॥व्यास उवाच॥
ततस्ते ब्राह्मणाः सर्वे प्रत्यूचुः पवनात्मजम्॥
अधुना सफलं जन्म जीवितं च सुजीवितम् ॥ १ ॥
अद्य नो मोढलोकानां धन्यो धर्मश्च वै गृहाः॥
धन्या च सकला पृथ्वी यज्ञधर्मा ह्यनेकशः ॥ २ ॥
नमः श्रीराम भक्ताय अक्षविध्वंसनाय च ॥
नमो रक्षःपुरीदाहकारिणे वज्रधारिणे ॥ ३ ॥
जानकीहृदयत्राणकारिणे करुणात्मने ॥
सीताविरह तप्तस्य श्रीरामस्य प्रियाय च ॥ ४ ॥
नमोऽस्तु ते महावीर रक्षास्मान्मज्जतः क्षितौ ॥
नमो ब्राह्मणदेवाय वायुपुत्राय ते नमः ॥ ५ ॥
नमोऽस्तु राम भक्ताय गोब्राह्मणहिताय च ॥
नमोस्तु रुद्ररूपाय कृष्णवक्त्राय ते तमः ॥ ६ ॥
अञ्जनीसूनवे नित्यं सर्वव्याधिहराय च ॥
नागयज्ञोपवीताय प्रबलाय नमोऽस्तु ते ॥ ७ ॥
स्वयं समुद्रतीर्णाय सेतुबन्धनकारिणे ॥ ८ ॥
॥ व्यास उवाच ॥ ॥
स्तोत्रेणैवामुना तुष्टो वायुपुत्रोऽब्रवीद्वचः ॥
शृणुध्वं हि वरं विप्रा यद्वो मनसि रोचते ॥ ९ ॥
॥ विप्रा ऊचुः ॥ ॥
यदि तुष्टोऽसि देवेश रामाज्ञापालक प्रभो ॥
स्वरूपं दर्शयस्वाद्य लङ्कायां यत्कृतं हरे ॥ 3.2.37.१० ॥
तथा विध्वंसवाद्य त्वं राजानं पापकारिणम् ॥
दुष्टं कुमारपालं हि आमं चैव न संशयः ॥ ११ ॥
वृत्तिलोपफलं सद्यः प्राप्नुयात्त्वं तथा कुरु ॥
प्रतीत्यर्थं महाबाहो किं विलम्बं वदस्व नः ॥१२॥
त्वयि चित्तेन दत्तेन स राजा पुण्यभाग्भवेत् ॥
प्रत्यये दर्शिते वीर शासनं पालयिष्यति ॥ १३ ॥
त्रयीधर्म्मः पृथिव्यां तु विस्तारं प्रापयिष्यति ॥
धर्मधीर महावीर स्वरूपं दर्शयस्व नः ॥ १४ ॥
॥ हनुमानुवाच ॥ ॥
मत्स्वरूपं महाकायं न चक्षुर्विषयं कलौ ॥
तेजोराशिमयं दिव्यमिति जानन्तु वाडवाः ॥ १५ ॥
तथापि परया भक्त्या प्रसन्नोऽहं स्तवादिभिः ॥
वसनान्तरितं रूपं दर्शयिष्यामि पश्यत ॥ १६ ॥
एवमुक्तास्तदा विप्राः सर्वकार्यसमुत्सुकाः ॥
महारूपं महाकायं महापुच्छसमाकुलम् ॥ १७ ॥
दृष्ट्वा दिव्यस्वरूपं तं हनुमन्तं जहर्षिरे ॥
कथञ्चिद्धैर्यमालम्ब्य विप्राः प्रोचुः शनैः शनैः ॥ १८ ॥
यथोक्तं तु पुराणेषु तत्तथैव हि दृश्यते ॥
उवाच स हि तान्सर्वांश्चक्षुः प्रच्छाद्य संस्थितान् ॥ १९ ॥
फलानीमानि गृह्णीध्वं भक्षणार्थमृषीश्वराः ॥
एभिस्तु भक्षितैर्विप्रा ह्यतितृप्तिर्भविष्यति ॥ 3.2.37.२० ॥
