०१४ भद्रायुशिवप्रसादकथनम्

॥ सूत उवाच ॥ ॥
प्राप्तसिंहासनो वीरो भद्रायुः स महीपतिः ॥
प्रविवेश वनं रम्यं कदाचिद्भार्यया सह ॥ १ ॥
तस्मिन्विकसिताशोकप्रसूननवपल्लवे॥
प्रोत्फुल्लमल्लिकाखण्डकूजद्भ्रमरसङ्कुले॥२॥
नवकेसरसौरभ्यबद्धरागिजनोत्सवे॥
सद्यः कोरकिताशोकतमालगहनान्तरे ॥३॥
प्रसूनप्रकरानम्र माधवीवनमण्डपे॥
प्रवालकुसुमोद्द्योतचूतशाखिभिरञ्चिते ॥४॥
पुन्नागवनविभ्रान्तपुंस्कोकिलविराविणि॥
वसन्तसमये रम्ये विजहार स्त्रिया सह ॥५॥
अथाविदूरे क्रोशन्तौ धावन्तौ द्विजदम्पती ॥
अन्वीयमानौ व्याघ्रेण ददर्श नृपसत्तमः ॥ ६ ॥
पाहि पाहि महाराज हा राजन्करुणानिधे ॥
एष धावति शार्दूलो जग्धुमावां महारयः ॥ ७ ॥
एष पर्वतसङ्काशः सर्वप्राणिभयङ्करः ॥
यावन्न खादति प्राप्य तावन्नौ रक्ष भूपते ॥ ८ ॥
इत्थमाक्रन्दितं श्रुत्वा स राजा धनुराददे ॥
तावदागत्य शार्दूलो मध्ये जग्राह तां वधूम् ॥ ९ ॥
हा नाथ नाथ हा कान्त हा शम्भो जगतः पते ॥
इति रोरूयमाणां तां यावज्जग्राह भीषणः ॥ ३.३.१४.१० ॥
तावत्स राजा निशितैर्भल्लैर्व्याघ्रमताडयत् ॥
न च तैर्विव्यथे किञ्चिद्गिरीन्द्र इव वृष्टिभिः ॥११॥
स शार्दूलो महासत्त्वो राज्ञोस्त्रैरकृतव्यथः ॥
बलादाकृष्य तां नारीमपाक्रामत सत्वरः ॥ १२ ॥
व्याघ्रेणापहृतां पत्नीं वीक्ष्य विप्रोऽतिदुःखितः ॥
रुरोद हा प्रिये बाले हा कान्ते हा पतिव्रते ॥ १३ ॥
एकं मामिह सन्त्यज्य कथं लोकान्तरं गता ॥
प्राणेभ्योपि प्रियां त्यक्त्वा कथं जीवितुमुत्सहे ॥ १४ ॥
राजन्क्व ते महास्त्राणि क्व ते श्लाघ्यं महद्धनुः ॥
क्व ते द्वादशसाहस्रमहानागातिगं बलम् ॥ १५ ॥
किं ते शङ्खेन खङ्गेन किं ते मन्त्रास्त्रविद्यया ॥
किं च तेन प्रयत्नेन किं प्रभावेण भूयसा ॥ १६ ॥
तत्सर्वं विफलं जातं यच्चान्यत्त्वयि तिष्ठति ॥
यस्त्वं वनौकसं जन्तुं निवारयितुमक्षमः ॥ १७ ॥
क्षात्त्रस्यायं परो धर्मः क्षताद्यत्परिरक्षणम् ॥
तस्मात्कुलोचिते धर्मे नष्टे त्वज्जीवितेन किम् ॥१८॥
आर्तानां शरणार्तानां त्राणं कुर्वन्ति पार्थिवाः ॥
प्राणैरर्थैश्च धर्मज्ञास्तद्विहीना मृतोपमाः ॥ १९ ॥
धनिनां दानहीनानां गार्हस्थ्याद्भिक्षुता वरा ॥
आर्तत्राणविहीनानां जीवितान्मरणं वरम् ॥ ३.३.१४.२० ॥
वरं विषादनं राज्ञो वरमग्नौ प्रवेशनम् ॥
अनाथानां प्रपन्नानां कृपणानामरक्षणात् ॥ २१ ॥
