॥ नारद उवाच ॥ ॥
भगवन्देवदेवेश सृष्टिसंहारकारक ॥
गुणातीतो गुणैर्युक्तो मुक्तीनां साधनं परम् ॥ १ ॥
संस्थाप्य वेदभवनं विधिवद्द्विज सत्तमान् ॥
किं चक्रे रघुनाथस्तु भूयोऽयोध्यां गतस्तदा ॥ २ ॥
स्वस्थाने ब्राह्मणास्तत्र कानि कर्माणि चक्रिरे ॥
॥ ब्रह्मोवाच ॥ ॥
इष्टापूर्तरताः शान्ताः प्रतिग्रहपराङ्मुखाः ॥ ३ ॥
राज्यं चक्रुर्वनस्यास्य पुरोधा द्विजसत्तमः ॥
उवाच रामपुरतस्तीर्थमाहात्म्यमुत्तमम् ॥ ४ ॥
प्रयागस्य च माहात्म्यं त्रिवेणीफलमुत्तमम् ॥
प्रयागतीर्थमहिमा शुक्लतीर्थस्य चैव हि ॥ ५ ॥
सिद्धक्षेत्रस्य काश्याश्च गङ्गाया महिमा तथा ॥
वसिष्ठः कथया मास तीर्थान्यन्यानि नारद ॥ ६ ॥
धर्मारण्यसुवर्णाया हरिक्षेत्रस्य तस्य च ॥
स्नानदानादिकं सर्वं वाराणस्या यवाधिकम् ॥ ७ ॥
एतच्छ्रुत्वा रामदेवः स चमत्कृतमानसः ॥
धर्मारण्ये पुनर्यात्रां कर्त्तुकामः समभ्यगात् ॥ ८ ॥
सीतया सह धर्मज्ञो गुरुसैन्यपुरःसरः ॥
लक्ष्मणेन सह भ्रात्रा भरतेन सहायवान् ॥ ९ ॥
शत्रुघ्नेन परिवृतो गतो मोहेरके पुरे ॥
तत्र गत्वा वसिष्ठं तु पृच्छतेऽसौ महामनाः ॥ 3.2.35.१० ॥
॥ राम उवाच ॥ ॥
धर्मारण्ये महाक्षेत्रे किं कर्त्तव्यं द्विजोत्तम ॥
दानं वा नियमो वाथ स्नानं वा तप उत्तमम् ॥ ११ ॥
ध्यानं वाथ क्रतुं वाथ होमं वा जपमुत्तमम् ॥
दानं वा नियमं वाथ स्नानं वा तप उत्तमम्॥ १२ ॥
येन वै क्रियमाणेन तीर्थेऽस्मिन्द्विजसत्तम ॥
ब्रह्महत्यादिपापेभ्यो मुच्यते तद्ब्रवीहि मे ॥ १३ ॥
॥ वसिष्ठ उवाच ॥ ॥
यज्ञं कुरु महाभाग धर्मारण्ये त्वमुत्तमम् ॥
दिनेदिने कोटिगुणं यावद्वर्षशतं भवेत् ॥ १४ ॥
तच्छ्रुत्वा चैव गुरुतो यज्ञारम्भं चकार सः ॥
तस्मिन्नवसरे सीता रामं व्यज्ञापयन्मुदा ॥ १५ ॥
स्वामिन्पूर्वं त्वया विप्रा वृता ये वेदपारगाः ॥
ब्रह्मविष्णुमहेशेन निर्मिता ये पुरा द्विजाः ॥ १६ ॥
कृते त्रेतायुगे चैव धर्मारण्यनिवासिनः ॥
विप्रांस्तान्वै वृणुष्व त्वं तैरेव साधकोऽध्वरः ॥ १७ ॥
तच्छ्रुत्वा रामदेवेन आहूता ब्राह्मणास्तदा ॥
स्थापिताश्च यथापूर्वमस्मिन्मोहे रके पुरे ॥ १८ ॥
तैस्त्वष्टादशसङ्ख्याकैस्त्रैविद्यैर्मेहिवाडवैः ॥
यज्ञं चकार विधिवत्तैरेवायतबुद्धिभिः ॥ १९ ॥
कुशिकः कौशिको वत्स उपमन्युश्च काश्यपः॥
कृष्णात्रेयो भरद्वाजो धारिणः शौनको वरः॥3.2.35.२०॥
माण्डव्यो भार्गवः पैङ्ग्यो वात्स्यो लौगाक्ष एव च॥
गाङ्गायनोथ गाङ्गेयः शुनकः शौनकस्तथा॥ २१॥
॥ब्रह्मोवाच॥
एभिर्विप्रैः क्रतुं रामः समाप्य विधिवन्नृपः॥
चकारावभृथं रामो विप्रान्सम्पूज्य भक्तितः॥२२॥
