०११ ऋषभोपदेशवर्णनम्

॥ सूत उवाच ॥ ॥
पिङ्गला नाम या वेश्या मया पूर्वमुदाहृता ॥
शिवभक्तार्चनात्पुण्यात्त्यक्त्वा पूर्वकलेवरम् ॥ १ ॥
चन्द्राङ्गदस्य सा भूयः सीमन्तिन्यामजायत ॥
रूपौदार्यगुणोपेता नाम्ना वै कीर्तिमालिनी ॥ २ ॥
भद्रायुरपि तत्रैव राजपुत्रो वणिक्पतेः ॥
ववृधे सदने भानुः शुचाविव महातपाः ॥ ३ ॥
तस्यापि वैश्यनाथस्य कुमारस्त्वेक उत्तमः ॥
स नाम्ना सुनयः प्रोक्तो राजसूनोः सखाऽभवत् ॥ ४ ॥
तावुभौ परमस्निग्धौ राजवैश्यकुमारकौ॥
चित्रक्रीडावुदाराङ्गौ रत्नाभरणमण्डितौ ॥ ५ ॥
तस्य राजकुमारस्य ब्राह्मणैः स वणिक्पतिः ॥
संस्कारान्कारयामास स्वपुत्रस्यापि विस्तरात् ॥ ६ ॥
काले कृतोपनयनौ गुरुशुश्रूषणे रतौ ॥
चक्रतुः सर्वविद्यानां सङ्ग्रहं विनयान्वितौ ॥ ७ ॥
अथ राजकुमारस्य प्राप्ते षोडशहायने ॥
स एव ऋषभो योगी तस्य वेश्मन्युपाययौ ॥ ८ ॥
सा राज्ञी स कुमारश्च शिवयोगिनमागतम् ॥
मुहुर्मुहुः प्रणम्योभौ पूजयामासतुर्मुदा ॥ ९ ॥
ताभ्यां च पूजितः सोऽथ योगीशो हृष्टमानसः ॥
तं राजपुत्रमुद्दिश्य बभाषे करुणार्द्रधीः ॥ ३.३.११.१० ॥
॥ शिवयोग्युवाच ॥ ॥
कच्चित्ते कुशलं तात त्वन्मातुश्चाप्यनामयम् ॥
कच्चित्त्वं सर्वविद्यानामकार्षीश्च प्रतिग्रहम् ॥ ११ ॥
कच्चिद्गुरूणां सततं शुश्रूषातत्परो भवान् ॥
कच्चित्स्मरसि मां तात तव प्राणप्रदं गुरुम् ॥ १२ ॥
एवं वदति योगीशे राज्ञी सा विनयान्विता ॥
स्वपुत्रं पादयोस्तस्य निपात्यैनमभाषत ॥ १३ ॥
एष पुत्रस्तव गुरो त्वमस्य प्राणदः पिता ॥
एष शिष्यस्तु सङ्ग्राह्यो भवता करुणात्मना ॥ १४ ॥
अतो बन्धुभिरुत्सृष्टमनाथं परिपालय ॥
अस्मै सम्यक्सतां मार्गमुपदेष्टुं त्वमर्हसि ॥ १५ ॥
इति प्रसादितो राज्ञ्या शिवयोगी महामतिः ॥
तस्मै राजकुमाराय सन्मार्गमुपदिष्टवान् ॥ १६ ॥
॥ ऋषभ उवाच ॥ ॥
श्रुतिस्मृतिपुराणेषु प्रोक्तो धर्मः सनातनः ॥
वर्णाश्रमानुरूपेण निषेव्यः सर्वदा जनैः ॥ १७ ॥
भज वत्स सतां मार्गं सदेव चरितं चर ॥
न देवाज्ञां विलङ्घेथा मा कार्षीर्देवहेलनम् ॥ १८ ॥
गोदेवगुरुविप्रेषु भक्तिमान्भव सर्वदा ॥
चाण्डालमपि सम्प्राप्तं सदा सम्भावयातिथिम् ॥ १९ ॥
सत्यं न त्यज सर्वत्र प्राप्तेऽपि प्राणसङ्कटे ॥
गोब्राह्मणानां रक्षार्थमसत्यं त्वं वद क्वचित् ॥ ३.३.११.२० ॥
परस्वेषु परस्त्रीषु देवब्राह्मण वस्तुषु ॥
तृष्णां त्यज महाबाहो दुर्लभेष्वपि वस्तुषु ॥ २१ ॥
सत्कथायां सदाचारे सद्व्रते च सदागमे ॥
धर्मादिसङ्ग्रहे नित्यं तृष्णां कुरु महामते ॥ २२ ॥
