॥ ब्रह्मोवाच ॥ ॥
शृणु पुत्र प्रवक्ष्यामि रहस्यं परमं मतम् ॥
एते ब्रह्मविदः प्रोक्ताश्चातुर्विद्या महा द्विजाः ॥ १ ॥
स्वाध्यायाश्च वषट्काराः स्वधाकाराश्च नित्यशः ॥
रामाज्ञापालकाश्चैव हनुमद्भक्तितत्पराः ॥ २ ॥
एकदा तु ततो देवा ब्रह्माणं समुपागताः ॥
ब्राह्मणान्द्रष्टुकामास्ते ब्रह्मविष्णुपुरोगमाः ॥ ३ ॥
तान्देवानागतान्दृष्ट्वा स्वस्थानाच्चलितास्तु ते ॥
अर्घपाद्यं पुरस्कृत्य मधुपर्कं तथैव च ॥ ४ ॥
पूजयित्वा ततो विप्रा देवान्ब्रह्मपुरोगमान्॥
ब्रह्मात्र उपविष्टास्ते वेदानुच्चारयन्ति हि ॥ ५ ॥
संहितां च पदं चैव क्रमं घनं तथैव च ॥
उच्चैः स्वरेण कुर्वीत ऋचामृग्वेदसंहिताम् ॥ ६ ॥
सामगाश्च प्रकुर्वन्ति स्तोत्राणि विविधानि च ॥
शास्त्राणि च तथा याज्यापुरोनुवाक्या स्तथा ॥ ७ ॥
चतुरक्षरं परं चैव चतुरक्षरमेव च ॥
द्व्यक्षरं च तथा पञ्चाक्षरं द्वयक्षरमेव च ॥
एतद्यज्ञस्वरूपं च यो जपेज्ज्ञानपूर्वकम् ॥८॥
अन्ते ब्रह्म पदप्राप्तिः सत्यंसत्यं वदाम्यहम् ॥
एकाग्रमानसाः सर्वे वेदपाठरता द्विजाः ॥ ९ ॥
तेषामङ्गणदेशेषु कण्डूयन्ते कचान्मृगाः ॥
ब्राह्मणा वेदमातां च जपन्ति विधिपूर्वकम्॥3.2.39.१०॥
हस्ते धृतांश्च तैर्दर्भान्भक्षन्ते मृगपोतकाः॥
निर्वैरं तं तदा दृष्ट्वा आश्रमं गृहमेधिनाम् ॥११॥
तुतुषुः परमं देवा ऊचुस्ते च परस्परम्॥
त्रेतायुगमिदानीं च सर्वे धर्मपरायणाः॥१२॥
कलिर्दुष्टस्तथा प्रोक्तः किं करिष्यति पापकः॥
चातुर्विद्यान्समाहूय ऊचुस्ते त्रय एव च॥१३॥
वृत्त्यर्थं भवतां चैव त्रैविद्यानां तथैव च ॥
विभागं वः प्रदास्यामो यथावत्प्रतिपाल्यताम्॥१४॥
ये वणिजः पुरा प्रोक्ताः षट्त्रिंशच्च सहस्रकाः ॥
त्रिसहस्रास्तु त्रैविद्या दशपञ्चसहस्रकाः ॥ १५ ॥
चातुर्विद्यास्तथा प्रोक्ता अन्योन्यं वृत्तिमाश्रिताः ॥
सत्रिभागास्तु त्रैविद्याश्चतुर्भागास्तु चात्रिणः ॥१६॥
वणिजां गृहमागत्य पौरोहित्यस्य नित्यशः ॥
भागं विभज्य सम्प्रापुः काजेशेन विनिर्मिताः ॥ १७ ॥
परस्परं न विवाहश्चातुर्विद्यत्रिविद्ययोः ॥
चातुर्विद्या मया प्रोक्तास्त्रिविद्यास्तु तथैव च ॥ १८ ॥
त्रैविभागेन त्रैविद्याश्चतुर्भागेन चात्रिणः ॥
एवं ज्ञातिविभागस्तु काजेशेन विनिर्मितः ॥ ॥ १९ ॥
कृतकृत्यास्तु ते विप्राः प्रणेमुस्तान्सुरोत्तमान् ॥
वृत्तिं दत्त्वा ततो देवाः स्वस्थानं च प्रतस्थिरे ॥ 3.2.39.२० ॥
पञ्चपञ्चाशद्ग्रामाणां ते द्विजाश्च निवासिनः ॥
चतुर्विद्यास्तु ते प्रोक्तास्तदादि तु त्रिविद्यकाः ॥ २१ ॥
चातुर्विद्यस्य गोत्राणि दशपञ्च तथैव च ॥
भारद्वाजस्तथा वत्सः कौशिकः ८ कुश एव च ॥ २२ ॥
शाण्डिल्यः ५ कश्यपश्चैव गौतमश्छादनस्तथा ८ ॥
जातूकर्ण्यस्तथा कुन्तो वशिष्ठो ११ धारणस्तथा ॥ २३ ॥
आत्रेयो माण्डिलश्चैव १४ लौगाक्षश्च १५ ततः परम् ॥
स्वस्थानानां च नामानि प्रवक्ष्याम्यनुपूर्वशः ॥ २४ ॥
सीतापूरं च श्रीक्षेत्रं २ मगोडी च ३ तथा स्मृता ॥
ज्येठलोजस्तथा चैव शेरथा च ततः परम् ॥ २५ ॥
छेदे ताली वनोडी च गोव्यन्दली तथैव च ॥
कण्टाचोषली चैव कोहेचं चन्दनस्तथा ॥२६॥
थलग्रामश्च सोहं च हाथञ्जं कपडवाणकम् ॥
व्रजन्होरी च वनोडी च फीणां वगोलं दृणस्तथा (?)॥ ॥२७॥
थलजा चारणं सिद्धा भालजाश्च ततः परम् ॥
महोवी आईया मलीआ गोधरी आमतः परम् ॥ २८ ॥
वाठसुहाली तथा चैव माणजा सानदीयास्तथा ॥
आनन्दीया पाटडीअ टीकोलीया ततः परम् ॥ २९ ॥
गम्भी धणीआ मात्रा च नातमोरास्तथैव च ॥
वलोला रान्त्यजाश्चैव रूपोला बोधणीच वै ॥ 3.2.39.३० ॥
छत्रोटा अलु एवा च वासतडीआमतः परम् ॥
जाषासणा गोतीया च चरणीया दुधीयास्तथा ॥ ३१ ॥
हालोला वैहोला च असाला नालाडास्तथा ॥
देहोलो सौहासीया च संहालीयास्तथैव च ॥ ३२ ॥
स्वस्थानं पञ्चपत्ताशद्ग्रामा एते ह्यनुक्रमात् ॥
दत्ता रामेण विधिवत्कृत्वा विप्रेभ्य एव च ॥ ३३ ॥
अतः परं प्रवक्ष्यामि स्वस्थानस्य च गोत्रजान्॥
तथा हि प्रवरांश्चैव यथावद्विधिपूर्वकम् ॥ ३४ ॥
ज्ञात्वा तु गोत्रदेवीं च तथा प्रवरमेव च ॥
स्वस्थानं जायते चैव द्विजाः स्वस्थानवासिनः ॥ ३५ ॥
॥ नारद उवाच ॥ ॥
कथं च जायते गोत्रं कथं तु ज्ञायते कुलम् ॥
कथं वा ज्ञायते देवी तद्वदस्व यथार्थतः ॥ ३६ ॥
॥ ब्रह्मोवाच ॥ ॥
सीतापुरं तु प्रथमं प्रवरद्वयमेव च ॥
कुशवत्सौ तथा चात्र मया ते परिकीर्त्तितौ ॥ ३७ ॥
श्रीक्षेत्रे द्वितीयं चैव गोत्राणां त्रयमेव च ॥
छान्दनसस्तथा वत्सस्तृतीयं कुशमेव च ॥ ३८ ॥
तृतीये मुद्गलं चैव कुशभारद्वाजमेव च ३॥
शोहोली च चतुर्थं वै कुशप्रवरमेव च॥ ३९॥
ज्येष्ठला पञ्चमश्चैव वत्सकुशौ प्रकीर्त्तितौ ५॥
श्रेयस्थानं हि षष्ठं वै भारद्वाजः कुशस्तथा॥3.2.39.४०॥
दन्ताली सप्तमं चैव भारद्वाजः कुशस्तथा १॥
वटस्थानमष्टमं च निबोध सुतसत्तम॥४१॥
