॥ ऋषय ऊचुः ॥ ॥
यदुक्तं भवता सूत महदाख्यानमद्भुतम् ॥
शम्भोर्माहात्म्यकथनमशेषाघहरं परम् ॥ १ ॥
भूयोपि श्रोतुमिच्छामस्तदेव सुसमाहिताः ॥
प्रदोषे भगवाञ्छम्भुः पूजितस्तु महात्मभिः ॥ २ ॥
सम्प्रयच्छति कां सिद्धिमेतन्नो ब्रूहि सुव्रत ॥
श्रुतमप्यसकृत्सूत भूयस्तृष्णा प्रवर्धते ॥ ३ ॥
॥ सूत उवाच ॥ ॥
साधु पृष्टं महाप्राज्ञा भवद्भिर्लोकविश्रुतैः ॥
अतोऽहं सम्प्रवक्ष्यामि शिवपूजाफलं महत् ॥ ४ ॥
त्रयोदश्यां तिथौ सायं प्रदोषः परिकीर्त्तितः ॥
तत्र पूज्यो महादेवो नान्यो देवः फलार्थिभिः ॥ ५ ॥
प्रदोषपूजामाहात्म्यं को नु वर्णयितुं क्षमः ॥
यत्र सर्वेऽपि विबुधास्तिष्ठन्ति गिरिशान्तिके ॥ ६ ॥
प्रदोषसमये देवः कैलासे रजतालये ॥
करोति नृत्यं विबुधैरभिष्टुतगुणोदयः ॥ ७ ॥
अतः पूजा जपो होमस्तत्कथास्तद्गुणस्तवः ॥
कर्त्तव्यो नियतं मर्त्यैश्चतुर्वर्गफला र्थिभिः ॥ ८ ॥
दारिद्यतिमिरान्धानां मर्त्यानां भवभीरुणाम् ॥
भवसागरमग्नानां प्लवोऽयं पारदर्शनः ॥ ९ ॥
दुःखशोकभयार्त्तानां क्लेशनिर्वाणमिच्छताम् ॥
प्रदोषे पार्वतीशस्य पूजनं मङ्गलायनम् ॥ ३.३.६.१० ॥
दुर्बुद्धिरपि नीचोपि मन्दभाग्यः शठोऽपि वा ॥
प्रदोषे पूज्य देवेशं विपद्भ्यः स प्रमुच्यते ॥ ११ ॥
शत्रुभिर्हन्यमानोऽपि दश्यमानोपि पन्नगैः ॥
शैलैराक्रम्यमाणोऽपि पतितोऽपि महाम्बुधौ ॥ १२ ॥
आविद्धकालदण्डोऽपि नानारोगहतोऽपि वा ॥
न विनश्यति मर्त्योऽसौ प्रदोषे गिरिशार्चनात् ॥ १३ ॥
दारिद्र्यं मरणं दुःखमृणभारं नगोपमम् ॥
सद्यो विधूय सम्पद्भिः पूज्यते शिवपूजनात् ॥ १४ ॥
अत्र वक्ष्ये महापुण्यमितिहासं पुरातनम् ॥
यं श्रुत्वा मनुजाः सर्वे प्रयान्ति कृतकृत्यताम् ॥ १५ ॥
आसीद्विदर्भविषये नाम्ना सत्यरथो नृपः ॥
सर्वधर्मरतो धीरः सुशीलः सत्यसङ्गरः ॥ १६ ॥
तस्य पालयतो भूमिं धर्मेण मुनिपुङ्गवाः ॥
व्यतीयाय महान्कालः सुखेनैव महामतेः ॥ १७ ॥
अथ तस्य महीभर्तुर्बभूवुः शाल्वभूभुजः ॥
शत्रवश्चोद्धतबला दुर्मर्षणपुरोगमाः ॥ १८ ॥
कदाचिदथ ते शाल्वाः सन्नद्धबहुसैनिकाः ॥
विदर्भनगरीं प्राप्य रुरुधुर्विजिगीषवः ॥ १९ ॥
दृष्ट्वा निरुद्ध्यमानां तां विदर्भाधिपतिः पुरीम् ॥
योद्धुमभ्याययौ तूर्णं बलेन महता वृतः ॥ ३.३.६.२० ॥
तस्य तैरभवयुद्धं शाल्वैरपि बलोद्धतैः ॥
पाताले पन्नगेन्द्रस्य गन्धर्वैरिव दुर्मदैः ॥ २१ ॥
विदर्भनृपतिः सोऽथ कृत्वा युद्धं सुदारुणम् ॥
