॥ राजोवाच ॥ ॥
किं दृष्टं भवता ब्रह्मन्नाश्चर्यं पथि कुत्र वा ॥
तन्ममाख्याहि येनाहं कृतकृत्यत्वमाप्नुयाम्॥ १ ॥
॥ गौतम उवाच ॥ ॥
गोकर्णादहमागच्छन्क्वापि देशे विशाम्पते ॥
जाते मध्याह्नसमये लब्ध वान्विमलं सरः ॥ २ ॥
तत्रोपस्पृश्य सलिलं विनीय च पथिश्रमम् ॥
सुस्निग्धशीतलच्छायं न्यग्रोधं समुपाश्रयम् ॥ ३ ॥
अथाविदूरे चाण्डालीं वृद्धामन्धां कृशाकृतिम् ॥
शुष्यन्मुखीं निराहारां बहुरोगनिपीडिताम् ॥ ४ ॥
कुष्ठव्रणपरीताङ्गीमुद्यत्कृमिकुलाकुलाम् ॥
पूयशोणितसंसक्तजरत्पटल सत्कटीम्॥ ५ ॥
महायक्ष्मगलस्थेन कण्ठसंरोधविह्वलाम् ॥
विनष्टदन्तामव्यक्तां विलुठन्तीं मुहुर्मुहुः ॥ ६ ॥
चण्डार्ककिरणस्पृष्टखरोष्णरजसाप्लुताम्॥
विण्मूत्रपूयदिग्धाङ्गीमसृग्गन्धदुरासदाम् ॥ ७ ॥
कफरोगबहुश्वासश्लथन्नाडीबहुव्यथाम् ॥
विध्वस्तकेशावयवामपश्यं मरणोन्मुखीम् ॥ ८ ॥
तादृग्व्यथां च तां वीक्ष्य कृपयाहं परिप्लुतः ॥
प्रतीक्षन्मरणं तस्याः क्षणं तत्रैव संस्थितः ॥ ९ ॥
अथान्तरिक्षपदवीं सिञ्चन्तमिव रश्मिभिः ॥
दिव्यं विमानमानीतमद्राक्षं शिवकिङ्करैः ॥ ३.३.३.१० ॥
तस्मिन्रवीन्दुवह्नीनां तेजसामिव पञ्जरे ॥
विमाने सूर्यसङ्काशानपश्यं शिवकिङ्करान् ॥ ११ ॥
ते वै त्रिशूलखट्वाङ्गटङ्कचर्मासिपाणयः ॥
चन्द्रार्धभूषणाः सान्द्रचन्द्रकुन्दोरुवर्चसः ॥ १२ ॥
किरीटकुण्डलभ्राजन्महाहिवलयोज्ज्वलाः ॥
शिवानुगा मया दृष्टा श्चत्वारः शुभलक्षणाः ॥ १३ ॥
तानापतत आलोक्य विमानस्थान्सुविस्मितः ॥
उपसृत्यान्तिके वेगादपृच्छं गगने स्थितान् ॥ १४ ॥
नमोनमो वस्त्रिदशोत्तमेभ्यस्त्रिलोचनश्रीचरणानुगेभ्यः ॥
त्रिलोकरक्षाविधिमावहद्भ्यस्त्रिशूलचर्मासिगदाधरेभ्यः ॥ १५ ॥
विदिता हि मया यूयं महेश्वरपदा नुगाः ॥
इयं वो लोकरक्षार्था गतिराहो विनोदजा ॥ ।६ ॥
उत सर्वजनाघौघविजयाय कृतोद्यमाः ॥
ब्रूत कारुण्यतो मह्यं यस्माद्यूयमिहागताः ॥ १७ ॥
॥ शिवदूता ऊचुः ॥ ॥
एषाग्रे दृश्यते वृद्धा चाण्डाली मरणोन्मुखी ॥
एतामानेतुमायाताः सन्दिष्टा प्रभुणा वयम् ॥ १८ ॥
इत्युक्ते शिवदूतैस्तैरपृच्छं पुनरप्यहम् ॥
विस्मयाविष्टचित्तस्तान्कृताञ्जलिरवस्थितः ॥ १९ ॥
अहो पापीयसी घोरा चाण्डाली कथमर्हति ॥
दिव्यं विमानमारोढुं शुनीवाध्वरमण्डलम् ॥ ३.३.३.२० ॥
आजन्मतोऽशुचिप्राया पापां पापा नुगामिनीम् ॥
