॥ सूत उवाच ॥ ॥
अथान्यदपि वक्ष्यामि माहात्म्यं त्रिपुरद्विषः ॥
श्रुतमात्रेण येनाशु च्छिद्यन्ते सर्वसंशयाः ॥ १ ॥
अतः परतरं नास्ति किञ्चित्पापविशोधनम् ॥
सर्वानन्दकरं श्रीमत्सर्वकामार्थसाधम् ॥ २ ॥
दीर्घायुर्विजयारोग्यभुक्तिमुक्तिफलप्रदम् ॥
यदनन्येन भावेन महे शाराधनं परम् ॥ ३॥
आर्द्राणामपि शुष्काणामल्पानां महतामपि ॥
एतदेव विनिर्दिष्टं प्रायश्चितमथोत्तमम् ॥ ४ ॥
सर्वकालेऽप्यभेद्यानामघानां क्षयकारणम् ॥
महामुनिविनिर्दिष्टैः प्रायश्चित्तैरथोत्तमैः ॥ ५॥
इयमेव परं श्रेयः सर्वशास्त्रविनिश्चितम्॥
यद्भक्त्या परमेशस्य पूजनं परमो दयम्॥ ६॥
जानताऽजानता वापि येन केनापि हेतुना ॥
यत्किञ्चिपि देवाय कृतं कर्म विमुक्तिदम् ॥ ७ ॥
माघे कृष्णचतुर्द्दश्यामुपवासोऽति दुर्लभः॥
तत्रापि दुर्लभं मन्ये रात्रौ जागरणं नृणाम् ॥ ८॥
अतीव दुर्लभं मन्ये शिवलिङ्गस्य दर्शनम् ॥
सुदुर्लभतरं मन्ये पूजनं परमेशितुः ॥ ॥ ९॥
भवकोटिशतोत्पन्नषुण्यराशिविपाकतः॥
लभ्यते वा पुनस्तत्र बिल्वपत्रार्चनं विभोः ॥ ३.३.२.१० ॥
वर्षाणामयुतं येन स्नातं गङ्गासरिज्जले ।
सकृद्बिल्वार्चनेनैव तत्फलं लभते नरः॥११॥
यानियानि तु पुण्यानि लीनानीह युगेयुगे ॥
माघेऽसितचतुर्दश्यां तानि तिष्ठन्ति कृत्स्नशः ॥ १२ ॥
एतामेव प्रशंसन्ति लोके ब्रह्मादयः सुराः ॥
मुनयश्च वशिष्ठाद्या माघेऽसितचतुर्दशीम् ॥ १३ ॥
अत्रोपवासः केनापि कृतः क्रतुशताधिकैः ॥
रात्रौ जागरणं पुण्यं कल्पकोटितपोऽधिकम् ॥ १४॥
एकेन बिल्वपत्रेण शिवलिङ्गार्चनं कृतम् ॥
त्रैलोक्ये तस्य पुण्यस्य को वा सादृश्यमिच्छति ॥ १५ ॥
अत्रानुवर्ण्यते गाथा पुण्या परमशोभना ॥
गोपनीयापि कारुण्याद्गौतमेन प्रकाशिता ॥ १६ ॥
इक्ष्वाकुवंशजः श्रीमान्राजा परम धार्मिकः॥
आसीन्मित्रसहोनाम श्रेष्ठः सर्वधनुर्भृताम्॥ १७॥
स राजा सकलास्त्रज्ञः शास्त्रज्ञः श्रुतिपारगः ॥
वीरोऽत्यन्तबलोत्साहो नित्योद्योगी दयानिधिः॥ १८॥
पुण्यानामिव सङ्घातस्तेजसामिव पञ्जरः ॥
आश्चर्याणामिव क्षेत्रं यस्य मूर्तिर्विराजते ॥ १९ ॥
हृदयं दययाक्रान्तं श्रियाक्रान्तं च तद्वपुः ॥
चरणौ यस्य सामन्तचूडामणिमरीचिभिः ॥ ३.३.२.२० ॥
एकदा मृगयाकेलिलोलुपः स महीपतिः ॥
विवेश गह्वरं घोरं बलेन महतावृतः ॥ ॥ २१ ॥
तत्र विव्याध विशिखैः शार्दूलान्गवयान्मृगान् ॥
रुरून्वराहान्महिषान्मृगेन्द्रानपि भूरिशः ॥ २२ ॥