स्नाने जपे च होमे च स्वाध्याये पितृतर्पणे ॥
गोदेवातिथिपूजासु निरालस्यो भवानघ ॥ २३ ॥
क्रोधं द्वेषं भयं शाठ्यं पैशुन्य मसदाग्रहम् ॥
कौटिल्यं दम्भमुद्वेगं यत्नेन परिवर्जय ॥ २४ ॥
क्षात्रधर्मरतोऽपि त्वं वृथा हिंसां परित्यज ॥
शुष्कवैरं वृथालापं परनिदां च वर्जय ॥ २५ ॥
मृगया द्यूतपानेषु स्त्रीषु स्त्रीविजितेषु च ॥
अत्याहारमतिक्रोधमतिनिद्रामतिश्रमम् ॥ २६ ॥
अत्यालापमतिक्रीडां सर्वदा परिवर्जय ॥ ॥ २७ ॥
अतिविद्यामतिश्रद्धामतिपुण्यमतिस्मृतिम् ॥
अत्युत्साहमतिख्यातिमतिधैर्यं च साधय ॥ २८ ॥
सकामो निजदारेषु सक्रोधो निज शत्रुषु ॥
सलोभः पुण्यनिचये साभ्यसूयो ह्यधर्मिषु ॥ २९ ॥
सद्वेषो भव पाखण्डे सरागः सज्जनेषु च ॥
दुर्बोधो भव दुर्मन्त्रे बधिरः पिशुनोक्तिषु ॥ ३.३.११.३० ॥
धूर्त्तं चण्डं शठं क्रूरं कितवं चपलं खलम् ॥
पतितं नास्तिकं जिह्मं दूरतः परिवर्जय ॥ ३१ ॥
आत्मप्रशंसा मा कार्षीः परिज्ञातेङ्गितो भव ॥
धने सर्वकुटुम्बे च नात्यासक्तः सदा भव ॥ ३२ ॥
पत्न्याः पतिव्रतायाश्च जनन्याः श्वशुरस्य च ॥
सतां गुरोश्च वचने विश्वासं कुरु सर्वदा ॥ ३३ ॥
आत्मरक्षापरो नित्यमप्रमत्तो दृढव्रतः ॥
विश्वासं नैव कुर्वीथाः स्वभृत्येष्वपि कुत्र चित् ॥ ३४ ॥
विश्वस्तं मा वधीः कञ्चिदपि चोरं महामते ॥
अपापेषु न शङ्केथाः सत्यान्न चलितो भव ॥ ३५ ॥
अनाथं कृपणं वृद्धं स्त्रियं बालं निरागसम् ॥
परिरक्ष धनैः प्राणैर्बुद्ध्या शक्त्या बलेन च ॥ ३६ ॥
अपि शत्रुं वधस्यार्हं मा वधीः शरणागतम् ॥
अप्यपात्रं सुपात्रं वा नीचो वापि महत्तमः ॥ ३७ ॥
यो वा को वापि याचेत तस्मै देहि शिरोपि च ॥
अपि यत्नेन महता कीर्तिमेव सदार्जय ॥ ३८ ॥
राज्ञां च विदुषां चैव कीर्तिरेव हि भूषणम् ॥
सत्कीर्तिप्रभवा लक्ष्मीः पुण्यं सत्कीर्तिसम्भवम् ॥ ३९ ॥
सत्कीर्त्या राजते लोकश्चन्द्रश्चन्द्रिकया न्यथा ॥
गजाश्वहेमनिचयं रत्नराशिं नगोपमम् ॥ ३.३.११.४० ॥
अकीर्त्योपहतं सर्वं तृणवन्मुञ्च सत्वरम् ॥
मातुः कोपं पितुः कोपं गुरोः कोपं धनव्य यम् ॥ ४१ ॥
पुत्राणामपराधं च ब्राह्मणानां क्षमस्व भोः ॥
यथा द्विजप्रसादः स्यात्तथा तेषां हितं चर ॥ ४२ ॥
राजानं सङ्कटे मग्नमुद्धरेयुर्द्विजोत्तमा ॥
आयुर्यशो बलं सौख्यं धनं पुण्यं प्रजोन्नतिः ॥ ४३ ॥
कर्मणा येन जायेत तत्सेव्यं भवता सदा ॥
देशं कालं च शक्तिं च कार्यं चा कार्यमेव च ॥ ४४ ॥
सम्यग्विचार्य यत्नेन कुरु कार्यं च सर्वदा ॥
न कुर्याः कस्यचिद्बाधां परबाधां निवारय ॥ ४५ ॥