कथमेनां दुराचारां शिवलोकं निनीषथ ॥ २१ ॥
अस्या नास्ति शिवज्ञानं नास्ति घोरतरं तपः ॥
सत्यं नास्ति दया नास्ति कथमेनां निनीषथ ॥ २२ ॥
पशुमांसकृताहारा वारुणीपूरितोदराम् ॥
जीवहिंसारतां नित्यं कथमेनां निनीषथ ॥ २३ ॥
न च पञ्चाक्षरी जप्ता न कृतं शिवपूजनम्॥
न ध्यातो भगवाञ्छम्भुः कथमेनां निनीषथ ॥ २४ ॥
नोपोषिता शिवतिथिर्न कृतं शिवपूजनम् ॥
भूतसौहृदं न जानाति न च बिल्वशिवार्पणम्॥
नेष्टापूर्तादिकं वापि कथमेनां निनीषथ ॥ २५ ॥
न च स्नातानि तीर्थानि न दानानि कृतानि च ॥
न च व्रतानि चीर्णानि कथमेनां निनीषथ ॥ २६ ॥
ईक्षणे परिहर्त्तव्या किमु सम्भाषणादिषु ॥
सत्सङ्गरहितां चण्डां कथमेनां निनीषथ ॥ २७ ॥
जन्मान्तरार्जितं किञ्चिदस्याः सुकृतमस्ति वा ॥
तत्कथं कुष्ठरोगण कृमिभिः परिभूयते ॥ २८ ॥
अहो ईश्वरचर्येयं दुर्विभाव्या शरीरिणाम् ॥
पापात्मानोऽपि नीयन्ते कारुण्यात्परमं पदम् ॥ २९ ॥
इत्युक्तास्ते मया दूता देवदेवस्य शूलिनः ॥
प्रत्यूचुर्मामथ प्रीत्या सर्वसंशयभेदिनः ॥ ३.३.३.३० ॥
॥ शिवदूता ऊचुः ॥ ॥
ब्रह्मन्सुमहदाश्चर्यं शृणु कौतूहलं यदि ॥
इमामुद्दिश्य चाण्डालीं यदुक्तं भवताधुना ॥ ३१ ॥
आसीदियं पूर्वभवे काचिद्ब्राह्मणकन्यका ॥
सुमित्रानाम सम्पूर्णसोमबिम्बसमानना ॥ ३२ ॥
उत्फुल्लमल्लिकादामसुकुमाराङ्गलक्षणा ॥
कैकेयद्विजमुख्यस्य कस्यचित्तनया सती ॥ ३३ ॥
तां सर्वलक्षणोपेतां रतेर्मूर्तिमिवापराम्॥
वर्द्धमानां पितुर्गेहे वीक्ष्यासन्विस्मिता जनाः ॥ ३४ ॥
दिनेदिने वर्धमाना बन्धुभिर्लालिता भृशम् ॥
सा शनैर्यौवनं भेजे स्मरस्येव महाधनुः ॥ ३५ ॥
अथ सा बन्धुवर्गैश्च समेतेन कुमारिका ॥
पित्रा प्रदत्ता कस्मैचिद्विधिना द्विजसूनवे॥ ३६ ॥
सा भर्त्तारमनुप्राप्य नवयौवनशालिनी ॥
कञ्चित्कालं शुभाचारा रेमे बन्धुभिरावृता ॥ ३७ ॥
अथ कालवशात्तस्याः पतिस्तीव्र रुजार्दितः ॥
रूपयौवनकान्तोपि पञ्चत्वमगमन्मुने ॥ ३८ ॥
मृते भर्त्तरि दुःखेन विदग्धहदया सती ॥
उवास कतिचिन्मासान्सुशीला विजितें द्रिया ॥ ३९ ॥
अथ यौवनभारेण जृम्भमाणेन नित्यशः ॥
बभूव हृदयं तस्याः कन्दपर्परिकम्पितम् ॥ ३.३.३.४० ॥
सा गुप्ता बन्धुवर्गेण शासितापि महोत्तमैः ॥
न शशाक मनो रोद्धं मदनाकृष्टमङ्गना ॥ ४१ ॥
सा तीव्रमन्मथाविष्टा रूपयौवनशालिनी ॥
