॥ ऋषय ऊचुः ॥ ॥
साधुसाधु महाभाग त्वया कथितमुत्तमम् ॥
आख्यानं पुनरन्यत्र विचित्रं वक्तुमर्हसि ॥ १ ॥
॥ सूत उवाच ॥ ॥
विदर्भविषये पूर्वमासीदेको द्विजोत्तमः ॥
वेदमित्र इति ख्यातो वेद शास्त्रार्थवित्सुधीः ॥ २ ॥
तस्यासीदपरो विप्रः सखा सारस्वताह्वयः ॥
तावुभौ परमस्निग्धावेकदेशनिवासिनौ ॥ ३ ॥
वेदमित्रस्य पुत्रोऽभूत्सुमेधा नाम सुव्रतः ॥
सारस्वतस्य तनयः सोमवानिति विश्रुतः ॥ ४ ॥
उभौ सवयसौ बालौ समवेषौ समस्थिती ॥
समं च कृतसंस्कारौ सम विद्यौ बभूवतुः ॥ ५ ॥
साङ्गानधीत्य तौ वेदांस्तर्कव्याकरणानि च ॥
इतिहासपुराणानि धर्मशास्त्राणि कृत्स्नशः ॥ ६ ॥
सर्वविद्याकुशलिनौ बाल्य एव मनीषिणौ ॥
प्रहर्षमतुलं पित्रोर्ददतुः सकलैर्गुणैः ॥ ७ ॥
तावेकदा स्वतनयौ तावुभौ ब्राह्मणोत्तमौ ॥
आहूयावोचतां प्रीत्या षोड शाब्दौ शुभाकृती ॥ ८ ॥
हे पुत्रकौ युवां बाल्ये कृतविद्यौ सुवर्चसौ ॥
वैवाहिकोयं समयो वर्तते युवयोः समम् ॥ ९ ॥
इमं प्रसाद्य राजानं विदर्भेशं स्वविद्यया ॥
ततः प्राप्य धनं भूरि कृतोद्वाहौ भविष्यथः ॥ ३.३.९.१० ॥
एवमुक्तौ सुतौ ताभ्यां तावुभौ द्विजनन्दनौ ॥
विदर्भराजमासाद्य समतोषयतां गुणैः ॥ ११ ॥
विद्यया परितुष्टाय तस्मै द्विजकुमारकौ ॥
विवाहार्थं कृतोद्योगौ धनहीनावशंसताम् ॥ १२ ॥
तयोरपि मतं ज्ञात्वा स विदर्भमहीपतिः ॥
प्रहस्य किञ्चित्प्रोवाच लोकतत्त्वविवित्सया ॥ १३ ॥
आस्ते निषधराजस्य राज्ञी सीमन्तिनी सती ॥
सोमवारे महादेवं पूजयत्यम्बिकायुतम्॥१४॥
तस्मिन्दिने सपत्नीकान्द्विजाग्र्यान्वेदवित्तमान्॥
सम्पूज्य परया भक्त्या धनं भूरि ददाति च॥१५॥
अतोऽत्र युवयोरैको नारीविभ्रमवेषधृक्॥
एकस्तस्या पतिर्भूत्वा जायेतां विप्रदम्पती॥१६॥
युवां वधूवरौ भूत्वा प्राप्य सीमन्तिनीगृहम्॥
भुक्त्वा भूरि धनं लब्ध्वा पुनर्यातं ममाम्मतिकम् ॥ १७ ॥
इति राज्ञा समादिष्टौ भीतौ द्विजकुमारकौ ॥
प्रत्यूचतुरिदं कर्म कर्तुं नौ जायते भयम् ॥ १८ ॥
देवतासु गुरौ पित्रोस्तथा राजकुलेषु च ॥
कौटिल्यमाचरन्मोहात्सद्यो नश्यति सान्वयः ॥ १९ ॥
कथमन्तर्गृहं राज्ञां छद्मना प्रविशेत्पुमान् ॥
गोप्यमानमपिच्छद्म कदाचित्ख्यातिमेष्यति ॥ ३.३.९.२० ॥