प्रनष्टोरुबलैः शाल्वैर्निहतो रणमूर्धनि ॥ २२ ॥
तस्मिन्महारथे वीरे निहते मन्त्रिभिः सह ॥
दुद्रुवुः समरे भग्ना हतशेषाश्च सैनिकाः ॥ २३ ॥
अथ युद्धेभिविरते नदत्सु रिपुमन्त्रिषु ॥
नगर्यां युद्ध्यमानायां जाते कोलाहले रवे ॥ २४ ॥
तस्य सत्यरथस्यैका विदर्भाधिपतेः सती ॥
भूरिशोकसमाविष्टा क्वचिद्यत्नाद्विनिर्ययौ ॥ २५ ॥
सा निशासमये यत्नादन्तर्वत्नी नृपाङ्गना ॥
निर्गता शोक सन्तप्ता प्रतीचीं प्रययौ दिशम् ॥ २६ ॥
अथ प्रभाते मार्गेण गच्छन्ती शनकैः सती ॥
अतीत्य दूरमध्वानं ददर्श विमलं सरः ॥ २७ ॥
तत्रागत्य वरारोहा तप्ता तापेन भूयसा ॥
विलसन्तं सरस्तीरे छायावृक्षं समाश्रयत् ॥ २८ ॥
तत्र दैववशाद्राज्ञी विजने तरुकुट्टिमे ॥
असूत तनयं साध्वी मूहूर्ते सद्गुणान्विते ॥ २९ ॥
अथ सा राजमहिषी पिपासाभिहता भृशम् ॥
सरोऽवतीर्णा चार्वङ्गी ग्रस्ता ग्राहेण भूयसा ॥ ३.३.६.३० ॥
जातमात्रः कुमारोऽपि विनष्टपितृमातृकः ॥
रुरोदोच्चैः सरस्तीरे क्षुत्पिपासार्दितोऽबलः ॥ ३१ ॥
तस्मिन्नेवं क्रन्दमाने जातमात्रे कुमारके ॥
काचिदभ्याययौ शीघ्रं दिष्ट्या विप्रवराङ्गना ॥ ३२ ॥
साप्येकहायनं बालमुद्वहन्ती निजात्मजम् ॥
अधना भर्तृरहिता याचमाना गृहेगृहे ॥ ३३ ॥
एकात्मजा बन्धुहीना याञ्चामार्गवशङ्गता॥
उमानाम द्विजसतीददर्श नृपनन्दनम्॥ ३४ ॥
सा दृष्ट्वा राजतनयं सूर्यबिंवमिव च्युतम्॥
अनाथमेनं क्रन्दन्तं चिन्तयामास भूरिशः ॥ ३५॥
अहो सुमहदाश्चर्यमिदं दृष्टं मयाधुना ॥
अच्छिन्ननाभिसूत्रोऽयं शिशुर्माता क्व वा गता ॥ ३६ ॥
पिता नास्ति न चान्योस्ति नास्ति बन्धुजनोऽपि वा ॥
अनाथः कृपणो बालः शेते केवल भूतले ॥ ३७ ॥
एष चाण्डालजो वापि शूद्रजो वैश्यजोपि वा ॥
विप्रात्मजो वा नृपजो ज्ञायते कथमर्भकः ॥ ३८॥
शिशुमेनं समुद्धृत्य पुष्णाम्यौरसवद्ध्रुवम् ॥
किं त्वविज्ञातकुलजं नोत्सहे स्प्रष्टुमुत्तमम् ॥ ३९ ॥
इति मीमांसमानायां तस्यां विप्रवरस्त्रियाम् ॥ ३.३.६.४० ॥
कश्चित्समाययौ भिक्षुः साक्षाद्देवः शिवः स्वयम् ॥
तामाह भिक्षुवर्योथ विप्रभामिनि मा खिदः ॥ ११ ॥
रक्षैनं बालकं सुभ्रुर्विसृज्य हृदि संशयम्॥
अनेन परमं श्रेयः प्राप्स्यसे ह्यचिरादेिह ॥ ४२ ॥
एतावदुक्त्वा त्वरितो भिक्षुः कारुणिको ययौ ॥
अथ तस्मिन्गते भिक्षौ विश्रब्धा विप्रभामिनी ॥ ४३ ॥
तमर्भकं समादाय निजमेव गृहं ययौ ॥