विधवापि विशेषेण जारमार्गरताभवत् ॥ ४२ ॥
न ज्ञाता केनचिदपि जारिणीति विचक्षणा ॥
जुगूहात्मदुराचारं कञ्चित्कालमसत्तमा ॥ ४३ ॥
तां दोहदसमाक्रान्तां घननीलमुखस्तनीम् ॥
कालेन बन्धुवर्गोपि बुबोध विटदूषिताम् ॥ ४४ ॥
इति भीतो महाक्लेशाच्चिन्ता लेभे दुरत्ययाम् ॥
स्त्रियः कामेन नश्यन्ति ब्राह्मणा हीनसेवया॥।४५॥
राजानो ब्रह्मदण्डेन यतयो भोगसङ्ग्रहात्॥
लीढं शुना तथैवान्नं सुरया वार्पितं पयः॥४६॥
रूपं कुष्ठरुजाविष्टं कुलं नश्यति कुस्त्रिया॥
इति सर्वे समालोच्य समेताः पतिसोदराः ॥ ४७॥
तत्यजुर्गोत्रतो दूरं गृहीत्वा सकचग्रहम् ॥
सघटोत्सर्गमुत्सृष्टा सा नारी सर्वबन्धुभिः॥ ४८
विचरन्ती च शूद्रेण रममाणा रतिप्रिया ॥
सा ययौ स्त्री बहिर्यामा दृष्टा शूद्रेण केनचित् ॥ ४९ ॥
स तां दृष्ट्वा वरारोहाँ पीनोन्नतपयोधराम् ॥
गृहं निनाय साम्ना च विधवां शूद्रनायकः ॥
सा नारी तस्य महिषी भूत्वा तेन दिवानिशम् ॥ ३.३.३.५०॥
रममाणा क्वचिद्देशे न्यवसद्गृहवल्लभा ॥
तत्र सा पिशिताहारा नित्यमापीतवारुणी॥५१॥
लेभे सुतं च शूद्रेण रममाणा रतिप्रिया ॥
कदाचिद्भर्त्तरि क्वापि याते पीतसुरा तु सा॥५२॥
इयेष पिशिताहारं मदिरामदविह्वला ॥
अथ मेषेषु बद्धेषु गोभिः सह बहिर्व्रजे ॥ ५३ ॥
ययौ कृपाणमादाय सा तमीन्धे निशामुखे ॥
अविमृश्य मदावेशान्मेषबुद्ध्यामिषप्रिया ॥ ५४ ॥
एकं जघानं गोवत्सं क्रोशन्तं निशि दुर्भगा ॥
निहतं गृहमानीय ज्ञात्वा गोवत्समङ्गना ॥ ५५ ॥
भीता शिवशिवेत्याह केनचित्पुण्यकर्मणा ॥
सा मुहूर्तमिति ध्यात्वा पिशितासवलालसा ॥ ५६ ॥
छित्त्वा तमेव गोवत्सं चकाराहारमीप्सितम् ॥
गोवत्सार्धशरीरेण कृताहाराथ सा पुनः ॥ ५७ ॥
तदर्धदेहं निक्षिप्य बहिश्चुक्रोश कैतवात् ॥
अहो व्याघ्रेण भग्नोऽयं जग्धो गोवत्सको व्रजे ॥ ५८॥
इति तस्याः समाक्रन्दः सर्वगेहेषु शुश्रुवे ।
अथ सर्वे शूद्रजनाः समागम्यान्तिके स्थिताः ॥ ५९॥
हतं गोवत्समालोक्य व्याघ्रेणेति शुचं ययुः ॥
गतेषु तेषु सर्वेषु व्युष्टायां च ततो निशि ॥ ३.३.३.६० ॥
तद्भर्ता गृहमागत्य दृष्टवान्गृहविड्वरम् ।
एवं बहुतिथे काले गते सा शूद्ववल्लभा ॥ ६१ ।
कालस्य वशमापन्ना जगाम यममन्दिरम् ।
यमोपि धर्ममालोक्य तस्याः कर्म च पौर्विकम् ॥ ६२ ॥
निर्वत्र्य निरयावासाञ्चक्रे चण्डालजातिकाम् ॥
