॥ सूत उवाच ॥ ॥
इत्युक्ता मुनिना साध्वी सा विप्रवनिता पुनः ॥
तं प्रणम्याथ पप्रच्छ शिवपूजाविधेः क्रमम् ॥ १ ॥
॥ शाण्डिल्य उवाच ॥ ॥
पक्षद्वये त्रयोदश्यां निराहारो भवेद्यदा ॥
घटीत्रयादस्तमयात्पूर्वं स्नानं समाचरेत् ॥ २ ॥
शुक्लाम्बरधरो धीरो वाग्यतो नियमान्वितः॥
कृतसन्ध्याजपविधिः शिवपूजां समारभेत् ॥ ३ ॥
देवस्य पुरतः सम्यगुपलिप्य नवाम्भसा ॥
विधाय मण्डलं रम्यं धौतवस्त्रादिभिर्बुधः ॥ ४॥
वितानाद्यैरलङ्कृत्य फलपुष्पनवाङ्कुरैः ॥
विचित्रपद्ममुद्धृत्य वर्णपञ्चकसंयुतम् ॥ ५ ॥
तत्रोपविश्य सुशुभे भक्तियुक्तः स्थिरासने ॥
सम्यक्सम्पादिताशेष पूजोपकरणः शुचिः ॥ ६ ॥
आगमोक्तेन मन्त्रेण पीठमामन्त्रयेत्सुधीः ॥
ततः कृत्वात्मशुद्धिं च भूतशुद्ध्यादिकं क्रमात् ॥ ७ ॥
प्राणायामत्रयं कृत्वा बीजवर्णैः सबिन्दुकैः ॥
मातृका न्यस्य विधिवद्ध्यात्वा तां देवतां पराम् ॥ ८ ॥
समाप्य मातृका भूयो ध्यात्वा चैव परं शिवम् ॥
वामभागे गुरुं नत्वा दक्षिणे गणपं नमेत् ॥ ९ ॥
अंसोरुयुग्मे धर्मादीन्न्यस्य नाभौ च पार्श्वयोः ॥
अधर्मादीननन्तादीन्हृदि पीठे मनुं न्यसेत् ॥ ॥ 3.3.7.१० ॥
आधारशक्तिमारभ्य ज्ञानात्मानमनुक्रमात् ॥
उक्तक्रमेण विन्यस्य हृत्पद्मे साधुभाविते ॥ ११ ॥
नवशक्तिमये रम्ये ध्यायेद्देवमुमापतिम्॥
चन्द्रकोटिप्रतीकाशं त्रिनेत्रं चन्द्रशेखरम् ॥ १२ ॥
आपिङ्गलजटाजूटं रत्नमौलिविराजितम् ॥
नीलग्रीवमुदाराङ्गं नागहारोपशोभितम् ॥ १३ ॥
वरदाभयहस्तं च धारिणं च परश्वधम् ॥
दधानं नागवलयकेयूराङ्गदमुद्रिकम् ॥ १४ ॥
व्याघ्रचर्मपरीधानं रत्नसिंहासने स्थितम् ॥
ध्यात्वा तद्वाम भागे च चिन्तयेद्गिरिकन्यकाम् ॥ १५ ॥
भास्वज्जपाप्रसूनाभामुदयार्कसमप्रभाम् ॥
विद्युत्पुञ्जनिभां तन्वीं मनोनयननन्दिनीम् ॥ १६ ॥
बालेन्दु शेखरां स्निग्धां नीलकुञ्चितकुन्तलाम् ॥
भृङ्गसङ्घातरुचिरां नीलालकविराजिताम् ॥ १७ ॥
मणिकुण्डलविद्योतन्मुखमण्डलविभ्रमाम् ॥
नवकुङ्कुमपङ्काङ्क कपोलदलदर्पणाम् ॥१८॥
मधुरस्मितविभ्राजदरुणाधरपल्लवाम् ॥
कम्बुकण्ठीं शिवामुद्यत्कुचपङ्कजकुड्मलाम् ॥ १९ ॥
पाशाङ्कुशाभयाभीष्टविल सत्सु चतुर्भुजाम् ॥
अनेकरत्नविलसत्कङ्कणाङ्कितमुद्रिकाम् ॥ 3.3.7.२० ॥
वलित्रयेण विलसद्धेमकाञ्चीगुणान्विताम् ॥
रक्तमाल्याम्बरधरां दिव्यचन्दनच र्चिताम् ॥ २१ ॥