तत्र गोत्रं कुशं कुत्सं भारद्वाजं तथैव च ॥
राज्ञः पुरं नवमं च भारद्वाजप्रवरमेव च ९ ॥ ४२ ॥
कृष्णवाटं दशमं चैव कुशप्रवरमेव च ॥
दहलोडमेकादशं वत्सप्रवरमेव हि ॥ ४३ ॥
चेखलीद्वादशं पौककुशप्रवरमेव च ॥ ४४ ॥
चाञ्चोदखे १२ देहोलोडी आत्रयश्च वत्सकुत्सकश्चैव ॥
भारद्वाजीकोणाया च भारद्वाजगोलन्दृणाशकुस्तथा ॥ ४५ ॥
थलत्यजाद्वये चैव कुशधारणमेव च ॥
नारणसिद्धा च स्वस्थानं कुत्सं गोत्रं प्रकीर्तितम् ॥ ४६ ॥
भालजां कुत्सवत्सौ च मोहोवी आकुशस्तथा ॥
ईयाश्लीआ शाण्डिलश्च गोधरीपात्रमेव च ॥ ४७ ॥
आनन्दीया द्वे चैव भारद्वाजशाण्डिलश्चैव पाटडीआ कुशमेव च ॥ ४८ ॥
वांसडीआश्चैव जास्वा कौत्समणा वत्सआत्रेयौ गीता आकुशगौतमौ ॥ ॥ ४९ ॥
चरणीआ भारद्वाजः दुधीआधारणसा हि अहो सोन्नामाण्डिल्यस्तथा ॥ 3.2.39.५० ॥
वेलोला हुराश्चैवा असाला कुशश्चैव धारणा च द्वितीय कम् ॥ ५१ ॥
नालोला वत्सधारणीया च देलोला कुत्समेव च ॥
सोहासीया भारद्वाजकुशवत्समेव च ॥ ५२ ॥
सुहालीआ वत्सं वै प्रोक्तं गोत्राणि यथाक्रमम् ॥
मया प्रोक्तानि चैवात्र स्वस्थानानि यथाक्रमम्॥ ५३ ॥
शीतवाडिया ये प्रोक्ताः कुशो वत्सस्तथैव च ॥
विश्वामित्रो देवरातस्तृतीयो दलमेव च ॥ ५४ ॥
भार्गवच्यावनाप्नवानौर्वजमदग्निरेव हि ॥
वचार्द्दशेषाबुटला गोत्रदेव्यः प्रकीर्तिताः ॥ ५५ ॥
इति प्रथमं गोत्रम् ॥ १ ॥
श्रीक्षेत्रं द्वितीयं प्रोक्तं गोत्रद्वितयमेव च ॥
छान्दनसस्तथा वत्सं देवी द्वितयमेव च ॥ ५६ ॥
आङ्गिरसाम्बरीषश्च यौवनाश्वस्तथैव च ॥
भृगुच्यवनआप्नवानौ र्वजमदग्निमेव च ॥ ५७ ॥
देवी भट्टारिका प्रोक्ता द्वितीया शेपला तथा ॥
एतद्वंशोद्भवा ये च शृणु तान्मुनिसत्तम ॥ ५८ ॥
सक्रोधनाः सदाचाराः श्रौतस्मार्तक्रियापराः ॥
पञ्चयज्ञरता नित्यं सम्बन्धसम्माश्रिताः ॥
क्षतज्ञाः क्रतुजाश्चैव ते सर्वे नृपसत्तमाः ॥ ५९ ॥
इति द्वितीयगोत्रम् ॥ २ ॥
तृतीयं मगोडोआ वै गोत्रद्वितयमेव च ॥
भारद्वाजस्तथा कुत्सं देवी द्वितयमेव च ॥ 3.2.39.६० ॥
आङ्गिरसबार्हस्पत्यभारद्वाजस्तथैव च ॥
विश्वामित्रदेव रातौप्रवरत्रयमेव च ॥६१॥
शेषला बुधला प्रोक्ताधारशान्तिस्तथैव च ॥
अस्मिन्ग्रामे च ये जाता ब्राह्मणाः सत्यवादिनः ॥ ६२ ॥
द्विजपूजाक्रिया युक्ता नानायज्ञक्रियापराः ॥
अस्मिन्गोत्रे समुत्पन्ना द्विजाः सर्वे मुनीश्वराः ॥ ६३ ॥
इति तृतीयगोत्रम् ॥ ३ ॥
चतुर्थं शीहोलियाग्रामं गोत्रद्वित यमेव च॥
विश्वामित्रदेवराततृतीयौदलमेव च ॥६४॥
देवी चचाई वै तेषां गोत्रदेवी प्रकीर्तिता॥
अस्मिन्गोत्रे तुये जाता दुर्बला दीनमा नसाः॥६५॥
असत्यभाषिणो विप्रा लोभिनो नृपसत्तम॥
सर्व्वविद्याप्रवीणाश्च ब्राह्मणा ब्रह्मसत्तम॥६६॥
इति चतुर्थं स्थानम्॥४॥
ज्येष्ठलोजा पञ्चमं च स्वस्थानं प्रतिकीर्तितम्॥
वत्सशीया कुत्सशीया प्रवरद्वितयं स्मृतम्॥६७॥
आवरिवृवाप्रः यौवनाश्वभृगुच्यवनआप्नोर्वजमदग्निस्तथैव हि ॥६८॥
चचाई वत्सगोत्रस्य शान्ता च कुत्सगोत्रजा ॥
एतैस्त्रिभिः पञ्चभिश्च द्विजा ब्रह्मस्वरूपिणः ॥६९॥
शान्ता दान्ताः सुशीलाश्च धन पुत्रैश्च संयुताः ॥
वेदाध्ययनहीनाश्च कुशलाः सर्वकर्मसु॥3.2.39.७०॥
सुरूपाश्च सदाचाराः सर्वधर्मेषु निष्ठिताः ॥
दानधर्म्मरताः सर्वे अत्रजा जलदा द्विजाः ॥७१॥
इति पञ्चमं स्थानम्॥५॥
शेरथाग्रामेषु वै जाताः प्रवरद्वयसंयुताः ॥
कुशभारद्वाजाश्चैव देवीद्वयं तथैव च ॥७२॥
विश्वामित्रो देवरातस्तृतीयौ दल एव च ॥
आङ्गिरसबार्हस्पत्यभारद्वाजास्तथैव च॥७३॥
कमला च महालक्ष्मीर्द्वितीया यक्षिणी तथा॥
अस्मिन्गोत्रे च ये जाताः श्रौतस्मार्त्तरता बुधाः॥७४॥
वेदाध्ययनशीलाश्च तापसाश्चारिमर्द्दनाः॥
रोषिणो लोभिनो दुष्टा यजने याजने रताः॥
ब्रह्मक्रियापराः सर्वे ब्राह्मणास्ते मयोदिताः॥
इति षष्ठं स्थानम्॥६॥
दन्तालीया भारद्वाजकुत्सशायास्तथैव च॥
आङ्गिरसबार्हस्पत्यभारद्वाजास्तथैव च॥७६॥
देवी च यक्षिणी प्रोक्ता द्वितीया कर्मला तथा ॥
अस्मिन्गोत्रे च ये जाता वाडवा धनिनः शुभाः ॥७७॥
वस्त्रालङ्करणोपेता द्विजभक्तिपरायणाः ॥
ब्रह्मभोज्यपराः सर्वे सर्वे धर्मपरायणाः ॥ ॥ ७८ ॥
इति सप्तमं स्थानम्॥७॥
वडोद्रीयान्वये जाताश्चत्वारः प्रवराः स्मृताः ॥
कुशः कुत्सश्च वत्सश्च भारद्वाजस्तथैव च ॥७९॥
तत्प्रवराण्यहं वक्ष्ये तथा गोत्राण्यनुक्रमात्॥
विश्वामित्रो देवरातस्तृतीयौदल एव च ॥ 3.2.39.८० ॥
आङ्गिरसाम्बरीषश्च यौवनाश्वस्तृतीयकः ॥
भार्गवश्च्यावनाप्नवानौर्वजमदग्निस्तथैव च॥८१॥
आङ्गिरसबार्हस्पत्यभारद्वाजास्तथैव च॥
कर्मला क्षेमला चैव धारभट्टारिका तथा॥८२॥
चतुर्थी क्षेमला प्रोक्ता गोत्रमाता अनुक्रमात्॥
अस्मिन्गोत्रे तु ये जाताः पञ्चयज्ञरताः सदा ॥ ८३ ॥
लोभिनः क्रोधिनश्चैव प्रजायन्ते बहुप्रजाः ॥
