०३६ हनुमत्समागमः

॥ नारद उवाच ॥ ॥
अतः परं किमभवत्तन्मे कथय सुव्रत ॥
पूर्वं च तदशेषेण शम्स मे वदताम्बर ॥ १ ॥
स्थिरीभूतं च तत्स्थानं कियत्कालं वदस्व मे ॥
केन वै रक्ष्यमाणं च कस्याज्ञा वर्तते प्रभो ॥ २ ॥
॥ ब्रह्मोवाच ॥ ॥
त्रेतातो द्वापरान्तं च यावत्कलिसमागमः ॥
तावत्संरक्षणे चैको हनूमान्पवनात्मजः ॥ ३ ॥
समर्थो नान्यथा कोपि विना हनुमता सुत ॥
लङ्का विध्वंसिता येन राक्षसाः प्रबला हताः ॥४॥
स एव रक्षते तत्र रामादेशेन पुत्रक ॥
द्विजस्याज्ञा प्रवर्तेत श्रीमातायास्तथैव च ॥ ५ ॥
दिनेदिने प्रहर्षोभूज्जनानां तत्र वासिनाः ॥
पठन्ति स्म द्विजास्तत्र ऋग्युजुःसामलक्षणान् ॥ ६ ॥
अथर्वणमपि तत्र पठन्ति स्म दिवानिशम् ॥
वेदनिर्घोषजः शब्दस्त्रैलोक्ये सचराचरे ॥ ७ ॥
उत्सवास्तत्र जायन्ते ग्रामेग्रामे पुरेपुरे ॥
नाना यज्ञाः प्रवर्तन्ते नानाधर्मसमाश्रिताः ॥ ८ ॥
॥ युधिष्ठिर उवाच ॥ ॥
कदापि तस्य स्थानस्य भङ्गो जातोथ वा न वा ॥
दैत्यैर्जितं कदा स्थानमथवा दुष्टराक्षसैः ॥ ९ ॥
॥ व्यास उवाच ॥ ॥
साधु पृष्टं त्वया राजन्धर्मज्ञस्त्वं सदा शुचिः ॥
आदौ कलियुगे प्राप्ते यद्दत्तं तच्छृणुष्व भोः ॥ 3.2.36.१० ॥
लोकानां च हितार्थाय कामाय च सुखाय च ॥
यज्ञं च कथयिष्यामि तत्सर्वं शृणु भूपते ॥११॥
इदानीं च कलौ प्राप्त आमो नामा वभूव ह ॥
कान्यकुब्जाधिपः श्रीमान्धर्मज्ञो नीतितत्परः ॥ १२ ॥
शान्तो दान्तः सुशीलश्च सत्यधर्मपरायणः ॥
द्वापरान्ते नृपश्रेष्ठ अनागमे() कलौ युगे ॥ १३ ॥
भयात्कलिविशेषेण अधर्मस्य भयादिभिः ॥
सर्वे देवाः क्षितिं त्यक्त्वा नैमिषारण्यमाश्रिताः ॥ १४ ॥
रामोपि सेतुबन्धं हि ससहायो गतो नृप ॥ १५ ॥
॥ युधिष्ठिर उवाच ॥ ॥
कीदृशं हि कलौ प्राप्ते भयं लोके सुदुस्तरम् ॥
यस्मिन्सुरैः परित्यक्ता रत्नगर्भा वसुन्धरा ॥ १६ ॥
॥ व्यास उवाच ॥ ॥
शृणुष्व कलिधर्मास्त्वं भविष्यन्ति यथा नृप ॥
असत्यवादिनो लोकाः साधुनिन्दापरायणाः ॥ १७ ॥
दस्युकर्मरताः सर्वे पितृभक्तिविवर्जिताः ॥
स्वगोत्रदाराभिरता लौल्यध्यानपरायणाः ॥ १८ ॥
ब्रह्मविद्वेषिणः सर्वे परस्परविरोधिनः ॥
शरणागतहन्तारो भविष्यन्ति कलौ युगे ॥ १९ ॥
वैश्याचाररता विप्रा वेदभ्रष्टाश्च मानिनः ॥
भविष्यन्ति कलौ प्राप्ते सन्ध्यालोपकरा द्विजाः ॥ 3.2.36.२० ॥
शान्तौ शूरा भये दीनाः श्राद्धतर्पणवर्जिताः ॥
असुराचारनिरता विष्णुभक्तिविवर्जिताः ॥ २१ ॥
परवित्ताभिलाषाश्च उत्कोच ग्रहणे रताः ॥
अस्नातभोजिनो विप्राः क्षत्रिया रणवर्जिताः ॥ २२ ॥
भविष्यन्ति कलौ प्राप्ते मलिना दुष्टवृत्तयः ॥
मद्यपानरताः सर्वेप्यया ज्यानां हि याजकाः ॥ २३ ॥
भर्तृद्वेषकरा रामाः पितृद्वेषकराः सुताः ॥
भ्रातृद्वेषकराः क्षुद्रा भविष्यन्ति कलौ युगे ॥ २४ ॥
गव्यविक्रयिणस्ते वै ब्राह्मणा वित्ततत्पराः ॥
गावो दुग्धं न दुह्यन्ते सम्प्राप्ते हि कलौ युगे ॥ २५ ॥
फलन्ते नैव वृक्षाश्च कदाचिदपि भारत ॥
कन्याविक्रय कर्त्तारो गोजाविक्रयकारकाः ॥ २६ ॥
