॥ सूत उवाच ॥ ॥
ऋषभस्यानुभावोयं वर्णितः शिवयोगिनः ॥
अथान्यस्यापि वक्ष्यामि प्रभावं शिवयोगिनः ॥ १ ॥
भस्मनश्चापि माहात्म्यं वर्णयामि समासतः ॥
कृतकृत्या भविष्यन्ति यच्छुत्वा पापिनो जनाः ॥ २ ॥
अस्त्येको वामदेवाख्यः शिवयोगी महा तपाः ॥
निर्द्वन्द्वो निर्गुणः शान्तो निःसङ्गः समदर्शनः ॥ ३ ॥
आत्मारामो जितक्रोधो गृहदारविवर्जितः ॥
अतर्कितगतिर्मौनी सन्तुष्टो निष्प रिग्रहः ॥ ४ ॥
भस्मोद्धूलितसर्वाङ्गो जटामण्डलमण्डितः ॥
वल्कलाजिनसंवीतो भिक्षामात्रपरिग्रहः ॥ ५ ॥
स एकदा चरंल्लोके सर्वानुग्रहतत्परः ॥
क्रौञ्चारण्यं महाघोरं प्रविवेश यदृच्छया ॥ ६ ॥
तस्मिन्निर्मनुजेऽरण्ये तिष्ठत्येकोऽतिभीषणः ॥
क्षुत्तृषाकुलितो नित्यं यः कश्चिद्ब्रह्मराक्षसः ॥ ७ ॥
तं प्रविष्टं शिवात्मानं स दृष्ट्वा ब्रह्मराक्षसः ॥
अभिदुद्राव वेगेन जग्धम्ु क्षुत्परिपीडितः ॥ ८ ॥
व्यात्ताननं महाकायं भीमदंष्ट्रं भयानकम् ॥
तमायान्तमभिप्रेक्ष्य योगीशो न चचाल सः ॥ ९ ॥
अथाभिद्रुत्य तरसा स घोरो वनगोचरः ॥
दोर्भ्यां निष्पीड्य जग्राह निष्कम्पं शिवयोगिनम्॥3.3.15.१०॥
तदङ्गस्पर्शनादेव सद्यो विध्वस्तकिल्बिषः ॥
स ब्रह्मराक्षसो घोरो विषण्णः स्मृतिमाययौ ॥ ११ ॥
यथा चिन्तामणिं स्पृष्ट्वा लोहं काञ्चनतां व्रजेत् ॥
यथा जम्बूनदीं प्राप्य मृत्तिका स्वर्णतां व्रजेत् ॥ १२ ॥
यथा मानसमभ्येत्य वायसा यान्ति हंसताम् ॥
यथामृतं सकृत्पीत्वा नरो देवत्वमाप्नुयात् ॥ ॥ १३ ॥
तथैव हि महात्मानो दर्शनस्पर्शनादिभिः ॥
सद्यः पुनन्त्यघोपेतान्सत्सङ्गो दुर्लभो ह्यतः ॥ १४ ॥
यः पूर्वं क्षुत्पिपासार्तो घोरात्मा विपिने चरः ॥
स सद्यस्तृप्तिमायातः पूर्णानन्दो बभूव ह ॥ १५ ॥
तद्गात्रलग्नसितभस्मकणानुविद्धः सद्यो विधूतघनपापतमःस्वभावः ॥
सम्प्राप्तपूर्वभव संस्मृतिरुग्रकार्यस्तत्पादपद्मयुगले प्रणतो बभाषे ॥ १६ ॥
॥ राक्षस उवाच ॥ ॥
प्रसीद मे महायोगिन्प्रसीद करुणानिधे ॥
प्रसीद भवतप्तानामानन्दामृवारिधे ॥ १७ ॥
क्वाहं पापमतिर्घोरः सर्वप्राणिभयङ्करः ॥
क्व ते महानुभावस्य दर्शनं करुणात्मनः ॥ १८ ॥
उद्धरोद्धर मां घोरे पतितं दुःखसागरे ॥
तव सन्निधिमात्रेण महानन्दोऽभिवर्धते ॥ १९ ॥
॥ वामदेव उवाच ॥ ॥
कस्त्वं वनेचरो घोरो राक्षसोऽत्र किमास्थितः ॥
कथमेतां महाघोरां कष्टां गतिमवाप्तवान् ॥ 3.3.15.२० ॥
॥ राक्षस उवाच ॥ ॥
राक्षसोऽहमितः पूर्वं पञ्चविंशतिमे भवे ॥
गोप्ता यवनराष्ट्रस्य दुर्जयो नाम वीर्यवान् ॥ २१ ॥
सोऽहं दुरात्मा पापीयान्स्वैरचारी मदोत्कटः ॥
दण्डधारी दुराचारः प्रचण्डो निर्घृणः खलः ॥ २२ ॥
युवा बहुकलत्रोऽपि कामासक्तोऽजितेन्द्रियः ॥
इमां पापीयसीं चेष्टां पुनरेकां गतोऽस्म्यहम् ॥ २३ ॥
प्रत्यहं नूतनामन्या नारीं भोक्तुमनाः सदा ॥