स रथी मृगयासक्तो गहनं दंशित श्चरन् ॥
कमपि ज्वलनाकारं निजघान निशाचरम् ॥ २३ ॥
तस्यानुजः शुचाविष्टो दृष्ट्वा दूरे तिरोहितः ॥
भ्रातरं निहतं दृष्ट्वा चिन्तयामास चेतसा ॥ २४ ॥
नन्वेष राजा दुर्द्धर्षो देवानां रक्षसामपि ॥
छद्मनैव प्रजेतव्यो मम शत्रुर्न चान्यथा ॥ २५ ॥
इति व्यवसितः पापो राक्षसो मनुजाकृतिः ॥
आससाद नृपश्रेष्ठमुत्पात इव मूर्तिमान् ॥ २६ ॥
तं विनम्राकृतिं दृष्ट्वा भृत्यतां कर्तुमागतम् ॥
चक्रे महानसाध्यक्षमज्ञानात्स महीपतिः ॥ २७ ॥
अथ तस्मिन्वने राजा किञ्चित्कालं विहृत्य सः ॥
निवृत्तो मृगयां हित्वा स्वपुरीं पुनराययौ ॥ २८ ॥
तस्य राजेन्द्रमुख्यस्य मदयन्तीतिनामतः ॥
दमयन्ती नलस्येव विदिता वल्लभा सती ॥ २९ ॥
एतस्मिन्समये राजा निमन्त्र्य मुनिपुङ्गवम् ॥
वशिष्ठं गृहमानिन्ये सम्प्राप्ते पितृवासरे ॥ ३.३.२.३० ॥
रक्षसा सूदरूपेण सम्मिश्रितनरामिषम् ॥
शाकामिषं पुरः क्षिप्तं दृष्ट्वा गुरुरथाब्रवीत् ॥ ३१ ॥
धिग्धिङ्नरामिषं राजं स्त्वयैतच्छद्मकारिणा ॥
खलेनोपहृतं मेऽद्य अतो रक्षो भविष्यसि ॥ ३२ ॥
रक्षःकृतमविज्ञाय शप्त्वैवं स गुरुस्ततः ॥
पुनर्विमृश्य तं शापं चकार द्वादशाब्दिकम् ॥ ३३ ॥
राजापि कोपितः प्राह यदिदं मे न चेष्टितम् ॥
न ज्ञातं च वृथा शप्तो गुरुं चैव शपाम्यहम् ॥ ३४ ॥
इत्यपोञ्जलिनादाय गुरुं शप्तुं समुद्यतः ॥
पतित्वा पादयोस्तस्य मदयन्ती न्यवारयत् ॥३५॥
ततो निवृत्तः शापाच्च तस्या वचनगौरवात् ॥
तत्याज पादयोरम्भः पादौ कल्मषतां गतौ ॥३६॥
कल्मषाङ्घ्रिरिति ख्यातस्ततः प्रभृति पार्थिवः ॥
बभूव गुरुशापेन राक्षसो वनगोचरः ॥३७॥
स बिभ्रद्राक्षसं रूपं घोरं कालां तकोपमम् ॥
चखाद विविधाञ्जन्तून्मानुषादीन्वनेचरः ॥३८॥
स कदाचिद्वने क्वापि रममाणौ किशोरकौ ॥
अपश्यदन्तकाकारो नवोढौ मुनिदम्पती ॥ ॥३९॥
राक्षसो मानुषाहारः किशोरमुनिनन्दनम् ॥
जग्धुं जग्राह शापार्तो व्याघ्रो मृगशिशुं यथा ॥३.३.२.४०॥
रक्षोगृहीतं भर्तारं दृष्ट्वा भीताथ तत्प्रिया ॥
उवाच करुणं बाला क्रन्दन्ती भृशवेपिता ॥ ४१ ॥
भोभो मामा कृथाः पापं सूर्यवंशयशोधर ॥
मदयन्तीपतिस्त्वं हि राजेन्द्रो न तु राक्षसः ॥४२॥
न खाद मम भर्त्तारं प्राणात्प्रियतमं प्रभो ॥
आर्त्तानां शरणार्त्तानां त्वमेव हि यतो गतिः ॥ ४३ ॥
पापानामिव सङ्घातैः किं मे दुष्टैर्जडासुभिः ॥
