॥ सूत उवाच ॥ ॥
विचित्रं शिवनिर्माणं विचित्र शिवचेष्टितम् ॥
विचित्रं शिवमाहात्म्यं विचित्रं शिवभाषितम् ॥ १ ॥
विचित्रं शिवभक्तानां चरितं पापनाशनम् ॥
स्वर्गापवर्गयोः सत्यं साधनं तद्ब्रवीम्यहम् ॥ २ ॥
अवन्तीविषये कश्चिद्ब्राह्मणो मन्दराह्वयः ॥
बभूव विषयारामः स्त्रीजितो धनसङ्ग्रही ॥ ३ ॥
सन्ध्यास्नापरित्यक्तो गन्धमाल्याम्बरप्रियः ॥
कुस्त्रीसक्तः कुमार्गस्थो यथा पूर्वमजामिलः ॥ ४ ॥
स वेश्यां पिङ्गलां नाम रममाणो दिवानिशम् ॥
तस्या एव गृहे नित्यमासीदविजितेन्द्रियः ॥ ५ ॥
कदाचित्सदने तस्यास्तस्मिन्निवसति द्विजे ॥
ऋषभो नाम धर्मात्मा शिवयोगी समाययौ ॥ ॥ ६ ॥
तमागतमभिप्रेक्ष्य मत्वा स्वं पुण्यमूर्जितम् ॥
सा वेश्या स च विप्रश्च पर्यपूजयतामुभौ ॥ ७ ॥
तमारोप्य महापीठे कम्बलाम्बरसम्भृते ॥
प्रक्षाल्य चरणौ भक्त्या तज्जलं दधतुः शिरः ॥ ८ ॥
स्वागतार्घ्यनमस्कारैर्गन्धपुष्पाक्षतादिभिः ॥
उपचारैः समभ्यर्च्य भोजयामासतुर्मुदा ॥ ९ ॥
तं भुक्तवन्तमाचान्तं पर्यङ्के सुखसंस्तरे ॥
उपवेश्य मुदा युक्तौ ताम्बूलं प्रत्ययच्छताम् ॥ ३.३.१०.१० ॥
पादसंवाहनं भक्त्या कुर्वन्तौ दैवचो दितौ ॥
कल्पयित्वा तु शुश्रूषां प्रीणयामासतुश्चिरम् ॥ ११ ॥
एवं समर्चितस्ताभ्यां शिवयोगी महाद्युतिः ॥
अतिवाह्य निशामेकां ययौ प्रातस्तदादृतः ॥ १२ ॥
एवं काले गतप्राये स विप्रो निधनं गतः ॥
सा च वेश्या मृता काले ययौ कर्मार्जितां गतिम् ॥ १३ ॥
स विप्रः कर्मणा नीतो दशार्णधरणीपतेः ॥
वज्रबाहुकुटुम्बिन्याः सुमत्या गर्भमास्थितः ॥ १४ ॥
तां ज्येष्ठपत्नीं नृपतेर्गर्भसम्पदमाश्रिताम् ॥
अवेक्ष्य तस्यै गरलं सपत्न्यश्छद्मना ददुः ॥ १५ ॥
सा भुक्त्वा गरलं घोरं न मृता दैवयोगतः ॥
क्लेशमेव परं प्राप मरणादतिदुःसहम् ॥ १६ ॥
अथ काले समायाते पुत्रमे कमजीजनत् ॥
क्लेशेन महता साध्वी पीडिता वरवर्णिनी ॥ १७ ॥
स निर्दशो राजपुत्रः स्पृष्टपूर्वो गरेण यत् ॥
तेनावाप महाक्लेशं क्रन्दमानो दिवानिशम् ॥ १८ ॥
तस्य बालस्य माता च सर्वाङ्गव्रणपीडिता ॥
बभूवतुरतिक्लिष्टौ गरयोगप्रभावतः ॥ १९ ॥
तौ राज्ञा च समानीतौ वैद्यैश्च कृतभेषजौ ॥