ये गुणाः साधिताः पूर्वं शीलाचारश्रुतादिभिः ॥
सद्यस्ते नाशमायान्ति कौटिल्य पथगामिनः ॥ २१ ॥
पापं निन्दा भयं वैरं चत्वार्येतानि देहिनाम् ॥
छद्ममार्गप्रपन्नानां तिष्ठन्त्येव हि सर्वदा ॥ २२ ॥
अत आवां शुभाचारौ जातौ च शुचिनां कुले ॥
वृत्तं धूर्तजनश्लाघ्यं नाश्रयावः कदाचन ॥ २३ ॥
॥ राजोवाच ॥ ॥
दैवतानां गुरूणां च पित्रोश्च पृथिवीपतेः ॥
शासनस्याप्यलङ्घ्यत्वात्प्रत्यादेशो न कर्हिचित् ॥ २४ ॥
एतैर्यद्यत्समादिष्टं शुभं वा यदि वाऽशुभम् ॥
कर्तव्यं नियतं भीतैरप्रमत्तैर्बुभूषुभिः ॥ ॥ २५ ॥
अहो वयं हि राजानः प्रजा यूयं हि सम्मताः ॥
राजाज्ञया प्रवृत्तानां श्रेयः स्यादन्यथा भयम् ॥ २६ ॥
अतो मच्छासनं कार्यं भव द्भ्यामविलम्बितम् ॥
इत्युक्तौ नरदेवेन तौ तथेत्यूचतुर्भयात् ॥ २७ ॥
सारस्वतस्य तनयं सामवन्तं नराधिपः ॥
स्त्रीरूपधारिणं चक्रे वस्त्राकल्पां जनादिभिः ॥ २८ ॥
स कृत्रिमोद्भूतकलत्रभावः प्रयुक्तकर्णाभरणाङ्गरागः ॥
स्निग्धाञ्जनाक्षः स्पृहणीयरूपो बभूव सद्यः प्रमदोत्तमाभः ॥ २९ ॥
तावुभौ दम्पती भूत्वा द्विजपुत्रौ नृपाज्ञया ॥
जग्मतुर्नैषधं देशं यद्वा तद्वा भवत्विति ॥ ३.३.९.३० ॥
उपेत्य राजसदनं सोमवारे द्विजोत्तमैः ॥
सपत्नीकैः कृतातिथ्यौ धौतपादौ बभूवतुः ॥ ३१ ॥
सा राज्ञी ब्राह्मणान्सर्वानुपविष्टान्वरासने ॥
प्रत्येकमर्चयाञ्चक्रे सपत्नीकान्द्विजोत्तमान्॥ ३२ ॥
तौ च विप्रसुतौ दृष्ट्वा प्राप्तौ कृतकदम्पती ॥
ज्ञात्वा किञ्चिद्विहस्याथ मेने गौरीमहेश्वरौ ॥ ३३ ॥
आवाह्य द्विजमुख्येषु देवदेवं सदाशिवम् ॥
पत्नीष्वावाहयामास सा देवीं जगदम्बिकाम् ॥ ३४ ॥
गन्धैर्माल्यैः सुरभिभिर्धूपैर्नीराजनैरपि ॥
अर्चयित्वा द्विजश्रेष्ठान्नमश्चक्रे समाहिता ॥ ३५ ॥
हिरण्मयेषु पात्रेषु पायसं घृतसंयुतम् ॥
शर्करामधुसंयुक्तं शाकैर्जुष्टं मनोरमैः ॥ ३६ ॥
गन्धशाल्योदनैर्हृद्यैर्मोदकापूपराशिभिः ॥
शष्क्रुलीभिश्च संयावैः कृसरैर्माषपक्वकैः ॥ ३७ ॥
तथान्यैरप्यसङ्ख्यातैर्भक्ष्यैर्भोज्यैर्मनोरमैः ॥
सुगन्धैः स्वादुभिः सूपैः पानीयैरपि शीतलैः ॥ ३८ ॥
क्लृप्तमन्नं द्विजा -ग्र्येभ्यः सा भक्त्या पर्यवेषयत् ॥