देहेन चातिभारेण विना भर्त्रा महात्मना ॥ ४४ ॥
मलीमसेन पापेन पाञ्चभौतेन किं सुखम् ॥
बालोयं वेदविच्छान्तस्तपस्वी बहुशास्त्रवित् ॥ ४५ ॥
अतोऽस्य प्राणदानेन जगद्रक्षा त्वया कृता।
कृपां कुरु महाराज बालायां ब्राह्मणस्त्रियाम् ॥ ४६ ॥
अनाथकृपणार्तेषु सघृणाः खलु साधवः ॥ ||
इत्थमभ्यर्थितः सोऽपि पुरुषादः स निर्घृणः ॥ ४७॥
चखाद शिर उत्कृत्य विप्रपुत्रं दुराशयः॥
अथ साध्वी कृशा दीना विलप्य भृशदुःखिता। ॥ ४८ ॥
आहृत्य भर्तुरस्थीनि चितां चक्रे तथोल्बणाम् ॥
भर्तारमनुगच्छन्ती संविशन्ती हुताशनम् ॥ ४९ ॥
राजानं राक्षसाकारं शापास्त्रेण जघान तम् ॥
रेरे पार्थिव पापात्मंस्त्वया मे भक्षितः पतिः ॥ ३.३.२.५० ॥
अतः पतिव्रतायास्त्वं शापं भुङ्क्ष्व यथोल्बणम्॥
अद्यप्रभृति नारीषु यदा त्वमपि सङ्गतः ।
तदा मृतिस्तवेत्युक्त्वा विवेश ज्वलनं सती ॥ ५१ ॥
सोऽपि राजा गुरोः शापमुपभुज्य कृतावधिम् ॥
पुनः स्वरूपमादाय स्वगृहं मुदितो ययौ ॥ ५२ ॥
ज्ञात्वा विप्रसतीशापं तत्पत्नी रतिलालसम् ॥
पतिं निवारयामास वैधव्यातिबिभ्यती ॥ ५३॥
अनपत्यः स निर्विण्णो राज्यभोगेषु पार्थिवः ॥
विसृज्य सकलं लक्ष्मीं ययौ भूयोऽपि काननम् ॥ ५४ ॥
सूर्यवंशप्रतिष्ठित्यै वशिष्ठो मुनिसत्तमः ॥
तस्यामुत्पादयामास मदयन्त्यां सुतोत्तमम् ॥ ५५ ॥
विसृष्टराज्यो राजापि विचरन्सकलां महीम् ॥
आयान्तीं पृष्ठतोऽपश्यत्पिशाचीं घोररूपिणीम् ॥ ५६ ॥
सा हि मूर्तिमती घोरा ब्रह्महत्या दुरत्यया ॥
यदासौ शापविभ्रष्टो मुनिपुत्रमभक्षयत् ॥ ५७ ॥
तेनात्मकर्मणा. यान्तीं ब्रह्महत्यां स पृष्ठतः ॥
बुबुधे मुनिवर्याणामुपदेशेन भूपतिः॥ ५८ ॥
तस्या निर्वेशमन्विच्छन्राजा निर्विण्णमानसः ॥
नानाक्षेत्राणि तीर्थानि चचार बहुवत्सरम् ॥ ॥ ५९ ॥
यदा सर्वेषु तीर्थेषु स्नात्वापि च मुहुर्मुहुः ॥
न निवृत्ता ब्रह्महत्या मिथिलामाययौ तदा ॥
बाह्योद्यानगतस्तस्याश्चिन्तया परयार्दितः। ॥ ३.३.२.६० ॥
ददर्श मुनिमायान्तं गौतमं विमलाशयम्॥
हुताशनमिवाशेषतपस्विजनसेवितम् ॥ ६१ ॥
विवस्वन्तमिवात्यन्तं घनदोषतमोनुदम् ॥
शशाङ्कमिव निःशङ्कमवदातगुणोदयम् ॥ ६२ ॥
महेश्वरमिव श्रीमद्द्विजराजकलाधरम् ॥
शान्तं शिष्यगणोपेतं तपसामेकभाजनम् ॥ ६३ ॥
उपसृत्य स राजेन्द्रः प्रणनाम मुहुर्मुहुः ॥
गौतमोऽपि मुनिश्रेष्ठो राजानं रविवंशजम् ॥ ६१ ॥
अभिनन्द्य मुनिः प्रीत्या संस्मितं समभाषत ॥ ॥ ६९॥ .
