॥ व्यास उवाच ॥ ॥
ततः प्रभाते विमले कृतपूर्वाह्निकक्रियाः ॥
शुभवस्त्रपरीधानाः फल हस्ताः पृथक्पृथक् ॥ १ ॥
रत्नाङ्गदाढ्यदोर्दण्डा अङ्गुलीयकभूषिताः ॥
कर्णाभरणसंयुक्ताः समाजग्मुः प्रहर्षिताः ॥ २ ॥
राजद्वारं तु सम्प्राप्य सन्त स्थुर्ब्रह्मवादिनः ॥
तान्दृष्ट्वा राजपुत्रस्तु ईषत्प्रहसितो बली ॥ ३ ॥
रामं च हनुमन्तं च गत्वा विप्राः समागताः ॥
श्रूयतां मन्त्रिणः सर्वे दृश्यन्तो द्विज सत्तमान् ॥ ४ ।
एतदुक्त्वा तु वचनं तूष्णीं भूत्वा स्थितो नृपः ॥
ततो द्वित्रा द्विजाः सर्वे उपविष्टाः क्रमात्ततः ॥ ५ ॥
क्षेमं पप्रच्छुर्नृपतिं हस्तिरथपदातिषु ॥
ततः प्रोवाच नृपतिर्विप्रान्प्रति महामनाः ॥ ६ ॥
अरिहन्तप्रसादेन सर्वत्र कुशलं मम ॥
सा जिह्वा या जिनं स्तौ ति तौ करौ यौ जिनार्चनौ ॥ ७ ॥
सा दृष्टिर्या जिने लीना तन्मनो यज्जिने रतम् ॥
दया सर्वत्र कर्तव्या जीवात्मा पूज्यते सदा ॥ ८ ॥
योगशाला हि गन्तव्या कर्त्तव्यं गुरुवन्दनम् ॥
न चकारं महामन्त्रं जपितव्यमहर्निशम् ॥ ९ ॥
पञ्चूषणं हि कर्त्तव्यं दातव्यं श्रमणे सदा ॥
श्रुत्वा वाक्यं ततो विप्रास्तस्य दन्तानपीडयन् ॥ 3.2.38.१० ॥
विमुच्य दीर्घनिश्वासमूचुस्ते नृपतिं प्रति ॥
रामेण कथितं राजन्धीमता च हनूमता ॥ ११॥
दीयतां विप्रवृत्तिं च धर्मिष्ठोऽसि धरातले ॥
ज्ञायते तव द्दत्ता स्यान्मदत्ता नैव नैव च ॥१२॥
रक्षस्व रामवाक्यं त्वं यत्कृत्वा त्वं सुखी भव ॥१३॥ ॥
॥ राजोवाच ॥ ॥
यत्र रामहनूमन्तौ यान्तु सर्वेऽपि तत्र वै ॥
रामो दास्यति सर्वस्वं किं प्राप्ता इह वै द्विजाः ॥ १४ ॥
न दास्यामि न दास्यामि एकां चैव वराटिकाम् ॥
न ग्रामं नैव वृत्तिं च गच्छध्वं यत्र रोचते ॥ १५ ॥
तच्छ्रुत्वा दारुणं वाक्यं द्विजाः कोपाकुलास्तदा ॥
सहस्व रामकोपं हि साम्प्रतञ्च हनूमतः ॥ १६ ॥
इत्युक्त्वा हनुमद्दत्ता वामकक्षोद्भवा पुटी ॥
प्रक्षिप्ता चास्य निलये व्यावृत्ता द्विजसत्तमाः ॥ १७ ॥
गते तदा विप्रसङ्घे ज्वालामालाकुलं त्वभूत् ॥
अग्निज्वालाकुलं सर्वं सञ्जातं चैव तत्र हि ॥ १८ ॥
दह्यन्ते राजवस्तूनिच्छत्राणि चामराणि च ॥
कोशागाराणि सर्वाणि आयुधागारमेव च ॥१९॥
