॥ ॥ व्यास उवाच ॥ ॥
एवं रामेण धर्मज्ञ जीर्णोद्धारः पुरा कृतः ॥
द्विजानां च हितार्थाय श्रीमातुर्वचनेन च ॥ १ ॥
॥ युधिष्ठिर उवाच ॥ ॥
कीदृशं शासनं ब्रह्मन्रामेण लिखितं पुरा ॥
कथयस्व प्रसादेन त्रेतायां सत्यमन्दिरे ॥ २ ॥
॥ व्यास उवाच ॥ ॥
धर्मारण्ये वरे दिव्ये बकुलार्के स्वधिष्ठिते ॥
शून्यस्वामिनि विप्रेन्द्र स्थिते नारायणे प्रभौ ॥ ३ ॥
रक्षणाधिपतौ देवे सर्वज्ञे गुणनायके ॥
भवसागर मग्नानां तारिणी यत्र योगिनी ॥ ४ ॥
शासनं तत्र रामस्य राघवस्य च नामतः ॥
शृणु ताम्राश्रयं तत्र लिखितं धर्मशास्त्रतः ॥ ५ ॥
महाश्चर्यकरं तच्च ह्यनेकयुगसंस्थितम्॥
सर्वो धातुः क्षयं याति सुवर्णं क्षयमेति च ॥ ६ ॥
प्रत्यक्षं दृश्यते पुत्र द्विजशासनमक्षयम् ॥
अविनाशो हि ताम्रस्य कारणं तत्र विद्यते ॥ ७ ॥
वेदोक्तं सकलं यस्माद्विष्णुरेव हि कथ्यते ॥
पुराणेषु च वेदेषु धर्मशास्त्रेषु भारत ॥ ८ ॥
सर्वत्र गीयते विष्णुर्नाना भावसमाश्रयः ॥
नानादेशेषु धर्मेषु नानाधर्मनिषेविभिः ॥ ९ ॥
नानाभेदैस्तु सर्वत्र विष्णुरेवेति चिन्त्यते ॥
अवतीर्णः स वै साक्षात्पुराणपुरुषो त्तमः ॥ 3.2.34.१० ॥
देववैरिविनाशाय धर्मसंरक्षणाय च ॥
तेनेदं शासनं दत्तमविनाशात्मकं सुत ॥ ११ ॥
यस्य प्रतापादृषद(य)स्तारिता जलमध्यतः ॥
वानरैर्वेष्टिता लङ्का हेलया राक्षसा हताः ॥ १२ ॥
मुनिपुत्रं मृतं रामो यमलोकादुपानयत् ॥
दुन्दुभिर्निहतो येन कबन्धोऽभिहतस्तथा ॥ १३ ॥
निहता ताडका चैव सप्तताला विभेदिताः ॥
खरश्च दूषणश्चैव त्रिशिराश्च महासुरः ॥ १४ ॥
चतुर्दशसहस्राणि जवेन निहता रणे ॥
तेनेदं शासनं दत्तमक्षयं न कथं भवेत् ॥ १५ ॥
स्ववंशवर्णनं तत्र लिखित्वा स्वयमेव तु ॥
देशकालादिकं सर्वं लिलेख विधिपूर्वकम् ॥ १६ ॥
स्वमुद्राचिह्नितं तत्र त्रैविद्येभ्यस्तथा ददौ॥
चतुश्चत्वारिंशवर्षो रामो दशरथात्मजः ॥ १७ ॥
तस्मिन्काले महाश्चर्यं सन्दत्तं किल भारत॥
तत्र स्वर्णोपमं चापि रौप्योपमम थापि च ॥ १८ ॥
उवाह सलिलं तीर्थे देवर्षिपितृतृप्तिदम् ॥
स्ववंशनायकस्याग्रे सूर्येण कृतमेव तत् ॥ १९ ॥
तद्दृष्ट्वा महदाश्चर्यं रामो विष्णुं प्रपूज्य च ॥
रामलेखविचित्रैस्तु लिखितं धर्मशासनम् ॥ 3.2.34.२० ॥
यद्दृष्ट्वाथ द्विजाः सर्वे संसारभयबन्धनम् ॥
कुर्वते नैव यस्माच्च तस्मान्निखिलरक्षकम् ॥ ॥ २१ ॥
ये पापिष्ठा दुराचारा मित्रद्रोहरताश्च ये ॥
तेषां प्रबोधनार्थाय प्रसिद्धिमकरोत्पुरा ॥ २२ ॥