स्नानदानादि निरताः सदा विनिर्जितेन्द्रियाः ॥ ८४ ॥
वापीकूपतडागानां कर्तारश्च सहस्रशः ॥
व्रतशीला गुणज्ञाश्च मूर्खा वेदविवर्जिताः ॥ ८५ ॥
इत्यष्टमं स्थानम् ॥ ८ ॥
गोदणीयाभिधे ग्रामे गोत्रौ द्वौ तत्र संस्थितौ ॥
वत्सगोत्रं प्रथमकं भारद्वाजं द्वितीयकम् ॥ ८६ ॥
भृगुच्यवनाप्नवानौर्वपुरोध समेव च ॥
शीहरी प्रथमा ज्ञेया द्वितीया यक्षिणी तथा ॥ ८७ ॥
अस्मिन्गोत्रोद्भवा विप्रा धनधान्यसमन्विताः ॥
सामर्षा लौल्यहीनाश्च द्वेषिणः कुटिलास्तथा ॥ ८८ ॥
हिंसिनो धनलुब्धाश्च मया प्रोक्तास्तु भूपते ॥ ८९ ॥
इति नवमं स्थानम् ॥ ९ ॥
कण्टवाडीआ ग्रामे विप्राः कुशगोत्र
शुक्लशुश्च समुद्भ`वाः ॥
प्रवरं तस्य वक्ष्यामि शृणु त्वं च नृपोत्तम ॥ 3.2.39.९० ॥
विश्वमित्रो देवरात उदलश्च त्रयः स्मृताः ॥
चचाई देवी सा प्रोक्ता शृणु त्वं नृप सत्तम ॥ ९१ ॥
यजन्ते क्रतुभिस्तत्र हृष्टचित्तैकमानसाः ॥
सर्वविद्यासु कुशला ब्राह्मणाः सत्यवादिनः ॥ ९२ ॥
इति दशमं स्थानम् ॥ १० ॥
वेखलोया मया प्रोक्ता कुत्सवंशे समुद्भवाः ॥
प्रवरत्रयसंयुक्ताः शृणुत्वं च नृपोत्तम ॥ ९३ ॥
विश्वामित्रो देवराजौदलश्चेति त्रयः स्मृताः ॥
चचाई देवी तेषां वै कुलरक्षाकरी स्मृता ॥ ९४ ॥
ब्राह्मणाश्च महात्मानः सत्त्ववन्तो गुणान्विताः ॥
तपस्वियोगिनश्चैव वेदवेदाङ्गपारगाः ॥ ९५ ॥
साधवश्च सदाचारा विष्णुभक्तिपरायणाः ॥
स्नानसन्ध्यापरा नित्यं ब्रह्मभोज्यपरायणाः ॥ ९६ ॥
अस्मिन्वंशे मया प्रोक्ताः शृणुत्वं च अतः परम् ॥ ९७ ॥
इत्येकादशस्थानम्॥ ११ ॥
देहलोडीआ ये प्रोक्ताः कुत्सप्रवरसंयुताः ॥
आङ्गिरस आम्बरीषो युवनाश्वस्तृतीयकः ॥ ९८ ॥
गोत्रदेवी मया प्रोक्ता श्रीशेषदुर्बलेति च ॥
कुत्सवंशे च ये जाताः सद्वृत्ताः सत्यभाषिणः ॥ ९९ ॥
वेदाध्ययनशीलाश्च परच्छिद्रैकदर्शिनः ॥
सामर्षा लौल्यतो हीना द्वेषिणः कुटिलास्तथा ॥ 3.2.39.१०० ॥
हिंसिनो धनलुब्धाश्च ये च कुत्ससमुद्भवाः ॥ १ ॥
इति द्वादशं स्थानम् ॥ १२ ॥
कोहे च ब्राह्मणाः प्रोक्ता गोत्रत्रितयसंयुताः ॥
भारद्वाजस्तथा वत्सस्तृतीयः कुश एव च ॥ २ ॥
प्रवराण्यहं तथा वक्ष्ये यथा गोत्रक्रमेण हि ॥
भार्गवच्यवनाप्नवानौर्वजमदग्निस्तथैव च ॥ ३ ॥
कुशप्रवरं तृतीयं तु प्रवरत्रयमेव च ॥
विश्वामित्रो देवरातस्तृतीयौदलमेव च ॥ ४ ॥
यक्षिणी प्रथमा प्रोक्ता द्वितीया शीहुरी तथा ॥
तृतीया चचाई प्रोक्ता यथानुक्रमगोत्रजा ॥ ५ ॥
अस्मिन्गोत्रे भवा विप्राः श्रौतस्मार्त्तरता बुधाः ॥
वेदाध्ययनशीलाश्च तापसाश्चारिमर्द्दनाः ॥ ६ ॥
रोषिणो लोभिनो दुष्टा यजने याजने रताः ॥
ब्रह्मकर्मपराः सर्वे मया प्रोक्ता द्विजोत्तमाः ॥ ॥ ७ ॥
इति त्रयोदशं स्थानम्॥१३॥
चान्दणखेडे ये जाता भारद्वाजसमुद्भवाः॥
आङ्गिरसो बार्हस्पत्यस्तृतीयो भारद्वाजस्तथा ॥८॥
यक्षिणी चास्य वै देवी प्रोक्ता व्यासेन धीमता ॥
भारद्वाजास्तु ये जाता द्विजा ब्रह्मस्वरूपिणः ॥ ९ ॥
शान्ता दान्ता सुशीलाश्च धनपुत्रसमन्विताः ॥
धर्मारण्ये द्विजाः श्रेष्ठाः क्रतुकर्मणि कोविदाः ॥3.2.39.११०॥
गुरुभक्तिरताः सर्वे भासयन्ति स्वकं कुलम् ॥११॥
इति चतुर्द्दशस्थानम् ॥१४॥
थलग्रामे च ये जाता भारद्वाजसमुद्भवाः ॥
आङ्गिरसो बार्हस्पत्यो भारद्वाजस्तृतीयकः ॥ १२ ॥
अस्मिन्गोत्रे च ये जाता वाडवा धनिनः शुभाः ॥
वस्त्रालङ्करणोपेता द्विजभक्तिपरायणाः ॥ १३ ॥
ब्रह्मभोज्यपराः सर्वे सर्वे धर्मपरायणाः ॥
गोत्रदेवी मया ख्याता यक्षिणी नाम रक्षिणी ॥ १४ ॥
इति पञ्चदश स्थानम्॥१५॥
मोऊत्रीयाश्च ये जाता द्वौ गोत्रौ तत्र कीर्तितौ ॥
भारद्वाजः कश्यपश्च देवीद्वितयमेव च ॥ १५ ॥
चामुण्डा यक्षिणी चैव देवी चात्र प्रकीर्त्तिता ॥
कश्यपाऽवत्सारश्चैव नैधुवश्च तृतीयकः ॥ १६ ॥
आङ्गिरसो बार्हस्पत्यो भारद्वाजस्तृतीयकः ॥
प्रियवाक्या महादक्षा गुरु भक्ति रताः सदा ॥ १७ ॥
सदा प्रतिष्ठावन्तश्च सर्वभूतहिते रताः ॥
यजन्ति ते महायज्ञान्काश्यपा ये द्विजातयः ॥ १८ ॥
सर्वेषां याजनकरा याज्ञिकाः परमाः स्मृताः ॥ १९ ॥
इति षोडशं स्थानम् ॥ १६ ॥
हाथीजणे च ये जाता वत्सा भारद्वाजास्तथा ॥
ज्ञानजा यक्षिणी चैव गोत्रदेव्यौ प्रकी र्तिते ॥ 3.2.39.१२० ॥
अस्मिन्गोत्रे च ये जाताः पञ्चयज्ञरताः सदा ॥
लोभिनः क्रोधिनश्चैव प्रजावन्तो बहुश्रुताः ॥ २१ ॥
स्नानदानादिनिरता विष्णुभक्तिपरायणाः ॥
व्रतशीला गुणज्ञानमूर्खा वेदविवर्जिताः ॥ २२ ॥
इति सप्तदशं स्थानम् ॥ १७ ॥
कपड्वाणजा ब्राह्मणास्तु भारद्वाजा कुशास्तथा ॥
देवी च यक्षिणी प्रोक्ता द्वितीया चचाई तथा ॥ २३ ॥
आङ्गिरसबार्हस्पत्यौ भारद्वाजस्तृतीयकः ॥
विश्वामित्रो देवरातस्तृतीयौदल मेव च ॥ २४ ॥
अस्मिन्गोत्रे च ये जाताः सत्यवादिजितव्रताः ॥
जितेन्द्रियाः सुरूपाश्च अल्पाहाराः शुभाननाः ॥ २५ ॥