धर्मारण्यं विना वाद्य क्षुधा वः शाम्यति धुवम् ॥ २१ ॥
॥ व्यास उवाच ॥ ॥
क्षुधाक्रान्तैस्तदा विप्रैः कृतं वै फलभक्षणम् ॥
अमृतप्राशनमिव तृप्तिस्तेषामजायत ॥ २२ ॥
न तृषा नैव क्षुच्चैव विप्राः सङ्क्लिष्टमानसाः ॥
अभवन्सहसा राजन्विस्मयाविष्टचेतसः ॥२३॥
ततः प्राहाञ्जनीपुत्रः सम्प्राप्ते हि कलौ द्विजाः ॥
नागमिष्याम्यहं तत्र मुक्त्वा रामेश्वरं शिवम् ॥ २४ ॥
अभिज्ञानं मया दत्तं गृहीत्वा तत्र गच्छत ॥
तथ्यमेतत्प्रतीयेत तस्य राज्ञो न संशयः ॥ २५ ॥
इत्युक्त्वा बाहुमुद्धृत्य भुजयोरुभयोरपि ॥
पृथग्रोमाणि सङ्गृह्य चकार पुटिकाद्वयम् ॥ २६ ॥
भूर्जपत्रेण संवेष्ट्य ते अदाद्विप्रकक्षयोः ॥
वामे तु वामकक्षोत्थां दक्षिणोत्थां तु दक्षिणे ॥ २७ ॥
कामदां रामभक्तस्य अन्येषां क्षयकारिणीम् ॥
उवाच च यदा राजा ब्रूते चिह्नं प्रदीयताम् ॥ २८ ॥
तदा प्रदीयतां शीघ्रं वामकक्षोद्भवा पुटी ॥
अथवा तस्य राज्ञस्तु द्वारे तु पुटिकां क्षिप ॥ २९ ॥
ज्वालयति च तत्सैन्यं गृहं कोशं तथैव च ॥
महिष्यः पुत्रकाः सर्वं ज्वलमानं भविष्यति ॥ 3.2.37.३० ॥
यदा तु वृत्तिं ग्रामांश्च वणिजानां बलिं तथा ॥
पूर्वं स्थितं तु यत्किञ्चित्तत्तद्दास्यति वाडवाः ॥ ३१ ॥
लिखित्वा निश्चयं कृत्वाप्यथ दद्यात्स पूर्ववत् ॥
करसम्पुटकं कृत्वा प्रणमेच्च यदा नृपः ॥ ३२ ॥
सम्प्राप्य च पुरा वृत्तिं रामदत्तां द्विजोत्तमाः ॥
ततो दक्षिणकक्षास्थकेशानां पुटिका त्वियम् ॥ ३३ ॥
प्रक्षिप्यतां तदा सैन्यं पुरावच्च भविष्यति ॥।
गृहाणि च तथा कोशः पुत्रपौत्रादयस्तथा ॥ ३४ ॥
वह्निना मुच्यमानास्ते दृश्यन्ते तत्क्षणादिति ॥
श्रुत्वाऽमृतमयं वाक्यं हनुमन्तोदितं परम् ॥३५॥
अलभन्त मुदं विप्रा ननृतुः प्रजगुर्भृशम् ॥
जयं चोदैरयन्केऽपि प्रहसन्ति परस्परम् ॥ ३६ ॥
पुलकाङ्कितसर्वाङ्गाः स्तुवन्ति च मुहुर्मुहुः ॥
पुच्छं तस्य च सङ्गृह्य चुचुम्बुः केचिदुत्सुकाः ॥ ३७ ॥
ब्रूतेऽन्यो मम यत्नेन कार्यं नियतमेव हि ॥
अन्यो ब्रूते महाभाग मयेदं कृतमित्युत ॥।६८॥।
ततः प्रोवाच हनुमांस्त्रिरात्रं स्थीयतामिह ॥
रामतीर्थस्य च फलं यथा प्राप्स्यथ वाडवाः ॥ ३९ ॥