॥ गौतम उवाच ॥
कच्चित्ते कुशलं राजन्कच्चित्ते पदमव्ययम् ॥ ६६॥
कुशलिन्यः प्रजाः कच्चिदवरोधजनोपि वा ॥
किमर्थमिह सम्प्राप्तो विसृज्य सकलां श्रियम् ॥ ६७ ॥
किं च ध्यायसि भो राजन्दीर्घमुष्णं च निःश्वसन् ॥ ६८॥
ll राजोवाच ॥ ॥
सर्वे कुशलिनो ब्रह्मन्वयं त्वदनुकम्पया।॥
राज्ञामुत्तमवंश्यानां ब्रह्मायत्ता हि सम्पदः ॥
किं नु मां बाधते त्वेषा पिशाची घोररूपिणी ॥ ६९॥
अलक्षिता मदपरैर्भर्त्सयन्ती पदेपदे ॥
यन्मया शापदग्धेन कृतमहो दुरत्ययम् ॥
न शान्तिर्जायते तस्य प्रायश्चित्तसहस्रकैः ॥ ३.३.२.७० ॥
इष्टाश्च विविधा यज्ञाः कोशसर्वस्वदक्षिणाः ॥
सरित्सरांसि स्नातानि यानि पूज्यानि भूतले ॥
निषेवितानि सर्वाणि क्षेत्राणि भ्रमता मया ॥ ७१ ॥
जप्तान्यखिलमन्त्राणि ध्याताः सकलदेवताः ॥
महाव्रतानि चीर्णानि पर्णमूलफलाशिना ॥ ७२ ॥
तानि सर्वाणि कुर्वन्ति स्वस्थं मां न कदाचन ॥
अद्य मे जन्मसाफल्यं सम्प्राप्तमिव लक्ष्यते ॥ ७३ ॥
यतस्त्वद्दर्शनादेव ममात्मानन्दभागभूत् ॥
अन्विच्छल्ँलभते क्वापि वर्षपूगैर्मनोरथम् ॥ ७४ ॥
इत्येवं जनवादोऽपि सम्प्राप्तो मयि सत्यताम् ॥
आजन्मसञ्चितानां तु पुण्यानामुदयोदये ॥ ७५ ॥
यद्भवान्भवभीतानां त्राता नयनगोचरः ॥
कस्माद्देशादिहायातो भवान्भवभयापहः ॥ ७६ ॥
दूरभ्रमणविश्रान्तं शङ्के त्वामिह चागतम् ॥
दृष्ट्वाश्चर्यमिवात्यर्थं मुदितोसि मुखश्रिया ॥ ७७ ॥
आनन्दयसि मे चेतः प्रेम्णा सम्भाषणादिव ॥
अद्य मे तव पादाब्जशरणस्य कृतैनसः ॥
शान्तिं कुरु महाभाग येनाहं सुखमाप्नुयाम् ॥७८॥
इति तेन समादिष्टो गौतमः करुणानिधिः ॥
समादिदेश घोराणामघानां साधु निष्कृतिम् ॥ ७९ ॥
॥ गौतम उवाच ॥ ॥
साधु राजेन्द्र धन्योऽसि महा घेभ्यो भयं त्यज ॥३.३.२.८०॥
शिवे त्रातरि भक्तानां क्व भयं शरणैषिणाम् ॥
शृणु राजन्महाभाग क्षेत्रमन्यत्प्रतिष्ठितम् ॥८१॥
महापातकसंहारि गोकर्णाख्यं मनोरमम्॥
यत्र स्थितिर्न पापानां महद्भ्यो महतामपि ॥ ८२ ॥
स्मृतो ह्यशेषपापघ्नो यत्र सन्निहितः शिवः ॥
यथा कैलासशिखरे यथा मन्दारमूर्द्धनि ॥ ८३ ॥
निवासो निश्चितः शम्भोस्तथा गोकर्णमण्डले ॥
नाग्निना न शशाङ्केन न ताराग्रहनायकैः ॥ ८४ ॥
