॥ सूत उवाच ॥ ॥
दशार्णाधिपतेस्तस्य वज्रबाहोर्महाभुजः ॥
बभूव शत्रुर्बलवान्राजा मगधराट् ततः ॥ १ ॥
स वै हेमरथो नाम बाहुशाली रणोत्कटः ॥
बलेन महतावृत्य दशार्णं न्यरुधद्बली ॥ २ ॥
चमूपास्तस्य दुर्धर्षाः प्राप्य देशं दशार्णकम् ॥
व्यलुम्पन्वसुरत्नानि गृहाणि ददहुः परे ॥३॥
केचिद्धनानि जगृहुः केचिद्बालान्स्त्रियोऽपरे ॥
गोधनान्यपरेऽगृह्णन्केचिद्धान्यपरिच्छदान् ॥
केचिदारामसस्यानि गृहोद्यानान्यनाशयत् ॥४॥
एवं विनाश्य तद्राज्यं स्त्रीगोधनजिघृक्षवः ॥
आवृत्य तस्य नगरीं वज्रबाहोस्तु मागधः ॥ ५ ॥
एवं पर्याकुलं वीक्ष्य राजा नगरमेव च ॥
युद्धाय निर्जगामाशु वज्रबाहुः ससै निकः ॥ ६ ॥
वज्रबाहुश्च भूपालस्तथा मन्त्रिपुरःसराः ॥
युयुधुर्मागधैः सार्धं निजघ्नुः शत्रुवाहिनीम् ॥७॥
वज्रबाहुर्महेष्वासो दंशितो रथमास्थितः॥
विकिरन्बाणवर्षाणि चकार कदनं महत् ॥८॥
दशार्णराजं युध्यन्तं दृष्ट्वा युद्धे सुदुःसहम् ॥
तमेव तरसा वव्रुः सर्वे मागधसैनिकाः ॥ ९ ॥
कृत्वा तु सुचिरं युद्धं मागधा दृढविक्रमाः ॥
तत्सैन्यं नाशयामासुर्लेभिरे च जयश्रियम् ॥३.३.१३.१०॥
केचित्तस्य रथं जघ्नुः केचित्तद्धनुराच्छिनम् ॥
सूतं तस्य जघानैकस्त्वपरः खड्गमाच्छिनत् ॥ ११॥
सञ्छिन्नखड्गधन्वानं विरथं हतसारथिम् ॥
बलाद्गृहीत्वा बलिनो बबन्धुर्नृपतिं रुषा ॥१२॥
तस्य मन्त्रिगणं सर्वं तत्सैन्यं च विजित्य ते ॥
मागधास्तस्य नगरीं विविशुर्जयकाशिनः ॥ १३ ॥
अश्वान्नरान्गजानुष्ट्रान्पशूंश्चैव धनानि च ॥
जगृहुर्युवतीः सर्वाश्चार्वङ्गीश्चैव कन्यकाः ॥ १४ ॥
राज्ञो बबन्धुर्महिषीर्दासीश्चैव सहस्रशः ॥
कोशं च रत्नसम्पूर्णं जह्रुस्तेऽप्याततायिनः ॥ १५ ॥
एवं विनाश्य नगरीं हृत्वा स्त्रीगोधनादिकम् ॥
वज्रबाहुं बलाद्बद्ध्वा रथे स्थाप्य विनिर्ययुः ॥ १६ ॥
एवं कोलाहले जाते राष्ट्रनाशे च दारुणे ॥
राजपुत्रोऽथ भद्रायुस्तद्वार्तामशृणोद्बली ॥ १७ ॥
पितरं शत्रुनिर्बद्धं पितृपत्नीस्तथा हृताः ॥
नष्टं दशार्णराष्ट्रं च श्रुत्वा चुक्रोश सिंहवत् ॥ १८ ॥
स खड्गशङ्खावादाय वैश्यपुत्रसहायवान् ॥
दंशितो हयमारुह्य कुमारो विजिगीषया ॥ १९ ॥
जवेनागत्य तं देशं मागधैरभिपूरितम् ॥
दह्यमानं क्रन्दमानं हृतस्त्रीसुतगोधनम् ॥ ३.३.१३.२० ॥
दृष्ट्वा राजजनं सर्वं राज्यं शून्यं भयाकुलम् ॥
क्रोधाध्मातमनास्तूर्णं प्रविश्य रिपुवाहिनीम् ॥
आकर्णाकृष्टकोदण्डो ववर्ष शरसन्ततीः ॥ २१ ॥
ते हन्यमाना रिपवो राजपुत्रेण सायकैः ॥