आहृताः सर्वदेशेभ्यो नार्यो भृत्यैर्मदाज्ञया ॥ २४ ॥
भुक्त्वाभुक्त्वा परित्यक्तामेकामेकां दिनेदिने ॥
अन्तर्गृहेषु संस्थाप्य पुनरन्याः स्त्रियो धृताः ॥ २५ ॥
एवं स्वराष्ट्रात्परराष्ट्रतश्च देशाकरग्रामपुरव्रजेभ्यः ॥
आहृत्य नार्यो रमिता दिनेदिने भुक्वा पुनः कापि न भुज्यते मया ॥ २६ ॥
अथान्यैश्च न भुज्यन्ते मया भुक्तास्तथा स्त्रियः ॥
अन्तर्गृहेषु निहिताः शोचन्ते च दिवानिशम् ॥ २७ ॥
ब्रह्मविट्क्षत्रशूद्राणां यदा नार्यो मया हृताः ॥
मम राज्ये स्थिता विप्राः सह दारैः प्रदुद्रुवुः॥ २८ ॥
सभर्तृकाश्च कन्याश्च विधवाश्च रजस्वलाः ॥
आहृत्य नार्यो रमिता मया कामहतात्मना ॥२९॥
त्रिशतं द्विजनारीणां राजस्त्रीणां चतुःशतम् ॥
षट्शतं वैश्यनारीणां सहस्रं शूद्रयोषिताम् ॥ 3.3.15.३० ॥
शतं चाण्डालनद्गीर्णा पुलिन्दीनां सहस्रकम् ॥
शैलूषीणां पञ्चशतं रजकीनां चतुःशतम्॥३१॥
असङ्ख्या वारमुख्याश्च मया भुक्ता दुरात्मना॥
तथापि मयि कामस्य न तृप्तिः समजायत ॥ ३२ ॥
एवं दुर्विषयासक्तं मत्तं पानरतं सदा ॥
यौवनेपि महारोगा विविशुर्यक्ष्मकादयः ॥ ३३ ॥
रोगार्दितोऽनपत्यश्च शत्रुभिश्चापि पीडितः ॥
त्यक्तोमात्यैश्च भृत्यैश्च मृतोऽहं स्वेन कर्मणा ॥ ३४ ॥
आयुर्विनश्यत्ययशो विवर्धते भाग्यं क्षयं यात्यतिदुर्गतिं व्रजेत् ॥
स्वर्गाच्च्यवन्ते पितरः पुरातना धर्मव्यपेतस्य नरस्य निश्चितम् ॥ ३५ ॥
अथाहं किङ्करैर्याम्यैर्नीतो वैवस्वतालयम् ॥
ततोऽहं नरके घोरे तत्कुण्डे विनिपातितः ॥ ३६ ॥
तत्राहं नरके घोरे वर्षाणामयुतत्रयम् ॥
रेतः पिबन्पीड्यमानो न्यवसं यमकिङ्करैः ॥ ३७ ॥
ततः पापावशेषेण पिशाचो निर्जने वने ॥
सहस्रशिश्नः सञ्जातो नित्यं क्षुत्तृषयाकुलः ॥ ३८ ॥
पैशाचीं गतिमाश्रित्य नीतं दिव्यं शरच्छतम् ॥
द्वितीयेहं भवे जातो व्याघ्रः प्राणिभयङ्करः ॥ ३९ ॥
तृतीयेऽजगरो घोरश्चतुर्थेऽहं भवे वृकः ॥
पञ्चमे विड्वराहश्च षष्ठेऽहं कृकलासकः ॥ 3.3.15.४० ॥
सप्तमेऽहं सारमेयः सृगालश्चाष्टमे भवे ॥
नवमे गवयो भीमो मृगोऽहं दशमे भवे ॥ ४१ ॥
एकादशे मर्कटश्च गृध्रोऽहं द्वादशे भवे ॥
त्रयोदशेऽहं नकुलो वायसश्च चतु र्दशे ॥ ४२ ॥
अच्छभल्लः पञ्चदशे षोडशे वनकुक्कुटः॥
गर्दभोऽहं सप्तदशे मार्जारोष्टादशे भवे ॥४३॥
एकोनविंशे मण्डूकः कूर्मो विंशतिमे भवे ॥
एकविंशे भवे मत्स्यो द्वाविंशे मूषकोऽभवम् ॥ ४४ ॥
उलूकोहं त्रयोविंशे चतुर्विशे वनद्विपः ॥
पञ्चविंशे भवे चास्मिञ्जातोहं ब्रह्मराक्षसः ॥ ४५ ॥
क्षुत्परीतो निराहारो वसाम्यत्र महावने ॥
इदानीमागतं दृष्ट्वा भवन्तं जग्धुमुत्सुकः ॥
त्वद्देहस्पर्शमात्रेण जाता पूर्वभवस्मृतिः ॥ ४६ ॥
गतजन्म सहस्राणि स्मराम्यद्य त्वदन्तिके ॥
निर्वेदश्च परो जातः प्रसन्नं हृदयं च मे ॥ ४७ ॥