न स्वास्थ्यमापतुर्यत्नैरनेकैर्योजितैरपि ॥ ३.३.१०.२० ॥
न रात्रौ लभते निद्रां सा राज्ञी विपुलव्यथा ॥
स्वपुत्रस्य च दुःखेन दुःखिता नितरां कृशा ॥ २१ ॥
नीत्वैवं कतिचिन्मासान्स राजा मातृपुत्रकौ ॥
जीवन्तौ च मृतप्रायौ विलोक्यात्मन्यचिन्तयत् ॥ २२ ॥
एतौ मे गृहिणीपुत्रौ निरयादागताविह ॥
अश्रान्तरोगौ क्रन्दन्तौ निद्राभङ्गविधायिनौ ॥ २३ ॥
अत्रोपायं करिष्यामि पापयोर्ध्रुवमेतयोः ॥
मर्तुं वा जीवितुं वापि न क्षमौ पापभोगिनौ ॥ २४ ॥
इत्थं विनिश्चित्य च भूमिपालः सक्तः सपत्नीषु तदात्मजेषु ॥
आहूय सूतं निजदारपुत्रौ निर्वापयामास रथेन दूरम्॥ २५ ॥
तौ सूतेन परित्यक्तौ कुत्रचिद्विजने वने ॥
अवापतुः परां पीडां क्षुत्तृड्भ्यां भृशविह्वलौ ॥ २६ ॥
सोद्वहन्ती निजं बालं निपतन्ती पदे पदे ॥
निःश्वसन्ती निजं कर्म निन्दन्ती चकिता भृशम् ॥ २७ ॥
क्वचित्कण्टकभिन्नाङ्गी मुक्तकेशी भयातुरा ॥
क्वचिद्व्याघ्रस्वनैर्भीता क्वचिद्व्यालैरनुद्रुता ॥ २८ ॥
भर्त्स्यमाना पिशाचैश्च वेतालैर्ब्रह्मराक्षसैः ॥
महागुल्मेषु धावन्ती भिन्नपादा क्षुराश्मभिः ॥ २९ ॥
सैवं घोरे महारण्ये भ्रमन्ती नृपगे हिनी ॥
दैवात्प्राप्ता वणिङ्मार्गं गोवाजिनरसेवितम् ॥ ३.३.१०.३० ॥
गच्छन्ती तेन मार्गेण सुदूरमतियत्नतः ॥
ददर्श वैश्यनगरं वहुस्त्रीनरसेवितम् ॥ ३१ ॥
तस्य गोप्ता महावैश्यो नगरस्य महाजनः ॥
अस्ति पद्माकरो नाम राजराज इवापरः ॥ ३२ ॥
तस्य वैश्यपतेः काचिद्गृहदासी नृपाङ्गनाम् ॥
आयान्ती दूरतो दृष्ट्वा तदन्तिकमुपाययौ ॥३३ ॥
सा दासी नृपतेः कान्तां सपुत्रां भृशपीडिताम् ॥
स्वयं विदितवृत्तान्ता स्वामिने प्रत्यदर्शयत् ॥ ॥ ३४ ॥
स तां दृष्ट्वा विशां नाथो रुजार्त्तां क्लिष्टपुत्रकाम् ॥
नीत्वा रहसि सुव्यक्तं तद्वृत्तान्तमपृच्छत ॥ ३५ ॥
तया निवेदिताशेषवृत्तान्तः स वणिक्पतिः ॥
अहोकष्टमिति ज्ञात्वा निशश्वास मुहुर्मुहुः ॥ ३६ ॥
तामन्तिके स्वगेहस्य सन्निवेश्य रहोगृहे ॥
वासोन्नपानशयनैर्मातृसाम्यमपूजयत् ॥ ॥ ३७ ॥
तस्मिन्गृहे नृपवधूर्निवसन्ती सुरक्षिता ॥
व्रणयक्ष्मादिरोगाणां न शान्तिं प्रत्यपद्यत ॥ ३८ ॥
ततो दिनैः कतिपयैः स बालो व्रणपीडितः ॥