भिक्षुवाक्येन विश्रब्धा सा राज तनयं सती ॥ ४४ ॥
आत्मपुत्रेण सदृशं कृपया पर्यपोषयत्॥
एकचक्राह्वये रम्ये ग्रामे कृतनिकेतना ॥ ४९ ॥
स्वपुत्रं राजपुत्रं च भिक्षान्नेन व्यवर्धयत् ॥
ब्राह्मणीतनयश्चैव स राजतनयस्तथा ॥ १६ ॥
ब्राह्मणैः कृतसंस्कारौ ववृधाते सुपूजितौ।॥
कृतोपनयनौ काले बालकौ नियमे स्थितौ ॥ ॥ ४७ ॥
भिक्षार्थं चेरतुस्तत्र मात्रा सह दिनेदिने ॥
ताभ्यां कदाचिद्बालाभ्यां सा विप्रवनिता सह ॥ ४८ ॥
भैक्ष्यं चरन्ती दैवेन प्रविष्टा देवतालयम्॥
तत्र वृद्धैः समाकीर्णे मुनिभिर्देवतालये ॥ १९ ॥
तौ दृष्ट्वा बालकौ धीमाञ्छाण्डिल्यो मुनिरब्रवीत् ॥
अहो दैवबलं चित्रमहो कर्म दुरत्ययम् ॥ ३.३.६.५० ॥
एष बालोऽन्यजननीं श्रितो भैक्ष्येण जीवति ॥
इमामेव द्विजवधूं प्राप्य मातरमुत्तमाम् ॥ ५१ ॥
सहैव द्विजपुत्रेण द्विजभावं समाश्रितः ॥
इति श्रुत्वा मुनेर्वाक्यं शाण्डिल्यस्य द्विजाङ्गना ॥ ५२॥
सा प्रणम्य सभामध्ये पर्यपृच्छत्सविस्मया ॥
ब्रह्मन्नेषोर्भको नीतो मया भिक्षोर्गिरा गृहम् ॥ ५३ ॥
अविज्ञातकुलोद्यापि सुतवत्परिपोष्यते ॥
कस्मिन्कुले प्रसूतोऽयं का माता जनकोस्य कः ॥ ५४ ॥
सर्वं विज्ञातुमिच्छामि भवतो ज्ञानचक्षुषः ॥.५५ ।॥
इति पृष्टो मुनिः सोथ ज्ञानदृष्टिर्द्विजस्त्रियां ॥
आचख्यौ तस्य बालस्य जन्म कर्म च पौर्विकम् ॥ ५६ ॥
विदर्भराजपुत्रस्तु तत्पितुः समरे मृतिम्॥
तन्मातुर्नक्रहरणं साकल्येन न्यवेदयत् ॥ ५७ ॥
अथ सा विस्मिता नारी पुनः प्रपच्छ तं मुनिम् ॥
स राजा सकलान्भोगान्हित्वा युद्धे कथं मृतः ॥ ५८ ॥
दारिद्र्यमस्य बालस्य कथं प्राप्तं महामुने ॥
दारिद्र्यं पुनरुद्धूय कथं राज्यमवाप्स्यति ॥ ॥ ५९ ॥
अस्यापि मम पुत्रस्य भिक्षान्नेनैव जीवतः ।
दारिद्र्यशमनोपायमुपदेष्टुं त्वमर्हसि ॥३.३.६.६०॥
॥ शाण्डिल्य उवाच ॥॥
अमुष्य बालस्य पिता स विदर्भमहीपतिः ॥
पूर्वजन्मनि पाण्ड्येशो बभूव नृपसत्तमः ॥ ६१ ॥
स राजा सर्वधर्मज्ञः पालयन्सकलां महीम् ॥
प्रदोषसमये शम्भुं कदा चित्प्रत्यपूजयत् ॥ ६२ ॥
तस्य पूजयतो भक्त्या देवं त्रिभुवनेश्वरम् ॥
आसीत्कलकलारावः सर्वत्र नगरे महान् ॥ ६३ ॥
श्रुत्वा तमुत्कटं शब्दं राजा त्यक्तशिवार्चनः ॥
निर्ययौ राजभवनान्नगरक्षोभशङ्कया ॥ ६४ ॥
एतस्मिन्नेव समये तस्यामात्यो महाबलः ॥
शत्रुं गृहीत्वा सामन्तं राजान्तिकमुपागमत् ॥ ६५ ॥