सदोद्यताः पुराणज्ञा महादानपरायणाः ॥
निर्द्वेषिणो लोभयुता वेदाध्ययनतत्पराः ॥ २६ ॥
दीर्घदर्शिनो महातेजा महामायाविमोहिताः ॥ २७ ॥
इत्यष्टादशं स्थानम् ॥ १८ ॥
जन्होरी वाडवाः प्रोक्ताः कुशप्रवरसंयुताः ॥
विश्वामित्रो देवरातस्तृतीयौदल एव च ॥ २८ ॥
तारणी च महामाया गोत्रदेवी प्रकीर्त्तिता ॥
अस्मिन्वंशे ससुत्पन्ना वाडवा दुःसहा नृप ॥ २९ ॥
महोत्कटा महाकायाः प्रलम्बाश्च महोद्धताः ॥
क्लेशरूपाः कृष्णवर्णाः सर्वशास्त्र विशारदाः ॥ 3.2.39.१३० ॥
बहुभुग्धनिनो दक्षा द्वेषपापविवर्जिताः ॥
सुवस्त्रभूषा वैरूपा ब्राह्मणा ब्रह्मवादिनः ॥ ३१ ॥
इत्येकोनविशतितमं स्थानम् ॥ ॥ १९ ॥
वनोडीयाश्च ये जाता गोत्राणां त्रयमेव च ॥
कुशकुत्सौ च प्रवरौ तृतीयो भारद्वाजस्तथा ॥ ३२ ॥
विश्वामित्रो देवरातस्तृतीयौदल मेव च ॥
आङ्गिरस आम्बरीषो युवनाश्वस्तृतीयकः ॥ ३३ ॥
आङ्गिरसबार्हस्पत्यभारद्वाजास्तथैव च ॥
शेषला प्रथमा प्रोक्ता तथा शान्ता द्वितीयका ॥ ३४ ॥
तृतीया धारशान्तिश्च गोत्रदेव्यो ह्यनुक्रमात् ॥
अस्मिन्गोत्रे तु ये जाता दुर्बला दीनमानसाः ॥ ३५ ॥
असत्यभाषिणो विप्रा लोभिनो नृपसत्तम ॥
सर्वविद्याकुशलिनो ब्राह्मणा ब्रह्मवित्तमाः ॥ ३६ ॥
इति विंशतितमं स्थानम् ॥ २० ॥
कीणावाचनकं स्थानं यदेकाधि कविंशति ॥
भारद्वाजाश्च विप्रेन्द्राः कथिता ब्राह्मणाः शुभाः ॥ ३७ ॥
आङ्गिरसवार्हस्पत्यभारद्वाजास्तथैव च ॥
यक्षिणी च तथा देवी गोत्रदेवी प्रकी र्तिता ॥ ३८ ॥
अस्मिन्गोत्रे च ये जाता वाडवा धनिनः शुभाः ॥
वस्त्रालङ्करणोपेता द्विजभक्तिपरायणाः ॥ ३९ ॥
ब्रह्मभोज्यपराः सर्वे सर्वे धर्म्म परायणाः ॥ 3.2.39.१४० ॥
इत्येकविंशतितमं स्थानम् ॥ २१ ॥
गोविन्दणाः च स्वस्थाने ये जाता ब्रह्मसत्तमाः ॥
कुशगोत्रं च वै प्रोक्तं प्रवरत्रयमेव च ॥ ॥४१॥
विश्वामित्रो देवरातौदलप्रवरमेव च॥
चचई च महादेवी गोत्रदेवी प्रकीर्तिता ॥ ४२ ॥
अस्मिन्गोत्रे च ये जाता ब्राह्मणा ब्रह्मवेदिनः ॥
यजन्ते क्रतुभिस्तत्र हृष्टचित्तैकमानसाः ॥ ४३ ॥
सर्वविद्यासु कुशला ब्रह्मण्या ब्रह्मवित्तमाः ॥ ४४ ॥
इति द्वाविंशतितमं स्थानम् ॥ २२ ॥
थलत्यजा हि विप्रेन्द्रा द्वौ गोत्रौ चाप्यधिष्ठितौ ॥
धारणं सङ्कुशं चैव गोत्रद्वितयमेव च ॥ ४५ ॥
अगस्त्यो दार्ढ्यच्युतश्च रथ्यवाहनमेव च ॥
विश्वामित्रो देवरात स्तृतीयौदल एव च ॥ ४६ ॥
देवी च छत्रजा प्रोक्ता द्वितीया थलजा तथा ॥
धारणसगोत्रे ये जाता ब्रह्मण्या ब्रह्मवित्तमाः ॥ ४७ ॥
त्रिप्रवराश्चैव विख्याता सत्त्ववन्तो गुणान्विताः ।
तदन्वये च ये जाता धर्मकर्म्मसमाश्रिताः ॥ ४८ ॥
धनिनो ज्ञाननिष्ठाश्च तपोयज्ञक्रियादिषु ॥
त्रयोविंशं प्रोक्तमेत्तत्स्थानं मोढकजातिनाम् ॥ ४९ ॥
इति त्रयोविंशतितमं स्थानम् ॥ २३ ॥
वारणसिद्धाश्च ये प्रोक्ता ब्राह्मणा ज्ञानवित्तमाः ॥
अस्मिन्गोत्रे च ये विप्राः सत्यवादिजितव्रताः ॥ 3.2.39.१५० ॥
जितेन्द्रियाः सुरूपाश्च अल्पाहाराः शुभाननाः ॥
सदोद्यताः पुराणज्ञा महादानपरायणाः ॥ ॥ ५१ ॥
निर्द्वेषिणोऽलोभयुता वेदाध्ययनतत्पराः ॥
दीर्घदर्शिनो महातेजा महामायाविमोहिताः ॥ ५२ ॥
चतुर्विंशतितमं प्रोक्तं स्वस्थानं परमं मतम् ॥ ५३ ॥
इति चतुर्विंशतितमं स्थानम् ॥ २४ ॥
भालजाश्चात्र वै प्रोक्ता ब्राह्मणाः सत्यवादिनः ॥ ५४ ॥
वत्सगोत्रं कुशं चैव गोत्रद्वितयमेव च ॥
तेषां प्रवराण्यहं वक्ष्ये पञ्चत्रितयमेव च ॥
भृगुश्चयवनाप्नवानौर्वजमदग्निस्तथैव च ॥ ५५ ॥
आङ्गिरसौम्बरीषश्च यौवनाश्वस्तृतीयकः ॥
शान्ता च शेषला चात्र देवीद्बितयमेव च ॥ ५६ ॥
अस्मिन्वंशे समुत्पन्ना सद्वृत्ताः सत्यभाषिणः ॥
शान्ताश्च भिन्नवर्णाश्च निर्धनाश्च कुचैलिनः ॥ ॥ ५७ ॥
सगर्वा लौल्ययुक्ताश्च वेदशास्त्रेषु निश्चलाः ॥
पञ्चविंशतिमं प्रोक्तं स्वस्थानं मोढज्ञातिनाम् ॥ ५८ ॥
इति पञ्चविंशतितमं स्थानम् ॥ ॥ २५ ॥
महोवीआश्च ये सन्ति ब्राह्मणा ब्रह्मवित्तमाः ॥
एकमेव च वै गोत्रं कुशसञ्ज्ञं पवित्रकम् ॥ ५९ ॥
विश्वामित्रो देवरातस्तृतीयौदल एव च ॥
देवी चवाई चैवात्र रक्षारूपा व्यवस्थिता ॥ 3.2.39.१६० ॥
अस्मिन्गोत्रे च ये जाताः सत्यवादि जितेद्रियाः ॥
सत्यव्रताः सुरूपाश्च अल्पाहाराः शुभा ननाः ॥ ६१ ॥
दयालवः कृपालवः सर्वभूतहिते रताः ॥
षड्विंशतितमं प्रोक्तं स्वस्थानं त्रह्मवादिनाम् ॥ ६२ ॥
रामेण संस्तुताश्चैव सानुजेन तथैव च ॥ ६३ ॥
इति षड्विंशतितमं स्थानम् ॥ २६ ॥
तियाश्रीयामथोवक्ष्ये स्वस्थानं सप्तविंशकम् ॥
अस्मिन्स्थाने च ये जाता ब्राह्मणा वेदपारगाः ॥ ६४ ॥
शाण्डिल्यगोत्रं चैवात्र कथितं वेदसत्तमैः ॥
पञ्चप्रवरमथो प्रोक्तं ज्ञानजा चात्र देवता ॥ ६५ ॥
काश्यपावत्सारश्चैव शाण्डि लोसित एव च ॥
पञ्चमो देवलश्चैव प्रवराणि तथा क्रमात् ॥