विषविक्रयकर्त्तारो रसविक्रयकारकाः ॥
वेदविक्रयकर्त्तारो भविष्यन्ति कलौ युगे ॥ २७ ॥
नारी गर्भं समाधत्ते हायनैकादशेन हि ॥
एकादश्युपवासस्य विरताः सर्वतो जनाः ॥ २८ ॥
न तीर्थसेवनरता भविष्यन्ति च वाडवाः ॥
बह्वाहारा भविष्यन्ति बहुनिद्रासमाकुलाः ॥ २९ ॥
जिह्मवृत्तिपराः सर्वे वेदनिन्दापरायणाः ॥
यतिनिन्दापराश्चैव च्छद्मकाराः परस्परम् ॥ 3.2.36.३० ॥
स्पर्शदोषभयं नैव भविष्यति कलौ युगे ॥
क्षत्रिया राज्यहीनाश्च म्लेच्छो राजा भविष्यति ॥ ३१ ॥
विश्वासघातिनः सर्वे गुरुद्रोहरतास्तथा ॥
मित्रद्रोहरता राजञ्छिश्नोदरपरायणाः ॥ ३२ ॥
एकवर्णा भविष्यन्ति वर्णाश्चत्वार एव च ॥
कलौ प्राप्ते महाराज नान्यथा वचनं मम ॥ ३३ ॥
एतच्छ्रुत्वा गुरोरेव कान्यकुब्जाधिपो बली ॥
राज्यं प्रकुरुते तत्र आमो नाम्ना हि भूतले ॥ ३४ ॥
सार्वभौमत्वमापन्नः प्रजापालनतत्परः ॥
प्रजानां कलिना तत्र पापे बुद्धिरजायत ॥ ३५ ॥
वैष्णवं धर्ममुत्सज्य वौद्धधर्ममुपागताः ॥
प्रजास्तमनुवर्तिन्यः क्षपणैः प्रतिबोधिताः॥३६॥
तस्य राज्ञो महादेवी मामानाम्न्यतिविश्रुता ॥
गर्भं दधार सा राज्ञो सर्वलक्षणसंयुता ॥ ३७ ॥
सम्पूर्णे दशमे मासि जाता तस्याः सुरूपिणी ॥
दुहिता समये राज्ञ्याः पूर्णचन्द्रनिभानना ॥ ३८ ॥
रत्नगङ्गेति नाम्ना सा मणिमाणिक्यभूषिता ॥
एकदा दैवयोगेन देशान्तरादुपागतः ॥ ३९ ॥
नाम्ना चैवेन्द्रसूरिर्वै देशेस्मिन्कान्यकुब्जके ॥
षोडशाब्दा च सा कन्या नोपनीता नृपात्मजा ॥3.2.36.४०॥
दास्यान्तरेण मिलिता इन्द्रसूरिश्च जीविकः ॥
शाबरीं मन्त्रविद्यां च कथयामास भारत ॥४१॥
एकचित्ताभवत्सा तु शूलिकर्मविमोहिता ॥
ततः सा मोहमापन्ना तत्तद्वाक्यपरायणा॥४२॥
क्षपणैर्बोधिता वत्स जैनधर्मपरायणा ॥
ब्रह्मावर्ताधिपतये कुम्भीपालाय धीमते ॥४३॥
रत्नगङ्गां महादेवीं ददौ तामिति विक्रमी॥
मोहेरेकं ददौ तस्मै विवाहे दैवमोहितः ॥ ४४ ॥
धर्मारण्यं समागत्य राजधानी कृता तदा ॥
देवांश्च स्थापयामास जैनधर्मप्रणीतकान् ॥ ४५ ॥
सर्वे वर्णास्तथाभूता जैन धर्मसमाश्रिताः ॥
ब्राह्मणा नैव पूज्यन्ते न च शान्तिकपौष्टिकम् ॥ ४६ ॥
न ददाति कदा दानमेवं कालः प्रवर्तते ॥
लब्धशासनका विप्रा लुप्तस्वाम्या अहर्निशम् ॥ ४७ ॥
समाकुलितचित्तास्ते नृपमामं समाययुः ॥
कान्यकुब्जस्थितं शूरं पाखण्डैः परिवेष्टितम् ॥ ४८ ॥
कान्यकुब्जपुरं प्राप्य कतिभिर्वासरैर्नृप ॥
गङ्गोपकण्ठे न्यवसञ्छ्रान्तास्ते मोढवाडवाः ॥ ४९ ॥
चारैश्च कथितास्ते च नृपस्याग्रे समागताः ॥
प्रातराकारिता विप्रा आगता नृपसंसदि ॥ 3.2.36.५० ॥
प्रत्युत्थानाभिवादादीन्न चक्रे सादरं नृपः ॥
तिष्ठतो ब्राह्मणान्सर्वान्पर्यपृच्छदसौ ततः ॥ ५१ ॥
किमर्थमागता विप्राः किंस्वित्कार्यं ब्रुवन्तु तत् ॥ ५२ ॥
॥ विप्रा ऊचुः ॥ ॥
धर्मारण्यादिहायातास्त्वत्समीपं नराधिप ॥
राजंस्तव सुतायास्तु भर्ता कुमारपालकः ॥ ५३ ॥
तेन प्रलुप्तं विप्राणां शासनं महदद्भुतम् ॥