इत्थं विलपितं तस्य स्ववीर्यस्य च गर्हणम् ॥
निशम्य नृपतिः शोकादात्मन्येवमचिन्तयत् ॥ २२ ॥
अहो मे पौरुषं नष्टमद्य दैवविपर्ययात् ॥
अद्य कीर्तिश्च मे नष्टा पातकं प्राप्तमुत्क टम् ॥ २३ ॥
धर्मः कालोचितो नष्टो मन्दभाग्यस्य दुर्मतेः ॥
नूनं मे सम्पदो राज्यमायुष्यं क्षयमेष्यति ॥२४॥
अपुंसां सम्पदो भोगाः पुत्रदारधनानि च ॥
दैवेन क्षणमुद्यन्ति क्षणादस्तं व्रजन्ति च ॥२५॥
अत एनं द्विजन्मानं हतदारं शुचार्दितम् ॥
गतशोकं करिष्यामि दत्त्वा प्राणानपि प्रियान् ॥ ॥ २६ ॥
इति निश्चित्य मनसा भद्रायुर्नृपसत्तमः ॥
पतित्वा पादयोस्त्वस्य बभाषे परिसान्त्वयन् ॥ २७ ॥
कृपां कुरु मयि ब्रह्मन्क्षत्रबन्धौ हतौजसि ॥
शोकं त्यज महाबुद्धे दास्याम्यर्थं तवेप्सितम् ॥ २८ ॥
इदं राज्यमियं राज्ञी ममेदं च कलेवरम् ॥
त्वधीनमिदं सर्वं किं तेऽभिलषितं वद ॥ ॥ २९ ॥
॥ ब्राह्मण उवाच ॥ ॥
किमादर्शेन चान्धस्य किं गृहैर्भैक्ष्यजीविनः ॥
किं पुस्तकेन मूर्खस्य ह्यस्त्रीकस्य धनेन किम् ॥ ३.३.१४.३० ॥
अतोऽहं गतपत्नीको भुक्तभोगो न कर्हिचित् ॥
इमां तवाग्रमहिषीं कामार्थं दीयतां मम ॥ ३१ ॥
॥ राजोवाच ॥ ॥
ब्रह्मन्किमेष धर्मस्ते किमेतद्गुरुशासनम् ॥
अस्वर्ग्यमयशस्यं च परदाराभिमर्शनम् ॥ ३२ ॥
दातारः सन्ति वित्तस्य राज्यस्य गजवाजिनाम् ॥
आत्मदेहस्य वा क्वापि न कलत्रस्य कर्हिचित् ॥३३॥
परदारोपभोगेन यत्पापं समुपार्जितम् ॥
न तत्क्षालयितुं शक्यं प्रायश्चित्तशतैरपि ॥३४॥
॥ ब्राह्मण उवाच ॥
अपि ब्रह्मवधं घोरमपि मद्यनिषेवणम् ॥
तपसा नाशयिष्यामि कि पुनः पारदारिकम् ॥
तस्मात्प्रयच्छ मे भार्यामिमां त्वं ध्रुवमन्यथा ॥ ३५ ॥
अरक्षणाद्भयार्तानां गन्तासि निरयं ध्रुवम् ॥
इति विप्रगिरा भीतश्चिन्तयामास पार्थिवः ॥
अरक्षणान्महत्पापं पत्नीदानं ततो वरम् ॥ ३६ ॥
अतः पत्नीं द्विजाग्र्याय दत्त्वा निर्मुक्तकिल्विषः ॥
सद्यो वह्निं प्रवेक्ष्यामि कीर्तिश्च निहिता भवेत् ॥ ३७ ॥
इति निश्चित्य मनसा समुज्ज्वाल्य हुताशनम् ॥
तं ब्राह्मणं समाहूय ददौ पत्नीं सहोदकाम् ॥ ३८ ॥
स्वयं स्नातः शुचिर्भूत्वा प्रणम्य विबुधेश्वरान् ॥
तमग्निं द्विः परिक्रम्य शिवं दध्यौ समाहितः ॥ ३९ ॥
तमथाग्नौ पतिष्यन्तं स्वपदासक्तचेतसम् ॥
प्रत्यदृश्यत विश्वेशः प्रादुर्भूतो जगत्पतिः ॥ ३.३.१४.४० ॥