तमो निस्तीर्यते सम्य ग्यथा सवितृदर्शनात् ॥
तथैव नेतरैस्तीर्थैर्न च क्षेत्रैर्मनोरमैः ॥ ८५ ॥
सद्यः पापविशुद्धिः स्याद्यथा गोकर्णदर्शनात् ॥
अपि पापशतं कृत्वा ब्रह्म हत्यादि मानवः ॥ ८६ ॥
सकृत्प्रविश्य गोकर्णं न बिभेति ह्यघात्क्वचित् ॥
तत्र सर्वे महात्मानस्तपसा शान्तिमागताः ॥८७॥
इन्द्रोपेन्द्रविरिञ्च्याद्यैः सेव्यते सिद्धिकाङ्क्षिभिः ॥
तत्रैकेन दिनेनापि यत्कृतं व्रतमुत्तमम् ॥ ८८ ॥
तदन्यत्राब्दलक्षेण कृतं भवति तत्समम् ॥
यत्रेन्द्रब्रह्मविष्ण्वादिदेवानां हितकाम्यया ॥ ८९ ॥
महाबलाभिधानेन देवः सन्निहितः स्वयम् ॥
घोरेण तपसा लब्धं रावणाख्येन रक्षसा ॥ ३.३.२.९० ॥
तल्लिङ्गं स्थापयामास गोकर्णे गणनायकः ॥
इन्द्रो ब्रह्मा मुकुन्दश्च विश्वेदेवा मरुद्गणाः ॥ ९१ ॥
आदित्या वसवो दस्रौ शशाङ्कश्च दिवाकरः ॥
एते विमानगतयो देवास्ते सह पार्षदैः ॥ ९२ ॥
पूर्वद्वारं निषेवन्ते देवदेवस्य शूलिनः ॥
योन्यो मृत्युः स्वयं साक्षाच्चित्रगुप्तश्च पावकः ॥ ९३ ॥
पितृभिः सह रुद्रैश्च दक्षिणद्वारमाश्रितः ॥
वरुणः सरितां नाथो गङ्गादिसरितां गणैः ॥ ९४ ॥
आसेवते महादेवं पश्चिमद्वारमाश्रितः ॥
तथा वायुः कुबेरश्च देवेशी भद्रकर्णिका ॥ ९५ ॥
मातृभिश्चण्डिकाद्याभिरुत्तरद्वारमाश्रिता ॥
विश्वावसुश्चित्ररथश्चित्रसेनो महाबलः ॥ ९६ ॥
सह गन्धर्ववर्गैश्च पूजयन्ति महाबलम् ॥
रम्भा घृताची मेना च पूर्वचित्तिस्तिलोत्तमा ॥ ९७ ॥
नृत्यन्ति पुरतः शम्भोरुर्वश्याद्याः सुरस्त्रियः ॥
वशिष्ठः कश्यपः कण्वो विश्वामित्रो महा तपाः ॥ ९८ ॥
जैमिनिश्च भरद्वाजो जाबालिः क्रतुरङ्गिराः ॥
एते वयं च राजेन्द्र सर्वे ब्रह्मर्षयोऽमलाः ॥ ९९ ॥
देवं महाबलं भक्त्या समन्तात्पर्यु पास्महे ॥
मरीचिना सहात्रिश्च दक्षाद्याश्च मुनीश्वराः ॥ ३.३.२.१०० ॥
सनकाद्या महात्मान उपविष्टा उपासते ॥
तथैव मुनयः साध्या अजिनाम्बर धारिणः ॥ १ ॥
दण्डिनो व्रतमुण्डाश्च स्नातका ब्रह्मचारिणः ॥
त्वगस्थिमात्रावयवास्तपसा दग्धकिल्बिषाः ॥ २ ॥
सेवन्ते परया भक्त्या देवदेवं पिनाकिनम् ॥
तथा देवाः सगन्धर्वाः पितरः सिद्धचारणाः ॥ ३ ॥
विद्याधराः किम्पुरुषाः किन्नरा गुह्यकाः खगाः ॥