ईदृशोऽयं प्रभावस्ते कथं लब्धो महामते ॥
तपसा वापि तीव्रेण किमु तीर्थनिषेवणात् ॥ ४८ ॥
योगेन देवशक्त्या वा मन्त्रैर्वानन्तशक्तिभिः ॥
तत्त्वतो ब्रूहि भगवंस्त्वामहं शरणं गतः ॥ ४९ ॥
॥ वामदेव उवाच ॥ ॥
एष मद्गात्रलग्नस्य प्रभावो भस्मनो महान् ॥
यत्सम्पर्कात्तमोवृत्तेस्तवेयं मतिरुत्तमा ॥ 3.3.15.५० ॥
को वेद भस्मसामर्थ्यं महादेवा दृते परः ॥
दुर्विभाव्यं यथा शम्भोर्माहात्म्यं भस्मनस्तथा ॥ ५१ ॥
पुरा भवादृशः कश्चिद्ब्राह्मणो धर्मवर्जितः ॥
द्राविडेषु स्थितो मूढः कर्मणा शूद्रतां गतः ॥ ५२ ॥
चौर्यवृत्तिर्नैष्कृतिको वृषलीरतिलालसः॥
कदाचिज्जारतां प्राप्तः शूद्रेण निहतो निशि ॥ ५३ ॥
तच्छवस्य बहिर्ग्रामा त्क्षिप्तस्य प्रेतकर्मणः ॥
चचार सारमेयोंऽगे भस्मपादो यदृच्छया ॥ ५४ ॥
अथ तं नरके घोरे पतितं शिवकिङ्कराः॥
निन्युर्विमानमारोप्य प्रसह्य यमकिङ्करान् ॥ ५५ ॥
शिवदूतान्समभ्येत्य यमोपि परिपृष्टवान् ॥
महापातककर्त्तारं कथमेनं निनीषथ ॥ ५६ ॥
अथोचुः शिवदूतास्ते पश्यास्य शवविग्रहम् ॥
वक्षोललाटदोर्मूलान्यङ्कितानि सुभस्मना ॥ ५७ ॥
अत एनं समानेतुमागताः शिवशासनात् ॥
नास्मान्निषेद्धुं शक्तोसि मास्त्वत्र तव संशयः ॥ ५८ ॥
इत्याभाष्य यमं शम्भोर्दूतास्तं ब्राह्मणं ततः ॥
पश्यतां सर्वलोकानां निन्युर्लोकमनामयम् ॥ ५९ ॥
तस्मादशेषपापानां सद्यः संशोधनं परम् ॥
शम्भोर्विभूषणं भस्म सततं ध्रियते मया ॥ 3.3.15.६० ॥
इत्थं निशम्य माहात्म्यं भस्मनो ब्रह्मराक्षसः ॥
विस्तरेण पुनः श्रोतु मौत्कण्ठ्यादित्यभाषत ॥ ६१ ॥
साधुसाधु महायोगिन्धन्योस्मि तव दर्शनात् ॥
मां विमोचय धर्मात्मन्घोरादस्मात्कुजन्मनः ॥ ६२ ॥
किञ्चिदस्तीह मे भाति मया पुण्यं पुराकृतम् ॥
अतोहं त्वत्प्रसादेन मुक्तोस्म्यद्य द्विजोत्तम ॥ ६३ ॥
एकस्मै शिवभक्ताय तस्मिन्पार्थिवजन्मनि ॥
भूमिर्वृत्तिकरी दत्ता सस्यारामान्विता मया ॥ ९९ ॥
यमेनापि तदैवोक्तं पञ्चविंशतिमे भवे ॥
कस्यचिद्योगिनः सङ्गान्मोक्ष्यसे संसृतेरिति ॥ ६५ ॥
तदद्य फलितं पुण्यं यत्किञ्चित्प्राग्भवार्जितम् ॥
अतो निर्मनुजारण्ये सम्प्राप्तस्तव सङ्गमः ॥ ६६ ॥
अतो मां घोरपाप्मानं संसरन्तं कुजन्मनि ॥
समुद्धर कृपासिन्धो दत्त्वा भस्म समन्त्रकम् ॥ ६७ ॥
कथं धार्यमिदं भस्म को मन्त्रः को विधिः शुभः ॥
कः कालः कश्च वा देशः सर्वं कथय मे गुरो ॥ ६८ ॥
भवादृशा महात्मानः सदा लोकहिते रताः ॥
नात्मनो हितमिच्छन्ति कल्पवृक्षसधर्मिणः ॥ ६९ ॥
॥ सूत उवाच ॥ ॥
इत्युक्तस्तेन योगीशो घोरेण वनचारिणा ॥
भूयोपि भस्ममाहात्म्यं वर्णयामास तत्त्ववित् ॥ 3.3.15.७० ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे भस्ममाहात्म्यकथनं नाम पञ्चदशोऽध्यायः ॥ १५ ॥