महिष्यो राजपुत्राश्च गजा अश्वा ह्यनेकशः ॥
विमानानि च दह्यन्ते दह्यन्ते वाहनानि च ॥3.2.38.२०॥
शिबिकाश्च विचित्रा वै रथाश्चैव सहस्रशः ॥
सर्वत्र दह्यमानं च दृष्ट्वा राजापि विव्यथे ॥ २१ ॥
न कोपि त्राता तस्यास्ति मानवा भयविक्लवाः ॥
न मन्त्रयन्त्रैर्वह्निः स साध्यते न च मूलिकैः ॥ २२ ॥
कौटिल्यकोटिनाशी च यत्र रामः प्रकुप्यते ॥
तत्र सर्वे प्रणश्यन्ति किं तत्कुमारपालकः ॥ २३ ॥
सर्वं तज्जवलितं दृष्ट्वा नग्नक्षपणकास्तदा ॥
धृत्वा करेण पात्राणि नीत्वा दण्डाञ्छुभानपि ॥ २४ ॥
रक्तकम्बलिका गृह्य वेपमाना मुहुर्मुहुः ॥
अनुपानहिकाश्चैव नष्टाः सर्वे दिशो दश ॥ २६ ॥
कोलाहलं प्रकुर्वाणाः पलायध्वमिति ब्रुवन् ॥
दाहिता विप्रमुख्यैश्च वयं सर्वे न संशयः ॥ २६ ॥
केचिच्च भग्नपात्रास्ते भग्नदं ण्डास्तथापरे ॥
प्रनष्टाश्च विवस्त्रास्ते वीतरागमिति ब्रुवन् ॥ २७ ॥
अर्हतमेव केचिच्च पलायनपरायणाः ॥
ततो वायुः समभवद्वह्निमान्दोलयन्निव ॥ ॥ २८ ॥
प्रेषितो वै हनुमता विप्राणां प्रियकाम्यया ॥
धावन्स नृपतिः पश्चादितश्चेतश्च वै तदा ॥ २९ ॥
पदातिरेकः प्ररुदन्क्व विप्रा इति जल्पकः ॥
लोकाच्छ्रुत्वा ततो राजा गतस्तत्र यतो द्विजाः ॥ 3.2.38.३० ॥
गत्वा तु सहसा राजन्गृहीत्वा चरणौ तदा ॥
विप्राणां नृपतिर्भूमौ मूर्च्छितो न्यपत त्तदा ॥ ३१ ॥
उवाच वचनं राजा विप्रान्विनयतत्परः ॥
जपन्दाशरथिं रामं रामरामेति वै पुनः ॥ ३२ ॥
तस्य दासस्य दासोहं रामस्य च द्विज स्य च ॥
अज्ञानतिमिरान्धेन जातोस्म्यन्धो हि सम्प्रति ॥ ३३ ॥
अञ्जनं च मया लब्धं रामनाममहौषधम् ॥
रामं मुक्त्वा हि ये मर्त्या ह्यन्यं देव मुपासते ॥
दह्यन्ते तेऽग्निना स्वामिन्यथाहं मूढचेतनः ॥ ३४ ॥
हरिर्भागीरथी विप्रा विप्रा भागीरथी हरिः ॥
भागीरथी हरिर्विप्राः सारमेकं जगत्त्रये॥ ॥ ३५ ॥
स्वर्गस्य चैत्र सोपानं विप्रा भागीरथी हरिः ॥
रामनाममहारज्ज्वा वैकुण्ठे येन नीयते ॥ ३६ ॥
इत्येवं प्रणमन्राजा प्राञ्जलिर्वाक्यमब्रवीत्॥
वह्निः प्रशाम्यतां विप्राः शासनं वो ददाम्यहम् ॥ ३७ ॥
दासोऽस्मि साम्प्रतं विप्रा न मे वागन्यथा भवेत् ॥
यत्पापं ब्रह्महत्यायाः पर दाराभिगामिनाम्॥ ३८॥