रामलेखविचित्रैस्तु विचित्रे ताम्रपट्टके ॥
वाक्यानीमानि श्रूयन्ते शासने किल नारद ॥ २३ ॥
आस्फोटयन्ति पितरः कथयन्ति पितामहाः ॥
भूमिदोऽस्मत्कुले जातः सोऽस्मान्सन्तारयिष्यति ॥ २४ ॥
बहुभिर्बहुधा भुक्ता राजभिः पृथिवी त्वियम् ॥
यस्ययस्य यदा भूमिस्तस्यतस्य तदा फलम् ॥ २५ ॥
षष्टिवर्षसहस्राणि स्वर्गे वसति भूमिदः ॥
आच्छेत्ता चानुमन्ता च तान्येव नरकं व्रजेत् ॥ २६ ॥
सन्दंशैस्तुद्यमानस्तु मुद्गरैर्विनिहत्य च ॥
पाशैः सुबध्यमानस्तु रोरवीति महास्वरम् ॥ २७ ॥
ताड्यमानः शिरे दण्डैः समालिङ्ग्य विभावसुम् ॥
क्षुरिकया छिद्यमानो रोरवीति महास्वनम् ॥ २८ ॥
यमदूतैर्महाघोरैर्ब्रह्मवृत्तिविलोपकः ॥
एवंविधैर्महादुष्टैः पीड्यन्ते ते महागणैः ॥ २९ ॥
ततस्तिर्यक्त्वमाप्नोति योनिं वा राक्षसीं शुनीम् ॥
व्यालीं शृगालीं पैशाचीं महाभूतभयङ्करीम् ॥ 3.2.34.३० ॥
भूमेरङ्गुलहर्ता हि स कथं पापमाचरेत् ॥
भूमेरङ्गुलदाता च स कथं पुण्यमाचरेत् ॥ ३१ ॥
अश्वमेधसहस्राणां राजसूयशतस्य च ॥
कन्याशतप्रदानस्य फलं प्राप्नोति भूमिदः ॥ ३२ ॥
आयुर्यशः सुखं प्रज्ञा धर्मो धान्यं धनं जयः ॥
सन्तानं वर्द्धते नित्यं भूमिदः सुखमश्मुते ॥ ३३ ॥
भूमेरङ्गुलमेकं तु ये हरन्ति खला नराः ॥
वन्ध्याटवीष्वतोयासु शुष्ककोटरवासिनः ॥
कृष्णसर्पाः प्रजायन्ते दत्तदायापहारकाः ॥ ३४ ॥
तडागानां सहस्रेण अश्वमेधशतेन वा ॥
गवां कोटिप्रदानेन भूमिहर्त्ता विशुध्यति ॥ ३५ ॥
यानीह दत्तानि पुनर्धनानि दानानि धर्मार्थयशस्कराणि ॥
औदार्यतो विप्रनिवेदितानि को नाम साधुः पुनराददीत ॥ ३६ ॥
चलदलदललीलाचञ्चले जीवलोके तृणलवलघुसारे सर्वसंसारसौख्ये ॥
अपहरति दुराशः शासनं ब्राह्मणानां नरकगहनगर्त्तावर्तपातोत्सुको यः ॥३७ ॥
ये पास्यन्ति महीभुजः क्षितिमिमां यास्यन्ति भुक्त्वाखिलां नो याता न तु याति यास्यति न वा केनापि सार्द्धं धरा॥
यत्किञ्चिद्भुवि तद्विनाशि सकलं कीर्तिः परं स्थायिनी त्वेवं वै वसुधापि यैरुपकृता लोप्या न सत्कीर्तयः ॥ ३८ ॥
एकैव भगिनी लोके सर्वेषामेव भूभुजाम् ॥
न भोज्या न करग्राह्या विप्रदत्ता वसुन्धरा ॥ ३९ ॥
दत्त्वा भूमिं भाविनः पार्थिवेशान्भूयोभूयो याचते रामचन्द्रः ॥
सामान्योऽयं धर्मसेतुर्नृपाणां स्वे स्वे काले पालनीयो भवद्भिः ॥3.2.34.४०॥
अस्मिन्वंशे क्षितौ कोपि राजा यदि भविष्यति ॥
तस्याहं करलग्नोस्मि मद्दत्तं यदि पाल्यते॥४१॥