सापि भ्रष्टा यमपुराच्चाण्डालीगर्भमाश्रिता ॥ ६३ ॥
ततो बभूव जात्यन्धा प्रशान्ताङ्गारमेचका ॥
तत्पिता कोपि चाण्डालो देशे कुत्रचिदास्थितः ॥ ६४ ॥
तां तादृशीमपि सुतां कृपया पर्यपोषयत् ॥
अभोज्येन कदन्नेन शुना लीढेन पूतिना ॥ ६५ ॥
अपेयैश्च रसैर्मात्रा पोषिता सा दिनेदिने ॥
जात्यन्धा सापि कालेन बाल्ये कुष्ठरुजार्दिता ॥ ६६ ॥
ऊढा न केनचिद्वापि चाण्डालेनातिदुर्भगा ॥
अतीतबाल्ये सा काले विध्वस्तपितृमातृका ॥ ६७ ॥
दुर्भगेति परित्यक्ता बन्धुभिश्च सहोदरैः ॥
ततः क्षुधार्दिता दीना शोचन्ती विगतेक्षणा ॥ ६८ ॥
गृहीतयष्टिः कृच्छ्रेण सञ्चचाल सलोष्टिका ॥
पत्तनेष्वपि सर्वेषु याचमाना दिनेदिने ॥ ६९ ॥
चाण्डालोच्छिष्टपिण्डेन जठराग्निमतर्पयत्॥
एवं कृच्छ्रेण महता नीत्वा सुबहुलं वयः ॥ ३.३.३.७० ॥
जरया ग्रस्तसर्वाङ्गी दुःखमाप दुरत्ययम् ॥
निरन्नपानवसना सा कदाचिन्महाजनान्॥ ७१ ॥
आयास्यन्त्यां शिवतिथौ गच्छतो बुबुधेऽध्वगान्॥
तस्यां तु देवयात्रायां देशदेशान्तयायिनाम् ॥ ७२ ॥
विप्राणां साग्निहोत्राणां सस्त्रीकाणां महात्मनाम्॥
राज्ञां च सावरोधानां सहस्तिरथवाजिनाम् ॥ ७३ ॥
सपरीवारघोषाणां यानच्छत्रादिशोभिनाम् ॥
तथान्येषां च विट्शूद्रसङ्कीर्णानां सहस्रशः ॥ ७४ ॥
हसतां गायतां क्वापि नृत्यतामथ धावताम् ॥
जिघ्रतां पिबतां कामाद्गच्छतां प्रतिगर्जताम् ॥ ७५ ॥।
सम्प्रयाणे मनुष्याणां सम्भ्रमः सुमहानभूत् ॥
इति सर्वेषु गच्छत्सु गोकर्णं शिवमन्दिरम् ॥ ७६ ॥
पश्यन्ति दिविजाः सर्वे विमानस्थाः सकौतुकाः ॥
अथेयमपि चाण्डाली वसनाशनतृष्णया ॥ ७७ ॥
महाजनान्याचयितुं चचाल च शनैःशनैः ॥
करावलम्बेनान्यस्याः प्राग्जन्मार्जितकर्मणा ॥
दिनैः कतिपयैर्याती गोकर्णं क्षेत्रमाययौ ॥ ७८ ॥
ततो विदूरे मार्गस्य निषण्णा विवृताञ्जलिः ॥
याचमाना मुहुः पान्थान्बभाषे कृपणं वचः ॥ ७९ ॥
प्राग्जन्मार्जितपापौघैः पीडितायाश्चिरं मम ॥
आहारमात्रदानेन दयां कुरुत भो जनाः ॥ ३.३.३.८० ॥
त्रातारः परमार्तानां दातारः परमाशिषाम् ॥
कर्तारो बहुपुण्यानां दयां कुरुत भो जनाः ॥ ८१ ॥
वसनाशनहीनायां स्वपितायां महीतले ॥
महापांसुनिमग्नायां दयां कुरुत भो जनाः ॥ ८२ ॥
महाशीतातपार्त्तायां पीडितायां महारुजा ॥
अन्धायां मयि वृद्धायां दयां कुरुत भो जनाः ॥ ८३ ॥
