००५ गोपकुमारचरितवर्णनम्

॥ सूत उवाच ॥ ॥
शिवो गुरुः शिवो देवः शिवो बन्धुः शरीरिणाम् ॥
शिव आत्मा शिवो जीवःशिवादन्यन्न किञ्चन ॥१॥।
शिवमुद्दिश्य यत्किञ्चिद्दत्तं जप्तं हुतं कृतम् ॥
तदनन्तफलं प्रोक्तं सर्वागमविनिश्चितम् ॥ २ ॥
भक्त्या निवेदितं शम्भोः पत्रं पुष्पं फलं जलम् ॥
अल्पादल्पतरं वापि तदानन्त्याय कल्पते ॥ ३ ॥
विहाय सकलान्धर्मान्सकलागमनिश्चितान् ॥
शिवमेकं भजेद्यस्तु मुच्यते सर्वबन्धनात् ॥ ४ ॥
या प्रीतिरात्मनः पुत्रे या कलत्रे धनेपि सा ॥
कृता चेच्छिवपूजायां त्रायतीति किमद्भुतम् ॥ ५ ॥
तस्मात्केचिन्महात्मानः सकलान्विषयासवान् ॥
त्यजन्ति शिवपूजार्थे स्वदेहमपि दुस्त्यजम् ॥ ६ ॥
सा जिह्वा या शिवं स्तौति तन्मनो ध्यायते शिवम् ॥
तौ कर्णौ तत्कथालोलौ तौ हस्तौ तस्य पूजकौ ॥ ७ ॥
ते नेत्रे पश्यतः पूजां तच्छिरः प्रणतं शिवे ॥
तौ पादौ यौ शिवक्षेत्रं भक्त्या पर्यटतः सदा ॥ ८ ॥
यस्येन्द्रियाणि सर्वाणि वर्तन्ते शिवकर्मसु ॥
स निस्तरति संसारं भुक्तिं मुक्तिं च विन्दति ॥ ९ ॥
शिवभक्तियुतो मर्त्यश्चाण्डालः पुल्कसोपि च ॥
नारी नरो वा षण्ढो वा सद्यो मुच्येत संसृतेः ॥ ३.३.५.१० ॥
किं कुलेन किमाचारैः किंशीलेन गुणेन वा ॥
भक्तिलेशयुतः शम्भोः स वन्द्यः सर्वदेहिनाम् ॥ ११ ॥
उज्जयिन्यामभूद्राजा चन्द्रसेनसमाह्वयः ॥
जातो मानवरूपेण द्वितीय इव वासवः ॥ १२ ॥
तस्मिन्पुरे महाकालं वसन्तं परमेश्वरम् ॥
सम्पूजयत्यसौ भक्त्या चन्द्रसेनो नृपोत्तमः ॥ १३ ॥
तस्याभवत्सखा राज्ञः शिवपारिषदाग्रणीः ॥
मणिभद्रो जिताभद्रः सर्वलोकनमस्कृतः ॥ १४ ॥
तस्यै कदा महीभर्तुः प्रसन्नः शङ्करानुगः ॥
चिन्तामणिं ददौ दिव्यं मणिभद्रो महामतिः ॥ १५ ॥
स मणिः कौस्तुभ इव द्योतमानोर्कसन्निभः ॥
दृष्टः श्रुतो वा ध्यातो वा नृणां यच्छति चिन्तितम् ॥ १६ ॥
तस्य कान्तिलवस्पृष्टं कांस्यं ताम्रमयस्त्रपु ॥
पाषाणादिकमन्यद्वा सद्यो भवति काञ्चनम् ॥ ॥ १७ ॥
स तं चिन्तामणिं कण्ठे बिभ्रद्राजासनं गतः ॥
रराज राजा देवानां मध्ये भानुरिव स्वयम् ॥ १८ ॥
सदा चिन्तामणिग्रीवं तं श्रुत्वा राजसत्तमम् ॥
प्रवृद्धतर्षा राजानः सर्वे क्षुब्धहृदोऽभवन् ॥ १९ ॥
स्नेहात्केचिदयाचन्त धार्ष्ट्यात्केचन दुर्मदाः ॥
दैवलब्धमजानन्तो मणिं मत्सरिणो नृपाः।३.३.५.२०॥
सर्वेषां भूभृतां याञ्चा यदा व्यर्थीकृतामुना॥