दध्योदनं निरुपमं निवेद्य समतोषयत् ॥ ३९ ॥
भुक्तवत्सु द्विजाग्र्येषु स्वाचान्तेषु नृपाङ्गना ॥
प्रणम्य दत्त्वा ताम्बूलं दक्षिणां च यथार्हतः ॥ ३.३.९.४० ॥
धेनूर्हिरण्यवासांसि रत्नस्रग्भूषणानि च ॥
दत्त्वा भूयो नमस्कृत्य विससर्ज द्विजोत्तमान् ॥ ४१ ॥
तयोर्द्वयोर्भूसुरवर्यपुत्रयोरेकस्त्तया हैमवतीधियार्चितः ॥
एको महादेवधियाभिपूजितः कृतप्रणामौ ययतुस्तदाज्ञया ॥ ४२ ॥
सा तु विस्मृतपुम्भावा तस्मिन्नेव द्विजोत्तमे ॥
जातस्पृहा मदोत्सिक्ता कन्दर्पविवशाब्रवीत् ॥ ४३ ॥
अंयि नाथ विशालाक्ष सर्वावयवसुन्दर ॥
तिष्ठतिष्ठ क्व वा यासि मां न पश्यसि ते प्रियाम् ॥ ४४ ॥
इदमग्रे वनं रम्यं सुपुष्पितमहाद्रुमम् ॥
अस्मिन्विहर्तुमिच्छामि त्वया सह यथासुखम् ॥ ४५ ॥
इत्थं तयोक्तमाकर्ण्य पुरोऽगच्छद्द्विजात्मजः ॥
विचिन्त्य परिहासोक्तिं गच्छति स्म यथा पुरा ॥ ४६ ॥
पुनरप्याह सा बाला तिष्ठतिष्ठ क्व यास्यसि॥
दुरुत्सहस्मरावेशां परिभोक्तुमुपेत्य माम् ॥ ४७ ॥
परिष्वजस्व मां कान्तां पाययस्व तवाधरम् ॥
नाहं गन्तुं समर्थास्मि स्मरबाणप्रपीडिता ॥ ॥ ४८ ॥
इत्थमश्रुतपूर्वां तां निशम्य परिशङ्कितः ॥
आयान्तीं पृष्ठतो वीक्ष्य सहसा विस्मयं गतः ॥४९॥
कैषा पद्मपलाशाक्षी पीनोन्नतपयोधरा ॥
कृशोदरी बृहच्छ्रोणी नवपल्लवकोमला ॥ ३.३.९.५० ॥
स एव मे सखा किन्नु जात एव वराङ्गना ॥
पृच्छाम्येनमतः सर्वमिति सञ्चिन्त्य सोऽब्रवीत् ॥५१॥
किमपूर्व इवाभाषि सखे रूपगुणादिभिः ॥
अपूर्वं भाषसे वाक्यं कामिनीव समाकुला ॥ ५२ ॥
यस्त्वं वेदपुराणज्ञो ब्रह्मचारी जितेन्द्रियः ॥
सारस्वतात्मजः शान्तः कथमेवं प्रभाषसे ॥ ५३ ॥
इत्युक्ता सा पुनः प्राह नाहमस्मि पुमान्प्रभो ॥
नाम्ना सामवती बाला तवास्मि रतिदायिनी॥ ५४ ॥
यदि ते संशयः कान्त ममाङ्गानि विलोकय ॥
इत्युक्तः सहसा मार्गे रहस्येनां व्यलोकयत् ॥५५॥
तामकृत्रिमधम्मिल्लां जवनस्तनशोभिनीम् ॥
सुरूपां वीक्ष्य कामेन किञ्चिद्व्याकुलतामगात् ॥ ५६ ॥
पुनः संस्तभ्य यत्नेन चेतसो विकृतिं बुधः ॥
मुहूर्तं विस्मयाविष्टो न किञ्चित्प्रत्यभाषत ॥ ५७ ॥
॥ सामवत्युवाच ॥ ॥