तमभिद्रुत्य वेगेन शरैर्विव्यधुरुल्बणैः ॥ २२ ॥
हन्यमानोऽस्त्रपूगेन रिपुभिर्युद्धदुर्मदैः ॥
न चचाल रणे धीरः शिववर्माभिरक्षितः ॥ २३ ॥
सोऽस्त्रकर्षं प्रसह्याशु प्रविश्य गजलीलया ॥
जघानाशु रथान्नागान्पदातीनपि भूरिशः ॥ २४ ॥
तत्रैकं रथिनं हत्वा ससूतं नृपनन्दनः ॥
तमेव रथमास्थाय वैश्यनन्दनसारथिः ॥
विचचार रणे धीरः सिंहो मृगकुलं यथा ॥ २५ ॥
अथ सर्वे सुसंरब्धाः शूराः प्रोद्यतकार्मुकाः ॥
अभिसस्रुस्तमेवैकं चमूपा बलशालिनः ॥ २६ ॥
तेषामापततामग्रे खड्गमुद्यम्य दारुणम् ॥
अभ्युद्ययौ महावीरान्दर्शयन्निव पौरुषम् ॥ २७ ॥
करालान्तकजिह्वाभं तस्य खड्गं महोज्ज्वलम् ॥
दृष्ट्वैव सहसा मम्रुश्च मूपास्तत्प्रभावतः ॥ २८ ॥
येये पश्यन्ति तं खड्गं प्रस्फुरन्तं रणाङ्गणे ॥
ते सर्वे निधनं जग्मुर्वज्रं प्राप्येव कीटकः ॥ २९ ॥
अथासौ सर्वसैन्यानां विनाशाय महाभुजः ॥
शङ्खं दध्मौ महारावं पूरयन्निव रोदसी ॥ ३.३.१३.३० ॥
तेन शङ्खनिनादेन विषाक्तेनैव भूयसा ॥
श्रुतमात्रेण रिपवो मूर्च्छिताः पतिता भुवि ॥३१ ॥
येऽश्वपृष्ठे रथे ये च ये च दन्तिषु संस्थिताः॥
ते विसञ्ज्ञाः क्षणात्पेतुः शङ्खनादहतौजसः॥३२॥
तान्भूमौ पतितान्सर्वान्नष्टसञ्ज्ञा न्निरायुधान्॥
विगणय्य शवप्रायाननावधीद्धर्मशास्त्रवित्॥३३॥
आत्मनः पितरं बद्धं मोचयित्वा रणाजिरे॥
तत्पत्नीः शत्रुवशगाः सर्वाः सद्यो व्यमोचयत् ॥ ३४ ॥
पत्नीश्च मन्त्रिमुख्यानां तथान्येषां पुरौकसाम् ॥
स्त्रियो बालांश्च कन्याश्च गोधनादीन्यनेकशः ॥ ३५ ॥
मोचयित्वा रिपुभयात्तमाश्वासयदाकुलः ॥
अथारिसैन्येषु चरंस्तेषां जग्राह योषितः ॥ ३६ ॥
मरुन्मनोजवानश्वान्मातङ्गान्गिरिसन्निभान् ॥
स्यन्दनानि च रौक्माणि दासीश्च रुचिराननाः ॥ ३७ ॥
युग्मम् ॥
सर्वमाहृत्य वेगेन गृहीत्वा तद्धनं बहु ॥
मागधेशं हेमरथं निर्बबन्ध पराजितम् ॥ ३८ ॥
तन्मन्त्रिणश्च भूपांश्च तत्र मुख्यांश्च नायकान्॥
गृहीत्वा तरसा बद्ध्वा पुरीं प्रावेशयद्द्रुतम् ॥ ३९ ॥
पूर्वं ये समरे भग्ना विवृत्ताः सर्वतोदिशम् ॥
ते मन्त्रिमुख्या विश्वस्ता नायकाश्च समाययुः ॥ ३.३.१३.४० ॥
कुमारविक्रमं दृष्ट्वा सर्वे विस्मितमानसाः ॥
तं मेनिरे सुरश्रेष्ठं कारणादागतं भुवम् ॥ ॥ ४१ ॥
अहो नः सुमहाभाग्यमहो नस्तपसः फलम् ॥
केनाप्यनेन वीरेण मृताः सञ्जीविताः खलु ॥ ४२ ॥
एष किं योगसिद्धो वा तपःसिद्धो ऽथवाऽमरः ॥
अमानुषमिद कर्म यदनेन कृतं महत् ॥ ४३ ॥
नूनमस्य भवेन्माता सा गौरीति शिवः पिता ॥