दिक्पालवनितामौलिसन्नताङ्घ्रिसरोरुहाम् ॥
रत्नसिंहासनारूढां सर्पराजपरिच्छदाम् ॥ २१ ॥
एवं ध्यात्वा महादेवं देवीं च गिरि कन्यकाम् ॥
न्यासक्रमेण सम्पूज्य देवं गन्धादिभिः क्रमात् ॥ २३ ॥
पञ्चभिर्ब्रह्मभिः कुर्यात्प्रोक्तस्थानेषु वा हृदि ॥
पृथक्पुष्पाञ्जलिं देहे मूलेन च हदि त्रिधा ॥ २४ ॥
पुनः स्वयं शिवो भूत्वा मूलमन्त्रेण साधकः ॥
ततः सम्पूजयेद्देवं बाह्यपीठे पुनः क्रमात् ॥ २५ ॥
सङ्कल्पं प्रवदेत्तत्र पूजारम्भे समाहितः ॥
कृताञ्जलिपुटो भूत्वा चिन्तयेद्धृदि शङ्करम् ॥ २६ ॥
ऋणपातकदौर्भाग्यदारिद्र्यविनिवृत्तये ॥
अशेषाघविनाशाय प्रसीद मम शङ्कर ॥ २७ ॥
दुःखशोकाग्निसन्तप्तं संसारभयपीडितम् ॥
बहुरोगाकुलं दीनं त्राहि मां वृषवाहन ॥ २८ ॥
आगच्छ देवदेवेश महादेवाभयङ्कर ॥
गृहाण सह पार्वत्या तव पूजां मया कृताम् ॥ २९॥
इति सङ्कल्प्य विधिवद्ब्राह्मपूजां समाचरेत् ॥
गुरुं गणपतिं चैव यजेत्सव्यापसव्ययोः ॥ 3.3.7.३० ॥
क्षेत्रेशमीशकोणे तु यजेद्वास्तोष्पतिं क्रमात् ॥
वाग्देवीं च यजेत्तत्र ततः कात्यायनीं यजेत् ॥ ३१ ॥
धर्मं ज्ञानं च वैराग्यमैश्वर्यं च नमोंऽतकैः ॥
स्वरैरीशादिकोणेषु पीठपादाननुक्रमात् ॥
आभ्यां बिन्दुविसर्गाभ्यामधर्मादीन्प्रपूजयेत् ॥ ३२ ॥
सत्त्वरूपैश्चतुर्दिक्षु मध्येऽनन्तं सतारकम् ॥
सत्त्वादींस्त्रिगुणांस्तं तु रूपान्पीठेषु विन्यसेत् ॥ ३३ ॥
अत ऊर्ध्वच्छदे मायां सह लक्ष्म्या शिवेन च ॥ ३४ ॥
तदन्ते चाम्बुजं भूयः सकलं मण्डलत्रयम् ॥
पत्रकेसरकिञ्जल्कव्याप्तं ताराक्षरैः क्रमात् ॥ ३५ ॥
पद्मत्रयं तथाभ्यर्च्य मध्ये मण्डलमादरात् ॥
वामां ज्येष्ठां च रौद्रीं च भागाद्यैर्दिक्षु पूजयेत् ॥ ॥ ३६ ॥
वामाद्या नव शक्तीश्च नवस्वरयुता यजेत् ॥
हृदि बीजत्रयाद्येन पीठमन्त्रेण चार्चयेत् ॥३७॥
आवृत्तैः प्रथमाङ्गैश्च पञ्चभिर्मूर्त्तिशक्तिभिः ॥
त्रिशक्तिमूर्त्तिभिश्चान्यैर्निधिद्वयसमन्वितैः ॥ ३८ ॥
अनन्ताद्यैः परीताश्च मातृभिश्च वृषादिभिः ॥
सिद्धिभिश्चाणिमाद्याभिरिन्द्राद्यैश्च सहायुधैः ॥ ॥ ३९ ॥
वृषभक्षेत्रचण्डेशदुर्गाश्च स्कन्दनन्दिनौ ॥
गणेशः सैन्यपश्चैव स्वस्वलक्षणलक्षिताः ॥ 3.3.7.४० ॥
अणिमा महिमा चैव गरिमा लघिमा तथा ॥
ईशित्वं च वशित्वं च प्राप्तिः प्राकाम्यमेव च ॥ ४१ ॥