गतस्ते संशयः कश्चित्तर्ह्यागच्छ भजस्व माम् ॥
पश्येदं विपिनं कान्त परस्त्रीसुरतोचितम् ॥ ५८ ॥
॥ सुमेधा उवाच ॥ ॥
मैवं कथय मर्यादां मा हिंसीर्मदमत्तवत् ॥
आवां विज्ञातशास्त्रार्थौ त्वमेवं भाषसे कथम् ॥५९॥
अधीतस्य च शास्त्रस्य विवेकस्य कुलस्य च ॥
किमेष सदृशो धर्मो जारधर्मनिषेवणम् ॥ ३.३.९.६० ॥
न त्वं स्त्री पुरुषो विद्वाञ्जानीह्यात्मानमात्मना ॥
अयं स्वयङ्कृतोऽनर्थ आवाभ्यां यद्विचेष्टितम् ॥ ६१ ॥
वञ्चयित्वात्मपितरौ धूर्त्तराजानुशासनात् ॥
कृत्वा चानुचितं कर्म तस्यैतद्भुज्यते फलम् ॥ ६२ ॥
सर्वं त्वनुचितं कर्म नृणां श्रेयोविनाशनम् ॥
यस्त्वं विप्रात्मजो विद्वान्गतः स्त्रीत्वं विगर्हितम् ॥ ६३ ॥
मार्गं त्यक्त्वा गतोऽरण्यं नरो विध्येत कण्टकैः ॥
बलार्द्धिस्येत वा हिंस्रैर्यदा त्यक्तसमा गमः ॥ ६४ ॥
एवं विवेकमाश्रित्य तूष्णीमेहि स्वयं गृहम् ॥
देवद्विजप्रसादेन स्त्रीत्वं तव विलीयते ॥ ६५ ॥
अथवा दैवयोगेन स्त्रीत्वमेव भवेत्तव ॥
पित्रा दत्ता मया साकं रंस्यसे वरवर्णिनि ॥ ६६ ॥
अहो चित्रमहो दुःखमहो पापबलं महत् ॥
अहो राज्ञः प्रभावोयं शिवाराधनसम्भृतः ॥ ६७ ॥
इत्युक्ताप्यसकृत्तेन सा वधूरतिविह्वला ॥
बलेन तं समालिङ्ग्य चुचुम्बाधरपल्लवम् ॥ ६८ ॥
धर्षितोपि तया धीरः सुमेधा नूतनस्त्रियम् ॥
यत्नादानीय सदनं कृत्स्नं तत्र न्यवेदयत् ॥ ६९ ॥
तदाकर्ण्याथ तौ विप्रौ कुपितौ शोकविह्वलौ ॥
ताभ्यां सह कुमाराभ्यां वैदर्भान्तिकमीयतुः ॥ ३.३.९.७० ॥
ततः सारस्वतः प्राह राजानं धूर्तचेष्टितम् ॥
राजन्ममात्मजं पश्य तव शासनयन्त्रितम् ॥ ७१ ॥
एतौ तवाज्ञावशगौ चक्रतुः कर्म गर्हितम् ॥
मत्पुत्रस्तत्फलं भुङ्क्ते स्त्रीत्वं प्राप्य जुगुप्सितम्॥ ७२ ॥
अद्य मे सन्ततिर्नष्टा निराशाः पितरो मम ॥
नापुत्रस्य हि लोकोस्ति लुप्तपिण्डादिसंस्कृतेः ॥ ७३ ॥
शिखोपवीतमजिनं मौजीं दण्डं कमण्डलुम् ॥
ब्रह्मचर्योचितं चिह्नं विहायेमां दशां गतः ॥ ७४ ॥
ब्रह्मसूत्रं च सावित्रीं स्नानं सन्ध्यां जपार्चनम् ॥
विसृज्य स्त्रीत्वमाप्तोस्य का गतिर्वद पार्थिव ॥ ७५ ॥
त्वया मे सन्ततिर्नष्टा नष्टो वेदपथश्च मे ॥
एकात्मजस्य मे राजन्का गतिर्वद शाश्वती ॥ ७६ ॥
