॥ सूत उवाच ॥ ॥
भूयोपि शिवमाहात्म्यं वक्ष्यामि परमाद्भुतम् ॥
शृण्वतां सर्वपापघ्नं भवपाशविमोचनम् ॥ ॥ १ ॥
दुस्तरे दुरिताम्भोधौ मज्जतां विषयात्मनाम् ॥
शिवपूजां विना कश्चित्प्लवो नास्ति निरूपितः ॥ २ ॥
शिवपूजां सदा कुर्याद्बुद्धिमानिह मानवः ॥
अशक्तश्चेत्कृता पूजां पश्येद्भक्तिविनम्रधीः ॥ ३ ॥
अश्रद्धयापि यः कुर्याच्छिवपूजां विमुक्तिदाम् ॥
पश्येद्वा सोपि कालेन प्रयाति परमं पदम् ॥ ४ ॥
आसीत्किरातदेशेषु नाम्ना राजा विमर्दनः ॥
शूरः परमदुर्द्धर्षो जितशत्रुः प्रतापवान् ॥ ५ ॥
सर्वदा मृगयासक्तः कृपणो निर्घृणो बली ॥
सर्वमांसाशनः क्रूरः सर्ववर्णाङ्गनावृतः ॥ ६ ॥
तथापि कुरुते शम्भोः पूजां नित्यमतन्द्रितः ॥
चतुर्दश्यां विशेषेण पक्षयोः शुक्लकृष्णयोः ॥ ॥ ७ ॥
महाविभवसम्पन्नां पूजां कृत्वा स मोदते ॥
हर्षेण महताविष्टो नृत्यति स्तौति गायति ॥ ८ ॥
तस्यैवं वर्तमानस्य नृपतेः सर्वभक्षिणः ॥
दुराचारस्य महिषी चेष्टितेनान्वतप्यत ॥ ९ ॥
सा वै कुमुद्वतीनाम राज्ञी शीलगुणान्विता ॥
एकदा पतिमासाद्य रहस्ये तदपृच्छत ॥ ३.३.४.१० ॥
एतत्ते चरितं राजन्महदाश्चर्यकारणम् ॥
क्व ते महादुराचारः क्व भक्तिः परमेश्वरे ॥ ११ ॥
सर्वदा सर्वभक्षस्त्वं सर्वस्त्रीजनलालसः ॥
सर्वहिंसापरः क्रूरः कथं भक्तिस्तवेश्वरे ॥ १२ ॥
इति पृष्टः स भूपालो विमृश्य सुचिरं ततः ॥
त्रिकालज्ञः प्रहस्यैनां प्रोवाच सुकुतूहलः ॥ १३ ॥ ॥
॥ राजोवाच ॥ ॥
अहं पूर्वभवे कश्चित्सारमेयो वरानने ॥
पम्पानगरमाश्रित्य पर्यटामि समन्ततः ॥ १४ ॥
एवं कालेषु गच्छत्सु तत्रैव नगरोत्तमे ॥
कदाचिदागतः सोहं मनोज्ञं शिवमन्दिरम् ॥ १५ ॥
पूजायां वर्तमानायां चतुर्दश्यां महातिथौ ॥
अपश्यमुत्सवं दूराद्बहिर्द्वारं समाश्रितः ॥ १६ ॥
अथाहं परमक्रुद्धैर्दण्डहस्तैः प्रधावितः ॥
तस्माद्देशादपक्रान्तः प्राणरक्षापरायणः ॥ १७ ॥
ततः प्रदक्षिणीकृत्य मनोज्ञं शिवमन्दिरम् ॥
द्वारदेशं पुनः प्राप्य पुनश्चैव निवारितः ॥ १८ ॥
पुनः प्रदक्षिणीकृत्य तदेव शिवमन्दिरम् ॥
बलिपिण्डादिलोभेन पुनर्द्वारमुपागतः ॥ १९ ॥
एवं पुनःपुनस्तत्र कृत्वा कृत्वा प्रदक्षिणाम् ॥
द्वारदेशे समासीनं निजघ्नुर्निशितैः शरैः ॥ ३.३.४.२० ॥
स विद्धगात्रः सहसा शिवद्वारि गतासुकः ॥
जातोऽस्म्यहं कुले राज्ञां प्रभावाच्छिवसन्निधेः ॥ २१ ॥
दृष्ट्वा चतुर्दशीपूजां दीपमाला विलोकिताः ॥
तेन पुण्येन महता त्रिकालज्ञोऽस्मि भामिनि ॥ २२ ॥
प्राग्जन्मवासनाभिश्च सर्वभक्षोऽस्मि निर्घृणः ॥
विदुषामपि दुर्लङ्घ्या प्रकृतिर्वासनामयी ॥ २३ ॥
अतोऽहमर्चयामीशं चतुर्दश्यां जगद्गुरुम् ॥
त्वमपि श्रद्धया भद्रे भज देवं पिनाकिनम् ॥ २४ ॥
॥ राज्ञ्युवाच ॥ ॥
त्रिकालज्ञोऽसि राजेन्द्र प्रसादाद्गिरिजापतेः ॥
मत्पूर्वजन्मचरितं वक्तुमर्हसि तत्त्वतः ॥ २५ ॥
॥ राजोवाच ॥ ॥
त्वं तु पूर्वभवे काचित्कपोती व्योमचारिणी ॥
क्वापि लब्धवती किञ्चिन्मां सपिण्डं यदृच्छया ॥ २६॥
त्वद्गृहीतमथालोक्य गृध्रः कोप्यामिषं बली ।