अष्टैश्वर्याणि चोक्तानि तेजोरूपाणि केवलम् ॥
पञ्चभिर्ब्रह्मभिः पूर्वं हृल्लेखाद्यादिभिः क्रमात ॥ ४२ ॥
अङ्गैरुमाद्यैरिन्द्राद्यैः पूजोक्ता मुनिभिस्तु तैः ॥
उमाचण्डेश्वरादींश्च पूजयेदुत्तरादितः ॥ ४३ ॥
एवमावरणैर्युक्तं तेजोरूपं सदाशिवम् ॥
उमया सहितं देवमुपचारैः प्रपूजयेत् ॥ ४४ ॥
सुप्रतिष्ठितशङ्खस्य तीर्थैः पञ्चामृतैरपि ॥
अभिषिच्य महादेवं रुद्रसूक्तैः समाहितः ॥ ४५ ॥
कल्पयेद्विविधैर्मन्त्रैरासनाद्युपचारकान्॥
आसनं कल्पयेद्धैमं दिव्यवस्त्रसमन्वितम् ॥ ४६ ॥
अर्घ्यमष्टगुणोपेतं पाद्यशुद्धोदकेन च ॥
तेनैवाचमनं दद्यान्मधुपर्कं मधूत्तरम् ॥ ४७ ॥
पुनराचमनं दत्त्वा स्नानं मन्त्रै प्रकल्पयेत् ॥
उपवीतं तथा वासो भूषणानि निवेदयेत् ॥
गन्धमष्टाङ्गसंयुक्तं सुपूतं विनिवेदयेत् ॥ ॥ ४८ ॥
ततश्च बिल्वमन्दारकह्लारसरसीरुहम् ॥
धत्तूरकं कर्णिकारं शणपुष्पं च मल्लिकाम् ॥ ४९ ॥
कुशापामार्गतुलसीमाधवीचम्पकादिकम् ॥
बृहतीकरवीराणि यथालब्धानि साधकः ॥ 3.3.7.५० ॥
निवेदयेत्सुगन्धीनि माल्यानि विविधानि च ॥
धूपं कालागरूत्पन्नं दीपं च विमलं शुभम् ॥ ॥५१॥
विशेषकम् ॥
अथ पायसनैवेद्यं सघृतं सोपदंशकम् ॥
मोदकापूपसंयुक्तं शर्करागुडसंयुतम् ॥ ५२ ॥
मधुनाक्तं दधियुतं जलपानसमन्वितम् ॥
तेनैव हविषा वह्नौ जुहुयान्मन्त्रभाविते ॥ ५३ ॥
आगमोक्तेन विधिना गुरुवाक्यनियन्त्रितः ॥
नैवेद्यं शम्भवे भूयो दत्त्वा ताम्बूलमुत्तमम् ॥ ५४ ॥।
धूपं नीराजनं रम्यं छत्रं दर्पणमुत्तमम् ॥
समर्पयित्वा विधिवन्मन्त्रैर्वेदिकतान्त्रिकैः ॥ ५५ ॥
यद्यशक्तः स्वयं निःस्वो यथाविभवमर्चयेत् ॥
भक्त्त्या दत्तेन गौरीशः पुष्पमात्रेण तुष्यति ॥ ५६ ॥
अथाङ्गभूतान्सकलान्गणेशादीन्प्रपूजयेत् ॥
स्तवैर्नानाविधैः स्तुत्वा साष्टाङ्गं प्रणमेद्बुधः ॥ ५७ ॥
ततः प्रदक्षिणीकृत्य वृषचण्डेश्वरादिकान् ॥
पूजां समर्प्य विधिवत्प्रार्थयेद्गिरिजापतिम् ॥ ५८ ॥
जय देव जगन्नाथ जय शङ्कर शाश्वत ॥
जय सर्व सुराध्यक्ष जय सर्वसुरार्चित ॥ ५९ ॥
जय सर्वगुणातीत जय सर्ववरप्रद ॥
जय नित्य निराधार जय विश्वम्भराव्यय ॥ 3.3.7.६० ॥
जय विश्वैकवेद्येश जय नागेन्द्रभूषण ॥
जय गौरीपते शम्भो जय चन्द्रार्धशेखर ॥ ६१ ॥
जय कोट्यर्कसङ्काश जयानन्तगुणाश्रय ॥ ६२ ॥