चोरान्दुष्टांश्च बाधेथाः सुनीत्या शक्तिमत्तया ॥
स्नाने जपे च होमे च दैवे पित्र्ये च कर्मणि ॥ ४६ ॥
अत्वरो भव निद्रायां भोजने भव सत्वरः ॥
दाक्षिण्ययुक्तमशठं सत्यं जनमनोहरम् ॥ ४७ ॥
अल्पाक्षरमनन्तार्थं वाक्यं ब्रूहि महामते॥
अभीतो भव सर्वत्र विपक्षेषु विपत्सु च ॥ ४८ ॥
भीतो भव ब्रह्मकुले न पापे गुरुशासने ॥
ज्ञातिबन्धुषु विप्रेषु भार्यासु तनयेषु च ॥ ४९ ॥
समभावेन वर्तेथास्तथा भोजनपङ्क्तिषु ॥
सतां हितोपदेशेषु तथा पुण्य कथासु च ॥ ३.३.११.५० ॥
विद्यागोष्ठीषु धर्म्यासु क्वचिन्मा भूः पराङ्मुखः ॥
शुचौ पुण्यजलस्यान्ते प्रख्याते ब्रह्मसङ्कुले ॥ ५१॥
महादेशे शिवमये वस्तव्यं भवता सदा ॥
कुलटा गणिका यत्र यत्र तिष्ठति कामुकः ॥ ५२ ॥
दुर्देशे नीचसम्बाधे कदाचिदपि मा वस ॥
एकमेवाश्रितोपि त्वं शिवं त्रिभुवनेश्वरम् ॥ ५३ ॥
सर्वान्देवानुपासीथास्तद्दिनानि च मानयन् ॥
सदा शुचिः सदा दक्षः सदा शान्तः सदा स्थिरः ॥ ५४ ॥
सदा विजित षड्वर्गः सदैकान्तो भवानघ ॥
विप्रान्वेदविदः शान्तान्यतींश्च नियतोज्वलान्॥ ५५ ॥
युग्मम् ॥
पुण्यवृक्षान्पुण्यनदीः पुण्यतीर्थं महत्सरः ॥
धेनुं च वृषभं रत्नं युवतीं च पतिव्रताम्॥ ५६ ॥
आत्मनो गृहदेवांश्च सहसैव नमस्कुरु ॥
उत्थाय समये ब्राह्मे स्वाचम्य विमलाशयः ॥५७ ॥
नमस्कृत्यात्मगुरुवे ध्यात्वा देवमुमापतिम्॥
नारायणं च लक्ष्मीशं ब्रह्माणं च विनायकम्॥ ५८ ॥
स्कन्दं कात्यायनीं देवीं महालक्ष्मीं सरस्वतीम् ॥
इन्द्रादीनथ लोकेशान्पुण्यश्लोकानृषीनपि ॥ ५९ ॥
चिन्तयित्वाथ मार्त्तण्डमुद्यन्तं प्रणमेत्सदा ॥
गन्धं पुष्पं च ताम्बूलं शाकं पक्वफलादिकम् ॥ ३.३.११.६० ॥
शिवाय दत्त्वोपभुङ्क्ष्व भक्ष्यं भोज्यं प्रियं नवम् ॥
यद्दत्तं यत्कृतं जप्तं यत्स्नातं यद्धुतं स्मृतम् ॥ ६१ ॥
यच्च तप्तं तपः सर्वं तच्छिवाय निवेदय॥
भुञ्जानश्च पठन्वापि शयानो विहरन्नपि ॥
पश्यञ्छृण्न्ववदन्गृह्णञ्छिवमेवानुचिन्तय ॥ ६२ ॥
रुद्राक्षकङ्कणलसत्करदण्डयुग्मो मालान्तरालधृतभस्म सितत्रिपुण्डूः ॥
पञ्चाक्षरं परिपठन्परमन्त्रराजं ध्यायन्सदा पशुपतेश्चरणं रमेथाः ॥६३ ॥
इति सङ्क्षेपतो वत्स कथितो धर्मसङ्ग्रहः ॥
अन्येषु च पुराणेषु विस्तरेण प्रकीर्तितः ॥६४॥
अथापरं सर्वपुराणगुह्यं निःशेषपापौघहरं पवित्रम्॥
जयप्रदं सर्वविपद्विमोचनं वक्ष्यामि शैवं कवचं हिताय ते ॥६५॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे भद्रायुं प्रति ऋषभोपदेशवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