ज्ञानजा च तथा देवी कथिता स्थानदेवता ॥ ६६ ॥
अस्मिन्वंशे च ये जातास्ते द्विजाः सूर्यवर्चसः ॥
चन्द्रवच्छीतलाः सर्वे धर्मारण्ये व्यवस्थिताः ॥ ६७ ॥
सदाचारा महाराज वेदशास्त्रपरायणाः ॥
याज्ञिकाश्च शुभाचाराः सत्यशौचपरायणाः ॥ ६८ ॥
धर्मज्ञा दानशीलाश्च निर्मला हि मदोत्सुकाः ॥
तपःस्वाध्यायनिरता न्यायधर्मपरायणाः ॥
सप्तविंशतिमं स्थानं कथितं ब्रह्मवित्तमैः ॥ ६९ ॥
इति सप्तविंशं स्थानम् ॥ २७ ॥
गोधरीयाश्च ये जाता ब्राह्मणा ज्ञानसत्तमाः ॥
गोत्रत्रयमथो वक्ष्ये यथा चैवाप्यनुक्रमात्॥ 3.2.39.१७० ॥
प्रथमं धारणसं चैव जातूकर्णं द्वितीयकम् ॥
तृतीयं कौशिकं चैव यथा चैवाप्यनुक्रमात् ॥७१॥
धारणसगोत्रे ये जाताः प्रवरैस्त्रिभिः संयुताः ॥
अगस्तिश्च दार्ढच्युत इध्मवाहनसञ्ज्ञकः ॥ ७२ ॥
वसिष्ठश्च तथात्रेयो जातूकर्णस्तृतीयकः ॥
विश्वामित्रो माधुच्छन्दस अघमषणस्तृतीयकः ॥ ७३ ॥
महाबला च मालेया द्वितीया चैव यक्षिणी ॥
तृतीया च महायोगी गोत्रदेव्यः प्रकीर्तिताः ॥ ७४ ॥
अस्मिन्वंशे च ये जाता ब्राह्मणाः सत्यवादिनः ॥
अलौल्याश्च महायज्ञा वेदाज्ञाप्रतिपालकाः ॥ ७५ ॥
इत्यष्टाविंशं स्थानम् ॥ २८ ॥
वाटस्त्रहाले ये जाता गोत्रत्रितयमेव च ॥
धारणं प्रथमं ज्ञेयं वत्ससञ्ज्ञं द्वितीयकम् ॥ ७६ ॥
तृतीयं कुत्ससञ्ज्ञं च गोत्रदेव्यस्तथैव च ॥
प्रथमं धारणसगोत्रं प्रवरत्रयमेव च ॥ ७७ ॥
अगस्तिदार्ढच्युतश्चैव इध्मवाहन एव च ॥
द्वितीयं वत्ससञ्ज्ञं हि प्रवराणि च पञ्च वै ॥ ७८ ॥
भृगु च्यवनाप्नवानौर्वजमदग्निस्तथैव च ॥
तृतीयं कुत्ससञ्ज्ञं हि प्रवरत्रयमेव च ॥ ७९ ॥
आङ्गिरसाम्बरीषौ च यौवनाश्वस्तृतीयकः ॥
देवी चच्छत्रजा चैव द्वितीया शेषला तथा ॥ 3.2.39.१८० ॥
ज्ञानजा चैव देवी च गोत्रदेव्यो ह्यनुक्रमात् ॥
अस्मिन्गोत्रे च ये विप्राः सत्यवादिजितेन्द्रियाः ॥ ८१ ॥
सुरूपाश्चाल्पाहाराश्च महादानपरायणाः ॥
निर्द्वेषिणो लोभयुता वेदाध्ययनतत्पराः ॥ ८२ ॥
दीर्घदर्शिनो महातेजा महोत्काः सत्यवादिनः ॥ ॥ ८३॥
इत्येकोनत्रिंशं स्थानम् ॥ २९ ॥
माणजा च महास्थानं गोत्रद्वितयमेव च ॥
शाण्डिल्यश्च कुशश्चैव गोत्रद्वयमितीरितम् ॥ ८४ ॥
काश्यपोऽवत्सारश्च शाण्डिल्योऽसित एव च ॥
पञ्चमो देवलश्चैव एकगोत्रं प्रकीर्तितम् ॥८५॥
ज्ञानजा च तथा देवी कथिता चात्र सैव च ॥
द्वितीयं च कुशं गोत्रं प्रवरत्रयमेव च ॥ ८६ ॥
विश्वामित्रो देवराजस्तृतीयोदलमेव च ॥
ज्ञानदा चात्र वै देवी द्वितीया सम्प्रकीर्तिता ॥ ८७॥
अस्मिन्गोत्रे तु ये जाता दुर्बला दीनमानसाः ॥
असत्यभाषिणो विप्रा लोभिनो नृपसत्तम ॥ ८८ ॥
सर्वविद्याकुशलिनो ब्राह्मणा ब्रह्मसत्तमाः ॥ ८९ ॥
इति त्रिंशं स्थानम् ॥३०॥
साणदां च परं स्थानं पवित्रं परमं मतम् ॥
कुशप्रवरजा विप्रास्तत्रस्थाः पावनाः स्मृताः ॥ 3.2.39.१९० ॥
विश्वामित्रो देवरातस्तृतीयोदल एव च ॥
ज्ञानदा च महादेवी गोत्रदेवी प्रकीर्तिता ॥ ९१ ॥
अस्मिन्गोत्रे तु ये जाता दुर्बला दीनमानसाः ॥
असत्यभाषिणो विप्रा लोभिनो नृपसत्तम॥९२॥
सर्वविद्याकुशिलिनो ब्राह्मणा ब्रह्मवित्तमाः ॥९३॥
इत्येकत्रिंशं स्थानम् ॥ ३१ ॥
आनन्दीया च संस्थानं गोत्रद्वितयमेव च ॥
भारद्वाजं नाम चैकं शाण्डिल्यं च द्वितीयकम् ॥९४ ॥
आङ्गिरसो बार्हस्पत्यो भारद्वाजस्तृतीयकः ॥
चचाई चात्र या देवी गोत्रदेवी प्रकीर्तिता ॥ ९५ ॥
काश्यपावत्सारश्च शाण्डिल्योऽसित एव च ॥
पञ्चमो देवलश्चैव प्रवराणि यथाक्रमम् ॥ ९६ ॥
ज्ञानजा च तथा देवी कथिता गोत्रदेवता ॥
अस्मिन्गोत्रे च ये जाता निर्लोभाः शुद्धमानसाः ॥९७॥
यदृच्छालाभसन्तुष्टा ब्राह्मणा ब्रह्मवित्तमाः ॥९८॥
इति द्वात्रिंशं स्थानम् ॥३२॥
पाटडीया परं स्थानं पवित्रं परिकीर्तितम्।
कुशगोत्रं भवेदत्र प्रवरत्रयसंयुतम् ॥९९॥
विश्वामित्रो देवरातस्तृतीयौदलमेव हि ॥
अस्मिन्गोत्रे च ये जाता वेदशास्त्र परायणाः ॥3.2.39.२००॥
मदोद्धुराश्च ते विप्रा न्यायमार्गप्रवर्तकाः ॥१॥
इति त्रयस्त्रिंशं स्थानम् ॥ ३३ ॥
टीकोलिया परं स्थानं कुशगोत्रं तथैव च ॥
विश्वामित्रो देवरातस्तृतीयौदलमेव च ॥२॥
चचाई चात्र वै देवी गोत्रदेवी प्रकीर्तिता ॥
अस्मिन्गोत्रे भवा विप्राः श्रुतिस्मृतिपरायणाः ॥३॥
रोगिणो लोभिनो दुष्टा यजने याजने रताः ॥
ब्रह्मक्रियापराः सर्वे मोढाः प्रोक्ता मयात्र वै ॥४॥
इति चतुस्त्रिंशं स्थानम् ॥३४॥
गमीधाणीयं परमं स्थानं प्रोक्तं वै पचत्रिंशकम्॥
योत्र धारणसं चैव देवी चात्र महाबला॥५॥
अगस्तिदार्ढच्युतइध्मवाहनसञ्ज्ञकाः॥
अस्मिन्वंशे च ये जाता ब्राह्मणा ब्रह्मतत्पराः ॥ ६ ॥
अलौल्याश्च महाप्राज्ञा वेदाज्ञाप्रतिपालकाः ॥ ७ ॥
इति पञ्चत्रिंशं स्थानम् ॥३५॥
मात्रा च परमं स्थानं पवित्रं सर्वदेहिनाम् ॥
कुशगोत्रं पवित्रं तु परमं चात्र धिष्ठितम् ॥ ८ ॥