जय रुद्र विरूपाक्ष जयाचिन्त्य निरञ्जन ॥
जय नाथ कृपासिन्धो जय भक्तार्तिभञ्जन ॥
जय दुस्तरसंसारसागरोत्तारण प्रभो ॥ ६३ ॥
प्रसीद मे महादेव संसारार्त्तस्य खिद्यतः ॥
सर्वपापभयं हृत्वा रक्ष मां परमेश्वर ॥ ६४ ॥
महादारिद्र्यमग्नस्य महापापहतस्य च ॥
महाशोकविनष्टस्य महारोगातुरस्य च ॥ ६५ ॥
ऋणभारपरीतस्य दह्यमानस्य कर्मभिः ॥
ग्रहैः प्रपीड्यमानस्य प्रसीद मम शङ्कर ॥ ६६ ॥
दरिद्रः प्रार्थयेदेवं पूजान्ते गिरिजापतिम् ॥
अर्थाढ्यो वापि राजा वा प्रार्थयेद्देवमीश्वरम् ॥ ६७ ॥
दीर्घमायुः सदारोग्यं कोशवृद्धिर्बलोन्नतिः ॥
ममास्तु नित्यमानन्दः प्रसादात्तव शङ्कर ॥ ६८ ॥
शत्रवः सङ्क्षयं यान्तु प्रसीदन्तु मम ग्रहाः ॥
नश्यन्तु दस्यवो राष्ट्रे जनाः सन्तु निरापदः ॥ ६९ ॥
दुर्भिक्षमारीसन्तापाः शमं यान्तु महीतले ॥
सर्वसस्यसमृद्धिश्च भूयात्सुखमया दिशः ॥ 3.3.7.७० ॥
एवमाराधयेद्देवं प्रदोषे गिरिजापतिम् ॥
ब्राह्मणान्भोजयेत्पश्चाद्दक्षिणाभिश्च तोषयेत् ॥ ७१ ॥
सर्वपापक्षयकरी सर्वदारिद्र्यनाशिनी ॥
शिवपूजा मया ख्याता सर्वाभीष्टवरप्रदा ॥ ७२ ॥
महापातकसङ्घातमधिकं चोपपातकम् ॥
शिवद्रव्यापहरणादन्यत्सर्वं निवारयेत् ॥ ७३ ॥
ब्रह्महत्यादिपापानां पुराणेषु स्मृतिष्वपि ॥
प्रायश्चित्तानि दृष्टानि न शिवद्रव्यहारिणाम् ॥ ७४ ॥
बहुनात्र किमुक्तेन श्लोकार्धेन ब्रवीम्यहम् ॥
ब्रह्महत्याशतं वापि शिवपूजा विनाशयेत् ॥ ७५ ॥
मया कथितमेतत्ते प्रदोषे शिवपूजनम् ॥
रहस्यं सर्वजन्तूनामत्र नास्त्येव संशयः ॥ ७६ ॥
एताभ्यामपि बालाभ्यामेवं पूजा विधीयताम् ॥
अतः संवत्सरादेव परां सिद्धिमवाप्स्यथ ॥ ७७ ॥
इति शाण्डिल्यवचनमाकर्ण्य द्विजभामिनी ॥
ताभ्यां तु सह बालाभ्यां प्रणनाम मुनेः पदम् ॥ ७८ ॥ ॥
॥ विप्रस्त्र्युवाच ॥ ॥
अहमद्य कृतार्थास्मि तव दर्शनमात्रतः ॥
एतौ कुमारौ भगवंस्त्वामेव शरणं गतौ ॥ ७९ ॥
एष मे तनयो ब्रह्मञ्छुचिव्रत इतीरितः ॥
एष राजसुतो नाम्ना धर्मगुप्तः कृतो मया ॥ 3.3.7.८० ॥
एतावहं च भगवन्भवच्चरणकिङ्कराः ॥
समुद्धरास्मिन्पतितान्घोरे दारिद्र्यसागरे ॥ ८१ ॥
इति प्रपन्नां शरणं द्विजाङ्गनामाश्वास्य वाक्यैरमृतोपमानैः ॥
उपादिदेशाथ तयोः कुमारयोर्मुनिः शिवाराधनमन्त्र विद्याम् ॥ ८२ ॥
अथोपदिष्टौ मुनिना कुमारौ ब्राह्मणी च सा ॥
