॥ सूत उवाच । ॥
शृणुध्वं मुनयः श्रेष्ठा वामदेवस्य भाषितम् ॥ १ ॥
॥ वामदेव उवाच ॥ ॥
पुरा मन्दरशैलेन्द्रे नानाधातुविचित्रिते ॥
नानासत्वसमाकीर्णे नानाद्रुमलताकुले ॥ २ ॥
कालाग्निरुद्रो भगवान्कदाचिद्विश्ववन्दितः ॥
समाससाद भूतेशः स्वेच्छया परमेश्वरः ॥३ ॥
समन्तात्समुपातिष्ठन्रुद्राणां शतकोटयः ॥
तेषां मध्ये समासीनो देवदेवस्त्रिलोचनः ॥ ४ ॥
तत्रागच्छत्सुरश्रष्ठो देवैः सह पुरन्दरः ॥
तथाग्निर्वरुणो वायुर्यमो वैवस्वतस्तथा ॥ ५ ॥
गन्धर्वाश्चित्रसेनाद्याः खेचराः पन्नगादयः ॥
विद्याधराः किम्पुरुषाः सिद्धाः साध्याश्च गुह्यकाः ॥ ६ ॥
ब्रह्मर्षयो वसिष्ठाद्या नारदाद्याः सुरर्षयः ॥
पितरश्च महात्मानो दक्षाद्याश्च प्रजेश्वराः ॥ ७ ॥
उर्वश्याद्याश्चाप्सरसश्चण्डिकाद्याश्च मातरः ॥
आदित्या वसवो दस्रौ विश्वेदेवा महौजसः ॥ ८ ॥
अथान्ये भूतपतयो लोकसंहरणे क्षमाः ॥
महाकालश्च नन्दी च तथा वै शङ्खपालकौ ॥ ९ ॥
वीरभद्रो महातेजाः शङ्कुकर्णो महाबलः ॥
घण्टाकर्णश्च दुर्धर्षो मणिभद्रो वृकोदरः ॥ 3.3.16.१० ॥
कुण्डोदरश्च विकटास्तथा कुभोदरो बली ॥
मन्दोदरः कर्णधारः केतुर्भृङ्गीरिटिस्तथा ॥ ११ ॥
भूतनाथास्तथान्ये च महाकाया महौजसः ॥
कृष्णवर्णास्तथा श्वेताः केचिन्मण्डूकसप्रभाः ॥ १२ ॥
हरिता धूसरा धूम्राः कर्बुरा पीतलोहिताः॥
चित्रवर्णा विचित्राङ्गाश्चित्रलीला मदोत्कटाः ॥ १३ ॥
नानायुधोद्यतकरा नानावाहनभूषणाः ॥
केचिद्व्याघ्रमुखाः केचित्सूकरास्या मृगा ननाः ॥ १४ ॥
केचिच्च नक्रवदनाः सारमेयमुखाः परे ॥
सृगालवदनाश्चान्य उष्ट्राभवदनाः परे ॥ १५ ॥
केचिच्छरभभेरुण्डसिंहाश्वोष्ट्रबकाननाः ॥
एकवक्त्रा द्विवक्त्राश्च त्रिमुखाश्चैव निर्मुखाः ॥ १६ ॥
एकहस्तास्त्रिहस्ताश्च पञ्चहस्तास्त्वहस्तकाः ॥
अपादा बहुपादाश्च बहुकर्णैककर्णकाः ॥१७॥
एकनेत्राश्चतुर्नेत्रा दीर्घाः केचन वामनाः ॥
समन्तात्परिवार्येशं भूतनाथमुपासते ॥ १८ ॥
अथागच्छन्महातेजा मुनीनां प्रवरः सुधीः ॥
सनत्कुमारो धर्मात्मा तं द्रष्टुं जगदीश्वरम् ॥ १९ ॥
तं देवदेवं विश्वेशं सूर्यकोटिसमप्रभम् ॥
महाप्रलयसङ्क्षुब्धसप्तार्णवघनस्वनम् ॥ 3.3.16.२० ॥
संवर्त्ताग्निसमाटोपं जटामण्डलशोभितम् ॥
अक्षीणभालनयनं ज्वालाम्लानमुखत्विषम् ॥ २१ ॥
प्रदीप्तचूडामणिना शशिखण्डेन शोभितम् ॥