यज्ञान्ते सीतया रामो विज्ञप्तः सुविनीतया॥
अस्याध्वरस्य सम्पत्ती दक्षिणां देहि सुव्रत॥२३॥
मन्नाम्ना च पुरं तत्र स्थाप्यतां शीघ्रमेव च ॥
सीताया वचनं श्रुत्वा तथा चक्रे नृपोत्तमः ॥ २४ ॥
तेषां च ब्राह्मणानां च स्थानमेकं सुनिर्भयम् ॥
दत्तं रामेण सीतायाः सन्तोषाय महीभृता ॥ २५ ॥
सीतापुरमिति ख्यातं नाम चक्रे तदा किल ॥
तस्याधिदेव्यौ वर्त्तेते शान्ता चैव सुमङ्गला ॥ २६ ॥
मोहेरकस्य पुरतो ग्रामद्वादशकं पुरः ॥
ददौ विप्राय विदुषे समुत्थाय प्रहर्षितः ॥ २७ ॥
तीर्थान्तरं जगामाशु काश्यपीसरितस्तटे ॥
वाडवाः केऽपि नीतास्ते रामेण सह धर्मवित् ॥ २८ ॥
धर्मालये गतः सद्यो यत्र माला कमण्डलुः ॥
पुरा धर्मेण सुमहत्कृतं यत्र तपो मुने ॥ २९ ॥
तदारभ्य सुविख्यातं धर्मालयमिति
श्रुतम् ॥ ददौ दाशरथिस्तत्र महादानानि षोडश । 3.2.35.३० ॥
पञ्चाशत्तदा ग्रामाः सीतापुरसमन्विताः ॥
सत्यमन्दिरपर्यन्ता रघुना थेन वै तदा ॥ ३१ ॥
सीताया वचनात्तत्र गुरुवाक्येन चैव हि ॥
आत्मनो वंशवृद्ध्यर्थं द्विजेभ्योऽदाद्रघूत्तमः ॥ ३२ ॥
अष्टादशसहस्राणां द्विजानामभवत्कुलम् ॥
वात्स्यायन उपमन्युर्जातूकर्ण्योऽथ पिङ्गलः ॥ ३३ ॥
भारद्वाजस्तथा वत्सः कौशिकः कुश एव च ॥
शाण्डिल्यः कश्यपश्चैव गौतमश्छान्धनस्तथा ॥ ३४ ॥
कृष्णात्रेयस्तथा वत्सो वसिष्ठो धारणस्तथा ॥
भाण्डिलश्चैव विज्ञेयो यौवनाश्वस्ततः परम् ॥ ३५ ॥
कृष्णायनोपमन्यू च गार्ग्यमुद्गलमौखकाः ॥
पुशिः पराशरश्चैव कौण्डिन्यश्च ततः परम् ॥ ३६ ॥
पञ्चपञ्चाशद्ग्रामाणां नामान्येवं यथाक्रमम् ॥
सीतापुरं श्रीक्षेत्रं च मुशली मुद्गली तथा ॥ ३७ ॥
ज्येष्ठला श्रेयस्थानं च दन्ताली वटपत्रका ॥
राज्ञः पुरं कृष्णवाटं देहं लोहं चनस्थनम् ॥ ३८ ॥
कोहेचं चन्दनक्षेत्रं थलं च हस्तिनापुरम् ॥
कर्पटं कन्नजह्नवी वनोडफनफावली ॥ ३९ ॥
मोहोधं शमोहोरली गोविन्दणं थलत्यजम् ॥
चारणसिद्धं सोद्गीत्राभाज्यजं वटमालिका ॥3.2.35.४०॥
गोधरं मारणजं चैव मात्रमध्यं च मातरम् ॥
बलवती गन्धवती ईआम्ली च राज्यजम् ॥४१॥
रूपावली बहुधनं छत्रीटं वंशञ्जं तथा ॥
जायासंरणं गोतिकी च चित्रलेखं तथैव च ॥ ४२ ॥
दुग्धावली हंसावली च वैहोलं चैल्लजं तथा ॥
नालावली आसावली सुहाली कामतः परम् ॥४३॥
रामेण पञ्चपञ्चाशद्ग्रामाणि वसनाय च ॥
स्वयं निर्माय दत्तानि द्विजेभ्यस्तेभ्य एव च ॥ ४४ ॥
तेषां शुश्रूषणार्थाय वैश्यान्रामो न्यवे दयत् ॥
षट्त्रिंशच्च सहस्राणि शूद्रास्तेभ्यश्चतुर्गुणान् ॥४५॥
तेभ्यो दत्तानि दानानि गवाश्ववसनानि च ॥