विश्वामित्रो देवरातो दलश्चैव तृतीयकः ॥
ज्ञानदा च महादेवी सर्वलोकैकरक्षिणी ॥ ९ ॥
अस्मिन्वंशे समुद्भूता ब्राह्मणा देवतत्पराः ॥
सस्वाधायवषट्कारा वेदशास्त्रप्रवर्तकाः ॥ 3.2.39.२१० ॥
इति षट्त्रिशं स्थानम् ॥ ३६ ॥
नातमोरा परं स्थानं पवित्रं परमं शुभम् ॥
कुशगोत्रं च तत्रास्ति प्रवरत्रयसंयुतम् ॥ ११ ॥
विश्वामित्रो देवरातस्तृतीयौदलमेव च ॥
ज्ञानजा चात्र वै देवी गोत्रदेवी प्रकीर्तिता ॥ १२ ॥
अस्मिन्वंशे भवा ये च ब्राह्मणा ब्रह्मवित्तमाः ॥
धर्मज्ञाः सत्यवक्तारो व्रतदानपरायणाः ॥ १३ ॥
इति सप्तत्रिंशं स्थानम् ॥ ३७ ॥
बलोला च महास्थानं पवित्रं परमाद्भुतम् ॥
कुशगोत्रं समाख्यातं प्रवरत्रयमेव च ॥ १४ ॥
पूर्वोक्तं प्रवरं चैव देवी चैवात्र मानदा ॥
वंशेस्मिन्परमाः प्रोक्ताः काजेशेन विनिर्मिताः॥। १५ ॥
असत्यभाषिणो विप्रा लोभिनो नृपसत्तम ॥
सर्वविद्याकुशलिनो ब्राह्मणा ब्रह्मसत्तमाः ॥ १६ ॥
इत्यष्टत्रिंशं स्थानम् ॥ ३८ ॥
राज्यजा च महास्थानं लौगाक्षाप्रवरं तथा ॥
काश्यपावत्सारवाशिष्ठं प्रवरत्रयमेव च ॥ १७ ॥
भद्रा च योगिनी चैव गोत्रदेवी प्रकीर्तिता ॥
अस्मिन्वंशे समुद्भूता ब्राह्मणा वेदतत्पराः ॥ १८ ॥
नित्यस्नाननित्यहोमनित्यदानपरायणाः ॥
नित्यधर्मरताश्चैव नित्यनैमित्ततत्पराः ॥ १९ ॥
इत्येकोनचत्वारिंशं स्थानम ॥ ३९ ॥
रूपोला परमं स्थानं पवित्रमतिपुण्यदम् ॥
अस्मिन्गोत्रत्रये चैव देवीत्रितयमेव च ॥3.2.39.२२०॥
प्रथमं कुत्सवत्साख्यौ भारद्वाजस्तृतीयकः ॥
आङ्गिरसोम्बरीषश्च यौवनाश्वस्तृतीयकः ॥ २१ ॥
भृगुच्यवनाप्नवानौर्वजगदग्निस्तथैव च ॥
आङ्गिरसवार्हस्पत्यभारद्वाजस्तथैव च ॥२२॥
क्षेमला चैव वै देवी धारभट्टारिका तथा ॥
तृतीया क्षेमला प्रोक्ता गोत्रमाता ह्यनुक्रमात् ॥२३॥
अस्मिन्गोत्रे च ये जाता पञ्चयज्ञरताः सदा ॥
लोभिनः क्रोधिनश्चैव प्रजायन्ते बहुप्रजाः ॥ २४ ॥
स्नानदानादिनिरताः सदा च विजितेन्द्रियाः ॥
वापीकूपतडागानां कर्त्तारश्च सहस्रशः ॥ २५ ॥
इति चत्वारिंशं स्थानम् ॥ ४० ॥
बोधणी परमं स्थानं पवित्रं पापनाशनम् ॥
कुशं च कौशिकं चैव गोत्रद्वितयमेव च ॥ २६ ॥
विश्वामित्रश्च प्रथमो देवरातोदलेति च ॥
विश्वामित्राघमर्षणकौशिकेति तथैव च ॥ २७ ॥
यक्षिणी प्रथमा चैव द्वितीया तारणी तथा ॥
अस्मिन्गोत्रे तु ये जाता दुर्बला दीनमानसाः ॥ २८ ॥
असत्यभाषिणो विप्रा लोभिनो नृपसत्तम ॥
सर्वविद्याकुशलिनो ब्राह्मणा ब्रह्मसत्तमाः । २९ ॥
इत्येकचत्वारिशं स्थानम् ॥ ४१ ॥
छत्रोटा च परं स्थानं सर्वलोकैकपूजितम् ॥
कुशगोत्रं समाख्यातं प्रवरत्रयमेव हि ॥ 3.2.39.२३० ॥
विश्वामित्रो देवरातस्तृतीयो दलमेव वै ॥
चचाई चात्र वै देवी गोत्रदेवी प्रकीर्तिता ॥ ३१ ॥
अस्मिन्वंशे भवाश्चैव वेदशास्त्रपरायणाः ॥
महोदयाश्च ते विप्रा न्यायमार्गप्रवर्तकाः । ३२ ॥
इति द्विचत्वारिंशं स्थानम् ॥ ४२ ॥
खल एवात्र संस्थानं त्रयश्चत्वारिंशमेव हि ॥
वत्सगोत्रोद्भवा विप्राः कृषिकर्मप्रवर्तकाः ॥ ३३ ॥
गोत्रजा ज्ञानजा देवी प्रवराः पञ्च एव हि ॥
भार्गावच्या वनाप्नवानौर्वजामदग्न्येति चैव हि ॥ ३४ ॥
अस्मिन्गोत्रे भवा विप्राः श्रौताग्नि सुनिषेवकाः ॥
वेदाध्ययनशीलाश्च तापसाश्चारिमर्दनाः ॥ ३५ ॥
रोषिणो लोभिनो हृष्टा यजने याजने रताः ॥
सर्वभूतदयाविष्टास्तथा परोपकारिणः ॥३६ ॥
इति त्रयश्चत्वारिम्श स्थानम् ॥ ४३ ॥
वासन्तड्यां च विप्राणां कुशगोत्रमुदाहृतम् ॥
विश्वामित्रो देवारातस्तृतीयौदलमेव हि ॥३७॥
चचाई चात्र वै देवी गोत्रदेवी प्रकीर्तिता ॥
अस्मिन्वंशे च ये जाताः पूर्वोक्ता ब्रह्मतत्पराः ॥ ३८ ॥
परोपकारिणश्चैव परचित्तानुवर्तिनः ॥
परस्वविमुखाश्चैव परमार्गप्रवर्त्तकाः ॥ ३९ ॥
इति चतुश्चत्वारिंशं स्थानम् ॥ ॥ ४४ ॥
अतः परं च संस्थानं जाखासणमुदाहृतम् ॥
गोत्रं वै वात्स्यसञ्ज्ञं तु गोत्रजा शीहुरी तथा ॥
प्रवराणि च पञ्चैव मया तव प्रकाशितम् ॥ 3.2.39.२४० ॥
भार्गवच्यावनाप्नवानौर्वपुरोधसः स्मृतः ॥
अस्मिन्वंशे च ये जाता वाडवाः सुखवासिनः ॥
विप्राः स्थूलाश्च ज्ञातारः सर्वकर्म रताश्च वै ॥ ४१ ॥
सर्वे धर्मैकविश्वासाः सर्वलोकैकपूजिताः ॥
वेदशास्त्रार्थनिपुणा यजने याजने रताः ॥ ४२ ॥
सदाचाराः सुरूपाश्च तुन्दिला दीर्घ दर्शिनः ॥
शीहुरी चात्र वै देवी कुलदेवी प्रकीर्तिता ॥ ४३ ॥
इति पञ्चचत्वारिंशं स्थानम् ॥ ४५ ॥
षट्चत्वारिंशकं स्थानं मोटानां तु प्रकाशितम्॥
गोतीआनामसञ्ज्ञा तु कुशगोत्रमिहास्ति च ॥४४॥
विश्वामित्रं प्रथमं चैव द्वितीयं देवरातकम्॥
तृतीयमौदलं चैव प्रवरत्रितयं त्विदम्॥४५॥
यक्षिणी चात्र वै देवी राक्षसानां प्रभञ्जनी॥
अस्मिन्वंशे च ये जाता ब्राह्मणा ब्रह्मतत्पराः॥४६॥
धर्मे मतिप्रवृत्ताश्च धर्मशास्त्रेषु निष्ठिताः ॥ ४७ ॥