विलङ्घितभिषक्सत्त्वो ममार च विधेर्वशात् ॥ ३९ ॥
मृते स्वतनये राज्ञी शोकेन महतावृता ॥
मूर्च्छिता चापतद्भूमौ गजभग्नेव वल्लरी ॥ ३.३.१०.४० ॥
दैवात्सञ्ज्ञामवाप्याथ वाष्पक्लिन्नपयोधरा ॥
सान्त्विताऽपि वणिक्स्त्रीभिर्विललाप सुदुःखिता ॥ ४१ ॥
हा ताततात हा पुत्र हा मम प्राणरक्षक ॥
हा राजकुलपूर्णेन्दो हा ममानन्दवर्धन ॥ ४२ ॥
इमामनाथां कृपणां त्वत्प्राणां त्यक्तवबान्धवाम् ॥
मातरं ते परित्यज्य क्व यातोऽसि नृपात्मज ॥ ॥ ४३ ॥
इत्येभिरुदितैर्वाक्यैः शोकचिन्ताविवर्धकैः ॥
विलपन्तीं मृतापत्यां को नु सान्त्वयितुं क्षमः ॥ ४४ ॥
एतस्मिन्समये तस्या दुःखशोकचिकित्सकः॥
ऋषभः पूर्वमाख्यातः शिवयोगी समाययौ॥४५॥
स योगी वैश्यनाथेन सार्घहस्तेन पूजितः॥
तस्याः सकाशमगमच्छोचन्त्या इदमब्रवीत् ॥ ४६ ॥
॥ ऋषभ उवाच ॥ ॥
अकस्मात्किमहो वत्से रोरवीषि विमूढधीः ॥
को जातः कतमो लोके को मृतो वद साम्प्रतम् ॥ ॥ ४७ ॥
अमी देहादयो भावास्तोयफेनसधर्मकाः ॥
क्वचिद्भ्रान्तिः क्वचिच्छान्तिः स्थितिर्भवति वा पुनः ॥ ४८ ॥
अतोऽस्मिन्फेनसदृशे देहे पञ्चत्वमागते ॥
शोकस्यानवकाशत्वान्न शोचन्ति विपश्चितः ॥ ४९ ॥
गुणैर्भूतानि सृज्यन्ते भ्राम्यन्ते निजकर्मभिः ॥
कालेनाथ विकृष्यन्ते वासनायां च शेरते ॥ ३.३.१०.५० ॥
माययोत्पत्तिमायान्ति गुणाः सत्त्वादयस्त्रयः ॥
तैरेव देहा जायन्ते जातास्तल्लक्षणाश्रयाः ॥ ५१ ॥
देवत्वं यानि सत्त्वेन रजसा च मनुष्यताम् ॥
तिर्यक्त्वं तमसा जन्तुर्वासनानुगतोवशः ॥ ५२ ॥
संसारे वर्तमानेस्मिञ्जन्तुः कर्मानुबन्धनात् ॥
दुर्विभाव्यां गतिं याति सुखदुःखमयीं मुहुः ॥ ५३ ॥
अपि कल्पायुषां तेषां देवानां तु विपर्ययः ॥
अनेकामयबद्धानां का कथा नरदेहिनाम् ॥ ५४ ॥
केचिद्वदन्ति देहस्य कालमेव हि कारणम् ॥
कर्म केचिद्गुणान्केचिद्देहः साधारणो ह्ययम् ॥ ५५ ॥
कालकर्मगुणाधानं पञ्चात्मकमिदं वपुः ॥
जातं दृष्ट्वा न हृष्यन्ति न शोचन्ति मृतं बुधाः ॥ ५६ ॥
अव्यक्ते जायते जन्तुरव्यक्ते च प्रलीयते ॥
मध्ये व्यक्तवदाभाति जलबुद्बुदसन्निभः ॥ ५७ ॥
यदा गर्भगतो देही विनाशः कल्पितस्तदा ॥
दैवाज्जीवति वा जातो म्रियते सहसैव वा ॥ ५८ ॥