तक्षकं वामकर्णेन दक्षिणेन च वासुकिम् ॥ २२ ॥
बिभ्राणं कुण्डलयुगं नीलरत्नमहाहनुम् ॥
नीलग्रीवं महाबाहुं नागहारविराजितम् ॥ २३ ॥
फणिराजपरिभ्राजत्कङ्क णाङ्गदमुद्रिकम् ॥
अनन्तगुणसाहस्रमणिरञ्जितमेखलम् ॥ २४ ॥
व्याघ्रचर्मपरीधानं घण्टादर्पणभूषितम् ॥
कर्कोटकमहापद्मधृतराष्ट्रधनञ्जयैः ॥२५॥
कूजन्नूपुरसङ्घुष्टपादपद्मविराजितम् ॥
प्रासतोमरखट्वाङ्गशूलटङ्कधनुर्धरम् ॥ २६ ॥
अप्रधृष्यमनिर्देश्यमचिन्त्याकारमीश्वरम् ॥
रत्नसिंहासनारूढं प्रण नाम महामुनिः ॥ २७ ॥
तं भक्तिभारोच्छ्वसितान्तरात्मा संस्तूय वाग्भिः श्रुतिसम्मिताभिः ॥
कृताञ्जलिः प्रश्रयनम्रकन्धरः पप्रच्छ धर्मानखिलाञ्छु भप्रदान् ॥ २८ ॥
यान्यानपृच्छत मुनिस्तांस्तान्धर्मानशेषतः ॥
प्रोवाच भगवान्रुद्रो भूयो मुनिरपृच्छत ॥ २९ ॥
॥ सनत्कुमार उवाच ॥ ॥
श्रुतास्ते भगवन्धर्मास्त्वन्मुखान्मुक्तिहेतवः ॥
यैर्मुक्तपापा मनुजास्तरिष्यन्ति भवार्णवम् ॥ 3.3.16.३० ॥
अथापरं विभो धर्ममल्पायासं महाफलम् ॥
ब्रूहि कारुण्यतो मह्यं सद्यो मुक्तिप्रदं नृणाम् ॥ ३१ ॥
अभ्यासबहुला धर्माः शास्त्रदृष्टाः सहस्रशः ॥
सम्यक्संसेविताः कालात्सिद्धिं यच्छन्ति वा न वा ॥ ३२ ॥
अतो लोकहितं गुह्यं भुक्तिमुक्त्योश्च साधनम् ॥
धर्मं विज्ञातुमिच्छामि त्वत्प्रसादान्महेश्वर ॥ ३३ ॥
॥ श्रीरुद्र उवाच ॥ ॥
सर्वेषामपि धर्माणामुत्तमं श्रुतिचोदितम् ॥
रहस्यं सर्वजन्तूनां यत्त्रिपुण्ड्रस्य धारणम् ॥ ३४ ॥
॥ सनत्कुमार उवाच॥ ॥
त्रिपुण्ड्रस्य विधिं ब्रूहि भगवञ्जगतां पते ॥
तत्त्वतो ज्ञातुमिच्छामि त्वत्प्रसादान्महेश्वर ॥ ३५ ॥
कति स्थानानि किं द्रव्यं का शक्तिः का च देवता ॥
किं प्रमाणं च कः कर्त्ता के मन्त्रास्तस्य किं फलम् ॥ ३६ ॥
एतत्सर्वमशेषेण त्रिपुण्ड्रस्य च लक्षणम् ॥
ब्रूहि मे जगतां नाथ लोकानुग्रहकाम्यया ॥ ३७ ॥
॥ श्रीरुद्र उवाच ॥ ॥
आग्नेयमुच्यते भस्म दग्धगोमयसम्भवम् ॥
तदेव द्रव्यमित्युक्तं त्रिपुण्ड्रस्य महामुने ॥ ३८ ॥
सद्योजातादिभिर्ब्रह्ममयैर्मन्त्रैश्च पञ्चभिः॥
परिगृह्याग्निरित्यादिमन्त्रैर्भस्माभिमन्त्रयेत् ॥ ३९ ॥
मानस्तोकेति सम्मृञ्ज्य शिरो लिम्पेच्च त्र्यम्बकम् ॥
त्रियायुषादिभिर्मन्त्रैर्ललाटे च भुजद्वये ॥
स्कन्धे च लेपयेद्भस्म सजलं मन्त्रभावितम् ॥ 3.3.16.४० ॥
तिस्रो रेखा भवन्त्येषु स्थानेषु मुनिपुङ्गव ॥