यत्पापं मद्यपानां च सुवर्णस्तेयिनां तथा ॥
यत्पापं गुरुघातानां तत्पापं वा भवेन्मम ॥ ३९ ॥
यंयं चिन्तयते कामं तं तं दास्याम्यहं पुनः ॥
विप्रभक्तिः सदा कार्या रामभक्तिस्तथैव च ॥ 3.2.38.४० ॥
अन्यथा करणीयं मे न कदाचि द्द्विजोत्तमाः ॥ ४१ ॥
॥ व्यास उवाच ॥ ॥
तस्मिन्नवसरे विप्रा जाता भूप दयालवः ॥
अन्या या पुटिका चासीत्सा दत्ता शापशान्तये ॥ ४२ ॥
जीवितं चैव तत्सैन्यं जातं क्षिप्तेषु रोमसु ॥
दिशः प्रसन्नाः सञ्जाताः शान्ता दिग्जनितस्वनाः ॥ ४३ ॥
प्रजा स्वस्था ऽभवत्तत्र हर्षनिर्भरमानसा ॥
अवतस्थे यथापूर्वं पुत्रपौत्रादिकं तथा ॥ ४४ ॥
विप्राज्ञाकारिणो लोकाः सञ्जाताश्च यथा पुरा ॥
विष्णुधर्मं परित्यज्य नान्यं जानन्ति ते वृषम् ॥ ४५ ॥
नवीनं शासनं कृत्वा पूर्ववद्विधिपूर्वकम् ॥
निष्कासितास्तु पाषण्डाः कृतशास्त्रप्रयोजकाः ॥ ४६ ॥
वेदबाह्याः प्रनष्टास्ते उत्तमाधममध्यमाः ॥
षट्त्रिंशच्च सहस्राणि येऽभूवन्गोभुजाः पुरा ॥ ४७ ॥
तेषां मध्यात्तु सञ्जाता अढवीजा वणिग्जनाः ॥
शुश्रूषार्थं ब्राह्मणानां राज्ञा सर्वे निरूपिताः ॥ ४८ ॥
सदाचाराः सुनिपुणा देवब्राह्मणपूजकाः ॥
त्यक्त्वा पाखण्डमार्गं तु विष्णुभक्तिपरास्तु ते ॥ ४९ ॥
जाह्नवीतीरमासाद्य त्रैविद्येभ्यो ददौ नृपः ॥
शासनं तु यदा दत्तं तेषां वै भक्तिपूर्वकम् ॥ 3.2.38.५० ॥
स्थानधर्मात्प्रचलिता वाडवास्ते समागताः ॥
नृपो विज्ञापितो विप्रैस्तैरेवं क्लेशकारिभिः ॥ ५१ ॥
ये त्यक्तवाचो विप्रेन्द्रास्तान्निःसारय भूपते ॥
परस्परं विवादास्तु सञ्जाता दत्तवृत्तये ॥ ५२ ॥
न्याय प्रदशनार्थं च कारितास्तु सभासदः ॥
हस्ताक्षरेषु दृष्टेषु पृथक्पृथक्प्रपादितम् ॥ ५३ ॥
एतच्छ्रुत्वा ततो राजा तुलादानं चकार ह ॥
दीयमाने तदा दाने चातुर्विद्या बभाषिरे ॥ ५४ ॥
अस्माभिर्हारिता जातिः कथं कुर्मः प्रतिग्रहम् ॥
निवारितास्तु ते सर्वे स्थानान्मोहेरका द्विजाः ॥५५॥
दशपञ्च सहस्राणि वेदवेदाङ्गपारगाः ॥
ततस्तेन तदा राजन्राज्ञा रामानुवर्तिना ॥ ५६ ॥
आहूता वाडवांस्तास्तु ज्ञातिभेदं चकार सः ॥
त्रयीविद्या वाडवा ये सेतुबन्धं प्रति प्रभुम् ॥ ५७ ॥
गतास्ते वृत्तिभाजः स्युर्नान्ये वृत्त्यभिभागिनः ॥