तं प्रणम्य समामन्त्र्य जग्मुस्ते शिवमन्दिरात् ॥ ८३ ॥
ततः प्रभृति तौ बालौ मुनिवर्योपदेशतः ॥
प्रदोषे पार्वतीशस्य पूजां चक्रतुरञ्जसा ॥ ८४ ॥
एवं पूजयतोर्देवं द्विजराजकुमारयोः ॥
सुखेनैव व्यतीयाय तयोर्मासचतुष्टयम् ॥ ८५ ॥
कदाचिद्राजपुत्रेण विनासौ द्विजनन्दनः ॥
स्नातुं गतो नदीतीरे चचार बहुलीलया ॥ ८६ ॥
तत्र निर्झरनिर्घातनिर्भिन्ने वप्र कुट्टिमे ॥
निधानकलशं स्थूलं प्रस्फुरन्तं ददर्श ह ॥ ८७ ॥
तं दृष्ट्वा सहसागत्य हर्षकौतुकविह्वलः ॥
दैवोपपन्नं मन्वानो गृहीत्वा शिरसा ययौ ॥ ॥ ८८ ॥
ससम्भ्रमं समानीय निधाय कलशं बलात् ॥
निधाय भवनस्यान्ते मातरं समभाषत ॥ ८९ ॥
मातर्मातरिमं पश्य प्रसादं गिरिजापतेः ॥
निधानं कुम्भरूपेण दर्शितं करुणात्मना ॥ 3.3.7.९० ॥
अथ सा विस्मिता साध्वी समाहूय नृपात्मजम् ॥
स्वपुत्रं प्रतिनन्द्याह मानयन्ती शिवार्चनम् ॥ ॥ ९१ ॥
शृणुतां मे वचः पुत्रौ निधानकलशीमिमाम् ॥
समं विभज्य गृह्णीतं मम शासनगौरवात् ॥ ९२ ॥
इति मातुर्वचः श्रुत्वा तुतोष द्विज नन्दनः ॥
प्रत्याह राजपुत्रस्तां विस्रब्धः शङ्करार्चने ॥ ९३ ॥
मातस्तव सुतस्यैव सुकृतेन समागतम् ॥
नाहं ग्रहीतुमिच्छामि विभक्तं धनसञ्च यम् ॥ ९४ ॥
आत्मनः सुकृताल्लब्धं स्वयमेव भुनक्त्वसौ ॥
स एव भगवानीशः करिष्यति कृपां मयि ॥ ९५ ॥
एवमर्चयतोः शम्भुं भूयोपि परया मुदा ॥
संवत्सरो व्यतीयाय तस्मिन्नेव गृहे तयोः ॥ ९६ ॥
अथैकदा राजसूनुः सह तेन द्विजन्मना ॥
वसन्तसमये प्राप्ते विजहार वनां तरे ॥ ९७ ॥
अथ दूरं गतौ क्वापि वने द्विजनृपात्मजौ ॥
गन्धर्वकन्याः क्रीडन्ती शतशस्तावपश्यताम् ॥ ९८ ॥
ताः सर्वाश्चारुसर्वाङ्ग्यो विहरन्त्यो मनोहरम् ॥
दृष्ट्वा द्विजात्मजो दूरादुवाच नृपनन्दनम् ॥ ९९ ॥
इतः पुरो न गन्तव्यं विहरन्त्यग्रतः स्त्रियः॥
स्त्रीसन्न्निधानं विबुधास्त्यजन्ति विमलाशयाः॥ 3.3.7.१०० ॥
एताः कैतवकारिण्यो धनयौवनदुर्मदाः ।
मोहयन्त्यो जनं दृष्ट्वा वाचानुनयकोविदाः ॥ १ ॥
अतः परित्यजेत्त्स्त्रीणां सन्निधिं सहभाषणम् ।
निज़धर्मरतो विद्वन्ब्रह्मचारी विशेषतः ॥ ३॥
अतोहं नोत्सहे गन्तुं क्रीडास्थानं मृगीदृशाम् ॥
इत्युक्त्वा द्विजपुत्रस्तु निवृत्तो दूरतः स्थितः ॥ ३ ॥
अथासौ राजपुत्रस्तु कौतुकाविष्टमानसः ॥
तासां विहारपदवीमेक एवाभयो ययौ ॥ १ ॥