इति षटचत्वारिंशस्थानम् ॥ ४६ ॥
सप्तचत्वारिंशकं च संस्थानं परिकीर्तितम् ॥
वरलीयाख्यसंस्थानं पवित्रं परमं मतम् ॥ ४८ ॥
भारद्वाजं तथा गोत्रं प्रवराणि तथैव च ॥
यक्षिणी चात्र वै देवी कुलदेवी प्रकीर्तिता ॥ ४९ ॥
आङ्गिरसं बार्हस्पत्यं भारद्वाजं तृतीयकम् ॥
अस्मिन्वंशे च ये जाताः ब्राह्मणा पूतमूर्तयः॥ 3.2.39.२५० ॥
येषां वाक्योदकेनैव शुध्यन्ति पापिनो नराः ॥ ५१ ॥
इति सप्तचत्वारिंशकं स्थानम् ॥ ४७ ॥
दुधीयाख्यं परं स्थानं गोत्रद्वितयमेव च ॥
धारणसं तथा गोत्रमाङ्गिरकसमेव च ॥ ५२ ॥
अगस्तिदार्ढच्युतइध्मवाहनसञ्ज्ञकम् ॥
छत्राइ च महादेवी द्वितीयं प्रवरं शृणु ॥ ५३ ॥
आङ्गिरसाम्बरीषौ च यौवनाश्वस्तृतीयकः ॥
ज्ञानदा शेषला चैव ज्ञानदा सर्वदेहिनाम् ॥ ५४ ॥
अस्मिन्वंशे समुत्पन्ना वाडवा दुःसहा नृप ॥
मदोत्कटा महाकायाः प्रलम्भाश्च मदोद्धताः ॥ ५५ ॥
क्लेशरूपाः कृष्णवर्णाः सर्वशस्त्रविशारदाः ॥
बहुभुग्धनिनो दक्षा द्वेषपापविवर्जिताः ॥ ५६ ॥
इत्यष्टाचत्वारिशकं स्थानम् ॥ ४८ ॥
हासोलासं प्रवक्ष्यामि स्वस्थानं चात्र संश्रुतम् ॥
शाण्डिल्यगोत्रं चैवात्र प्रवरैः पञ्चभिर्युतम् ॥ ५७ ॥
भार्गवच्यावनाप्नवानौर्वं वै जामदग्न्यकम् ॥
यक्षिणी चात्र वै देवी पवित्रा पापनाशिनी ॥ ५८ ॥
अस्मिन्वंशे च ये जाता ब्राह्मणाः स्थूलदेहिनः ॥
लम्बोदरा लम्बकर्णा लम्बहस्ता महाद्विजाः ॥ ५९ ॥
अरोगिणः सदा देवाः सत्यव्रतपरायणाः ॥ ॥ 3.2.39.२६० ॥
इत्येकोनपञ्चाशत्तमं स्थानम् ॥ ४९ ॥
वैहालाख्यं च संस्थानं पचाशत्तममेव हि ॥
कुशगोत्रं तथा चैव देवी चात्र महाबला ॥ ६१ ॥
अस्मिन्गोत्रे भवा विप्रा दुष्टाः कुटिलगामिनः ॥
धनिनो धर्मनिष्ठाश्च वेदवेदाङ्गपारगाः ॥ ६२ ॥
दानभोगरताः सर्वे श्रौते च कृत बुद्धयः ॥ ६३ ॥
इति पञ्चाशत्तमं स्थानम् ॥ ५० ॥
असाला परमं स्थानं प्रवरद्वयमेव हि ॥
कुशं च धारणं चैव प्रवराणि क्रमेण तु ॥६४॥
विश्वामित्रो देवरातो देवलस्तु तृतीयकः ॥
ज्ञानजा च तथा देवी गोत्रदेवी प्रकीर्तिता ॥ ६५ ॥
इत्येकपञ्चाशत्तमं स्थानम् ॥ ५१ ॥
नालोला परमं स्थानं द्विपञ्चाशत्तमं किल ॥
वत्सगोत्रं तथा ख्यातं द्वितीयं धारणसं तथा ॥ ६६ ॥
प्रवराश्चैव पूर्वोक्ता देव्युक्ता पूर्वमेव हि ॥
अस्मिन्वंशे च ये जाताः पवित्राः परमा मताः ॥ ६७
बहुनोक्तेन किं विप्राः सर्व एवात्र सत्तमाः ॥
सर्वे शुद्धा महात्मानः सर्वे कुलपरम्पराः॥६८॥
इति द्वापञ्चाश त्तमं स्थानम्॥५२॥
देहोलं परमं स्थानं ब्राह्मणानां परन्तप ॥
कुशवंशोद्भवा विप्रास्तत्र जाता नृसत्तम ॥
पूर्वोक्तप्रवराण्येव देवी पूर्वोदिता मया॥६९॥
तस्मिन्गोत्रे द्विजा जाताः पूर्वोक्तगुणशालिनः ॥3.2.39.२७०॥
इति त्रिपञ्चाशत्तमं स्थानम् ॥ ५३ ॥
सोहासीयापुरं स्थानं गोत्रत्रितयमेव हि ॥
भारद्वाजस्तथा ख्यातं गोत्रं वत्सं तथैव च ॥७१॥
यक्षिणी ज्ञानजा चैव सिहोली च यथाक्रमम्॥
एतद्वंशपरीक्षा च पूर्वोक्ता नृपसत्तम ॥७२॥
इति चतुःपञ्चाशत्तमं स्थानम् ॥५४॥
पञ्चपञ्चाशकं स्थानं प्रवक्ष्यामि तवाधुना ॥
नाम्ना संहालियास्थानं दत्तं रामेण वै पुरा ॥७३॥
तत्र वै कुत्सगोत्रस्था ब्राह्मणां ब्रह्मवर्चसः॥
स्वधर्मनिरता नित्याः स्वकर्म्मनिरताश्च ते ॥७४ ॥
आङ्गिरसाम्बरीषेच यौवनाश्वमतः परम् ॥
शान्ता चैवात्र वै देवी शान्तिकर्म्मणि शा तिदा ॥ ७५ ॥
इति पञ्चपञ्चाशत्तमं स्थानम् ॥ ५५ ॥
एवं मया ते गोत्राणि स्थानान्यपि तथैव च ॥
प्रवराणि तथैवात्र ब्राह्मणानां परन्तप ॥७६॥
अतः परं प्रवक्ष्यामि त्रैविद्यानां परन्तप ॥
स्वस्थानं च मया प्रोक्तं यथानुक्रमेण तु ॥ ७७ ॥
शीलायाः प्रथमं स्थानं मण्डोरा च द्वितीयकम् ॥
एवडी च तृतीय हि गुन्दराणा चतुर्थकम् ॥७८॥
पञ्चमं कल्याणीया देगामा षष्ठकं तथा ॥
नायकपुरा सप्तमं च डलीआ चाष्टमं तथा ॥ ७९ ॥
कडोव्या नवमं चैव कोहाटोया दशमं तथा॥
हरडीयैकादशं चैव भदुकीया द्वादशं तथा ॥3.2.39.२८०॥
सम्प्राणावा तथा चात्र कन्दरावा प्रकीर्तितम् ॥
वासरोवा त्रयोदशं शरण्डावा चतुर्दशम् ॥ ८१ ॥
लोलासणा पञ्चदशं वारोला षोडशं तथा ॥
नागलपुरा मया चात्र उक्तं सप्तदशं तथा ॥ ८२ ॥
॥ ब्रह्मोवाच ॥ ॥
चातुर्विद्यास्तु ये विप्रा नागताः पुनरागताः ॥
वसतिं तत्र रम्ये च चक्रिरे ते द्विजोत्तमाः ॥ ८३ ॥
चतुर्विंशतिसङ्ख्याका रामशासनलिप्सया ॥
हनुमन्तं प्रति गता व्यावृत्ताः पुनरागताः ॥८४॥
तेषां दोषात्समस्तास्ते स्थानभ्रंशत्वमागताः॥
कियत्काले गते तेषां विरोधः समपद्यत ॥ ८५ ॥
भिन्नाचारा भिन्नभाषा वेशसंशयमागताः ॥
पञ्चदशसहस्राणि मध्ये ये के च वाडवाः॥८६॥
कृषिकर्मरता आसन्केचिद्यज्ञपरायणाः॥
केचिन्मल्लाश्च सञ्जा ताः केचिद्वै वेदपाठकाः ॥८७॥
आयुर्वेदरताः केचित्केचिद्रजकयाजकाः ॥
सन्ध्यास्नानपराः केचिन्नीलीकर्तृप्रयाजकाः ॥ ८८ ॥