तमीश्वरं पञ्चवक्त्रं त्रिनेत्रं पिनाकिनं चन्द्रकलावतंसम् ॥
आलम्बितापिङ्गजटाकलापं मध्यङ्गतं भास्करकोटितेजसम् ॥ ४१ ॥
मृणालगौरं गजचर्मवाससं गङ्गातरङ्गो क्षितमौलिदेशम् ॥
नागेन्द्रहारावलिकङ्कणोर्मिकाकिरीटकोट्यङ्गदकुण्डलोज्ज्वलम् ॥ ४२ ॥
त्रिशूलखट्वाङ्गकुठारचर्ममृगाभयेष्टार्थपिनाकहस्तम् ॥
वृषोपरिस्थं शितिकण्ठमीशं प्रोद्भूतमग्रे नृपतिर्ददर्श ॥ ४३ ॥
अथाम्बराद्द्रुतं पेतुर्दिव्याः कुसुमवृष्टयः ॥
प्रणेदुर्देवतूर्याणि देवाश्च ननृतुर्जगुः ॥ ४४ ॥
तत्राजग्मुर्नारदाद्याः सनकाद्या सुरर्षयः ॥
इन्द्रादयश्च लोकेशास्तथाब्रह्मर्षयोऽमलाः ॥ ४५ ॥
तेषां मध्ये समासीनो महादेवः सहोमया ॥
ववर्ष करुणासारं भक्तिनम्रे महीपतौ ॥ ४६ ॥
तद्दर्शनानन्दविजृम्भिताशयः प्रवृद्धबाष्पाम्बुपरिप्लुताङ्गः ॥
प्रहृष्टरोमा गलगद्गदाक्षरं तुष्टाव गीर्भिर्मुकुलीकृताञ्जलिः ॥ ४७ ॥
॥ राजोवाच ॥ ॥
नतोस्म्यहं देवमनाथमव्ययं प्रधानमव्यक्तगुणं महान्तम् ॥
अकारणं कारणकारणं परं शिवं चिदानन्दमयं प्रशान्तम् ॥ ४८ ॥
त्वं विश्वसाक्षी जगतोऽस्यकर्त्ता विरूढधामा हृदि सन्निविष्टः ॥
अतो विचिन्वन्ति विधौ विपश्चितो योगैरनेकैः कृतचित्तरोधैः ॥ ४९ ॥
एकात्मतां भावयतां त्वमेको नानाधियां यस्त्वमनेकरूपः ॥
अतीन्द्रियं साक्ष्युदयास्तविभ्रमं मनःपथात्संह्रियते पदं ते ॥ ३.३.१४.५० ॥
तं त्वां दुरापं वचसो धियाश्च व्यपेतमोहं परमात्मरूपम् ॥
गुणैकनिष्ठाः प्रकृतौ विलीनाः कथं वपुः स्तोतुमलङ्गिरो मे ॥ ५१ ॥
तथापि भक्त्याश्रयतामुपेयुस्तवाङ्घ्रिपद्मं प्रणतार्तिभञ्जनम् ॥
सुघोरसंसारदवाग्निपीडितो भजामि नित्यं भवभीतिशान्तये ॥ ५२ ॥
नमस्ते देव देवाय महादेवाय शम्भवे ॥
नमस्त्रिमूर्तिरूपाय सर्गस्थित्यन्तकारिणे ॥ ५३ ॥
नमो विश्वादिरूपाय विश्वप्रथमसाक्षिणे ॥
नमः सन्मात्रतत्त्वाय बोधानन्दघनाय च ॥ ५४ ॥
सर्वक्षेत्रनिवासाय क्षेत्रभिन्नात्मशक्तये ॥
अशक्ताय नमस्तुभ्यं शक्ताभासाय भूयसे ॥ ५५ ॥
निराभासाय नित्याय सत्यज्ञानान्तरात्मने ॥
विशुद्धाय विदूराय विमुक्ताशेषकर्मणे ॥ ५६ ॥
नमो वेदान्तवेद्याय वेदमूलनिवासिने ॥
नमो विविक्तचेष्टाय निवृत्तगुण वृत्तये ॥ ५७ ॥
नमः कल्याणवीर्याय कल्याणफलदायिने ॥
नमोऽनन्ताय महते शान्ताय शिवरूपिणे ॥ ५८ ॥
अघोराय सुघोराय घोराघौघ विदारिणे ॥