तत्र गन्धर्वकन्यानां मध्ये त्वेका वरानना ॥
दृष्ट्वाऽऽयान्तं राजपुत्रं चिन्तयामास चेतसा ॥ ९ ॥
अहो कोयमुदाराङ्गो युवा सर्वाङ्गसुन्दरः ॥
मत्तमातङ्ग गमनो लावण्यामृतवारिधिः ॥ ६॥
लीलालोलविशालाक्षी मधुरस्मितपेशलः ॥
मदनोपमरूपश्रीः सुकुमाराङ्गलक्षणः ॥ ७॥
इत्याश्चर्ययुता बाला दूराद्दृष्ट्वा नृपात्मजम् ॥
सर्वाः सखीः समालोक्य वचनं चेदमब्रवीत् ॥ ८ ॥
इतो विदूरे हे सख्यो वनमस्त्येकमुत्तमम् ॥
विचित्रचम्पकाशोकपुन्नागबकुलैर्युतम् ॥ ९॥
तत्र गत्वा वनं सर्वाः सञ्चीय कुसुमोत्करम् ॥
भवत्यः पुनरायान्तु तावत्तिष्ठाम्यहं त्विह ॥ 3.3.7.११० ॥
इत्यादिष्टः सखीवर्गो जगाम विपिनान्तरम् ॥
सापि गन्धर्वजा तस्थौ न्यस्तदृष्टिर्नृपात्मजे ॥ ११ ॥
तां समालोक्य तन्वङ्गीं नवयौवनशालिनीम् ॥
बालां स्वरूपसम्पत्त्या परैिभूततिलोत्तमाम् ॥ १२ ॥
राजपुत्रः समागम्य कौतुकोत्फुल्ललोचनः ॥
अवाप दैवयोगेन मदनस्य शरव्यथाम् ॥ १३ ॥
गन्धर्वतनया सापि प्राप्ताय नृपसूनवे ॥
उत्थाय तरसा तस्मै प्रददौ पल्लवासनम् ॥ १४ ॥
कृतोपचारमासीनं तमासाद्य सुमध्यमा ॥
पप्रच्छ तद्रूपगुणैर्ध्वस्तधैर्याकुलेन्द्रिया ॥ १९ ।
कस्त्वं कमलपत्राक्ष कस्माद्देशादिहागतः ॥
कस्य पुत्र इति प्रेम्णा पृष्टः सर्वं न्यवेदयत् ॥ १६ ॥
विदर्भ राजतनयं विध्वस्तपितृमातृकम् ॥
शत्रुभिश्च हृतस्थानमात्मानं परराष्ट्रगम् ॥ १७ ॥
सर्वमावेद्य भूयस्तां पप्रच्छ नृपनन्दनः ॥
का त्वं वामोरु किं चात्र कार्यं ते कस्य चात्मजा ॥ १८ ॥
किमवध्यायसि हृदा किं वा वक्तुमिहेच्छसि ॥
इत्युक्ता सा पुनः प्राह शृणु राजेन्द्रसत्तम ॥ १९ ॥
अस्त्येको द्रविकोनाम गन्धर्वाणां कुलाग्रणीः ॥
तस्याहमस्मि तनया नाम्ना चांशुमती स्मृता ॥ 3.3.7.१२० ॥
त्वामायान्तं विलोक्याहं त्वत्सम्भाषण लालसा ॥
त्यक्त्वा सखीजनं सर्वमेकैवास्मि महामते ॥ २१ ॥
सर्वसङ्गीतविद्यासु न मत्तोऽन्यास्ति काचन ॥
मम योगेन तुष्यन्ति सर्वा अपि सुरस्त्रियः ॥ २२ ॥
साहं सर्वकलाभिज्ञा ज्ञातसर्वजनेङ्गिता ॥
तवाहमीप्सितं वेद्मि मयि ते सङ्गतं मनः ॥ २३ ॥
तथा ममापि चौत्सुक्यं दैवेन प्रतिपादितम्॥
आवयोः स्नेहभेदोऽत्र नाभिभूयादितः परम् ॥ २४ ॥
इति सम्भाष्य तेनाशु प्रेम्णा गन्धर्वनन्दिनी ॥