वर्तता जैनधर्मेण प्रेरितेनेन्द्रसूरिणा ॥ ५४ ॥
॥ राजोवाच ॥ ॥
केन वै स्थापिता यूयमस्मिन्मोहेरके पुरे ॥
एतद्धि वाडवाः सर्वं ब्रूत वृत्तं यथातथम् ॥ ५५ ॥
॥ विप्रा ऊचुः ॥ ॥
काजेशैः स्थापिताः पूर्वं धर्मराजेन धीमता ॥
कृता चात्र शुभे स्थाने रामेण च ततः पुरी ॥ ५६ ॥
शासनं रामचन्द्रस्य दृष्ट्वाऽन्यैश्चैव राजभिः ॥
पालितं धर्मतो ह्यत्र शासनं नृपसत्तम ॥ ५७ ॥
इदानीं तव जामाता विप्रान्पालयते न हि ॥
तच्छ्रुत्वा विप्रवाक्यं तु राजा विप्रानथाब्रवीत् ॥ ५८ ॥
यान्तु शीघ्रं हि भो विप्राः कथयन्तु ममाज्ञया ॥
राज्ञे कुमारपालाय देहि त्वं ब्राह्मणालयम् ॥ ५९ ॥
श्रुत्वा वाक्यं ततो विप्राः परं हर्षमुपागताः ॥
जग्मुस्ततोऽतिमुदिता वाक्यं तत्र निवेदितम् ॥ 3.2.36.६० ॥
श्वशुरस्य वचः श्रुत्वा राजा वचनमब्रवीत् ॥
॥ कुमारपाल उवाच ॥ ॥
रामस्य शासनं विप्राः पालयिष्याम्यहं नहि ॥ ६१ ॥
त्यजामि ब्राह्मणान्यज्ञे पशुहिंसापरायणान् ॥
तस्माद्धि हिंसकानां तु न मे भक्तिर्भवेद्द्विजाः ॥ ६२ ॥ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
कथं पाखण्डधर्मेण लुप्तशासनको भवान् ॥
पालयस्व नृपश्रेष्ठ मा स्म पापे मनः कृथाः ॥ ६३ ॥
॥ राजोवाच ॥ ॥
अहिंसा परमो धर्मो अहिंसा च परं तपः ॥
अहिंसा परमं ज्ञानमहिंसा परमं फलम् ॥ ६४ ॥
तृणेषु चैव वृक्षेषु पतङ्गेषु नरेषु च ॥
कीटेषु मत्कुणाद्येषु अजाश्वेषु गजेषु च ॥ ६५॥
लूतासु चैव सर्पेषु महिष्यादिषु वै तथा ॥
जन्तवः सदृशा विप्राः सूक्ष्मेषु च महत्सु च ॥ ६६ ॥
कथं यूयं प्रवर्तध्वे विप्रा हिंसापरायणाः ॥
तच्छ्रुत्वा वज्रतुल्यं हि वचनं च द्विजोत्तमाः ॥ ६७ ॥
प्रत्यूचुर्वाडवाः सर्वे क्रोधरक्तेक्षणा दृशा ॥ ६८ ॥ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
अहिंसा परमो धर्मः सत्यमेतत्त्वयोदितम् ॥
परं तथापि धर्मोऽस्ति शृणुष्वैकाग्रमानसः ॥ ६९ ॥
या वेदविहिता हिंसा सा न हिंसेति निर्णयः ॥
शस्त्रेणाहन्यते यच्च पीडा जन्तुषु जायते ॥ 3.2.36.७० ॥
स एवाधर्म एवास्ति लोके धर्मविदां वर ॥
वेदमन्त्रैविहन्यन्ते विना शस्त्रेण जन्तवः ॥ ७१ ॥
जन्तुपीडाकरा नैव सा हिंसा सुखदायिनी ॥
परोपकारः पुण्याय पापाय परपीडनम् ॥ ७२ ॥
वेदोदितां विधायापि हिंसां पापैर्न लिप्यते ॥
विप्राणां वचनं श्रुत्वा पुनर्वचनमब्रवीत् ॥ ७३ ॥
॥ राजोवाच ॥ ॥
ब्रह्मादीनां परं क्षेत्रं धर्मारण्यमनुत्तमम् ॥
ब्रह्मविष्णु महेशाद्या नेदानीमत्र सन्ति ते ॥ ७४ ॥
न धर्मो विद्यते वात्र उक्तो रामः स मानुषः ॥
क्व वापि लम्बपुछोऽसौ यो मुक्तो रक्षणाय वः ॥ ७५ ॥
शासनं चेन्न दृष्टं वो नैव तत्पालयाम्यहम् ॥
द्विजाः कोपसमाविष्टा ददुः प्रत्युत्तरं तदा ॥ ७६ ॥
॥ द्विजा ऊचुः ॥ ॥
रे मूढ त्वं कथं वेत्थ भाषसे मदलोलुपः ॥
स दैत्यानां विनाशाय धर्मसंरक्षणाय च ॥ ७७ ॥
रामश्चतुर्भुजः साक्षान्मानुषत्वं गतो भुवि ॥
अगतीनां च गतिदः स वै धर्मपरायणः ॥
दयालुश्च कृपालुश्च जन्तूनां परिपालकः ॥ ७८ ॥
