०३३ पुरप्रत्यागमनवर्णनम्

॥ राम उवाच ॥ ॥
जीर्णोद्धारं करिष्यामि श्रीमातुर्वचनादहम् ॥
आज्ञा प्रदीयतां मह्यं यथादानं ददामि वः ॥ १ ॥
पात्रे दानं प्रदातव्यं कृत्वा यज्ञवरं द्विजाः ॥
नापात्रे दीयते किञ्चिद्दत्तं न तु सुखावहम् ॥ २ ॥
सुपात्रं नौरिव सदा तारयेदुभयोरपि ॥
लोहपिण्डोपमं ज्ञेयं कुपात्रं भञ्जनात्मकम् ॥ ३ ॥
जातिमात्रेण विप्रत्वं जायते न हि भो द्विजाः ॥
क्रिया बलवती लोके क्रियाहीने कुतः फलम् ॥ ४ ॥
पूज्यास्तस्मात्पूज्यतमा ब्राह्मणाः सत्यवादिनः ॥
यज्ञकार्ये समुत्पन्ने कृपां कुर्वन्तु सर्वदा ॥ ५ ॥
॥ ब्रह्मोवाच ॥ ॥
ततस्तु मिलिताः सर्वे विमृश्य च परस्परम् ॥
केचिदूचुस्तदा रामं वयं शिलोञ्छजीविकाः ॥ ६ ॥
सन्तोषं परमास्थाय स्थिता धर्मपरायणाः ॥
प्रतिग्रहप्रयोगेण न चास्माकं प्रयोजनम् ॥ ७ ॥
दशसूनासमश्चक्री दशचक्रिसमो ध्वजः ॥
दशध्वजसमा वेश्या दशवेश्यासमो नृपः ॥ ८ ॥
राजप्रतिग्रहो घोरो राम सत्यं न संशयः ॥
तस्माद्वयं न चेच्छामः प्रतिग्रहं भया वहम् ॥ ९ ॥
एकाहिका द्विजाः केचित्केचित्स्वामृतवृत्तयः ॥
कुम्भीधान्या द्विजाः केचित्केचित्षट्कर्मतत्पराः ॥ 3.2.33.१० ॥
त्रिमूर्तिस्थापिताः सर्वे पृथग्भावाः पृथग्गुणाः ॥
केचिदेवं वदन्ति स्म त्रिमूर्त्याज्ञां विना वयम् ॥ ११ ॥
प्रतिग्रहस्य स्वीकारं कथं कुर्याम ह द्विजाः ॥
न ताम्बूलं स्त्रीकृतं नो ह्यद्मो दानेन भषितम् ॥ १२ ॥
विमृश्य स तदा रामो वसिष्ठेन महात्मना ॥
ब्रह्मविष्णुशिवादीनां सस्मार गुरुणा सह ॥
स्मृतमात्रास्ततो देवास्तं देशं समुपागमन्॥
सूर्यकोटिप्रतीकाशीवमानावलिसंवृताः ॥ १४ ॥
रामेण ते यथान्यायं पूजिताः परया मुदा ॥ १३ ॥
निवेदितं तु तत्सर्वं रामेणातिसुबुद्धिना ॥ १५ ॥
अधिदेव्या वचनतो जीर्णोद्धारं करोम्यहम् ॥
धर्मारण्ये हरिक्षेत्रे धर्मकूपसमीपतः ॥ १६ ॥
ततस्ते वाडवाः सर्वे त्रिमूर्त्तीः प्रणिपत्य च ॥
महता हर्षवृन्देन पूर्णाः प्राप्तमनोरथाः ॥ १७ ॥
अर्घ्यपाद्यादिविधिना श्रद्धया तानपूजयन् ॥
क्षणं विश्रम्य ते देवा ब्रह्मविष्णुशिवादयः ॥ १८ ॥
ऊचू रामं महाशक्तिं विनयात्कृतसम्पुटम् ॥ १९ ॥
॥ देवा ऊचुः ॥ ॥
देवद्रुहस्त्वया राम ये हता रावणादयः ॥