राजानः सर्वदेशानां संरम्भं चक्रिरे तदा॥२१॥
सौराष्ट्राः कैकयाः शाल्वाः कलिङ्गशकमद्रकाः ॥
पाञ्चालावन्तिसौवीरा मागधा मत्स्यसृञ्जयाः ॥ २२ ॥
एते चान्ये च राजानः सहाश्वरथकुमजराः ॥
चन्द्रसेनं मृधे जेतुमुद्यमं चक्रुरोजसा ॥ २३ ॥
ते तु सर्वे सुसंरब्धाः कम्पयन्तो वसुन्धराम् ॥
उज्जयिन्याश्चतुर्द्वारं रुरुधुर्बहुसैनिकाः ॥ २४ ॥
संरुध्यमानो स्वपुरीं दृष्ट्वा राजभिरुद्धतैः ॥
चन्द्रसेनो महाकालं तमेव शरणं ययौ ॥ २५ ॥
निर्विकल्पो निराहारः स राजा दृढनिश्चयः ॥
अर्चयामास गौरीशं दिवा नक्त मनन्यधीः ॥ २६ ॥
एतस्मिन्नन्तरे गोपी काचित्तत्पुरवासिनी ॥
एकपुत्रा भर्तृहीना तत्रैवासीच्चिरन्तना ॥ २७ ॥
सा पञ्चहायनं बालं वहन्ती गत भर्तृका ॥
राज्ञा कृतां महापूजां ददर्श गिरिजापतेः ॥ २८ ॥
सा दृष्ट्वा सर्वमाश्चर्यं शिवपूजामहोदयम् ॥
प्रणिपत्य स्वशिबिरं पुनरेवाभ्यपद्यत ॥ ॥ २९ ॥
एतत्सर्वमशेषेण स दृष्ट्वा बल्लवीसुतः ॥
कुतूहलेन विदधे शिवपूजां विरक्तिदाम्॥ ३.३.५.३० ॥
आनीय हृद्यं पाषाणं शून्ये तु शिबिरोत्तमे ॥
नातिदूरे स्वशिबिराच्छिवलिङ्गमकल्पयत् ॥ ३१ ॥
यानि कानि च पुष्पाणि हस्तलभ्यानि चात्मनः ॥
आनीय स्नाप्य तल्लिङ्गं पूजयामास भक्तितः ॥ ३२ ॥
गन्धालङ्कारवासांसि धूपदीपाक्षतादिकम् ॥
विधाय कृत्रिमैर्दिव्यैर्नैवेद्यं चाप्यकल्पयत् ॥ ३३ ॥
भूयोभूयः समभ्यर्च्य पत्रैः पुष्पैर्मनोरमैः ॥
नृत्यं च विविधं कृत्वा प्रणनाम पुनःपुनः ॥३४॥
एवं पूजां प्रकुर्वाणं शिवस्यानन्यमानसम् ॥
सा पुत्रं प्रणयाद्गोपी भोजनाय समा ह्वयत्॥३५॥
मात्राहूतोपि बहुशः स पूजासक्तमानसः ॥
बालोपि भोजनं नच्छत्तदा माता स्वयं ययौ॥ ३६॥
तं विलोक्य शिवस्याग्रे निषण्णं मी लितेक्षणम्॥
चकर्ष पाणिं सङ्गृह्य कोपेन समताडयत्॥ ३७ ॥
आकृष्टस्ताडितो वापि नागच्छत्स्वसुतो यदा ॥
तां पूजां नाशयामास क्षिप्त्वा लिङ्गं विदूरतः ॥ ३८ ॥
हाहेति रुदमानं तं निर्भर्त्स्य स्वसुतं तदा ॥
पुनर्विवेश स्वगृहं गोपी रोषसमन्विता ॥ ३९ ॥
मात्रा विनाशितां पूजां दृष्ट्वा देवस्य शूलिनः ॥
देवदेवेति चुक्रोश निपपात स बालकः ॥ ३.३.५.४० ॥
प्रनष्टसञ्ज्ञः सहसा बाष्पपूरपरिप्लुतः ॥
लब्धसञ्ज्ञो मुहूर्तेन चक्षुषी उदमीलयत्॥ ॥ ४१ ॥
ततो मणिस्तम्भविराजमानं हिरण्मयद्वारकपाटतोरणम् ॥
महार्हनीलामलवज्रवेदिकं तदेव जातं शिबिरं शिवालयम् ॥ ४२ ॥