तथेत्युक्त्वाथ ते विप्रा ब्रह्मयज्ञं प्रचक्रिरे ॥
ब्रह्मघोषेण महता तद्वनं बधिरं कृतम् ॥ 3.2.37.४० ॥
स्थित्वा त्रिरात्रं ते विप्रा गमने कृतबुद्धयः ॥
रात्रौ हनुमतोऽग्रे त इदमूचुः सुभक्तितः ॥ ४१॥ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
वयं प्रातर्गमिष्यामो धर्मारण्यं सुनिर्मलम् ॥
न विस्मार्या वयं तात क्षम्यतां क्षम्यतामिति ॥ ४२ ॥
ततो वायुसुतो राजन्पर्वतान्महतीं शिलाम् ॥
बृहतीं च चतुःशालां दशयोजनमायतीम् ॥ ४३ ॥
आस्तीर्य प्राह तान्विप्राञ्छिलायां द्विजसत्तमाः ॥
रक्ष्यमाणा मया विप्राः शयीध्वं विगतज्वराः ॥ ४४ ॥
इति श्रुत्वा ततः सर्वे निद्रामापुः सुखप्रदाम् ॥
एवं ते कृतकृत्यास्तु भूत्वा सुप्ता निशामुखे ॥ ॥ ४५ ॥
कृपालुः स च रुद्रात्मा रामशासनपालकः ॥
रक्षणार्थं हि विप्राणामतिष्ठच्च धरातले ॥ ४६ ॥
॥ व्यास उवाच ॥ ॥
अर्द्धरात्रे तु सम्प्राप्ते सर्वे निद्रामुपागताः ॥
तातं सम्प्रार्थयामास कृतानुग्रहको भवान् ॥ ४७ ॥
समीरण द्विजानेतान्स्थानं स्वं प्रापयस्व भोः ॥
ततो निद्राभिभूतांस्तान्वायुपुत्रप्रणोदितः ॥ ४८ ॥
समुद्धृत्य शिलां तां तु पिता पुत्रेण भारत ॥
विशिष्टो यापयामास स्वस्थानं द्विजसत्तमान् ॥ ४९ ॥
षड्भिर्मासैश्च यः पन्था अतिक्रान्तो द्विजातिभिः ॥
त्रिभिरेव मुहूर्त्तैस्तु धर्मारण्यमवाप्तवान् ॥ 3.2.37.५० ॥
भ्रममाणां शिलां ज्ञात्वा विप्र एको द्विजाग्रतः ॥
वात्स्यगोत्रसमुत्पन्नो लोकान्सङ्गीतवान्कलम् ॥ ५१ ॥
गीतानि गायनोक्तानि श्रुत्वा विस्मयमाययुः ॥
प्रभाते सुप्रसन्ने तु उदतिष्ठन्परस्परम् ॥ ५२ ॥
ऊचुस्ते विस्मिताः सर्वे स्वप्नोऽयं वाथ विभ्रमः ॥
ससम्भ्रमाः समुत्थाय ददृशुः सत्यमन्दिरम् ॥ ५३ ॥
अन्तर्बुद्ध्या समालोक्य प्रभावो वायुजस्य च ॥
श्रुत्वा वेदध्वनिं विप्राः परं हर्षमुपागताः ॥ ५४ ॥
ग्रामीणाश्च ततो लोका दृष्ट्वा तु महतीं शिलाम् ॥
अद्भुतं मेनिरे सर्वे किमिदं किमिदं त्विति ॥ ५५ ॥
गृहेगृहे हि ते लोकाः प्रवदन्ति तथाद्भुतम् ॥
ब्राह्मणैः पूर्यमाणा सा शिला च महती शुभा ॥ ५६ ॥
अशुभा वा शुभा वापि न जानीमो वयं किल ॥
संवदन्ते ततो लोकाः परस्परमिदं वचः ॥ ५७ ॥
॥ व्यास उवाच ॥ ॥