गर्भस्था एव नश्यन्ति जातमात्रास्तथा परे ॥
क्वचिद्युवानो नश्यन्ति म्रियन्ते केपि वार्धके ॥ ५९ ॥
यादृशं प्राक्तनं कर्म तादृशं विन्दते वपुः ॥
भुङ्क्ते तदनुरूपाणि सुखदुःखानि वै ह्यसौ ॥ ३.३.१०.६० ॥
मायानुभावेरितयोः पित्रोः सुरतसम्भ्रमात् ॥
देह उत्पद्यते कोपि पुंयोषित्क्लीबलक्षणः ॥ ६१ ॥
आयुः सुखं च दुःख च पुण्यं पापं श्रुतं धनम् ॥
ललाटे लिखितं धात्रा वहञ्जन्तुः प्रजायते ॥ ६२ ॥
कर्मणामविलङ्घ्यत्वात्कालस्याप्यनतिक्रमात् ॥
अनित्यत्वाच्च भावानां न शोकं कर्तुमर्हसि ॥ ६३ ॥
क्व स्वप्ने नियतं स्थैर्यमिन्द्रजाले क्व सत्यता ॥
क्व नित्यता शरन्मेघे क्व शश्वत्त्वं कलेवरे ॥ ६४ ॥
तव जन्मान्यतीतानि शतकोट्ययुतानि च ॥
अजानन्त्याः परं तत्त्वं सम्प्राप्तोऽयं महाश्रमः॥ ६५ ॥
कस्यकस्यासि तनया जननी कस्यकस्य वा ॥
कस्यकस्यासि गृहिणी भवकोटिषु वर्त्तिनी ॥ ॥ ६६ ॥
पञ्चभूतात्मको देहस्त्वगसृङ्मांसबन्धनः ॥
मेदोमज्जास्थिनिचितो विण्मूत्रश्लेष्मभाजनम् ॥ ६७ ॥
शरीरान्तरमप्येतन्निजदेहोद्भवं मलम् ॥
मत्त्वा स्वतनयं मूढे मा शोकं कर्तुमर्हसि ॥ ६८ ॥
यदि नाम जनः कश्चिन्मृत्युं तरति यत्नतः ॥
कथं तर्हि विपद्येरन्सर्वे पूर्वे विपश्चितः॥ ॥ ६९ ॥
तपसा विद्यया बुद्ध्या मन्त्रौषधिरसायनैः ॥
अतियाति परं मृत्युं न कश्चिदपि पण्डितः ॥ ३.३.१०.७० ॥
एकस्याद्य मृतिर्जन्तोः श्वश्चान्यस्य वरानने ॥
तस्मादनित्यावयवे न त्वं शोचितुमर्हसि ॥ ७१ ॥
नित्यं सन्निहितो मृत्युः किं सुखं वद देहिनाम् ॥
व्याघ्रे पुरः स्थिते ग्रासः पशूनां किं नु रोचते ॥ ७२ ॥
अतो जन्मजरां जेतुं यदीच्छसि वरानने ॥
शरणं व्रज सर्वेशं मृत्युञ्जयमुमापतिम् ॥ ७३ ॥
तावन्मृत्युभयं घोरं तावज्जन्मजराभयम् ॥
यावन्नो याति शरणं देही शिवपदाम्बुजम् ॥ ७४ ॥
अनुभूयेह दुःखानि संसारे भृशदारुणे ॥
मनो यदा वियुज्येत तदा ध्येयो महेश्वरः ॥ ७५ ॥
मनसा पिबतः पुंसः शिवध्यानरसामृतम् ॥
भूयस्तृष्णा न जायेत संसारविषयासवे ॥ ७६ ॥
विमुक्तं सर्वसङ्गैश्च मनो वैराग्ययन्त्रितम् ॥
यदा शिवपदे मग्नं तदा नास्ति पुनर्भवः ॥ ७७ ॥
तस्मादिदं मनो भद्रे शिवध्यानैकसाधनम् ॥