चिरोपवासदीप्तायां जठराग्निविवर्धनैः ॥
सन्दह्यमानसर्वाङ्ग्यां दयां कुरुत भो जनाः ॥ ८४ ॥
अनुपार्जितपुण्यायां जन्मान्तरशतेष्वपि ॥
पापायां मन्दभाग्यायां दयां कुरुत भो जनाः ॥८५॥
एवमभ्यर्थयन्त्यास्तु चाण्डाल्याः प्रसृतेंऽजलौ ॥
एकः पुण्यतमः पान्थः प्राक्षिपद्बिल्वमञ्जरीम् ॥ ८६ ॥
तामञ्चलौ निपतितां सा विमृश्य पुनः पुनः ॥
अभक्ष्येत्येव मत्वाथ दूरे प्राक्षिपदातुरा ॥ ८७ ॥
तस्याः करेण निर्मुक्ता रात्रौ सा बिल्वमञ्जरी ॥
पपात कस्यचिद्दिष्ट्या शिवलिङ्गस्य मस्तके ॥ ८८ ॥
सैवं शिवचतुर्दश्यां रात्रौ पान्थजनान्मुहुः ॥
याचमानापि यत्किञ्चिन्न लेभे दैवयोगतः ॥ ८९ ॥
तत्रोषितानया रात्रिर्भद्रकाल्यास्तु पृष्ठतः ॥
किञ्चिदुत्तरतः स्थानं तदर्धेनातिदूरतः ॥ ३.३.३.९० ॥
ततः प्रभाते भ्रष्टाशा शोकेन महताप्लुता ॥
शनैर्निववृते दीना स्वदेशायैव केवला ॥ ९१ ॥
श्रान्ता चिरोपवासेन निपतन्ती पदेपदे ॥
क्रन्दन्ती वहुरोगार्ता वेपमाना भृशातुरा ॥ ९२ ॥
दह्यमानार्कतापेन नग्नदेहा सयष्टिका॥
अतीत्यैतावतीं भूमिं निपपात विचेतना॥९३॥
अथ विश्वेश्वरः शम्भुः करुणामृतवारिधिः॥
एनामानयतेत्त्यस्मान्युयुजे सविमानकान्॥९४॥
एषा प्रवृत्तिश्चाण्डाल्यास्तवेह परिकीर्त्तिता॥
तथा सन्दर्शिता शम्भोः कृपणेषु कृपालुता॥
कर्मणः परिपाकोत्थां गतिं पश्य महामते ॥
अधमापि परं स्थानमारोहति निरामयम् ॥ ९६ ॥
यदेतया पूर्वभवे नान्नदानादिकं कृतम् ॥
क्षुत्पिपासादिभिः क्लेशैस्तस्मादिह निपीड्यते ॥ ९७ ॥
यदेषा मदवेगान्धा चक्रे पापं महोल्बणम्॥
कर्मणा तेन जात्यन्धा बभूवात्रैव जन्मनि ॥ ९८ ॥
अपि विज्ञाय गोवत्सं यदेषाऽभक्षयत्पुरा ॥
कर्मणा तेन चाण्डाली बभूवेह विगर्हिता ॥ ९९ ॥
यदेषार्यपथं हित्वा जारमार्गरता पुरा ॥
तेन पापेन केनापि दुर्वृत्ता दुर्भगापि वा ॥ ॥ ३.३.३.१०० ॥
यदाश्लिष्य मदाविष्टा जारेण विधवा पुरा ॥
तेन पापेन महता बहुकुष्ठव्रणान्विता ॥ १०१ ॥
कामार्त्ता यदियं स्वैरं शूद्रेण रमिता पुरा ॥
महासृक्पूयकृमिभिः पीड्यते तेन पाप्मना ॥ २ ॥
सुव्रतानि न चीर्णानि नेष्टापूतार्दिकं कृतम् ॥
सर्वभोगविहीनेयं दूयते तेन पाप्मना ॥ ॥ ३ ॥
यदेतया पूर्वभवे सुरा पीता विमूढया ॥
महायक्ष्मार्तिहृच्छूलैः पीड्यते तेन पाप्मना ॥ ४ ॥
अत्रैव सर्वमर्त्येषु पापचिह्नानि कृत्स्नशः ॥