ततो द्विजानां ते पुत्राः पौत्राश्चैव समागताः ॥
ऊचुस्ते दिष्ट्या भो विप्रा आगताः पथिका द्विजाः ॥ ५८ ॥
ते तु सन्तुष्टमनसा सन्मुखाः प्रययुर्मुदा ॥
प्रत्युत्थानाभिवादाभ्यां परिरम्भणकं तथा ॥ ५९ ॥
आघ्राणकादींश्च कृत्वा यथायोग्यं प्रपूज्य च ॥
सर्वं विस्तार्य कथितं शीघ्रमागममात्मनः ॥ 3.2.37.६० ॥
ततः सम्पूज्य तत्सर्वान्गन्धताम्बूलकुङ्कुमैः ॥
शान्तिपाठं पठन्तस्ते हृष्टा निजगृहान्ययुः ॥ ६१ ॥
आनन्दाया महापीठे प्रातः पान्थाः समुत्थिताः ॥
ददृशुस्ते महास्थानं सोत्कण्ठा हर्षपूरिताः ॥ ६० ॥
आश्चर्यं परमं प्रापुः किमेतत्स्थानमुत्तमम् ॥
अयं तु दक्षिण द्वारे शान्तिपाठोऽत्र पठ्यते ॥ ६३ ॥
गृहा रम्याः प्रदृश्यन्ते शचीपतिगृहोपमाः ॥
प्रासादाः कुलमातॄणां दृश्यन्ते चाग्निशोभनाः ॥ ६४ ॥
एवं ब्रुवत्सु विप्रेषु महाशक्तिप्रपूजने ॥
आगतो ब्राह्मणोऽपश्यत्तत्र विप्रकदम्बकम् ॥ ६५ ॥
हर्षितो भावितस्तत्र यत्र विप्राः सभासदः ॥
उवाव दिष्ट्या भो विप्रा ह्यागताः पथिका द्विजाः ॥ ६६ ॥
प्रत्युत्तस्थुस्ततो विप्राः पूजां गृहीत्वा समागताः ॥
प्रत्युत्थानाभिवादौ चाकुर्वंस्ते च परस्परम् ॥ ६७ ॥
तेते सम्पूज्य वेगात्तु यथायोग्यं यथाविधि ॥
हरीश्वरस्य यद्वृत्तं विप्राग्रे सम्प्रकाशितम् ॥ ६८ ॥
पथिकानां वचः श्रुत्वा हर्षपूर्णा द्विजोत्तमाः ॥
शान्तिपाठं पठन्तस्ते हृष्टा निजगृहान्ययुः ॥ ६९ ॥
विमृश्य मिलिताः प्रातर्ज्योतिर्विद्भिः प्रतिष्ठिताः ॥
ब्राह्मे मूहूर्ते चोत्थाय कान्यकुब्जं गता द्विजाः ॥3.2.37.७०॥
दोलाभिर्वाहिताः केचित्केचिदश्वै रथैस्तथा ॥
केचित्तु शिबिकारूढा नानावाहनगाश्च ते ॥७१॥
तत्पुरं तु समासाद्य गङ्गायाः शोभने तटे ॥
अकुर्वन्वसतिं वीराः स्नानदानादिकर्म्म च ॥ ७२ ॥
चरेण केनचिद्दृष्टाः कथिता नृपसन्निधौ ॥
अश्वाश्च बहुशो दोला रथाश्च बहुशो वृषाः ॥ ७३ ॥
विप्राणामिह दृश्यन्ते धर्मारण्यनिवासिनाम् ॥
नूनं ते च समायाता नृपेणोक्तं ममाग्रतः ॥ ७४ ॥
अभिज्ञापय मे पूर्वं प्रेषिताः कपिसन्निधौ ॥ ७५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये ब्राह्मणानां प्रत्यागमन वर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥ ॥ छ ॥