सन्तप्तहेम कलशैर्बहुभिर्विचित्रैः प्रोद्भासितस्फटिकसौधतलाभिरामम् ॥
रम्यं च तच्छिवपुरं वरपीठमध्ये लिङ्गं च रत्नसहितं स ददर्श बालः ॥ ४३ ॥
स दृष्ट्वा सहसोत्थाय भीतविस्मितमानसः ॥
निमग्न इव सन्तोषात्परमानन्दसागरे ॥ ४४ ॥
विज्ञाय शिवपूजाया माहात्म्यं तत्प्रभावतः ॥
ननाम दण्डवद्भूमौ स्वमातुरघशान्तये ॥ ४५ ॥
देव क्षमस्व दुरितं मम मातुरुमापते ॥
मूढायास्त्वामजानन्त्याः प्रसन्नो भव शङ्कर ॥ ४६ ॥
यद्यस्ति मयि यत्किञ्चित्पुण्यं त्वद्भक्तिसम्भवम् ॥
तेनापि शिव मे माता तव कारुण्यमाप्नुयात् ॥ ४७ ॥
इति प्रसाद्य गिरिशं भूयोभूयः प्रणम्य च ॥
सूर्ये चास्तं गते बालो निर्जगाम शिवालयात् ॥ ४८ ॥
अथापश्यत्स्वशिबिरं पुरन्दरपुरोपमम् ॥
सद्यो हिरण्मयीभूतं विचित्रविभवोज्ज्वलम् ॥ ४९ ॥
सोन्तः प्रविश्य भवनं मोदमानो निशामुखे ॥
महामणिगणाकीर्णं हेमराशिसमुज्ज्वलम् ॥ ३.३.५.५० ॥
तत्रापश्यत्स्वजननीं स्मरन्तीमकुतोभयाम् ॥
महार्हरत्न पर्यङ्के सितशय्यामधिश्रिताम् ॥ ५१ ॥
रत्नालङ्कारदीप्ताङ्गीं दिव्याम्बरविराजिनीम् ॥
दिव्यलक्षणसम्पन्नां साक्षात्सुरवधूमिव ॥ ५२ ॥
जवेनोत्थापयामास सम्भ्रमोत्फुल्ललोचनः ॥
अम्ब जागृहि भद्रं ते पश्येदं महदद्भुतम्॥ ५३ ॥
इति प्रबोधिता गोपी स्वपुत्रेण महात्मना ॥
ततोऽपश्यत्स्वजननी स्मयन्ती मुकुटोज्ज्वला ॥ ५४ ॥
ससम्भ्रमं समुत्थाय तत्सर्वं प्रत्यवेक्षत ॥
अपूर्वमिव चात्मानमपूर्वमिव बालकम् ॥ ५५ ॥
अपूर्वं च स्वसदनं दृष्ट्वा सीत्सुखविह्वला ॥
श्रुत्वा पुत्रमुखात्सर्वं प्रसादं गिरिजापतेः ॥ ५६ ॥
राज्ञे विज्ञापयामास यो भजत्यनिशं शिवम् ॥
स राजा सहसागत्य समाप्त नियमो निशि ॥ ५७ ॥
ददर्श गोपिकासूनोः प्रभावं शिवतोषजम् ॥
हिरण्मयं शिवस्थानं लिङ्गं मणिमयं तथा ॥ ५८ ॥
गोपवध्वाश्च सदनं माणि क्यवरकोज्ज्वलम्॥
दृष्ट्वा महीपतिः सर्वं सामात्यः सपुरोहितः ॥५९ ॥
मुहूर्तं विस्मितधृतिः परमानन्दनिर्भरः ॥
प्रेम्णा वाष्पजलं मुञ्चन्परिरेभे तम र्भकम् ॥ ३.३.५.६० ॥
एवमत्यद्भुताकाराच्छिवमाहात्म्यकीर्त्तनात् ॥
पौराणां सम्भ्रमाच्चैव सा रात्रिः क्षणतामगात् ॥ ६१ ॥
अथ प्रभाते युद्धाय पुरं संरुध्य संस्थिताः ॥
राजानश्चारवक्त्रेभ्यः शुश्रुवुः परमाद्भुतम् ॥ ६२ ॥
ते त्यक्तवैराः सहसा राजानश्चकिता भृशम् ॥
न्यस्तशस्त्रा निविविशुश्चन्द्रसेनानुमोदिताः ॥ ६३ ॥