अमात्येन समानीतं शत्रुं सामन्तमुद्धतम् ॥
दृष्ट्वा क्रोधेन नृपतिः शिरच्छेदमकारयत् ॥ ६६ ॥
स तथैव महीपालो विसृज्य शिवपूजनम् ॥
असमाप्तात्मनियमश्चकार निशि भोजनम् ॥ ६७ ॥
तत्पुत्रोपि तथा चक्रे प्रदोषसमये शिवम् ॥
अनर्चयित्वा मूढात्मा भुक्त्वा सुष्वाप दुर्मदः ॥ ६८ ॥
जन्मान्तरे स नृपतिर्विदर्भक्षितिपोऽभवत् ॥
शिवार्चनान्तरायेण परैर्भोगान्तरे हतः ॥ ६९ ॥
तत्पुत्रो यः पूर्वभवे सोस्मिञ्जन्मनि तत्सुतः ॥
भूत्वा दारिद्र्यमापन्नः शिवपूजाव्यतिक्रमात् ॥ ३.३.६.७० ॥
अस्य माता पूर्वभवे सपत्नीं छद्मनाहनत् ॥
तेन पापेन महता ग्राहेणास्मिन्भवे हता ॥ ७१ ॥
एषा प्रवृत्तिरेतेषां भवत्यै समुदाहृता ॥
अनर्चितशिवा मर्त्याः प्राप्नुवन्ति दरिद्रताम् ॥ ॥ ७२ ॥
सत्यं ब्रवीमि परलोकहितं ब्रवीमि सारं ब्रवीम्युपनिषद्धृदयं ब्रवीमि ॥
संसारमुल्बणमसारमवाप्य जन्तोः सारो यमीश्वरपदाम्बुरुहस्य सेवा ॥ ७३ ॥
ये नार्चयन्ति गिरिशं समये प्रदोषे ये नार्चितं शिवमपि प्रणमन्ति चान्ये ॥
एतत्कथां श्रुतिपुटैर्न पिबन्ति मूढास्ते जन्मजन्मसु भवन्ति नरा दरिद्राः ॥ ७४ ॥
ये वै प्रदोषसमये परमेश्वरस्य कुर्वन्त्यनन्यमनसोंऽघ्रिसरोजपूजाम् ॥
नित्यं प्रवृद्धधन धान्यकलत्रपुत्रसौभाग्यसम्पदधिकास्त इहैव लोके ॥ ७५ ॥
कैलासशैलभवने त्रिजगजनित्रीं गौरीं निवेश्य कनकाञ्चितरत्नपीठे ॥
नृत्यं विधातु मभिवाञ्छति शूलपाणौ देवाः प्रदोषसमयेऽनुभजन्ति सर्वे ॥ ७६ ॥
वाग्देवी धृतवल्लकी शतमखो वेणुं दधत्पद्मजस्तालोन्निद्रकरो रमा भगवती गेयप्रयोगान्विता ॥
विष्णुः सान्द्रमृदङ्गवादनपटुर्देवाः समन्तात्स्थिताः सेवन्ते तमनु प्रदोषसमये देवं मृडानीपतिम् ॥ ७७ ॥
गन्धर्वयक्षपतगोरगसिद्ध साध्या विद्याधरामरवराप्सरसां गणाश्च ॥
येऽन्ये त्रिलोकनिलयाः सह भूतवर्गाः प्राप्ते प्रदोषसमये हरपार्थसंस्थाः ॥ ७८ ॥
अतः प्रदोषे शिव एक एव पूज्योऽथ नान्ये हरिपद्मजाद्याः ॥
तस्मिन्महेशे विधिनेज्यमाने सर्वे प्रसीदन्ति सुराधिनाथाः ॥ ७९ ॥
एष ते तनयः पूर्वजन्मनि ब्राह्मणोत्तमः ॥
प्रतिग्रहैर्वयो निन्ये न यज्ञाद्यैः सुकर्मभिः॥३.३.६.८०॥
अतो दारिद्र्यमापन्नः पुत्रस्ते द्विजभामिनि॥
तद्दोष परिहारार्थं शरणं यातु शङ्करम् ॥ ८१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे प्रदोषमाहात्म्यवर्णनन्नाम षष्ठोऽध्यायः ॥ ६ ॥ ॥ छ ॥