नागाः पिशाचा वेताला दैतेयाश्च महाबलाः ॥ ४ ॥
नानाविभवसम्पन्ना नानाभूषणवाहनाः ॥
विमानैः सूर्यसङ्काशैरग्निवर्णैः शशिप्रभैः ॥ ५ ॥
विद्युत्पुञ्जनिभैरन्यैः समं तात्परिवारितम् ॥
प्रस्तुवन्ति प्रगायन्ति पठन्ति प्रणमन्ति च ॥ ६ ॥
प्रनृत्यन्ति प्रहृष्यन्ति गोकर्णे पृथिवीपते ॥
लभन्तेऽभीप्सितान्कामान्रमन्ते च यथा सुखम् ॥ ७ ॥
गोकर्णसदृशं क्षेत्रं नास्ति ब्रह्माण्डगोलके ॥
तत्र घोरं तपस्तप्तमगस्त्येन महात्मना ॥ ८ ॥
तथा सनत्कुमारेण प्रियव्रतसुतैरपि ॥
अग्निना देववर्येण कन्दर्पेण च पार्थिव ॥ ९ ॥
तथा देव्या भद्रकाल्या शिशुमारेण धीमता ॥
दुर्मुखेन फणीन्द्रेण मणिनागाह्वयेन च ॥ ३.३.२.११० ॥
इलावर्तादिभिर्नागैर्गरुडेन बलीयसा ॥
रक्षसा रावणेनापि कुम्भकर्णाह्वयेन तु ॥ ११ ॥
विभीषणेन पुण्येन तपस्तप्तं महात्मना ॥
एते चान्ये च गीर्वाणाः सिद्धदानवमानवाः ॥ १२ ॥
गोकर्णे देवदेवेशं शिवमाराध्य भक्तितः ॥
स्वनामाङ्कानि लिङ्गानि स्थापयित्वा सहस्रशः ॥ १३ ॥
लेभिरे परमां सिद्धिं तथा तीर्थानि चक्रिरे ॥
अत्र स्थानानि सर्वेषां देवानां सन्ति पार्थिव ॥ १४ ॥
विष्णोश्च देवदेवस्य ब्रह्मणः परमेष्ठिनः ॥
कार्त्तिकेयस्य वीरस्य गजवक्त्रस्य चानघ ॥ १५ ॥
धर्मस्य क्षेत्रपालस्य दुर्गायाश्च महामते ॥
गोकर्णे शिवलिङ्गानि विद्यन्ते कोटिकोटिशः ॥ ॥ १६ ॥
असङ्ख्यातानि तीर्थानि तिष्ठन्ति च पदेपदे ॥
बहुनात्र किमुक्तेन गोकर्णस्थानि पार्थिव ॥ १७ ॥
सर्वाण्यश्मानि लिङ्गानि तीर्थान्यम्भांसि सर्वशः ॥
गोकर्णे शिवलिङ्गानां तीर्थानामपि भूरिशः ॥ १८ ॥
गीयते महिमा राजन्पुराणेषु महर्षिभिः ॥
गोकर्णे कोटितीर्थं च तीर्थानां मुख्यतां गतम् ॥ १९ ॥
सर्वेषां शिवलिङ्गानां सार्वभौमो महाबलः ॥
कृते महाबलः श्वेतस्त्रेतायामतिलोहितः ॥ ३.३.२.१२० ॥
द्वापरे पीत वर्णश्च कलौ श्यामो भविष्यति ॥
आक्रान्तं सप्तपातालं कुर्वन्नपि महाबलः ॥ २१ ॥
प्राप्ते कलियुगे घोरे मृदुतामुपयास्यति ॥
पश्चिमाम्बुधितीरस्थं गोकर्णक्षेत्रमुत्तमम् ॥ २२ ॥
ब्रह्महत्यादिपापानि दहतीति किमद्भुतम् ॥
ये चात्र ब्रह्महन्तारो ये च भूतद्रुहः शठाः ॥ २३ ॥