मुक्ताहारं ददौ तस्मै स्वकुचान्तरभूषणम्॥ २५ ॥
तमादायाद्भुतं हारं स तस्याः प्रणयाकुलः ॥
गाढहर्षभरोत्सिक्तामिदमाह नृपात्मजः ॥ २६ ॥
सत्यमुक्तं त्वया भीरु तथाप्येकं वदाम्यहम् ॥
त्यक्तराज्यस्य निःस्वस्य कथं मे भवसि प्रिया ॥ २७ ॥
सा त्वं पितृमती बाला विलङ्घ्य पितृशासनम् ॥
स्वच्छन्दा चरणं कर्तुं मूढेव कथमर्हसि ॥ २८ ॥
इति तस्य वचः श्रुत्वा तं प्रत्याह शुचिस्मिता ॥
अस्तु नाम तथैवाहं करिष्ये पश्य कौतुकम् ॥ २९ ॥
गच्छ स्वभवनं कान्त परश्वः प्रातरेव तु ॥
आगच्छ पुनरत्रैव कार्यमस्ति च नो मृषा ॥ 3.3.7.१३० ॥
इत्युक्त्वा तं नृपसुतं सा सङ्गतसखीजना ॥
अपाक्रामत चार्वङ्गी स चापि नृपनन्दनः ॥ ३१ ॥
स समभ्येत्य हर्षेण द्विजपुत्रस्य सन्निधिम् ॥
सर्वमाख्याय तेनैव सार्धं स्वभवनं ययौ ॥ ॥ ३२ ॥
तां च विप्रसतीं भूयो हर्षयित्वा नृपात्मजः ॥
परश्वो द्विजपुत्रेण सार्धं तेन वनं ययौ ॥ ३३ ॥
स तया पूर्वनिर्दिष्टं स्थानं प्राप्य नृपात्मजः ॥
गन्धर्वराजमद्राक्षीत्स्वदुहित्रा समन्वितम् ॥ ३४ ॥
स गन्धर्वपतिः प्राप्तावभिनन्द्य कुमारकौ ॥
उपवेश्यासने रम्ये राजपुत्रमभाषत ॥ ॥ ३५ ॥
॥ गन्धर्व उवाच ॥ ॥
राजेन्द्रपुत्र पूर्वेद्युः कैलासं गतवानहम् ॥
तत्रापश्यं महादेवं पार्वत्या सहितं प्रभुम् ॥ ३६ ॥
आहूय मां स देवेशः सर्वेषां त्रिदिवौकसाम् ॥
सन्निधावाह भगवान्करुणामृतवारिधिः । ३७ ॥
धर्मगुप्ताह्वयः कश्चिद्राजपुत्रोऽस्ति भूतले ॥
अकिञ्चनो भ्रष्टराज्यो हृतदेशश्च शत्रुभिः ॥ ३८ ॥
स बालो गुरुवाक्येन मदर्च्चायां रतः सदा ॥
अद्य तत्पितरः सर्वे मां प्राप्तास्तत्प्रभावतः ॥ ३९ ॥
तस्य त्वमपि साहाय्यं कुरु गन्धर्वसत्तम ॥
अथासौ निजराज्यस्थो हतशत्रुर्भविष्यति ॥ 3.3.7.१४० ॥
इत्याज्ञप्तो महेशेन सम्प्राप्तो निजमदिरम् ॥
अनया मद्दुहित्रा च बहुशोऽभ्यर्थितस्तथा ॥ ४१ ॥
ज्ञात्वेमं सकलं शम्भोर्नियोगं करुणात्मनः ॥
आदायेमां दुहितरं प्राप्तोऽस्मीदं वनान्तरम् ॥४२॥
अत एनां प्रयच्छामि कन्यामंशुमतीं तव ॥
हत्वा शत्रून्स्वराष्टे त्वां स्थापयामि शिवाज्ञया ॥ ४३ ॥
तस्मिन्पुरे त्वमनया भुक्त्वा भोगान्यथेप्सितान्॥
दशवर्षसहस्रान्ते गन्तासि गिरिशालयम् ॥
तत्रापि मम कन्येयं त्वामेव प्रतिपत्स्यते ॥
अनेनैव स्वदेहेन दिव्येन शिवसन्निधौ ॥ ४५ ॥