॥ राजोवाच ॥ ॥
कुतोऽद्य वर्त्तते रामः कुतो वै वायुनन्दनः ॥
भ्रष्टाभ्रमिव ते सर्वे क्व रामो हनुमानिति ॥ ७९ ॥
परन्तु रामो हनुमान्यदि वर्त्तेत सर्वतः ॥
इदानीं विप्रसाहाय्य आगमिष्यति मे मतिः ॥ 3.2.36.८० ॥
दर्शयध्वं हनूमन्तं रामं वा लक्ष्मणं तथा ॥
यद्यस्ति प्रत्ययः कश्चित्स नो विप्राः प्रदर्श्यताम् ॥८१॥
उक्तं तै रामदेवेन दूतं कृत्वाञ्जनीसुतम् ॥
चतुश्चत्वारिंशदधिकं दत्तं ग्रामशतं नृप ॥ ६२ ॥
पुनरागत्य स्थानेऽस्मिन्दत्ता ग्रामास्त्रयोदश ॥
काश्यप्यां चैव गङ्गायां महादानानि षोडश ॥ ८३ ॥
दत्तानि विप्रमुख्येभ्यो दत्ता ग्रामाः सुशोभनाः ॥
पुनः सङ्कल्पिता वीर षट्पञ्चाशकसङ्ख्यया ॥ ८४ ॥
षट्त्रिंशच्च सहस्राणि गोभुजा जज्ञिरे वराः ॥
सपादलक्षा वणिजो दत्ता माण्डलिकाभिधाः ॥ ८५ ॥
तेनोक्तं वाडवाः सर्वे दर्शयध्वं हि मारुतिम् ॥
यस्याभिज्ञानमात्रेण स्थितिं पूर्वां ददाम्यहम् ॥ ८६ ॥
विप्रवाक्यं करिष्यामि प्रत्ययो दर्श्यते यदि ॥
ततः सर्वे भविष्यन्ति वेदधर्मपरायणाः ॥ ८७ ॥
अन्यथा जैनधर्मेण वर्त्तयध्वं हि सर्वशः ॥
नृपवाक्यं तु ते श्रुत्वा स्वेस्वे स्थाने समागताः ॥ ८८ ॥
वाडवः खिन्नमनसः क्रोधेनान्धीकृता भुवि ॥
निश्वासान्मुञ्चमानास्ते हाहेति प्रवदन्ति च ॥८९॥
दन्तान्प्राघर्षयन्सर्वान्न्यपीडंश्च करैः करान् ॥
परस्परं भाषमाणाः कथं कुर्मो वयं त्वितः ॥3.2.36.९०॥
मिलित्वा वाडवाः सर्वे चक्रुस्ते मन्त्रमुत्तमम् ॥
रामवाक्यं हृदि ध्यात्वा ध्यात्वा चैवाञ्जनीसुतम्॥९१॥
द्विजमेलापकं चक्रुर्बाला वृद्धतमा अपि ॥
तेषां वृद्धतमो विप्रो वाक्यमूचे शुभं तदा ॥ ९२ ॥
चतुःषष्टिश्च गोत्राणामस्माकं ये द्विसप्ततिः ॥
स्वस्वगोत्रस्यावटङ्का एकग्रामाभिभाषिणः ॥ ९३ ॥
प्रयातु स्वस्ववर्गस्य एको ह्येको द्विजः सुधीः ॥
रामेश्वरं सेतु बन्धं हनूमांस्तत्र विद्यते ॥ ९४ ॥
सर्वे प्रयान्तु तत्रैव रामपार्श्वे निरामयाः ॥
निराहारा जितक्रोधा मायया वर्जिताः पुनः ॥ ९५ ॥
एकाग्रमानसाः सर्वे स्तुत्वा ध्यात्वा जपन्तु तम् ॥
ततो दाशरथी रामो दयां कृत्वा द्विजन्मसु ॥९६॥
शासनं च प्रदास्यति अचलं च युगेयुगे ॥
महता तपसा तुष्टः प्रदास्यति समीहितम् ॥ ९७ ॥
यस्य वर्गस्य यो विप्रो न प्रयास्यति तत्र वै ॥
स च वर्गात्परित्याज्यः स्थानधर्मान्न संशयः ॥९८॥
वणिग्वृत्ते न सम्बन्धे न विवाहे कदाचन ॥
ग्रामवृत्ते न सम्बन्धः सर्वस्थाने बहिष्कृताः ॥ ९९ ॥
सभावाक्यं च तच्छ्रुत्वा तन्मध्ये वाडवः शुचिः ॥
वाग्मी दक्षः सुशब्दश्च त्रिरवैः श्रावयन्द्विजान् ॥ 3.2.36.१०० ॥
प्रतिवाक्यं दत्ततालं तिष्ठन्नेतद्वचोऽब्रवीत् ॥
असत्यवादिनां यच्च पातकं परिनिन्दके ॥
परदाराभिगमने परद्रोहरते नरे ॥ १ ॥
मद्यपेषु च यत्पापं यत्पापं हेमहारिषु ॥
तत्पापं च भवेत्तस्य गमने यः पराङ्मुखः ॥
अथ किं बहुनोक्तेन यान्तु सत्यं द्विजोत्तमाः ॥ २ ॥
तच्छ्रुत्वा दारुणं वाक्यं गमनाय मनो दधे ॥
गच्छतस्तान्द्विजाञ्छ्रुत्वा राजा कुमारपालकः ॥ ३ ॥