लक्ष्यते मुनिशार्दूल सविवेकैर्महात्मभिः ॥ ५ ॥
अत्र ये बहुरोगार्त्ता ये पुत्रधनवर्जिताः ॥ ६ ॥
ये च दुर्लक्षणक्लिष्टा याचका विगतह्रियः ॥
वासोन्नपानशयनभूषणाभ्यञ्जनादिभिः ॥ ७ ॥
हीना विरूपा निर्विद्या विकलाङ्गाः कुभोजनाः ॥
ये दुर्भाग्या निन्दिताश्च ये चान्ये परसेवकाः ॥ ॥ ८ ॥
एते पूर्वभवे सर्वे सुमहत्पापकारिणः ॥
एवं विमृश्य यत्नेन दृष्ट्वा लोकजनस्थितिम् ॥ ९ ॥
बुधो न कुरुते पापं यदि कुर्यात्स आत्महा ॥
देहोऽयं मानुषो जन्तोर्बहुकर्मैकभाजनम् ॥ ३.३.३.११० ॥
सदा सत्कर्म सेवेत दुष्कर्म सततं त्यजेत् ॥
पुण्यं सुखार्थी कुर्वीत दुःखार्थी पापमाचरेत् ॥ ॥ ११ ॥
द्वयोरेकतरे लोके गृहीते कुशलो जनः ॥
इमं मानुषमाश्रित्य देहं परमदुर्लभम् ॥ १२ ॥
य आत्महितवान्कश्चिद्देवमेकं समाश्रयेत् ॥
अथ पापानि सर्वाणि कुर्वन्नपि सदा नरः ॥ १३ ॥
शिवमेकमतिर्ध्यायेत्स सन्तरति पातकम् ॥
मृता पूर्वभवे त्वेषा यदा प्राप्ता यमालये ॥ १४ ॥
तदा वितर्कः सुमहानासीद्यमसभासदाम् ॥
यद्यपि ब्राह्मणी त्वेषा सत्कुलाचारदूषिता ॥ १५ ॥
अतोऽस्माभिरिहानीता निरयं यातु वा न वा ॥
अनया साधितो बाल्ये पुण्यलेशोऽस्ति वा न वा ॥ १६ ॥
अथापि सुविमृश्यैवं धार्यो दण्डोऽत्र नान्यथा ॥
बहुजन्मसहस्रेषु कृतपुण्यविपाकतः॥ ॥ १७ ॥
नृणां ब्रह्मकुले जन्म लभ्यते हि कथञ्चन ॥
अतोस्याः पूर्वपूर्वेषु कृताघं नास्ति जन्मसु॥१८॥
अन्यथा सत्कुले जन्म कथमेषा प्रपद्यते॥
अत्रैव जन्मन्यनया कृतमंहो दुरत्ययम् ॥ १९ ॥
अथापि नरकावासं प्रायशो नेयमर्हति ॥
किन्तु गोवत्सकं हत्वा विमृश्यागतसाध्वसा ॥ ३.३.३.१२० ॥
एषा शिवशिवेत्याह प्राग्जन्मार्जितकर्मणा ॥
यदेषा पापविच्छित्त्यै सकृदप्युरुमङ्गलम् ॥ २१ ॥
शिवनाम वदेद्भक्त्या तर्हि गच्छेत्परं पदम् ॥
एकजन्मकृतस्यास्य दारुणस्यापि यत्फलम् ॥ २२ ॥
क्रमेणानुभवत्वेषा भूत्वा चाण्डालजातिका ॥
अस्मादन्यतमः को वा नरकोऽस्ति नृणा मिह ॥ २३ ॥
अनेकक्लेशसङ्घातैर्यन्मुहुः परिपीडनम् ॥
दुष्कुले जन्म दारिद्र्यं महाव्याधिर्विमूढता ॥ २४ ॥
एकैक एव नरकः सर्वे वा चाथ किं पुनः ॥
प्राग्जन्मपुण्यभारेण यन्नाम विवशाऽब्रवीत् ॥ २५ ॥
तेनैषान्यभवे भूरि पुण्यमन्ते करिष्यति ॥
तेन पुण्येन महता निस्तीर्याघौघया तनाः ॥ २६ ॥