भर्गाय भवबीजानां भञ्जनाय गरीयसे ॥
नमो विध्वस्तमोहाय विशदात्मगुणाय च ॥ ५९ ॥
पाहि मां जगतां नाथ पाहि शङ्कर शाश्वत ॥
पाहि रुद्र विरूपाक्ष पाहि मृत्युञ्जयाव्यय ॥ ३.३.१४.६० ॥
शम्भो शशाङ्ककृतशेखर शान्तमूर्ते गौरीश गोपतिनिशापहुताशनेत्र ॥
गङ्गाधरान्धकविदारण पुण्यकीर्ते भूतेश भूधरनिवास सदा नमस्ते ॥ ६१ ॥
॥ सूत उवाच ॥ ॥
एवं स्तुतः स भगवान्राज्ञा देवो महेश्वरः ॥
प्रसन्नः सह पार्वत्या प्रत्युवाच दयानिधिः ॥ ६२ ॥
॥ ईश्वर उवाच ॥ ॥
राजंस्ते परितुष्टोऽस्मि भक्त्या पुण्यस्तवेन च ॥
अनन्यचेता यो नित्यं सदा मां पर्यपूजयः ॥ ६३ ॥
तव भावपरीक्षार्थं द्विजो भूत्वाहमागतः ॥
व्याघ्रेण या परिग्रस्ता सैषा दैवी गिरीन्द्रजा ॥ ६४ ॥
व्याघ्रो मायामयो यस्ते शरैरक्षतविग्रहः ॥
धीरतां द्रष्टुकामस्ते पत्नीं याचितवानहम् ॥ ६५ ॥
अस्याश्च कीर्तिमालिन्यास्तव भक्त्या च मानद ॥
तुष्टोऽहं सम्प्रयच्छामि वरं वरय दुर्लभम् ॥ ६६ ॥
॥ राजोवाच ॥ ॥
एष एव वरो देव यद्भवान्परमेश्वरः ॥
भवतापपरीतस्य मम प्रत्यक्षतां गतः ॥ ६७ ॥
नान्यं वरं वृणे देव भवतो वरदर्षभात् ॥
अहं च सेयं सा राज्ञी मम माता च मत्पिता ॥ ६८ ॥
वैश्यः पद्माकरो नाम तत्पुत्रः सुनयाभिधः ॥
सर्वानेतान्महादेव सदा त्वत्पार्श्वगान्कुरु ॥ ६९ ॥
॥ सूत उवाच ॥ ॥
अथ राज्ञी महाभागा प्रणता कीर्तिमालिनी ॥
भक्त्या प्रसाद्य गिरिशं ययाचे वरमुत्तमम् ॥ ३.३.१४.७० ॥
॥ राज्ञ्युवाच ॥ ॥
चन्द्राङ्गदो मम पिता माता सीमन्तिनी च मे ॥
तयोर्याचे महादेव त्वत्पार्श्वे सन्निधिं सदा ॥ ७१ ॥
एवमस्त्विति गौरीशः प्रसन्नो भक्तवत्सलः ॥
तयोः कामवरं दत्त्वा क्षणादन्तर्हितोऽभवत् ॥ ७२ ॥
सोपि राजा सुरैः सार्धं प्रसादं प्राप्य शूलिनः ॥
सहितः कीर्तिमालिन्या बुभुजे विषयान्प्रियान् ॥ ७३ ॥
कृत्वा वर्षायुतं राज्यमव्याहतबलोन्नतिः ॥
राज्यं पुत्रेषु विन्यस्य भेजे शम्भोः परं पदम् ॥ ७४ ॥
चन्द्राङ्गदोपि राजेन्द्रो राज्ञी सीमन्तिनी च सा ॥
भक्त्या सम्पूज्य गिरिशं जग्मतुः शाम्भवं पदम् ॥ ७५ ॥
एतत्पवित्रमघनाशकरं विचित्रं शम्भोर्गुणानुकथनं परमं रहस्यम् ॥
यः श्रावयेद्बुधजनान्प्रयतः पठेद्वा सम्प्राप्य भोगविभवं शिव मेति सोन्ते ॥ ७६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे भद्रायुशिवप्रसादकथनं नाम चतुर्दशोऽध्यायः ॥ ॥ १४ ॥