समाहूय कृषेः कर्म भिक्षाटनमथापि वा ॥
नानागोत्रेभ्यो ब्राह्मणेभ्यः प्रापयिष्ये न संशयः ॥ ४ ॥
तच्छ्रुत्वा व्यथिताः सर्वे किं भविष्यत्यतः परम् ॥
तथा त्रीणि सहस्राणि प्रबन्धं चक्रिरे तदा ॥ ५ ॥
गमिष्यामो वयं सर्वे रामं प्रति न संशयः ॥
हस्ताक्षरप्रदानं वै अन्योन्यं तु कृतं द्विजैः ॥ ६ ॥
कृताञ्जलिपुटा विप्रा वाक्यमेतदथाब्रुवन् ॥
नश्यतेऽत्र त्रयी विद्या त्रयीमूर्तिः प्रकुप्यति ॥ ७ ॥
तस्मात्तत्रैव गन्तव्यमष्टादशसहस्रकैः ॥
ततः स वणिजः सर्वान्समाहूय च गोभुजान् ॥ ८ ॥
वाक्यमूचे नृपश्रेष्ठो वारयध्वं द्विजानिति ॥ ९ ॥
॥ व्यास उवाच ॥
न जैनधर्मे ये लिप्ता गोभुजा वणिगुत्तमाः ॥
वृत्तिभङ्गभयात्तत्र मौनमेव समाचरन् ॥ 3.2.36.११० ॥
वारयाम कथं विप्रान्वह्निरूपान्दहन्ति ते ॥
शापाग्निना नरपते द्विजा मृत्युपरायणाः ॥ ११ ॥
अडालयेषु ये जाताः शूद्रा आहूय तान्नृपः ॥
निवार्यन्तामिति प्राह वाडवा गमनोद्यताः ॥ ॥ १२ ॥
तेषां मध्ये कतिपया जैनधर्मसमाश्रिताः ॥
गता वाडवपुञ्जेषु राजादेशान्निवारणे ॥ १३ ॥
॥ केचिच्छ्रूद्रा ऊचुः ॥ ॥
क्व रामो लक्ष्मणोपेतः क्व च वायुसुतो बली ॥
वर्तमानेन कालेन वक्तव्यं द्विजसत्तमाः ॥ १४ ॥
व्याघ्रसिंहाकुले दुर्गे वने वनगजाश्रिते ॥
परित्यज्य प्रियान्प्राणान्पुत्रान्दारान्निकेतनान्॥ १५ ॥
किमर्थं गम्यते विप्रा राज्ये वै दुष्टशासने ॥
तच्छ्रुत्वा वाडवाः केचिद्वाक्येन मनसाऽस्मरन् ॥ १६ ॥
पञ्चदशसहस्रास्ते वाडवा नृपसत्तमात् ॥
भयाल्लोभाच्च दानाच्च तत्सर्वं भवतामिति ॥ १७ ॥
वृत्तोपकल्पनेनैव करिष्यामः कदाचन ॥
कृषि कर्म करिष्यामो भिक्षाटनमथापि वा ॥ १८ ॥
ततश्च ते पञ्चदशसहस्रा द्विजसत्तमाः ॥
दारुणं वाक्यमूचुस्तान्यान्तु चान्ये यथोचितम् ॥ १९ ॥
शासनं भवतामस्तु रामदत्तं न संशयः ॥
त्रयीविद्यास्तु विख्याताः सर्वे वाडवपुङ्गवाः ॥ 3.2.36.१२० ॥
सहस्राणि च त्रीण्येव त्रैविद्या अभवन्ध्रुवम्॥॥ २१ ॥
॥ राजोवाच ॥ ॥
चतुर्धांशेन राज्यं च किञ्चिद्दत्ता वसुन्धरा ॥
तस्माच्चतुर्विधेत्येवं ज्ञातिबन्धमतः परम् ॥ २२ ॥
च्यवनो दास्यते कन्यां यूयं कन्यामवाप्नुत ॥
न वृत्तिर्न च सम्बन्धो भवतां स्यात्कदापि वा ॥ २३ ॥
इति तस्य वचः श्रुत्वा त्रयीविद्याश्च वाडवाः ॥
स्वेस्वे स्थाने गताः सर्वे सङ्केतादनिवृत्त्य च ॥ २४ ॥
पञ्चदश सहस्राणि ततस्तु द्विजपुङ्गवाः ॥
यथागतं गताः सर्वे चातुर्विद्या द्विजोत्तमाः ॥ २५ ॥
तद्दिने अतिवाह्याथ चिन्ताविष्टेन चेतसा ॥
वार्यमाणाः स्वपुत्रैस्ते दारैश्च विनयान्वितैः ॥ २६ ॥
एकाग्रमानसा सर्वे न निद्रामुपलेभिरे ॥
ब्राह्मे मुहूर्ते चोत्थाय मायां त्यक्ता हि लौकिकीम् ॥ २७ ॥
परित्यज्य प्रियान्पुत्रान्दारान्सनिलयानपि ॥
ग्रामोपान्तेषु मिलिताः सर्वे वाडवपुङ्गवाः ॥ २८ ॥
सहस्राणि तदा त्रीणि कृतनित्याह्निकक्रियाः ॥
विप्रेभ्यो दक्षिणां दत्त्वा सम्पूज्य कुलमातरम् ॥ २९ ॥
विप्रसङ्घविनाशाय दक्षिणद्वारसंस्थितः ॥