हिरण्यं रजतं ताम्रं श्रद्धया परया मुदा ॥ ४६ ॥
नारद उवाच ॥
अष्टादशसहस्रास्ते ब्राह्मणा वेदपारगाः ॥
कथं ते व्यभजन्ग्रामान्द्रामो()त्पन्नं तथा वसु ॥
वस्त्राद्यं भूषणाद्यं च तन्मे कथय सुव्र तम् ॥४७। ॥
ब्रह्मोवाच ॥ ॥
यज्ञान्ते दक्षिणा यावत्सर्त्विग्भिः स्वीकृता सुत ॥
महादानादिकं सर्वं तेभ्य एव समर्पितम् ॥४८॥
ग्रामाः साधारणा दत्ता महास्थानानि वै तदा ॥
ये वसन्ति च यत्रैव तानि तेषां भवन्त्विति ॥ ४९ ॥
वशिष्ठवचनात्तत्र ग्रामास्ते विप्रसात्कृताः ॥
रघूद्वहेन धीरेण नोद्व सन्ति यथा द्विजाः ॥3.2.35.५०॥
धान्यं तेषां प्रदत्तं हि विप्राणां चामितं वसु ॥
कृताञ्जलिस्ततो रामो ब्राह्मणानिदमब्रवीत् ॥५१॥
यथा कृतयुगे विप्रास्त्रेतायां च यथा पुरा ॥
तथा चाद्यैव वर्त्तव्यं मम राज्ये न संशयः ॥ ५२ ॥
यत्किञ्चिद्धनधान्यं वा यानं वा वसनानि वा ॥
मणयः काञ्चनादींश्च हेमादींश्च तथा वसु ॥ ५३ ॥
ताम्राद्यं रजतादींश्च प्रार्थयध्वं ममाधुना ॥
अधुना वा भविष्ये वाभ्यर्थनीयं यथोचितम् ॥ ५४ ॥
प्रेषणीयं वाचिकं मे सर्वदा द्विजसत्तमाः ॥
यंयं कामं प्रार्थयध्वं तं तं दास्याम्यहं विभो ॥ ५५॥
ततो रामः सेवकादीनादरात्प्रत्यभाषत ॥
विप्राज्ञा नोल्लङ्घनीया सेव नीया प्रयत्नतः ॥ ५६ ॥
यंयं कामं प्रार्थयन्ते कारयध्वं ततस्ततः ॥
एवं नत्वा च विप्राणां सेवनं कुरुते तु यः ॥ ५७ ॥
स शूद्रः स्वर्गमाप्नोति धनवान्पुत्रवान्भवेत् ॥
अन्यथा निर्धनत्वं हि लभते नात्र संशयः ॥ ५८ ॥
यवनो म्लेच्छजातीयो दैत्यो वा राक्षसोपि वा॥
योत्र विघ्नं करोत्येव भस्मीभवति तत्क्षणात् ॥ ५९ ॥
॥ ब्रह्मोवाच ॥ ॥
ततः प्रदक्षिणीकृत्य द्विजान्रामोऽतिहर्षितः ॥
प्रस्थानाभिमुखो विप्रैराशीर्भिरभिनन्दितः ॥ 3.2.35.६० ॥
आसीमान्तमनुव्रज्य स्नेहव्याकुललोचनाः ॥
द्विजाः सर्वे विनिर्वृत्ता धर्मारण्ये विमोहिताः ॥ ६१ ॥
एवं कृत्वा ततो रामः प्रतस्थे स्वां पुरीं प्रति ॥
काश्यपाश्चैव गर्गाश्च कृतकृत्या दृढव्रताः ॥ ६२ ॥
गुर्वासनसमाविष्टाः सभार्या ससुहृत्सुताः ॥
राजधानीं तदा प्राप रामोऽयोध्यां गुणान्विताम् ॥ ६३ ॥
दृष्ट्वा प्रमुदिताः सर्वे लोकाः श्रीरघुनन्दनम् ॥
ततो रामः स धर्मात्मा प्रजापालनतत्परः ॥ ६४ ॥
सीतया सह धर्मात्मा राज्यं कुर्वंस्तदा सुधीः ॥
जानक्या गर्भमाधत्त रविवंशोद्भवाय च ॥ ६५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये श्रीरामरुद्रकृतधर्मारण्यतीर्थक्षेत्रजीर्णोद्धारवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