाः ॥ २७ ॥
एकदा शिवपूजायै प्रवृत्तः शबरोत्तमः ॥
न ददर्श चिताभस्म पात्रे पूरितमण्वपि ॥ २८ ॥
अथासौ त्वरितो दूरमन्विष्यन्परितो भ्रमन् ॥
न लब्धवांश्चिताभस्म श्रान्तो गृहमगात्पुनः ॥ २९ ॥
तत आहूय पत्नीं स्वां शबरो वाक्यमब्रवीत् ॥
न लब्धं मे चिताभस्म किं करोमि वद प्रिये ॥३.३.१७.३०॥
शिवपूजान्तरायो मे जातोद्य बत पाप्मनः ॥
पूजां विना क्षणमपि नाहं जीवितुमुत्सहे ॥३१॥
उपायं नात्र पश्यामि पूजोपकरणे हते ॥
न गुरोश्च विहन्येत शासनं सकलार्थदम् ॥ ३२ ॥
इति व्याकुलितं दृष्ट्वा भर्त्तारं शबराङ्गना ॥
प्रत्यभाषत मा भैस्त्वमुपायं प्रवदामि ते ॥ ३३ ॥
इदमेव गृहं दग्ध्वा बहुकालोपबृंहितम् ॥
अहमग्निं प्रवेक्ष्यामि चिताभस्म भवेत्ततः ॥ ३४ ॥
॥ शबर उवाच ॥ ॥
धर्मार्थकाममोक्षाणां देहः परमसाधनम् ॥
कथं त्यजसि तं देहं सुखार्थं नवयौवनम् ॥ ३५ ॥
अधुना त्वनपत्या त्वमभुक्तविषयासवा ॥
भोगयोग्यमिमं देहं कथं दग्धुमिहेच्छसि ॥ ३६ ॥
॥ शबर्युवाच ॥ ॥
एतावदेव साफल्यं जीवितस्य च जन्मनः ॥
परार्थे यस्त्यजेत्प्राणाञ्छिवार्थे किमुत स्वयम् ॥ ३७ ॥
किं नु तप्तं तपो घोरं किं वा दत्तं मया पुरा ॥
किं वार्चनं कृतं शम्भोः पूर्वजन्मशतान्तरे ॥ ३८ ॥
किं वा पुण्यं मम पितुः का वा मातुः कृतार्थता ॥
यच्छिवार्थे समिद्धेऽग्नौ त्यजाम्येतत्कलेवरम् ॥ ३९ ॥
इत्थं स्थिरां मतिं दृष्ट्वा तस्या भक्तिं च शङ्करे ॥
तथेति दृढसङ्कल्पः शबरः प्रत्यपूजयत् ॥ ३.३.१७.४० ॥
सा भर्त्तारमनुप्राप्य स्नात्वा शुचिरलङ्कृता ॥
गृहमादीप्य तं वह्निं भक्त्या चक्रे प्रदक्षिणम् ॥ ४१ ॥
नमस्कृत्वात्मगुरवे ध्यात्वा हृदि सदाशिवम् ॥
अग्निप्रवेशाभिमुखी कृताञ्जलिरिदं जगौ ॥ ४२ ॥
॥ शबर्युवाच ॥ ॥
पुष्पाणि सन्तु तव देव ममेन्द्रियाणि धूपोऽगुरुर्वपुरिदं हृदयं प्रदीपः ॥
प्राणा हवींषि करणानि तवाक्षताश्च पूजाफलं व्रजतु साम्प्रतमेष जीवः ॥ ४३ ॥
वाञ्छामि नाहमपि सर्वधनाधिपत्यं न स्वर्गभूमिमचलां न पदं विधातुः ॥
भूयो भवामि यदि जन्मनिजन्मनि स्यां त्वत्पादपङ्कजलसन्मकरन्दभृङ्गी ॥ ४४ ॥
जन्मानि सन्तु मम देव शताधिकानि माया न मे वि शतु चित्तमबोधहेतुः ॥
किञ्चित्क्षणार्धमपि ते चरणारविन्दान्नापैतु मे हृदयमीश नमोनमस्ते ॥४५॥
इति प्रसाद्य देवेशं शबरी दृढनिश्चया ॥
विवेश ज्वलितं वह्निं भस्मसादभवत्क्षणात् ॥ ४६ ॥
शबरोपि च तद्भस्म यत्नेन परिगृह्य सः ॥
चक्रे दग्धगृहोपान्ते शिवपूजां समाहितः ॥ ४६ ॥
अथ सस्मार पूजान्ते प्रसादग्रहणोचिताम् ॥
दयितां नित्यमायान्तीं प्राञ्जलिं विनयान्विताम् ॥ ४८ ॥
स्मृतमात्रां तदापश्यदागतां पृष्ठतः स्थिताम् ॥
पूर्वेणावयवेनैव भक्तिनम्रां शुचिस्मिताम् ॥ ४९ ॥
तां वीक्ष्य शबरः पत्नीं पूर्ववत्प्राञ्जलिं स्थिताम् ॥
भस्मावशेषितगृहं यथापूर्वमवस्थितम् ॥। ॥ ३.३.१७.५० ॥
अग्निर्दहति तेजोभिः सूर्यो दहति रश्मिभिः ॥
राजा दहति दण्डेन ब्राह्मणो मनसा दहेत् ॥ ५१ ॥
किमयं स्वप्न आहोस्वित्किं वा माया भ्रमात्मिका ॥
इति विस्मयसम्भ्रातस्तां भूयः पर्यपृच्छत ॥ ५२ ॥
अपि त्वं च कथं प्राप्ता भस्मभूतासि पावके ॥
दग्धं च भवनं भूयः कथं पूर्व वदास्थितम् ॥ ५३ ॥
॥ शबर्युवाच ॥ ॥
यदा गृहं समुद्दीप्य प्रविष्टाहं हुताशने ॥
तदात्मानं न जानामि न पश्यामि हुताशनम् ॥ ५४ ॥
न तापलेशोप्यासीन्मे प्रविष्टाया इवोदकम् ॥
सुषुप्तेव क्षणार्धेन प्रबुद्धास्मि पुनः क्षणात् ॥ ५५ ॥
तावद्भवनमद्राक्षमदग्धमिव सुस्थितम् ॥
अधुना देवपूजान्ते प्रसादं लब्धुमागता ॥ ५६ ॥
एवं परस्परं प्रेम्णा दम्पत्योर्भाषमाणयोः ॥
प्रादुरासीत्तयोरग्रे विमानं दिव्यमद्भुतम् ॥ ५७ ॥
तस्मिन्विमाने शतचन्द्रभास्वरे चत्वार ईशानुचराः पुरःसराः ॥
हस्ते गृहीत्वाथ निषाददम्पती आरोपयामासुरमुक्तविग्रहौ ॥ ५८ ॥
तयोर्निषाददम्पत्योस्तत्क्षणादेव तद्वपुः ॥
शिवदूतकरस्पर्शात्तत्सारूप्यमवाप ह ॥ ५९ ॥
तस्माच्छ्रद्धैव सर्वेषु विधेया पुण्यकर्मसु ॥
नीचोपि शबरः प्राप श्रद्धया योगिनां गतिम् ॥ ३.३.१७.६० ॥
किं जन्मना सकलवर्णजनोत्तमेन किं विद्यया सकलशास्त्रविचारवत्या ॥
यस्यास्ति चेतसि सदा परमेशभक्तिः कोऽन्यस्ततस्त्रिभुवने पुरुषोस्ति धन्यः ॥ ६१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे भस्ममाहात्म्यवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