सिन्दूरपुष्पमालाभिः पूजितो गणनायकः॥3.2.36.१३०॥
पूजितो बकुलस्वामी सूर्य- सर्वार्थसाधकः॥
आदराच्च महाशक्तिः श्रीमाता पूजिता तथा॥३१॥
शान्तां चैव नमस्कृत्य ज्ञानजां गोत्रमातरम्॥
गमनेनोद्यमानास्ते परं हर्षमुपाययुः॥३२॥
चातुर्विद्या द्विजाश्चैव पुनरामन्त्र्य तान्प्रति॥
पप्रच्छुश्च मुहुः सर्वं समागमनकारणम् ॥ ३३ ॥
॥ विप्रा ऊचुः ॥ ॥
न गन्तव्यं भवद्भिर्वै गत्वा वाऽऽयान्तु सत्वराः ॥ ३४ ॥
यथा रामप्रदत्तं हि उपकल्पयसेऽचिरात् ॥
श्रुत्वा पुनरथोचुस्ते चातुर्विद्या द्विजोत्तमाः ॥ ३५ ॥
न स्थानेन द्विजैर्वापि न च वृत्त्यां कथञ्चन ॥
वयं नैवागमिष्यामः कथनीयं न वै पुनः ॥ ३६ ॥
रघूद्वहेन दत्ता वै वृत्तिर्वो द्विजसत्तमाः ॥
तां वृत्तिं प्रति यास्यामो जपहोमार्चनादिभिः ॥ ३७ ॥
ते पञ्चदशसाहस्राः पुनस्तानूचुरादरात् ॥
अस्माभिरत्र स्थातव्यमग्निसेवार्थतत्परैः ॥ ३८ ॥
युष्माभिस्तत्र गन्तव्यं सर्वेषां कार्यसिद्धये ॥
अन्योन्यं सर्वसाहाया वृत्तिं याम न संशयः ॥ ३९ ॥
त्यक्तस्वकीयवचना वृत्तिहीना भविष्यथ ॥
ततस्तन्मध्यतः कश्चिच्चातुर्विद्य उवाच ह॥3.2.36.१४०॥
चातुर्विद्य उवाच॥
पूर्वं हि वृत्तिमस्माकं रामो वै दत्तवान्द्विजाः॥
चातुर्विद्या महासत्त्वाः स्वधर्मप्रतिपालकाः ॥ ४१ ॥
याजनाध्ययनायुक्ताः काजेशेन विनिर्मिताः ॥
दानं दत्त्वा तु रामेण उक्तं हि भवतां पुनः ॥ ४२ ॥
स्थानं त्यक्त्वा न गन्तव्यमित्थं हि नियमः कृतः ॥
आपत्काले तु स्मर्तव्यो वायुपुत्रो महाबलः ॥ ४३ ॥
इति रामेण पूर्वं हि स्वे स्थाने स्थापितास्तदा ॥
राम वाक्यमन्यथा तत्कृत्वा गच्छेत्कथं पुनः ॥ ४४ ॥
तस्माद्युष्मान्वयं ब्रूमो गच्छत कार्यसिद्धये ॥
भवतां कार्यसिद्ध्यर्थं वयं होमार्चनादिभिः ॥ ४५ ॥
झटिति कार्यसिद्धिः स्यात्सत्यं सत्यं न संशयः ॥
इति वाक्यं ततः श्रुत्वा ते द्विजा गमनं प्रति ॥ ४६ ॥
प्रस्थानं च विधायादौ गमनाय मनो दधुः ॥
त्रिसाहस्रास्तदा तस्मात्प्रस्थिता द्विजसत्तमाः ॥ ४७ ॥
देशाद्देशान्तरं गत्वा वनाच्चैव वनान्तरम् ॥
तीर्थेतीर्थे कृतश्राद्धाः सुसन्त सत्यव्रतपरायणाः ॥
ते गता दूरमध्वानं हनुमद्दर्शनार्थिनः॥3.2.36.१५०॥
सन्ध्यामुपासते नित्यं त्रिकालं चैकमानसाः॥
एवं तु गच्छतां तेषां शकुना अभवच्छुभाः ॥ ५१ ॥
एवं तु गच्छतां तेषां पाथेयं त्रुटितं तदा ॥
श्रान्ता ग्लानिं गताः सर्वे पदं परममास्थिताः ॥ ५२ ॥
क्रमित्वा कियती भूमिं पदं गन्तुं न तु क्षमाः ॥
मनसा निश्चयं कृत्वा दृढीकृत्य स्वमानसम् ॥ ५३ ॥
हनtमन्तमदृष्ट्वैव न यास्यामो वयं गृहान् ॥ त्रै
विद्यास्तु गतास्तत्र यत्र रामेश्वरो हरिः ॥ ५४ ॥
दृढव्रताः सत्यपराः कन्दमूलफलाशनाः ॥
ध्यायन्तो रामरामेति हनूमन्तेति वै पुनः ॥ ५५ ॥
गृहीत्वा नियमं तेऽपि त्यक्त्वा चान्नं तथोदकम् ॥
तृषार्ताश्च क्षुधार्ताश्च ययुर्व्रतपरायणाः ॥ ५६ ॥
एवं तु क्लिश्यमानानां द्विजानां भक्तिभाजनः ॥
उद्विग्नमानसो रामो हनूमन्तमथाब्रवीत् ॥ ५७ ॥