तां प्रविश्य पुरीं रम्यां महाकालं प्रणम्य च ॥
तद्गोपवनितागेहमाजग्मुः सर्वभूभृतः ॥ ६४ ॥
ते तत्र चन्द्रसेनेन प्रत्युद्गम्याभि पूजिताः ॥
महार्हविष्टरगताः प्रीत्यानन्दन्सुविस्मिताः ॥ ६५ ॥
गोपसूनोः प्रसादाय प्रादुर्भूतं शिवालयम् ॥
लिङ्गं च वीक्ष्य सुमहच्छिवे चक्रुः परां मतिम् ॥ ६६ ॥
तस्मै गोपकुमाराय प्रीतास्ते सर्वभूभुजः ॥
वासोहिरण्यरत्नानि गोमहिष्यादिकं धनम् ॥ ६७ ॥
गजानश्वान्रथान्रौक्माञ्छत्र यानपरिच्छदान् ॥
दासान्दासीरनेकाश्च ददुः शिवकृपार्थिनः ॥ ६८ ॥
येये सर्वेषु देशेषु गोपास्तिष्ठन्ति भूरिशः ॥
तेषां तमेव राजानं चक्रिरे सर्व पार्थिवाः ॥६९॥
अथास्मिन्नन्तरे सर्वैस्त्रिदशैरभिपूजितः ॥
प्रादुर्बभूव तेजस्वी हनूमान्वानरेश्वरः ॥३.३.५.७०॥
तस्याभिगमनादेव राजानो जातसम्भ्रमाः ॥
प्रत्युत्थाय नमश्चक्रुर्भक्तिनम्रात्ममूर्त्तयः ॥ ७१ ॥
तेषां मध्ये समासीनः पूजितः प्लवगेश्वरः ॥
गोपात्मजं समाश्लिष्य राज्ञो वीक्ष्येदमववीत् ॥ ॥ ७२ ॥
सर्वे शृणुत भद्रं वो राजानो ये च देहिनः ॥
शिवपूजामृते नान्या गतिरस्ति शरीरिणाम ॥ ७३ ॥
एष गोपसुतो दिष्ट्या प्रदोषे मन्दवा सरे ॥
अमन्त्रेणापि सम्पूज्य शिवं शिवमवाप्तवान् ॥ ७४ ॥
मन्दवारे प्रदोषोऽयं दुर्लभः सर्वदेहिनाम् ॥
तत्रापि दुर्लभतरः कृष्णपक्षे समागते ॥ ॥ ७५ ॥
एष पुण्यतमो लोके गोपानां कीर्तिवर्धनः ॥
अस्य वंशेऽष्टमो भावी नन्दोनाम महायशाः ॥
प्राप्स्यते तस्य पुत्रत्वं कृष्णो नारा यणः स्वयम् ॥ ७६ ॥
अद्यप्रभृति लोकेस्मिन्नेष गोपालनन्दनः ॥
नाम्ना श्रीकर इत्युच्चैर्लोके ख्यातिं गमिष्यति ॥ ७७ ॥
॥ सूत उवाच ॥
एवमुक्त्वाञ्जनीसूनुस्तस्मै गोपकसूनवे ॥
उपदिश्य शिवाचारं तत्रैवान्तरधीयत ॥ ७८ ॥
ते च सर्वे महीपालाः संहृष्टाः प्रतिपूजिताः ॥
चन्द्रसेनं समामन्त्र्य प्रतिजग्मुर्यथागतम् ॥ ७९ ॥
श्रीकरोऽपि महातेजा उपदिष्टो हनूमता ॥
ब्राह्मणैः सह धर्मज्ञैश्चक्रे शम्भोः समर्हणम् ॥ ३.३.५.८० ॥
कालेन श्रीकरः सोऽपि चन्द्रसेनश्च भूपतिः ॥
समाराध्य शिवं भक्त्या प्रापतुः परमं पदम् ॥ ८१ ॥
इदं रहस्यं परमं पवित्रं यशस्करं पुण्यमहर्द्धिवर्धनम् ॥
आख्यानमाख्यातमघौघनाशनं गौरीशपादाम्बुजभक्तिवर्धनम् ॥ ८२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तर खण्डे गोपकुमारचरितवर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