भ्रुवोर्मध्यं समारभ्य यावदन्तो भ्रुवोर्भवेत् ॥ ४१ ॥
मध्यमानामिकाङ्गुल्योर्मध्ये तु प्रतिलोमतः ॥
अङ्गुष्ठेन कृता रेखा त्रिपुण्ड्रस्याभिधीयते ॥ ४२ ॥
तिसृणामपि रेखाणां प्रत्येकं नव देवताः ॥
अकारो गार्हपत्यश्च ऋग्भूर्लोको रजस्तथा ॥ ४३ ॥
आत्मा चैव क्रियाशक्तिः प्रातः सवनमेव च ॥
महादेवस्तु रेखायाः प्रथमायास्तु देवता ॥ ४४ ॥
उकारो दक्षिणाग्निश्च नभः सत्त्वं यजुस्तथा ॥
मध्यन्दिनं च सवनमिच्छाशक्त्यन्तरात्मकौ ॥ ४५ ॥
महेश्वरश्च रेखाया द्वितीयायाश्च देवता ॥
मकाराहवनीयौ च परमात्मा तमो दिवः ॥ ४६ ॥
ज्ञानशक्तिः सामवेदस्तृतीयसवनं तथा ॥
शिवश्चेति तृतीयाया रेखायाश्चाधिदेवता ॥ ४७ ॥
एता नित्यं नमस्कृत्य त्रिपुण्ड्रं धारयेत्सुधीः ॥
महेश्वरव्रतमिदं सर्ववेदेषु कीर्तितम् ॥४८॥
मुक्तिकामैर्नरैः सेव्यं पुनस्तेषां न सम्भवः ॥
त्रिपुण्ड्रं कुरुते यस्तु भस्मना विधिपूर्वकम् ॥४९॥
ब्रह्मचारी गृहस्थो वा वनस्थो यतिरेव वा॥
महापातकसङ्घातैर्मुच्यते चोपपातकैः॥3.3.16.५०॥
तथान्यैः क्षत्रविट्शूद्रस्त्रीगोहत्या दिपातकैः॥
वीरहत्याश्वहत्याभ्यां मुच्यते नात्र संशयः॥५१॥
अमन्त्रेणापि यः कुर्यादज्ञात्वा महिमोन्नतिम्॥
त्रिपुण्ड्रं भालपटले मुच्यते सर्वपातकैः ॥५२॥
परद्रव्यापहरणं परदाराभिमर्शनम्॥
परनिन्दा परक्षेत्रहरणं परपीडनम्॥५३॥
सस्यारामादिहरणं गृहदाहादिकर्म च ॥
असत्यवादं पैशुन्यं पारुष्यं वेदविक्र यः॥
कूटसाक्ष्यं व्रतत्यागः कैतवं नीचसेवनम् ॥५४॥
गोभूहिरण्यमहिषी तिलकम्बलवाससाम्॥
अन्नधान्यजलादीनां नीचेभ्यश्च परिग्रहः॥५५॥
दासी वेश्याभुजङ्गेषु वृषलीषु नटीषु च ॥
रजस्वलासु कन्यासु विधवासु च सङ्गमः ॥ ५६ ॥
मांसचर्मरसादीनां लवणस्य च विक्रयः ॥
एवमादीन्य सङ्ख्यानि पापानि विविधानि च ॥ ५७ ॥
सद्य एव विनश्यन्ति त्रिपुण्ड्रस्य च धारणात् ॥
शिवद्रव्यापहरणं शिवनिन्दा च कुत्रचित् ॥ ५८ ॥
निन्दा च शिवभक्तानां प्रायश्चितैर्न शुद्ध्यति ॥
रुद्राक्षा यस्य गात्रेषु ललाटे च त्रिपुण्ड्रकम् ॥५९॥
स चाण्डालोऽपि सम्पूज्यः सर्ववर्णोत्तमो भवेत् ॥
यानि तीर्थानि लोकेऽस्मिन्गङ्गायाः सरितश्च याः ॥ 3.3.16.६० ॥
स्नातो भवति सर्वत्र ललाटे यस्त्रिपुण्ड्रधृक् ॥
सप्तकोटिमहामन्त्राः पञ्चाक्षरपुरःसराः ॥ ॥ ६१ ॥