शीघ्रं गच्छ द्विजार्थे त्वं पवनात्मज धर्मवित् ॥
क्लिश्यन्ते वाडवाः सर्वे धर्मारण्यनिवासिनः ॥ ५८ ॥
दह्यते मानसं मेऽद्य नान्यथा शान्तिरस्ति मे ॥
विप्राणां दुःखकर्त्ता च शास्तव्यो नात्र संशयः ॥ ५९ ॥
येन वै दुःखिता विप्रास्तेनाहं दुःखितः कपे ॥3.2.36.१६०॥
रामस्य वचनं श्रुत्वा नमस्कृत्य च राघवम्॥
कृपया परयाविष्टः प्रादुरासीद्धरीश्वरः॥ ॥६१॥
वृद्धब्राह्मणरूपेण परीक्षार्थं द्विजन्मनाम्॥
उवाच परया भक्त्या ब्राह्मणाञ्छ्रमदुर्बलान्॥६२॥
कृताञ्जलिपुटो भूत्वा करान्मुक्त्वा कमण्डलुम् ॥
सर्वान्प्रत्यभिवाद्याथ वचनं चेदमब्रवीत् ॥ ६३ ॥
कुतः स्थानादिह प्राप्ता गन्तुकामाश्च वै कुतः ॥
किमर्थं वै भवद्भिश्च गम्यते दारुणं वनम् ॥ ६४॥
॥ विप्रा ऊचुः ॥ ॥
धर्मारण्यात्समायाता निजदुःखं निवेदितुम् ॥
रामस्य दर्शनार्थं हि गन्तुकामा वयं द्विजाः ॥ ६५ ॥
सेतुबन्धं महातीर्थं सर्वकामप्रदायकम्॥
नियमस्थाः क्षीणदेहा रामं द्रष्टुं समुत्सुकाः ॥ ६६ ॥
यत्र रामेश्वरो देवः साक्षाद्वायुसुतः कपिः ॥
तच्छ्रुत्वा स द्विजः प्राह क्व रामः क्व च वायुजः ॥ ६७ ॥
क्व सेतुबन्धरामेशो दूराद्दूरतरो द्विजाः ॥
व्याघ्रसिंहाकुलं चोग्रं वनं घोरतरं महत्॥
गत्वा यस्मान्न वर्तन्ते तदुग्रमनुजीविनः ॥
निवर्तध्वं महाभागा यदि कार्यं हि मद्वचः ॥ ६९ ॥
अथवा गम्यतां विप्राश्चिरं जीव सुखी भव ॥
वृद्धस्य वाक्यं तच्छ्रुत्वा वाडवाश्चैकमानसाः ॥3.2.36.१७०॥
विप्र गच्छामहे सर्वे रामपार्श्वमसंशयः ॥
म्रियेत यदि मार्गेऽस्मिन्रामलोक मवाप्नुय्रात् ॥ ७१ ॥
जीवन्वृत्तिमवाप्नोति रामदेव न संशयः ॥
अन्यथा शरणं नास्ति अस्माकं राघवं विना ॥ ७२ ॥
इत्युक्त्वा निर्गताः सर्वे रामदर्शनतत्पराः ॥
दिनान्तमतिवाह्याथ प्रभाते विमले पुनः ॥ ७३ ॥
हनुमान्ब्रह्मरूपी स वृद्धः पूर्वगुणान्वितः ॥
कमण्डलुधरो धीमानभिवादनत त्परः ॥ ७४ ॥
कुत्रस्थानादिह प्राप्ताः सर्वे यूयं हि वाडवाः ॥
कुत्रास्ति वा महालाभो विवाहोत्सव एव वा ॥ ७५ ॥
इति तस्य वचः श्रुत्वा वाडवा विस्मयं गताः ॥
प्रणामपूर्वां विज्ञप्तिं कथयामासुरादृताः ॥ ७६ ॥
अस्माकं तु पुरा वृत्तं महदाश्चर्यकारकम् ॥
भूमिदेव शृणुष्व त्वं दयालुर्दृश्यसे यतः ॥ ७७ ॥
आदौ सृष्टिसमारम्भे स्थापिता केशवेन च ॥
शिवेन ब्रह्मणा चैव त्रिमूर्तिस्थापिता वयम् ॥ ७८ ॥
श्री रामेण ततः पश्चाज्जीर्णोद्धारेण स्थापिताः ॥
ग्रामाणां वेतनं दत्तं हरिराजेन चादरात्॥७९॥
चतुश्चत्वारिंशदधिकचतुःशतमितात्मनाम् ॥
ग्रामास्त्रयोदशार्चार्थं सीतापुरसमन्विताः॥। ॥3.2.36.१८०॥
षट्त्रिंशच्च सहस्राणि वणिजो द्विजपालने ॥
गोभूजसञ्ज्ञास्ते शूद्रास्तेभ्यः सपादलक्षकाः ॥ ८१ ॥
ते च जातास्त्रिधा तात गोभूजाडालजा स्तथा ॥
माण्डलीयास्तथा चैते त्रिविधाश्च मनोरमाः ॥८२॥
वृत्त्यर्थं तेन दत्ता वै ह्यनर्घ्या रत्नकोटयः ॥
तदा ते मोढ १८००० गोभूजा१८००० ।
माण्डलीया १२५००० अडालजाः १८००० ॥८३॥