शोकमोहसमाविष्टं मा कुरुष्व शिवं भज ॥ ७८ ॥
॥ सूत उवाच ॥ ॥
इत्थं सानुनयं राज्ञी बोधिता शिवयोगिना ॥
प्रत्याचष्ट गुरोस्तस्य प्रणम्य चरणां बुजम् ॥ ७९ ॥
॥ राज्ञ्युवाच ॥ ॥
भगवन्मृतपुत्रायास्त्यक्तायाः प्रियबन्धुभिः ॥
महारोगातुराया मे का गतिर्मरणं विना ॥ ३.३.१०.८० ॥
अतोऽहं मर्तुमिच्छामि सहैव शिशुनाऽमुना ॥
कृतार्थाहं यदद्य त्वामपश्यं मरणोन्मुखी ॥ ८१ ॥
॥ सूत उवाच ॥ ॥
इति तस्या वचः श्रुत्वा शिवयोगी दयानिधिः ॥
पूर्वोपकारं संस्मृत्य मृतस्यान्तिकमाययौ ॥ ८२ ॥
स तदा भस्म सङ्गृह्य शिवमन्त्राभिमन्त्रितम् ॥
विदीर्णे तन्मुखे क्षिप्त्वा मृतं प्राणैरयोजयत् ॥ ८३ ॥
स बालः सङ्गतः प्राणैः शनैरुन्मील्य लोचने ॥
प्राप्तपूर्वेन्द्रियबलो रुरोद स्तन्यकाङ्क्षया ॥ ८४ ॥
मृतस्य पुनरुत्थानं वीक्ष्य बालस्य विस्मिताः ॥
जना मुमुदिरे सर्वे नगरेषु पुरोगमाः ॥८५॥
अथानन्दभरा राज्ञी विह्वलोन्मत्तलोचना ॥
जग्राह तनयं शीघ्रं बाष्पव्याकुललोचना ॥८६॥
उपगुह्य तदा तन्वी परमानन्दनिर्वृता ॥
न वेदात्मानमन्यं वा सुषुप्तेव परिश्रमात् ॥ ८७ ॥
पुनश्च ऋषभो योगी तयोर्मातृकुमारयोः ॥
विषव्रणयुतं देहं भस्मनैव परामृशत् ॥ ८८ ॥
तौ च तद्भस्मना स्पृष्टौ प्राप्तदिव्यकलेवरौ ॥
देवानां सदृशं रूपं दधतुः कान्तिभूषितम्॥ ८९ ॥
सम्प्राप्ते त्रिदिवैश्वर्ये यत्सुखं पुण्यकर्मणाम् ॥
तस्माच्छतगुणं प्राप सा राज्ञी सुखमुत्तमम् ॥ ३.३.१०.९० ॥
तां पादयोर्निपतितामृषभः प्रेमविह्वलः ॥
उत्थाप्याश्वासयामास दुःखैर्मुक्तामुवाच ह ॥ ९१ ॥
अयि वत्से महाराज्ञि जीवत्वं शाश्वतीः समाः ॥
यावज्जीवसि लोकेस्मिन्न तावत्प्राप्स्यसे जराम् ॥ ९२ ॥
एष ते तनयः साध्वि भद्रायुरिति नामतः ॥
ख्यातिं यास्यति लोकेषु निजं राज्यमवाप्स्यति ॥ ॥ ९३ ॥
अस्य वैश्यस्य सदने तावत्तिष्ठ शुचिस्मिते ॥
यावदेष कुमारस्ते प्राप्तविद्यो भविष्यति ॥ ९४ ॥
सूत उवाच॥ ॥ ॥
इति तामृषभो योगी तं च राजकुमारकम् ॥
सञ्जीव्य भस्मवीर्येण ययौ देशान्यथेप्सितान्॥ ९५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे भद्राय्वाख्याने ऋषभयोगिना भद्रायुजीवनं नाम दशमोऽध्यायः ॥ ॥ १० ॥