तेन तुष्टा वयं सर्वे भानुवंशविभूषण ॥ 3.2.33.२० ॥
उद्धरस्व महास्थानं महतीं कीर्तिमाप्नुहि ॥ २१ ॥
लब्ध्वा स तेषामाज्ञां तु प्रीतो दशरथात्मजः ॥
जीर्णोद्धारेऽनन्तगुणं फलमिच्छन्निलापतिः ॥ २२ ॥
देवानां सन्निधौ तेषां कार्यारम्भमथाकरोत् ॥
स्थण्डिलं पूर्वतः कृत्वा महागिरि समं शुभम्॥२३॥
तस्योपरि बहिःशाला गृहशाला ह्यनेकशः ॥
ब्रह्मशालाश्च बहुशो निर्ममे शोभनाकृतीः ॥२४॥
निधानैश्च समायुक्ता गृहोपकरणै र्वृताः ॥
सुवर्णकोटिसम्पूर्णा रसवस्त्रादिपूरिताः ॥ २५ ॥
धनधान्यसमृद्धाश्च सर्वधातुयुतास्तथा ॥
एतत्सर्वं कारयित्वा ब्राह्मणेभ्यस्तदा ददौ ॥२६॥
एकैकशो दशदश ददौ धेनूः पयस्विनीः ॥
चत्वारिंशच्छतं प्रादाद्ग्रामाणां चतुराधिकम् ॥ २७ ॥
त्रैविद्यद्विजविप्रेभ्यो रामो दशरथात्मजः ॥
काजेशेन त्रयेणैव स्थापिता द्विजसत्तमाः ॥ २८ ॥
तस्मात्त्रयीविद्य इति ख्यातिर्लोके बभूव ह ॥
एवंविधं द्विजेभ्यः स दत्त्वा दानं महाद्भुतम् ॥ ॥ २९ ॥
आत्मानं चापि मेने स कृतकृत्यं नरेश्वरः ॥
ब्रह्मणा स्थापिताः पूर्वं विष्णुना शङ्करेण ये ॥ 3.2.33.३० ॥
ते पूजिता राघवेण जीर्णोद्धारे कृते सति ॥
षट्त्रिंशच्च सहस्राणि गोभुजा ये वणिग्वराः ॥ ३१ ॥
शुश्रूषार्थं प्रदत्ता वै देवैर्हरिहरादिभिः॥
सन्तुष्टेन तु शर्वेण तेभ्यो दत्तं तु चेत नम्॥ ३२ ॥
श्वेताश्वचामरौ दत्तौ खङ्गं दत्तं सुनिर्मलम् ॥
तदा प्रबोधितास्ते च द्विजशुश्रूषणाय वै ॥ ३३ ॥
विवाहादौ सदा भाव्यं चामरै मङ्गलं वरम् ॥
खङ्गं शुभं तदा धार्य्यं मम चिह्नं करे स्थितम् ॥ ३४ ॥
गुरुपूजा सदा कार्या कुलदेव्याः पुनःपुनः ॥
वृद्ध्यागमेषु प्राप्तेषु वृद्धि दायकदक्षिणा ॥ ३५ ॥
एकादश्यां शनेर्वारे दानं देयं द्विजन्मने ॥
प्रदेयं बालवृद्धेभ्यो मम रामस्य शासनात् ॥ ३६ ॥
मण्डलेषु च ये शुद्धा वणिग्वृत्तिरताः पराः ॥
सपादलक्षास्ते दत्ता रामशासनपालकाः ॥ ३७ ॥
माण्डलीकास्तु ते ज्ञेया राजानो मण्डलेश्वराः ॥
द्विज शुश्रूषणे दत्ता रामेण वणिजां वराः ॥ ३८ ॥
चामरद्वितयं रामो दत्तवान्खड्गमेव च ॥
कुलस्य स्वामिनं सूर्यं प्रतिष्ठाविधिपूर्वकम् ॥ ॥ ३९ ॥
ब्रह्माणं स्थापयामास चतुर्वेदसमन्वितम् ॥
श्रीमातरं महाशक्तिं शून्यस्वामिहरिं तथा ॥ 3.2.33.४० ॥