अक्षौहिणीनां नवकं जिगायानन्तशक्तिधृक् ॥ ४४ ॥
इत्याश्चर्ययुतैर्हृष्टैः प्रशंसद्भिः परस्परम् ॥
पृष्टोऽमात्यजनेनासावात्मानं प्राह तत्त्वतः ॥ ४५ ॥
समागतं स्वपितरं विस्मयाह्लादविप्लुतम् ॥
मुञ्चन्तमानन्दजलं ववन्दे प्रेमविह्वलः ॥ ४६ ॥
स राजा निजपुत्रेण प्रणयादभिवन्दितः ॥
आश्लिष्य गाढं तरसा बभाषे प्रेमकातरः ॥ ४७ ॥
कस्त्वं देवो मनुष्यो वा गन्धर्वो वा महामते ॥
का माता जनकः को वा को देशस्तव नाम किम् ॥ ४८ ॥
कस्मान्न शत्रुभिर्बद्धान्मृतानिव हतौजसः ॥
कारुण्यादिह सम्प्राप्य सपत्नीकान्मुमोच यः ॥ ४९ ॥
कुतो लब्धमिदं शौर्यं धैर्यं तेजो बलोन्नतिः ॥
जिगीषसीव लोकांस्त्रीन्सदेवासुरमानुषान् ॥ ३.३.१३.५० ॥
अपि जन्मसहस्रेण तवानृण्यं महौजसः ॥
कर्तुं नाहं समर्थोस्मि सहैभिर्दारबान्धवैः ॥५१॥
इमान्पुत्रानिमाः पत्नीरिदं राज्यमिदं पुरम् ॥
सर्वं विहाय मच्चित्तं त्वय्येव प्रेमबन्धनम् ॥५२॥
सर्वं कथय मे तात मत्प्राणपरिरक्षक ॥
एतासां मम पत्नीनां त्वदधीनं हि जीवितम् ॥ ५३ ॥
॥ सूत उवाच ॥ ॥
इति पृष्टः स भद्रायुः स्वपित्रा तमभाषत ॥
एष वैश्यसुतो राजन्सुनयो नाम मत्सखा ॥ ५४ ॥
अहमस्य गृहे रम्ये वसामि सहमातृकः ॥
भद्रायुर्नाम मद्वृत्तं पश्चाद्विज्ञापयामि ते ॥ ५५ ॥
पुरं प्रविश्य भद्रं ते सदारः ससुहृज्जनः ॥
त्यक्त्वा भयमरातिभ्यो विहरस्व यथासुखम् ॥ ५६ ॥
नैतान्मुञ्च रिपूंस्तावद्यावदागमनं मम ॥
अहमद्य गमिष्यामि शीघ्रमात्मनिवेशनम् ॥ ५७ ॥
इत्युक्त्वा नृपमामन्त्र्य भद्रायुर्नृपनन्दनः ॥
आजगाम स्वभवनं मात्रे सर्वं न्यवेदयत् ॥ ५८॥
सापि हृष्टा स्वतनयं परिरेभेऽश्रुलोचना ॥
स च वैश्यपतिः प्रेम्णा परिष्वज्याभ्यपूजयत् ॥ ५९ ॥
वज्रबाहुश्च राजेन्द्रः प्रविष्टो निजमन्दिरम् ॥
स्त्रीपुत्रामात्य सहितः प्रहर्षमतुलं ययौ ॥ ३.३.१३.६० ॥
तस्यां निशायां व्युष्टायामृषभो योगिनां वरः ॥
चन्द्राङ्गदं समागत्य सीमन्तिन्याः पतिं नृपम् ॥ ६१ ॥
भद्रायुषः समुत्पत्तिं तस्य कर्माप्यमानुषम् ॥
आवेद्य रहसि प्रेम्णा त्वत्सुतां कीर्तिमालिनीम् ॥ ६२ ॥
भद्रायुषे प्रयच्छेति बोधयित्वा च नैषधम् ॥
ऋषभो निर्जगामाथ देशकालार्थतत्त्ववित् ॥ ६३ ॥
विशेषकम् ॥
अथ चन्द्राङ्गदो राजा मुहूर्त्ते मङ्गलोचिते ॥
भद्रायुषं समाहूय प्रायच्छत्कीर्त्तिमालिनीम् ॥ ६४ ॥
कृतोद्वाहः स राजेन्द्रतनयः सह भार्यया ॥
हेमासनस्थः शुशुभे रोहिण्येव निशाकरः ॥ ६५ ॥
वज्रबाहुं तत्पितरं समाहूय स नैषधः ॥