इति सारस्वतेनोक्तं वाक्यमाकर्ण्य भूपतिः ॥
सीमन्तिन्याः प्रभावेण विस्मयं परमं गतः ॥ ७७ ॥
अथ सर्वान्समाहूय महर्षीनमितद्युतीन्॥
प्रसाद्य प्रार्थयामास तस्य पुंस्त्वं महीपतिः ॥ ७८ ॥
तेऽबुवन्नथ पार्वत्याः शिवस्य च समीहितम् ॥
तद्भक्तानां च माहात्म्यं कोन्यथा कर्तुमीश्वरः ॥ ७९ ॥
अथ राजा भरद्वाजमादाय मुनिपुङ्गवम् ॥
ताभ्यां सह द्विजाग्र्याभ्यां तत्सुताभ्यां समन्वितः ॥ ३.३.९.८० ॥
अम्बिकाभवनं प्राप्य भरद्वाजोपदेशतः ॥
तां देवीं नियमैस्तीव्रैरुपास्ते स्म महानिशि ॥ ८१ ॥
एवं त्रिरात्रं सुविसृष्टभोजनः स पार्वतीध्यान रतो महीपतिः ॥
सम्यक्प्रणामैर्विविधैश्च संस्तवैर्गौरीं प्रपन्नार्तिहरामतोषयत् ॥ ८२ ॥
ततः प्रसन्ना सा देवी भक्तस्य पृथिवीपतेः ॥
स्वरूपं दर्शयामास चन्द्रकोटिसमप्रभम् ॥ ८३ ॥
अथाह गौरी राजानं किं ते ब्रूहि समीहितम् ॥
सोऽप्याह पुंस्त्वमेतस्य कृपया दीयतामिति ॥ ८४ ॥
भूयोप्याह महादेवी मद्भक्तैः कर्म यत्कृतम् ॥
शक्यते नान्यथा कर्तुं वर्षायुतशतैरपि ॥ ८५ ॥
॥ राजोवाच ॥ ॥
एकात्मजो हि विप्रोयं कर्मणा नष्टसन्ततिः ॥
कथं सुखं प्रपद्येत विना पुत्रेण तादृशः ॥ ८६ ॥
॥ देव्युवाच ॥ ॥
तस्यान्यो मत्प्रसादेन भविष्यति सुतोत्तमः ॥
विद्या विनयसम्पन्नो दीर्घायुरमलाशयः ॥ ८७ ॥
एषा सामवती नाम सुता तस्य द्विजन्मनः ॥
भूत्वा सुमेधसः पत्नी कामभोगेन युज्यताम् ॥ ८८ ॥
इत्युक्त्वान्तर्हिता देवी ते च राजपुरोगमाः ॥
गताः स्वंस्वं गृहं सर्वे चक्रुस्तच्छासने स्थितिम् ॥ ८९ ॥
सोपि सारस्वतो विप्रः पुत्रं पूर्वसुतो त्तमम् ॥
लेभे देव्याः प्रसादेन ह्यचिरादेव कालतः ॥ ३.३.९.९० ॥
तां च सामवतीं कन्यां ददौ तस्मै सुमेधसे ॥
तौ दम्पती चिरं कालं बुभुजाते परं सुखम् ॥ ९१ ॥
॥ सूत उवाच ॥ ॥
इत्येष शिवभक्तायाः सीमन्तिन्या नृपस्त्रियाः ॥
प्रभावः कथितः शम्भोर्माहात्म्यमपि वर्णितम् ॥ ९२ ॥
भूयोपि शिवभक्तानां प्रभावं विस्मयावहम् ॥
समासाद्वर्णयिष्यामि श्रोतॄणां मङ्गलायनम् ॥ ९३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे सीमन्तिन्याः प्रभाववर्णनं नाम नवमोऽध्यायः ॥ ९ ॥