नीता तत्पुरुषैरन्ते प्रयास्यति परं पदम् ॥
एतादृशानां मर्त्यानां शास्तारो न वयं क्वचित् ॥
विचार्य स्वयमेवेशो यद्युक्तं तत्करोतु सः ॥ २७ ॥
एवं वैवस्वतपुरे सर्वैर्यमपुरोगमैः ॥
विमृश्य चित्रगुप्ताद्यैरियं मुक्ताऽपतद्भुवि ॥ २८ ॥
आदौ यदेषा शिवनाम नारी प्रमादतो वाप्य सती जगाद ॥
तेनेह भूयः सुकृतेन शम्भोर्बिल्वाङ्कुराराधनपुण्यमाप ॥ २९ ॥
श्रीगोकर्णे शिवतिथावुपोष्य शिवमस्तके ॥
कृत्वा जागरणं ह्येषा चक्रे बिल्वार्पणं निशि ॥ ३.३.३.१३० ॥
अकामतः कृतस्यास्य पुण्यस्यैव च यत्फलम् ॥
अद्यैव भोक्ष्यते सेयं पश्यतस्तव नो मृषा ॥ ३१ ॥ ॥
॥ गौतम उवाच ॥ ॥
इत्युक्त्वा शिवदूतास्ते तस्याश्चाण्डालयोनितः ॥
जीवलेशं समाकृष्य युयुजुर्दिव्यतेजसा ॥ ३२ ॥
तां दिव्यदेहसङ्क्रान्तां तेजोराशिसमुज्ज्वलाम्॥
विमाने स्थापयामासुः प्रीतास्ते शिवकिङ्कराः ॥ ३३ ॥
अथ सा परमोदाररूपलावण्यशालिनी ॥
दिव्यभूषणदीप्ताङ्गी दिव्याम्बरविधारिणी ॥ ३४ ॥
देहेन दिव्यगन्धेन दिव्यतेजोविकाशिना ॥
दिव्यमाल्यावतंसेन विरराज विमानगा ॥ ३५ ॥
रत्नच्छत्रपताकाद्यैर्गीतवादित्रनिस्वनैः ॥
मध्ये सा शिवदूतानां मोदमाना वरानना ॥ ३६ ॥
अनुभूतानि जन्मानि स्मृत्वास्मृत्वा पुनःपुनः ॥
भीता त्रस्ता दृढा श्चर्यं दृष्ट्वा स्वप्नमिवोत्थिता ॥ ३७ ॥
काहं केऽमी महासिद्धाः कोयं लोको मनोरमः ॥
क्व गतं मे वपुः कष्टं चण्डचाण्डालगोत्रजम् ॥ ३८ ॥
अहो सुमहदाश्चर्यं दृष्टं मायाविलासजम् ॥
यन्मे भवसहस्रेषु भ्रातम्भ्रान्तं पुनःपुनः ॥ ३९ ॥
अहो ईश्वरपूजाया माहात्म्यं विस्मयावहम् ॥
पत्रमात्रेण सन्तुष्टो यो ददाति निजं पदम् ॥ ३.३.३.१४० ॥
इति तां जातनिर्वेदां स्मरन्तीं भगवत्पदम् ॥
दिव्यं विमानमारोप्य ते महेश्वरकिङ्कराः ॥ ॥ ४१ ॥
आलोकयत्सु सर्वेषु लोकेशेषु सविस्मयम् ॥
आमन्त्र्य तामथानिन्युः परमेश्वरसन्निधिम् ॥ ४२ ॥
राजन्सुमहदाश्चर्यमाख्यातं गिरिजा पतेः ॥
माहात्म्यं भक्तिलेशस्य सर्वाघौघविनाशनम् ॥ ४३ ॥
॥ राजोवाच ॥ ॥
भगवन्परमेशस्य कीदृशो लोक उत्तमः ॥
तस्य मे लक्षणं ब्रूहि यद्यस्ति मयि ते दया ॥ ४४ ॥
॥ गौतम उवाच ॥ ॥
ब्रह्मादिसुरनाथानां लोकेष्वपि सुदुर्लभः ॥
य आनन्दः सदा यत्र स लोकः पारमेश्वरः ॥ ४५ ॥
सर्वातिगमनं यत्र ज्योतिर्यत्र प्रतिष्ठितम् ॥
क्वापि नास्ति तमोयोगः स लोकः पारमेश्वरः ॥ ४६ ॥