इति गन्धर्वराजस्तमाभाष्य नृपनन्दनम् ॥
तस्मिन्वने स्वदुहितुः पाणिग्रहमकारयत् ॥ ४६ ॥
पारिबर्हमदात्तस्मै रत्नभारान्महोज्ज्वलान् ॥
चूडामणिं चन्द्रनिभं मुक्ताहारांश्च भासुरान्॥४७॥
दिव्यालङ्कारवासांसि कार्त्तस्वरपरिच्छदान् ॥
गजानामयुतं भूयो नियुतं नीलवाजिनाम्॥४८॥
स्यन्दनानां सहस्राणि सौवर्णानि महान्ति च ॥
पुनरेकं रथं दिव्यं धनुश्चेन्द्रायुधोपमम् ॥ ४९ ॥
अस्त्राणां च सहस्राणि तूणी चाक्षय्यसायकौ ॥
अभेद्यं वर्म सौवर्णं शक्तिं च रिपुमर्दिनीम् ॥ 3.3.7.१५० ॥
दुहितुः परिचर्यार्थं दासीपञ्चसहस्रकम् ॥
ददौ प्रीतमनास्तस्मै धनानि विविधानि च ॥ ॥ ५१ ॥
गन्धर्वसैन्यमत्युग्रं चतुरङ्गसममन्वितम् ॥
पुनश्च तत्सहायार्थे गन्धर्वाधिपतिर्ददौ ॥ ५२ ॥
इत्थं राजेन्द्रतनयः सम्प्राप्तः श्रियमुत्तमाम् ॥
अभीष्टजायासहितो मुमुदे निजसम्पदा ॥ ५३ ॥
कारयित्वा स्वदुहितुर्विवाहं समयोचितम् ॥
ययौ विमानमारुह्य गन्धर्वाधिपतिर्दिवम् ॥ ५४ ॥
धर्मगुप्तः कृतोद्वाहः सह गन्धर्वसेनया ॥
पुनः स्वनगरं प्राप्य जघान रिपुवाहिनीम् ॥ ५५ ॥
दुर्धर्षणं रणे हत्वा शक्त्या गन्धर्वसेनया ॥
निः शेषितारातिबलः प्रविवेश निजं पुरम् ॥ ५६ ॥
ततोभिषिक्तः सचिवैर्ब्राह्मणैश्च महोत्तमैः ॥
रत्नसिंहासनारूढश्चक्रे राज्यमकण्टकम् ॥ ५७ ॥
या विप्रवनिता पूर्वं तमपुष्णात्स्वपुत्रवत् ॥
सैव माताभवत्तस्य स भ्राता द्विजनन्दनः ॥ ५८ ॥
गन्धर्वतनया जाया विदर्भनगरेश्वरः ॥
आराध्य देवं गिरिशं धर्मगुप्तो नृपोऽभवत् ॥ ५९ ॥
एवमन्ये समाराध्य प्रदोषे गिरिजापतिम् ॥
लभन्तेभीप्सितान्कामान्देहान्ते तु परां गतिम् ॥ 3.3.7.१६० ॥
॥ सूत उवाच ॥ ॥
एतन्महाव्रतं पुण्यं प्रदोषे शङ्करार्चनम् ॥
धर्मार्थकाममोक्षाणां यदेतत्साधनं परम् ॥ ६१ ॥
य एतच्छृणुयात्पुण्यं माहात्म्यं परमाद्भुतम् ॥
प्रदोषे शिवपूजान्ते कथयेद्वा समाहितः ॥ ६२ ॥
भवेन्न तस्य दारिद्र्यं जन्मान्तरशतेष्वपि ॥
ज्ञानैश्वर्यसमायुक्तः सोन्ते शिवपुरं व्रजेत् ॥ ६३ ॥
ये प्राप्य दुर्लभतरं मनुजाः शरीरं कुर्वन्ति हन्त परमेश्वरपादपूजाम् ॥
धन्यास्त एव निजपुण्यजितत्रिलोकास्तेषां पदाम्बुजरजो भुवनं पुनाति ॥ १६४ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे प्रदोषमहिमावर्णनं नाम सप्तमो ऽध्यायः ॥ ७ ॥