तथान्ये कोटिशो मन्त्राः शैवाः कैवल्यहेतवः ॥
ते सर्वे येन जप्ताः स्युर्यो बिभर्ति त्रिपुण्ड्रकम् ॥ ६२ ॥
सहस्रं पूर्वजातानां सहस्रं च जनिष्यताम् ॥
स्ववंशजानां मर्त्यानामुद्धरेद्यस्त्रिपुण्ड्रधृक्॥ ६३ ॥
इह भुक्त्वाखिलान्भोगान्दीर्घायुर्व्याधिवर्जितः ॥
जीवितान्ते च मरणं सुखनैवं प्रपद्यते ॥ ६४ ॥
अष्टैश्वर्यगुणोपेतं प्राप्य दिव्यं वपुः शुभम् ॥
दिव्यं विमानमारुह्य दिव्यस्त्रीशतसेवितः ॥ ६५ ॥
विद्याधराणां सिद्धानां गन्धर्वाणां महौजसाम् ॥
इन्द्रादिलोकपालानां लोकेषु च यथाक्रमम् ॥ ६६ ॥
भुक्त्वा भोगान्सुविपुलान्प्रजेशानां पुरेषु च ॥
ब्रह्मणः पदमासाद्य तत्र कल्पशतं रमेत् ॥ ६७ ॥
विष्णोर्लोके च रमते यावद्ब्रह्मशतत्रयम् ॥ ६८ ॥
शिवलोकं ततः प्राप्य रमते कालमक्षयम् ॥
शिवसायुज्यमाप्नोति न स भूयोऽभिजायते ॥ ६९ ॥
सर्वोपनिषदां सारं समालोच्य मुहुर्मुहुः ॥
इदमेव हि निर्णीतं परं श्रेयस्त्रिपुण्ड्रकम् ॥ 3.3.16.७० ॥
एतत्त्रिपुण्ड्रमाहात्म्यं समासात्कथितं मया ॥
रहस्यं सर्वभूतानां गोपनीयमिदं त्वया ॥ ७१ ॥
इत्युक्त्वा भगवान्रुद्रस्तत्रैवान्तरधीयत ॥
सनत्कुमारोऽपि मुनिर्जगाम ब्रह्मणः पदम् ॥ ७२ ॥
तवापि भस्मसम्पर्कात्सञ्जाता विमला मतिः ॥
त्वमपि श्रद्धया पुण्यं धारयस्व त्रिपुण्ड्रकम् ॥ ७३ ॥
॥ सूत उवाच ॥ ॥
इत्युक्त्वा वामदेवस्तु शिवयोगी महातपाः ॥
अभिमन्त्र्य ददौ भस्म घोराय ब्रह्मरक्षसे ॥ ७४ ॥
तेनासौ भालपटले चक्रे तिर्य क्त्रिपुण्ड्रकम् ॥
ब्रह्मराक्षसतां सद्यो जहौ तस्यानुभावतः ॥ ७५ ॥
स बभौ सूर्यसङ्काशस्तेजोमण्डलमण्डितः ॥
दिव्यावयरूपैश्च दिव्यमाल्याम्बरो ज्ज्वलः ॥ ७६ ॥
भक्त्या प्रदक्षिणीकृत्य तं गुरुं शिवयोगिनम् ॥
दिव्यं विमानमारुह्य पुण्यलोकाञ्जगाम सः ॥ ७७ ॥
वामदेवो महायोगी दत्त्वा तस्मै परां गतिम् ॥
चचार लोके मूढात्मा साक्षादिव शिवः स्वयम् ॥ ७८ ॥
य एतद्भस्ममाहात्म्यं त्रिपुण्ड्रं शृणुयान्नरः ॥
श्रावयेद्वा पठेद्वापि स हि याति परां गतिम् ॥ ७९ ॥
कथयति शिवकीर्तिं संसृतेर्मुक्तिहेतुं प्रणमति शिवयोगिध्येयमीशाङ्घ्रिपद्मम् ॥
रचयति शिवभक्तोद्भासि भाले त्रिपुण्ड्रं न पुनरिह जनन्या गर्भवासं भजेत्सः ॥ 3.3.16.८० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तर खण्डे भस्ममाहात्म्यकथनं नाम षोडशोऽध्यायः ॥ १६ ॥ ॥