तन्तुकृद्याचनरतास्तन्तुवायादियाचकाः ॥
कलौ प्राप्ते द्विजाः भ्रष्टा भविष्यन्ति न संशयः ॥ ८९ ॥
शूद्रेषु जातिभेदः स्यात्कलौ प्राप्ते नराधिप ॥
भ्रष्टाचाराः परं ज्ञात्वा ज्ञातिबन्धेन पीडिताः ॥ 3.2.39.२९० ॥
भोजनाच्छादने राजन्परित्यक्ता निजैर्जनैः ॥
न कोऽपि कन्यां विवहेत्संसर्गेण कदाचन ॥
ततस्ते वणिजो राजं स्तैलकाराः कलौ किल ॥ ९१ ॥
केचिच्च कलकाराश्च केचित्तन्दुलकारिणः ॥
राजपुत्राश्रिताः केचिन्नानावर्णसमाश्रिताः ॥
कलौ प्राप्ते तु वणिजो भ्रष्टाः केपि महीतले ॥ ९२ ॥
तेषां तु पृथगाचाराः सम्बन्धाश्च पृथक्कृता ॥
सीतापुरे च वसतिः केषाञ्चित्समजायत ॥ ९३ ॥
साभ्रमत्यास्तटे केचिद्यत्र कुत्र व्यवस्थिताः ॥
सीतापुरात्तु ये पूर्वं भयभीता समागताः ॥ ९४ ॥
साभ्रमत्युत्तरे कूले श्रीक्षेत्रे ये व्यवस्थिताः ॥
यदा तेषां पदं स्थानं दत्तं वै सुखवासकम् ॥९५॥
पुनस्तेऽपि गताः सद्यस्तस्मिन्सीतापुरे स्वयम्॥
पञ्चपञ्चाशद्ग्रामाश्च दत्तास्तु प्रुनरागमे ॥ ९६ ॥
रामेण मोढविप्राणां निवासांस्तेषु चक्रिरे ॥
वृत्तिबाह्यास्तु ये विप्रा धर्मारण्यान्तरस्थिताः ॥ ९७ ॥
नास्माकं वणिजां वृत्तौ ग्रामवृत्तौ न किञ्चन ॥
प्रयोजनं हि विप्रेन्द्रा वासोऽस्माकं तु रोचते ॥ ९८ ॥
इत्युक्ते समनुज्ञातास्त्रैविद्यैस्तैर्द्विजोत्तमैः ॥
तेषु ग्रामेषु ते विप्राश्चातुर्विद्या द्विजोत्तमाः ॥ ९९ ॥
स्वकर्मनिरताः शान्ताः कृषिकर्मपरायणाः ॥
धर्मारण्यान्नातिदूरे धेनूः सञ्चारयन्ति ते ॥3.2.39.३००॥
बहवस्तत्र गोपाला वभूवुर्द्विजबालकाः ॥
चातुर्विद्यास्तु शिशवस्तेषां धेनूरचारयन् ॥
तेषां भोजनकामाय अन्नपानादिसत्कृतम् ॥ १ ॥
अनयन्वै युवतयो विधवा अपि बालकाः ॥ २ ॥
कालेन कियता राजंस्तेषां प्रीतिरभून्मिथः ॥
गोपाला बुभुजुः प्रेम्णा कुमार्यो द्विजबालिकाः ॥ ३ ॥
जाताः सगर्भास्ताः सर्वा दृष्टास्तैर्द्विजसत्तमैः ॥
परित्यक्ताश्च सदनाद्धिक्कृताः पापकर्मणा ॥ ४ ॥
तेभ्यो जाता कुमारा ये कातीभा गोलकास्तथा ॥
धेनुजास्ते धरालोके ख्यातिं जग्मुर्द्विजोत्तमाः ॥ ५ ॥
वृत्ति बाह्यास्तु ते विप्रा भिक्षां कुर्वन्ति नित्यशः ॥
अन्यच्च श्रूयतां राजंस्त्रैविद्यानां द्विजन्मनाम् ॥ ६ ॥
कुष्ठी कोऽपि तथा पङ्गुर्मूर्खो वा बधिरोऽपि वा ॥
काणो वाप्यथ कुब्जो वा बद्धवागथवा पुनः ॥ ७ ॥
अप्राप्तकन्यका ह्येते चातुर्विद्यान्समाश्रिताः ॥
वित्तेन महता राजन्सुतांस्तेषां कुमारिकाः ॥ ८ ॥
उद्वाहितास्तदा राजंस्तस्माज्जातार्भकास्तु ये ॥
त्रिदलजास्ते विख्याताः क्षितिलोकेऽभवंस्ततः ॥ ९ ॥
वृत्तिं चक्रुर्ब्राह्मणास्तेऽ न्योन्यं मिश्रसमुद्भवाः ॥
अन्यच्च श्रूयतां राजंस्त्रैविद्यानां द्विजन्मनाम् ॥ 3.2.39.३१० ॥
रामदत्तेन ग्रामेण करग्रहणहेतवे ॥
एकीभूय द्विजैः सर्वैर्ग्रामं प्रदाय तं बलिम् ॥ ११ ॥
अर्द्धं निवेदयामासुरर्द्धं चैवोपरक्षितम् ॥
एतल्लब्धं हि मन्वानास्ते द्विजा लौल्यभागिनः ॥ १२ ॥
महास्थानगता ये च ते हि विस्मयमाययुः ॥
तन्मध्ये कोऽपि विप्रस्तानुवाच कुपितो वचः ॥ १३ ॥
॥ विप्र उवाच ॥ ॥
अनृतं चैव भाषन्ते लौल्येन महता वृताः ॥
पुत्रपौत्रविनाशाय ब्रह्मस्वेष्वतिलोलुपाः ॥ १४ ॥
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ॥
विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकम् ॥ १५ ॥
ब्रह्मस्वेन च दग्धेषु पुत्रदारगृहादिषु ॥
न च तेऽपि तिष्ठन्ति ब्रह्मस्वेन विनाशिताः ॥ १६ ॥
न नाकं लभते सोऽथ सदा ब्रह्मस्वहारकः ॥
यदा वराटिकां चैव ब्राह्मणस्य हरन्ति ये ॥ १७ ॥
ततो जन्मत्रयाण्येव हर्त्ता निरयमाव्रजेत् ॥
पूर्वजा नोपभुञ्जन्ति तत्प्रदत्तं जलं क्वचित् ॥ १८ ॥
क्षयाहे नोपभुञ्जन्ति तस्य पिण्डोदकक्रियाः ॥
सन्ततिं नैव लभते लभ्यमाना न जीवति ॥ १९ ॥
यदि जीवति दैवाच्चेद्भ्रष्टाचारा भवेदिति ॥ 3.2.39.३२० ॥
एकादशविप्रा ऊचुः ॥
नासत्यं भाषितं विप्राः कथं दूषयसे हि नः ॥
अपराधं विना कस्य कटूक्तिर्युज्यते किल ॥ २१ ॥
तच्छ्रुत्वा तैर्द्विजैः पार्थ ग्रामग्राहयिता वणिक् ॥
परिपृष्टः स तत्सर्वं कथयामास कारणम् ॥ २२ ॥
वणिजैरेव मे दत्तो बलिश्च द्विजसत्तमाः ॥
तत्सर्वं शुद्धभावेन कथितं तु द्विजन्मसु ॥ २३ ॥
ततोऽर्द्धदलं ज्ञात्वा ते कुपिता द्विजपुत्रकाः ॥
वृत्तेर्बहिष्कृतास्ते वै एकादश द्विजास्ततः ॥ २४ ॥
एकादशसमा ज्ञातिर्विख्याता भुवनत्रये ॥
न तेषां सहसम्बन्धो न विवाहश्च जायते ॥ २५ ॥
एकादशसमा ये च बहिर्ग्रामे वसन्ति ते ॥
एवं भेदाः समभवन्नाना मोढद्विजन्मनाम् ॥
युगानुसारात्कालेन ज्ञातीनां च वृषस्य वा ॥ ३२६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये ज्ञातिभेदवर्णनन्नामैकोनचत्वारिंशोऽध्यायः ॥ ॥ ३९ ॥ ॥ छ ॥