अधुना वाडवश्रेष्ठ आमोनाम महीपतिः ॥
शासनं रामचन्द्रस्य न मानयति दुर्मतिः ॥८४॥।
जामाता तस्य दुष्टो वै नाम्ना कुमारपालकः ॥
पाषण्डैर्वेंष्टितो नित्यं कलिधर्मेण सम्मतः ॥ ८५ ॥
इन्द्रसूत्रेण जैनेन प्रेरितो बौद्धधर्मिणा ॥
शासनं तेन लुप्तं हि रामदत्तं न संशयः ॥ ८६ ॥
वाणिजस्तादृशाः केऽपि तन्मनस्का बभूविरे ॥
निषेधयन्ति रामं ते हनुमन्तं महामतिम् ॥८७॥
प्रत्ययं तु विना विप्रा न दास्यामीति निश्चितम् ॥
तं ज्ञात्वा तु इमे विप्रा रामं शरणमाययुः ॥८८॥
हनुमन्तं महावीरं रामशासनपालकम् ॥
तस्माद्गच्छामहे सर्वे रामं प्रति महामते ॥ ८९ ॥
आञ्जनेयो यदास्माकं न दास्यति समीहितम् ॥
अनाहारव्रतेनैव प्राणांस्त्यक्ष्यामहे वयम् ॥ 3.2.36.१९० ॥
अस्माभिस्ते विशेषेण कथितं परिपृच्छते ॥
स्नेहभावं विचिन्त्याशु निजवृत्तिं प्रकाशय ॥९१॥
हनुमानुवाच ॥
प्राप्ते कलियुगे विप्राः क्व देवदर्शनं भवेत् ॥
निवर्त्तध्वं हि विप्रेन्द्रा यदीच्छथ सुखं महत् ॥ ९२ ॥
व्याघ्रसिंहाकुले शून्ये वने वनगजाश्रिते ॥
बहुदावसमाविष्टे प्रवेष्टुं नैव शक्यते ॥ ९३ ॥
॥ विप्रा ऊचुः ॥ ।
अतीते दिवसे विप्र एकं कथितवानिदम् ॥
अद्यैव त्वं समागम्य एवमेव प्रभाषसे ॥ ९४ ॥
कस्त्वं वाडवरूपेण रामो वाप्यथ वायुजः ॥
सत्यं कथय नः स्वास्मिन्दयां कृत्वा महाद्विज ॥ ९५ ॥
हनुमान्कथयामास गोपितं यद्द्विजाग्रतः ॥
हनुमानित्यहं विप्रा बुध्यध्वं निश्चिता हि माम् ॥ ९६ ॥
स्वरूपं प्रकटीकृत्य लाङ्गूलं दर्शयन्महत् ॥ ९७ ॥ ॥
हनुमानुवाच ॥ ॥
अयमम्भोनिधिः साक्षात्सेतुबन्धो मनोरमः ॥
अयं रामेश्वरो देवो गर्भवासविनाशकृत् ॥ ९८ ॥
इयं तु नगरी श्रेष्ठा लङ्कानामेति विश्रुता ॥
यत्र सीता मया प्राप्ता रामशोकापहारिणी ॥ ९९ ॥
तर्जन्यग्रे द्विजश्रेष्ठा अगम्या मां विना परैः ॥
सा सुवर्णमयी भाति यस्यां राज्ये विभीषणः ॥ 3.2.36.२०० ॥
स्थापितो रामदेवेन सेयं लङ्का महापुरी ॥
नियमस्थैः साधुवृन्दैस्तीर्थयात्राप्रसङ्गतः ॥ २०१ ॥
आनीय गङ्गासलिलं रामेशमभिषिच्य च ॥
क्षिप्ता एते महाभारा दृश्यन्ते सागरान्तरे ॥२०२॥।
निष्पापास्तेन सञ्जाताः साधवस्ते दृढव्रताः ॥
नूनं पुण्योदये वृद्धिः पापे हानिश्च जायते ॥ २०३ ॥
स्थानभ्रष्टाः कृताः पूर्वं चातुर्विद्या द्विजातयः ॥
जीर्णोद्धारेण रामेण स्थापिताः पुनरेव हि ॥
पूर्वजन्मनि भो विप्रा हरिपूजा कृता मया ॥ २०४ ॥
साम्प्रतं निश्चला भक्तिर्भवत्सेवा हि दृश्यते ॥
तेन पुण्यप्रभावेण तुष्टो दास्यामि वो वरम् ॥ २०५ ॥
धन्योहं कृतकृत्योहं सुभाग्योहं धरातले ॥
अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥ २०६ ॥
यदहं ब्राह्मणानां च प्राप्तवांश्चरणान्तिकम् ॥ २०७ ॥
॥ व्यास उवाच ॥ ॥
दृष्ट्वैव हनुमन्तं ते पुलकाङ्कितविग्रहाः ॥
सगद्गदं यथोचुस्ते वाक्यं वाक्यविशारदाः ॥ २०८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे धर्मारण्य माहात्म्ये हनुमत्समागमो नाम षट्त्रिंशोऽध्यायः॥३६॥