निरामिषः स्वयं वेगाभिदुद्राव भीषणः ॥ २७॥
ततस्तं वीक्ष्य वित्रस्ता विद्रुतासि वरानने ॥
तेनानुयाता घोरेण मांसपिण्डजिघृक्षया ॥ २८ ॥
दिष्ट्या श्रीगिरिमासाद्य श्रान्ता तत्र शिवालयम् ॥
प्रदक्षिणं परिक्रम्य ध्वजाग्रे समुपस्थिता ॥ २९॥
अथानुसृत्य सहसा तीक्ष्णतुण्डो विहङ्गमः ॥
त्वां निहत्य निपात्याधो मांसमादाय जग्मिवान् ॥ ३.३.४.३० ॥
प्रदक्षिणप्रक्रमणाद्देवदेवस्य शूलिनः॥
तस्याग्रे मरणाच्चैव जातासीह नृपाङ्गना ॥ ३१ ॥
॥ राज्ञ्युवाच ॥ ॥
श्रुतं सर्वमशेषेण प्राग्जन्मचरेितं मया ॥
जातं च महदाश्चर्यं भक्तिश्च मम चेतसि ॥
अथान्यच्छ्रोतुमिच्छामि त्रिकालज्ञ महामते ॥
इदं शरीरमुत्सृज्य यास्यावः कां गतिं पुनः । |॥ ३२ ॥
॥ राजोवाच ॥ ॥
अतो भवे जनिष्येऽहं द्वितीये सैन्धवो नृपः ॥ ३३ ॥
सृञ्जयेशसुता त्वं हि मामेव प्रतिपत्स्यसे ॥
तृतीये तु भवे राजा सौराष्ट्रे भविताऽस्म्यहम् ॥ ३४ ॥
कलिङ्गराजतनया त्वं मे पत्नी भविष्यसि ॥
चतुर्थे तु भविष्यामि भवे गान्धारभूमिपः ॥ ३५ ॥
मागधी राजतनया तत्र त्वं मम गेहिनी ॥
पञ्चमेऽवन्तिनाथोऽहं भविष्यामि भवान्तरे ॥ ३६ ॥
दाशार्हराजतनया त्वमेव मम वल्लभा॥
अस्माज् जन्मनि षष्ठेऽहमानर्ते भविता नृपः ॥ ३७॥
ययातिवंशजा कन्या भूत्वा मामेव यास्यसि ॥
पाण्ड्यराजकुमारोऽहँ सप्तमे भविता भवे ॥ ३८ ॥
तत्र मत्सदृशो नान्यो रूपौदार्यगुणादिभिः ॥
सर्वशास्त्रार्थतत्त्वज्ञो बलवान्दृढविक्रमः ॥ ३९ ॥
सर्वलक्षणसम्पन्नः सर्वलोकमनोरमः ॥
पद्मवर्ण इति ख्यातः पद्ममित्रसमद्युतिः ॥ ३.३.४.४०॥
भविता त्वं च वैदर्भी रूपेणाप्रतिमा भुवि ॥
नाम्ना वसुमती ख्याता रूपावयवशोभिनी ॥ ४१ ॥
सर्व राजकुमाराणां मनोनयननन्दिनी ॥
सा त्वं स्वयंवरे सर्वान्विहाय नृपनन्दनान् ॥ ४२ ॥
वरं प्राप्स्यसि मामेव दमयन्तीव नैषधम् ॥
सोऽहं जित्वा नृपान्सर्वान्प्राप्य त्वां वरवर्णिनीम् ॥४३॥
स्वराष्ट्रस्थोऽखिलान्भोगान्भोक्ष्ये वर्षगणान्बहून् ॥
इष्ट्वा च विविधैर्यज्ञैर्वाजिमेधादिभिः शुभैः ॥ ४४ ॥
सन्तर्प्य पितृदेवर्षीन्दानैश्च द्विजसत्तमान् ॥
सम्पूज्य देवदेवेशं शङ्करं लोकशङ्करम् ॥ ४५ ॥
पुत्रे राज्यधुरं न्यस्य गन्तास्मि तपसे वनम् ॥
तत्रागस्त्यान्मुनिवराद्ब्रह्मज्ञानमवाप्य च ॥ ४६ ॥
त्वया सह गमिष्यामि शिवस्य परमं पदम् ।
चतुर्दश्यां चतुर्दश्यामेवं सम्पूज्य शङ्करम् ॥ ४७ ॥
सप्तजन्मसु राजस्त्वं भविष्यति वरानने ॥
इत्येतत्सुकृतं लब्धं पूज़ादर्शनमात्रतः ॥
क्व सारमेयो दुष्टात्मा क्वेदृशी बत सङ्गतिः॥ ४८ ।
॥ सूत उवाच॥
इत्युक्तो निजनाथेन सा राज्ञी शुभलक्षणा ॥ ४९ ॥
परं विस्मयमापन्ना पूजयामास तं मुदा ॥
सोऽपि राजा तया सार्द्धं भुक्त्वा भोगान्यथेप्सितान् ॥ ३.३.४.५० ॥
जगाम सप्तजन्मान्ते शम्भोस्तत्परमं पदम् ॥
य एतच्छिवपूजाया माहात्म्यं परमाद्भुतम् ॥
शृणुयात्कीर्तयेद्वापि स गच्छेत्परमं पदम्॥ ५१ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे चतुर्दशीमाहात्म्यवर्णनं नाम चतुर्थो ऽध्यायः ॥ ४ ॥