तत्र नैव गता ये वै चातुर्विद्यत्वमागताः ॥ ५८ ॥
वणिग्भिर्न च सम्बन्धो न विवाहश्च तैः सह ॥
ग्रामवृत्तौ न सम्बन्धो ज्ञातिभेदे कृते सति ॥५९॥
द्विजभक्तिपराः शूद्राः ये पाखण्डैर्न लोपिताः॥
जैन धर्मात्परावृत्तास्ते गोभूजास्तथोत्तमाः ॥ 3.2.38.६० ॥
ये च पाखण्डनिरता रामशासनलोपकाः ॥
सर्वे विप्रास्तथा शूद्रा प्रतिबन्धेन योजिताः ॥ ६१ ॥
सत्यप्रतिज्ञां कुर्वाणास्तत्रस्थाः सुखिनोऽभवन् ॥
चातुर्विद्या बहिर्ग्रामे राज्ञा तेन निवासिताः ॥६२॥
यथा रामो न कुप्येत तथा कार्यं मया ध्रुवम॥
पराङ्मुखा ये रामस्य सन्मुखानुगताः किल ॥ ६३ ॥
चातुर्विद्यास्ते विज्ञेया वृत्तिबाह्याः कृतास्तदा ॥
कृतकृत्यस्तदा जातो राजा कुमारपालकः ॥ ६४ ॥
विप्राणां पुरतः प्राह प्रश्रयेण वचस्तदा ॥
ग्रामवृत्तिर्न मे लुप्ता एतद्वै देवनिर्मितम् ॥ ६५ ॥
स्वयं कृतापराधानां दोषो कस्य न दीयते ॥
यथा वने काष्ठवर्षाद्वह्निः स्याद्दैवयोगतः ॥ ६६ ॥
भवद्भिस्तु पणः प्रोक्तो ह्यभिज्ञानस्य हेतवे ॥
रामस्य शासनं कृत्वा वायुपुत्रस्य हेतवे ॥ ६७ ॥
व्यावृत्ता वाडवा यूयं स दोषः कस्य दीयते ॥
अवसाने हरिं स्मृत्वा महापापयुतोऽपि वा ॥ ६८ ॥
विष्णुलोकं व्रजत्याशु संशयस्तु कथं भवेत् ॥
महत्पुण्योदये नॄणां बुद्धिः श्रेयसि जायते ॥ ६९ ॥
पापस्योदयकाले च विपरीता हि सा भवेत् ॥
सकृत्पालयते यस्तु धर्मेणैतज्जगत्त्रयम् ॥ ॥ 3.2.38.७० ॥
योन्तरात्मा च भूतानां संशयस्तत्र नो हितः ॥
इन्द्रादयोऽमराः सर्वे सनकाद्यास्तपोधनाः ॥ ७१ ॥
मुक्त्यर्थमर्चयन्तीह संशयस्तत्र नो हितः ॥
सहस्रनाम तत्तुल्यं रामनामेति गीयते ॥ ७२ ॥
तस्मिन्ननिश्चयं कृत्वा कथं सिद्धिर्भवेदिह ॥
मम जन्मकृतात्पुण्यादभिज्ञानं ददौ हरिः ॥ ७३ ॥
पाखण्डाद्यत्कृतं पापं मृष्टं तद्वः प्रणामतः ॥
प्रसीदन्तु भवन्तश्च त्यक्त्वा क्रोधं ममाधुना ॥ ७४ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
राजन्धर्मो विलुप्तस्ते प्रापितानां तथा पुनः ॥
अवश्यं भाविनो भावा भवन्ति महतामपि ॥ ७५ ॥
नग्नत्वं नीलकण्ठस्य महाहिशयनं हरेः ॥
एतद्दैवकृतं सर्वं प्रभुर्यः सुखदुःखयोः ॥ ७६ ॥