ये सर्वगुणहीनाश्च परदाररताश्च ये ॥
ये दुर्वृत्ता दुराचारा दुःशीलाः कृपणाश्च ये ॥ २४ ॥
लुब्धाः क्रूराः खला मूढाः स्ते नाश्चैवातिकामिनः ॥
ते सर्वे प्राप्य गोकर्णं स्नात्वा तीर्थजलेषु च ॥ १२५ ॥
देवं महाबलं दृष्ट्वा प्रयाताः शाङ्करं पदम् ॥
तत्र पुण्यासु तिथिषु पुण्य र्क्षे पुण्यवासरे ॥ २६ ॥
येऽर्चयन्ति महेशानं ते रुद्राः स्युर्न संशयः ॥
यदा कदाचिद्गोकर्णं यो वा को वापि मानवः ॥ २७ ॥
प्रविश्य पूजयेदीशं स गच्छेद्ब्रह्मणः पदम् ॥
रवीन्दुसौम्यवारेषु यदा दर्शो भविष्यति ॥ २८ ॥
तदा जलनिधौ स्नानं दानं च पितृतर्पणम् ॥
शिवपूजा जपो होमो व्रतचर्या द्विजार्चनम् ॥ २९ ॥
यत्किञ्चिद्वा कृतं कर्म तदनन्तफलप्रदम् ॥
व्यतीपातादियोगेषु रविसङ्क्रमणेषु च ॥ ३.३.२.१३० ॥
महाप्रदोषवेलासु शिव पूजा विमुक्तिदा ॥
अथैकां ते प्रवक्ष्यामि तिथिं पार्थिव मुक्तिदाम् ॥ ३१ ॥
यस्यां किल महाव्याधो लेभे शम्भोः परं पदम् ॥
माघमासे महापुण्या या सा कृष्णचतुर्दशी ॥ ३२ ॥
शिवलिङ्गं बिल्वपत्रं दुर्लभं हि चतुष्टयम् ॥
अहो बलवती माया यया शैवी महातिथिः ॥ ३३ ॥
नोपोष्यते जनैर्मूढैर्महामूकैरिव त्रयी ॥
उपवासो जागरणं सन्निधिः परमेशितुः ॥ ३४ ॥
गोकर्णं शिवलोकस्य नृणां सोपानपद्धतिः ॥
शृणु राजन्नहमपि गोकर्णा दधुनागतः ॥ १३५ ॥
उपास्यैनां शिवतिथिं विलोक्य च महोत्सवम् ॥
अस्यां शिवतिथौ सर्वे महोत्सवदिदृक्षवः ॥ ३६ ॥
आगताः सर्वदेशेभ्यश्चातुर्वर्णा महाजनाः ॥
स्त्रियो वृद्धाश्च बालाश्च चतुराश्रमवासिनः ॥ ३७ ॥
आगत्य दृष्ट्वा देवेशं लेभिरे कृतकृत्यताम् ॥
अथाहमप्यमी शिष्या ऋषयश्च तथाऽपरे ॥ ३८ ॥
राजर्षयश्च राजेन्द्र सनकाद्याः सुरर्षयः ॥
स्नात्वा सर्वेषु तीर्थेषु समुपास्य महाबलम् ॥ ३९ ॥
लब्ध्वा च जन्मसाफल्यं प्रयाताः सर्वतोदिशम् ॥
अमुनाद्य नरेन्द्रेण जनकेन यियक्षुणा ॥३.३.२.१४० ॥
निमन्त्रितोऽहं सम्प्राप्तो गोकर्णाच्छिवमन्दिरात् ॥
प्रत्यागमं किमप्यङ्ग दृष्ट्वाश्चर्यमहं पथि ॥
महानन्देन मनसा कृतार्थोऽस्मि महीपते ॥ १४१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तर खण्डे गोकर्णमहिमानुवर्णनन्नाम द्वितीयोऽध्यायः ॥ २ ॥