पुरं प्रवेश्य सामात्यः प्रत्युद्गम्याभ्यपूजयत् ॥ ६६ ॥
तत्रापश्यत्कृतोद्वाहं भद्रायुषमरिन्दमम् ॥
पादयोः पतितं प्रेम्णा हर्षात्तं परिषस्वजे ॥ ॥ ६७ ॥
एष मे प्राणदो वीर एष शत्रुनिषूदनः ॥
अथाप्यज्ञातवंशोऽयं मयानन्तपराक्रमः ॥ ६८ ॥
एष ते नृप जामाता चन्द्राङ्गद महाबलः ॥
अस्य वंशमथोत्पत्तिं श्रोतुमिच्छामि तत्त्वतः ॥ ६९ ॥
इत्थं दशार्णराजेन प्रार्थितो निषधाधिपः ॥
विविक्त उपसङ्गम्य प्रहसन्निदमब्रवीत् ॥ ३.३.१३.७० ॥
एष ते तनयो राजञ्छैशवे रोगपीडितः ॥
त्वया वने परित्यक्तः सह मात्रा रुजार्तया ॥ ७१ ॥
परिभ्रमन्ती विपिने सा नारी शिशुनामुना ॥
दैवाद्वैश्यगृहं प्राप्ता तेन वैश्येन रक्षिता ॥ ७२ ॥
अथासौ बहुरोगार्तो मृतस्तव कुमारकः ॥
केनापि योगिराजेन मृतः सञ्जीवितः पुनः ॥ ७३ ॥
ऋषभाख्यस्य तस्यैव प्रभावाच्छिवयोगिनः ॥
रूपं च देवसदृशं प्राप्तौ मातृकुमारकौ ॥ ७४ ॥
तेन दत्तेन खड्गेन शङ्खेन रिपुघातिना ॥
जिगाय समरे शत्रूञ्छिववर्माभिरक्षितः ॥ ७५ ॥
द्विषट्सहस्रनागानां बलमेको बिभर्त्यसौ ॥
सर्वविद्यासु निष्णातो मम जामातृतां गतः ॥ ७६ ॥
अत एनं समादाय मातरं चास्य सुव्रताम्॥
गच्छस्व नगरीं राजन्प्राप्स्यसि श्रेय उत्तमम् ॥ ७७ ॥
इति चन्द्राङ्गदः सर्वमाख्यायान्तर्गृहे स्थिताम् ॥
तस्याग्र पत्नीमाहूय दर्शयामास भूषिताम् ॥ ७८ ॥
इत्यादि सर्वमाकर्ण्य दृष्ट्वा च स महीपतिः ॥
व्रीडितो नितरां मौढ्यात्स्वकृतं कर्म गर्हयन् ॥ ७९ !।
प्राप्तश्च परमानन्दं तयोर्दर्शनकौतुकात् ॥
पुलकाङ्कितसर्वाङ्गस्तावुभौ परिषस्वजे ॥ ३.३.१३.८० ॥
युग्मम् ॥
एवं निषधराजेन पूजितश्चाभिनन्दितः ॥
स भोजयित्वा तं सम्यक्स्वयं च सह मन्त्रिभिः ॥ ८१ ॥
तामात्मनोग्रमहिषीं पुत्रं तमपि तां स्नुषाम् ॥
आदाय सपरीवारो वज्रबाहुः पुरीं ययौ ॥८२॥
स सम्भ्रमेण महता भद्रायुः पितृमन्दिरम्॥
सम्प्राप्य परमानन्दं चक्रे सर्वपुरौकसाम्॥८३॥
कालेन दिवमारूढे पितरि प्राप्तयौवनः॥
भद्रायुः पृथिवीं सर्वां शशासाद्भुतविक्रमः ॥ ८४ ॥
मागधेशं हेमरथं मोचयामास बन्धनात् ॥
सन्धाय मैत्रीं परमां ब्रह्मर्षीणां च सन्निधौ॥ ८५॥
इत्थं त्रिलोकमहितां शिवयोगिपूजां कृत्वा पुरातनभवेऽपि स राजसूनुः ॥
निस्तीर्य दुःसहविपद्गणमाप्तराज्यश्चन्द्राङ्गदस्य सुतया सह साधु रेमे ॥ ८६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे भद्रायुविवाहकथनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