सत्यप्रतिज्ञास्त्रैविद्या भजन्तु रामशासनम् ॥
अस्माकं तु परं देहि स्थानं यत्र वसामहे ॥ ७७ ॥
तेषां तु वचनं श्रुत्वा सुखमिच्छुर्द्विजन्मनाम् ॥
तेषां स्थानं तु दत्तं वै सुखवासं तु नामतः ॥ ७८ ॥
हिरण्यं पुष्पवासांसि गावः कामदुघा नृप ॥
स्वर्णालङ्करणं सर्वं नानावस्तुचयं तथा ॥ ७९ ॥
श्रद्धया परया दत्त्वा मुदं लेभे नराधिपः ॥
त्रयीविद्यास्तु ते ज्ञेयाः स्थापिता ये त्रिमूर्तिभिः ॥ ॥ 3.2.38.८० ॥
चतुर्थेनैव भूपेन स्थापिताः सुखवासने ॥
ते बभूबुर्द्विजश्रेष्ठाश्चातुर्विद्याः कलौ युगे ॥ ८१ ॥
चातुर्विद्याश्च ते सर्वे धर्मारण्ये प्रतिष्ठिताः ॥
वेदोक्ता आशिषो दत्त्वा तस्मै राज्ञे महात्मने ॥ ८२ ॥
रथैरश्वैरुह्यमानाः कृतकृत्या द्विजातयः ॥
महत्प्रमोदयुक्तास्ते प्रापुर्मोहेरकं महत् ॥ ८३ ॥
पौषशुक्लत्रयोदश्यां लब्धं शासनकं द्विजैः ॥
बलिप्रदानं तु कृतमुद्दिश्य कुलदेवताम् ॥ ८४ ॥
वर्षेवर्षे प्रकर्त्तव्यं बलिदानं यथाविधि ॥
कार्यं च मङ्गलस्नानं पुरुषेण महात्मना ॥ ८५ ॥
गीतं नृत्यं तथा वाद्यं कुर्वीत तद्दिने धुवम् ॥
तन्मासे तद्दिने नैव वृत्तिनाशो भवेद्यथा ॥ ८६॥
दैवादतीतकाले चेत्वृद्धिरापद्यते यदा ॥
तदा प्रथमतः कृत्वा पश्चाद्वृद्धिर्विधीयते ॥ ८७ ॥
ये च भिन्नप्रपाप्रायास्त्रैविद्या मोढवंशजाः ॥
तथा चातुर्वेदिनश्च कुर्वन्ति गोत्रपूजनम् ॥ ८८ ॥
वर्षमध्ये प्रकुर्वीत तथा सुप्ते जनार्द्दने ॥
पौषे च लुप्तं कृत्वा च श्रौतं स्मार्त्तं करोति यः ॥ ८९ ॥
तत्र क्रोधसमाविष्टा निघ्नन्ति कुलदेवताः ॥
विवाहोत्सवकाले च मौञ्जीबन्धादिकर्मणि ॥ 3.2.38.९० ॥
मुहूर्तं गणनाथस्य ततः प्रभृति शोभनम् ॥ ९१ ॥
निर्वासितास्तु ये विप्रा आमराज्ञा स्वशासनात् ॥
पञ्चदशसहस्राणि ययुस्ते सुखवासकन् ॥ ९२ ॥
पञ्चपञ्चाशतो ग्रामान्ददौ रामः पुरा स्वयम् ॥
तत्रस्था वणिजश्चैव तेषां वृत्तिमकल्पयन् ॥ ९३ ॥
अडालजा माण्डलीया गोभूजाश्च पवित्रकाः ॥
ब्राह्मणानां वृत्तिदास्ते ब्रह्मसेवासु तत्पराः ॥ ९४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये ब्राह्मणानां शासनवृत्तिप्राप्तिवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ३८ ॥ ॥ छ ॥