लिखित्वा शासनं रामश्चातुर्वेद्यद्विजोत्तमान्॥
सम्पूज्य प्रददौ धीमान्वसिष्ठस्य च सन्निधौ॥४२॥
ते वाडवा गृहीत्वा तं पट्टं रामाज्ञया शुभम्॥
ताम्रं हैमाक्षरयुतं धर्म्यं धर्मविभूषणम्॥४३॥
पूजार्थं भक्तिकामार्थास्तद्रक्षणमकुर्वत॥
चन्दनेन च दिव्येन पुष्पेण च सुगन्धिना॥४४॥
तथा सुवर्णपुष्पेण रूप्यपुष्पेण वा पुनः॥
अहन्यहनि पूजां ते कुर्वते वाडवाः शुभाम्॥४५॥
तदग्रे दीपकं चैव घृतेन विमलेन हि॥
सप्तवर्तियुतं राजन्नर्घ्यं प्रकुर्वते द्विजाः॥४६॥
नैवेद्यं कुर्वते नित्यं भक्तिपूर्वं द्विजोत्तमाः॥
रामरामेति रामेति मन्त्रमप्युच्चरन्ति हि॥४७॥
अशने शयने पाने गमने चोपवेशने ॥
सुखे वाप्यथवा दुःखे राममन्त्रं समुच्चरेत् ॥ ४८ ॥
न तस्य दुःखदौर्भाग्यं नाधिव्याधिभयं भवेत् ॥
आयुः श्रियं बलं तस्य वर्द्धयन्ति दिने दिने ॥ ४९ ॥
रामेति नाम्ना मुच्येत पापाद्वै दारुणादपि ॥
नरकं नहि गच्छेत गतिं प्राप्नोति शाश्वतीम् ॥ 3.2.34.५० ॥ ॥
॥ व्यास उवाच ॥ ॥
इति कृत्वा ततो रामः कृतकृत्यममन्यत ॥
प्रदक्षिणीकृत्य तदा प्रणम्य च द्विजान्बहून् ॥ ५१ ॥
दत्त्वा दानं भूरितरं गवाश्वमहिषीरथम् ॥
ततः सर्वान्निजांस्तांश्च वाक्यमेतदुवाच ह ॥ ५२ ॥
अत्रैव स्थीयतां सर्वैर्यावच्चन्द्रदिवाकरौ ॥
यावन्मेरुर्महीपृष्ठे सागराः सप्त एव च ॥ ५३ ॥
तावदत्रैव स्थातव्यं भवद्भिर्हि न संशयः ॥
यदा हि शासनं विप्रा न मन्यन्ते नृपा भुवि ॥ ५४ ॥
अथवा वणिजः शूरा मदमायाविमोहिताः ॥
मदाज्ञां न प्रकुर्वन्ति मन्यन्ते वा न ते जनाः ॥ ५५ ॥
तदा वै वायुपुत्रस्य स्मरणं क्रियतां द्विजाः ॥
स्मृतमात्रो हनूमान्वै समागत्य करिष्यति ॥ ५६ ॥
सहसा भस्म तान्सत्यं वचनान्मे न संशयः ॥
य इदं शासनं रम्यं पालयिष्यति भूपतिः ॥ ॥ ५७ ॥
वायुपुत्रः सदा तस्य सौख्यमृद्धिं प्रदास्यति ॥
ददाति पुत्रान्पौत्रांश्च साध्वीं पत्नीं यशो जयम् ॥ ५८ ॥
इत्येवं कथयित्वा च हनुमन्तं प्रबोध्य च ॥
निवर्तितो रामदेवः ससैन्यः सपरिच्छदः ॥ ५९ ॥
वादित्राणां स्वनैर्विष्वक्सूच्यमानशुभागमः ॥
श्वेतातपत्रयुक्तोऽसौ चामरैर्वी जितो नरैः ॥
अयोध्यां नगरीं प्राप्य चिरं राज्यं चकार ह ॥ 3.2.34.६० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये ब्रह्मनारदसंवादे श्रीरामेण ब्राह्मणेभ्यः शासनपट्टप्रदानवर्णनन्नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥ ॥ छ । ॥ ॥