गुणवृत्ति विनिस्तीर्य सम्प्राप्ता यत्र योगिनः ॥
न पतेयुः पुनः सर्वे स लोकः पारमेश्वरः ॥ ४७ ॥
यत्र वासं न कुर्वन्ति क्रोधलोभमदादयः ॥
यत्रावस्था न जन्माद्याः स लोकः पारमेश्वरः ॥ ४८ ॥
सर्वेषां निगमानां च यदेकं क्षेत्रमुच्यते ॥
यस्मान्नास्ति परं वित्तं तत्पदं पारमेश्वरम् ॥ ४९ ॥
प्रत्याहारासन ध्यानप्राणसंयमनादिभिः ॥
यत्र योगपथैः प्राप्तुं यतते योगिनः सदा ॥ ३.३.३.१५० ॥
यत्र देवः सदानन्दनिर्मलज्ञानरूपया ॥
अस्ति देव्या सह क्रीडञ्स लोकः पारमेश्वरः ॥ ५१ ॥
जन्मानेकसहस्रेषु सम्भृतैः पुण्यराशिभिः ॥
आरूढाः पुरुषा नार्यः क्रीडन्ते यत्र सङ्गताः ॥ ५२ ॥
तेजो राशौ समालीना दुर्विभाव्ये मनोरमे ॥
अहोरात्रादिसंस्थानं न विन्दन्ति कदाचन ॥ ५३ ॥
स लोकः परमेशस्य दुर्लभो हि कुयोगिनः ॥
एतद्भक्ति सुपूर्णा ये तैरेव प्रतिपद्यते ॥ ५४ ॥
ये तत्कथाश्रवणकीर्तनजातहर्षा ये सर्वभूतसुहृदः प्रशमैकनिष्ठाः ॥
संसारचक्रमतिवाह्य निरस्तमोहास्ते शाङ्करं पदमवाप्य सुखं रमन्ते ॥ ५५ ॥
तथा त्वमपि राजेन्द्र गोकर्णं गिरिशालयम् ॥
गत्वा प्रशमिताघौघः कृतकृत्यत्वमाप्नुहि ॥ ५६ ॥
तत्र सर्वेषु कालेषु स्नात्वाभ्यर्च्य महाबलम् ॥
कृत्वा शिवचतुर्दश्यामुपवासं समाहितः ॥ ५७ ॥
कृत्वा जागरणं रात्रौ बिल्वैरभ्यर्च्य शङ्करम् ॥
सर्वपापविनिर्मुक्तः शिवलोकमवाप्स्यसि ॥ ५८ ॥
एष ते विमलो राजन्नुपदेशो मया कृतः ॥
स्वस्ति तेऽस्तु गमिष्यामि मिथिलाधिपतेः पुरीम् ॥ ५९ ॥
इत्यामन्त्र्य मुनिः प्रीत्या गौतमो मिथिलां ययौ ॥
सोऽपि हृष्टमना राजा गोकर्णं प्रत्यपद्यत ॥ ३.३.३.१६० ॥
तत्र दृष्ट्वा महादेवं स्नात्वाभ्यर्च्य महाबलम् ॥
निर्धूताशेषपापौघो लेभे शम्भोः परं पदम् ॥ ६१ ॥
य इमां शृणुयान्नित्यं कथां शैवीं मनोहराम् ॥
श्रावयेद्वा जनो भक्त्या स याति परमां गतिम् ॥ ६२ ॥
श्रद्दधानः सकृद्वापि य इमां शृणुयात्कथाम् ॥
त्रिःसप्तकुलजैः सार्धं शिवलोकमवाप्नुयात् ॥ ६३ ॥
इति कथितमशेषं श्रेयसामादिबीजं भवशतदुरितघ्नं ध्वस्तमोहान्धकारम् ॥
चरितममरगेयं मन्मथारेरुदारं सततमपि निषेव्यं स्वस्तिमद्भिश्च लोकैः ॥ ॥१६४॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे शिवचतुर्दशीगोकर्णमाहात्म्यवर्णनन्नाम तृतीयोऽध्यायः ॥ ॥ ३ ॥