विघ्नापध्वंसनार्थाय दक्षिणद्वारसंस्थितम् ॥
गणं संस्थापयामास तथान्याश्चैव देवताः ॥ ४१ ॥
कारितास्तेन वीरेण प्रासादाः सप्तभूमिकाः ॥
यत्किं चित्कुरुते कार्यं शुभं माङ्गल्यरूपकम् ॥ ४२ ॥
पुत्रे जाते जातके वान्नाशने मुण्डनेऽपि वा ॥
लक्षहोमे कोटिहोमे तथा यज्ञक्रियासु च ॥ ४३ ॥
वास्तुपूजाग्रहशान्त्योः प्राप्ते चैव महोत्सवे ॥
यत्किञ्चित्कुरुते दानं द्रव्यं वा धान्यमुत्तमम् ॥ ४४ ॥
वस्त्रं वा धेनवो नाथ हेम रूप्यं तथैव च ॥
विप्राणामथ शूद्राणां दीनानाथान्धकेषु च ॥ ४५ ॥
प्रथमं बकुलार्कस्य श्रीमातुश्चैव मानवः ॥
भागं दद्याच्च निर्विघ्नकार्यसिद्ध्यै निरन्तरम् ॥ ४६ ॥
वचनं मे समुल्लङ्घ्य कुरुते योऽन्यथा नरः ॥
तस्य तत्कर्मणो विघ्नं भविष्यति न संशयः ॥ ४७ ॥
एवमुक्त्वा ततो रामः प्रहृष्टेनान्तरात्मना ॥
देवानामथ वापीश्च प्राकारांस्तु सुशोभनान् ॥ ४८ ॥
दुर्गोपकरणैर्युक्तान्प्रतोलीश्च सुविस्तृताः ॥
निर्ममे चैव कुण्डानि सरांसि सरसीस्तथा ॥ ४९ ॥
धर्मवापीश्च कूपांश्च तथान्यान्देवनिर्मितान् ॥
एतत्सर्वं च विस्तार्य धर्मारण्ये मनोरमे ॥ 3.2.33.५० ॥
ददौ त्रैविद्यमुख्येभ्यः श्रद्धया परया पुनः ॥
ताम्रपट्टस्थितं रामशासनं लोपयेत्तु यः ॥५१॥
पूर्वजास्तस्य नरके पतन्त्यग्रे न सन्ततिः ॥
वायुपुत्रं समाहूय ततो रामोऽब्रवीद्वचः ॥ ॥ ५२ ॥
वायुपुत्र महावीर तव पूजा भविष्यति ॥
अस्य क्षेत्रस्य रक्षायै त्वमत्र स्थितिमाचर ॥ ५३ ॥
आञ्जनेयस्तु तद्वाक्यं प्रणम्य शिरसादधौ ॥
जीर्णोद्धारं तदा कृत्वा कृतकृत्यो बभूव ह ॥ ५४ ॥
श्रीमातरं तदाभ्यर्च्य प्रसन्नेनान्तरात्मना ॥
श्रीमातरं नमस्कृत्य तीर्थान्यन्यानि राघवः ॥५५॥
तेऽपि देवाः स्वकं स्थानं ययुर्बह्मपुरोगमाः ॥५६॥
दत्त्वाशिषं तु रामाय वाञ्छितं ते भविष्यति ॥
रम्यं कृतं त्वया राम विप्राणां स्थापनादिकम् ॥ ॥ ५७ ॥
अस्माकमपि वात्सल्यं कृतं पुण्यवता त्वया ॥
इति स्तुवन्तस्ते देवाः स्वानि स्थानानि भेजिरे ॥ ५८ ॥
इति श्रीस्कान्दे महापुराण एका शीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वार्धे धर्मारण्यमाहात्म्ये श्रीरामचन्द्रस्य पुरप्रत्यागमनवर्णनन्नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥ छ ॥