०३२ वर्णनः

॥ व्यास उवाच ॥ ॥
ततश्च रामदूतास्ते नत्वा राममथाब्रुवन् ॥
रामराम महाबाहो वरनारी शुभानना ॥ १ ॥
सुवस्त्रभूषाभरणां मृदुवाक्यपरायणाम् ॥
एकाकिनीं क्रदमानाम दृष्ट्वा तां विस्मिता वयम् ॥ २ ॥
समीपवर्तिनो भूत्वा पृष्टा सा सुरसुन्दरी ॥
का त्वं देवि वरारोहे देवी वा दानवी नु किम् ॥ ३ ॥
रामः पृच्छति देवि त्वां ब्रूहि सर्वं यथातथम् ॥
तच्छ्रुत्वा वचनं रामा सोवाच मधुरं वचः ॥ ४ ॥
रामं प्रेषयत भद्रं वो मम दुःखापहं परम् ॥ ५ ॥
तदाकर्ण्य ततो रामः सम्भ्रमात्त्वरितो ययौ ॥
दृष्ट्वा तां दुःखसन्तप्तां स्वयं दुःखमवाप सः ॥
उवाच वचनं रामः कृताञ्जलिपुटस्तदा ॥ ६ ॥
॥ श्रीराम उवाच ॥ ॥
का त्वं शुभे कस्य परिग्रहो वा केनावधूता विजने निरस्ता ॥
मुष्टं धनं केन च तावकीनमाचक्ष्व मातः सकलं ममाग्रे ॥ ७ ॥
इत्युक्त्वा चातिदुःखार्तो रामो मतिमतां वरः ॥
प्रणामं दण्डवच्चक्रे चक्रपाणिरिवापरः ॥८॥
तयाभिवन्दितो रामः प्रगम्य च पुनःपुनः ॥
तुष्टया परया प्रीत्या स्तुतो मधुरया गिरा ॥ ९ ॥
परमात्मन्परेशान दुःखहारिन्सनातन ॥
यदर्थमवतारस्ते तच्च कार्यं त्वया कृतम् ॥ 3.2.32.१० ॥
रावणः कुम्भकर्णश्च शक्रजित्प्रमुखास्तथा ॥
खरदूषणत्रिशिरोमारीचाक्षकुमारकाः ॥ ११ ॥
असङ्ख्या निर्जिता रौद्रा राक्षसाः समराङ्गणे ॥ १२ ॥
किं वच्मि लोकेश सुकीर्त्तिमद्य ते वेधास्त्वदीयाङ्गजपद्मसम्भवः ॥
विश्वं निविष्टं च ततो ददर्श वटस्य पत्रे हि यथो वटो मतः ॥ १३ ॥
धन्यो दशरथो लोके कौशल्या जननी तव ॥
ययोर्जातोसि गोविन्द जगदीश परः पुमान् ॥ १४ ॥
धन्यं च तत्कुलं राम यत्र त्वमागतः स्वयम् ॥
धन्याऽयोध्यापुरी राम धन्यो लोकस्त्वदाश्रयः ॥ १५ ॥
धन्यः सोऽपि हि वाल्मीकिर्येन रामायणं कृतम् ॥
कविना विप्रमुख्येभ्य आत्मबुद्ध्या ह्यनागतम् ॥ १६ ॥
त्वत्तोऽभवत्कुलं चेदं त्वया देव सुपावितम् ॥१७॥
नरपतिरिति लोकैः स्मर्यते वैष्णवांशः स्वयमसि रमणीयैस्त्वं गुणैर्विष्णुरेव ॥
किमपि भुवनकार्यं यद्विचिन्त्यावतीर्य तदिह घटयतस्ते वत्स निर्विघ्नमस्तु ॥१८॥
स्तुत्वा वाचाथ रामं हि त्वयि नाथे नु साम्प्रतम् ॥
शून्या वर्ते चिरं कालं यथा दोषस्तथैव हि ॥ १९ ॥
धर्मारण्यस्य क्षेत्रस्य विद्धि मामधिदेवताम् ॥
वर्षाणि द्वादशेहैव जातानि दुःखि तास्म्यहम् ॥ 3.2.32.२० ॥
निर्जनत्वं ममाद्य त्वमुद्धरस्व महामते ॥
लोहासुरभयाद्राम विप्राः सर्वे दिशो दश ॥ २१ ॥
गताश्च वणिजः सर्वे यथास्थानं सुदुःखिताः ॥
स दैत्यो घातितो राम देवैः सुरभयङ्करः ॥ २२ ॥
आक्रम्यात्र महामायो दुराधर्षो दुरत्ययः ॥
न ते जनाः समायान्ति तद्भयादति शङ्किताः ॥ २३ ॥
अद्य वै द्वादश समाः शून्यागारमनाथवत् ॥
यस्माच्च दीर्घिकायां मे स्नानदानोद्यतो जनः ॥ २४ ॥
राम तस्यां दीर्घिकायां निपतन्ति च शूकराः ॥
यत्राङ्गना भर्तृयुता जलक्रीडापरायणाः ॥ २५ ॥
चिक्रीडुस्तत्र महिषा निपतन्ति जलाशये ॥
यत्र स्थाने सुपुष्पाणां प्रकरः प्रचुरोऽभवत् ॥ २६ ॥
तद्रुद्धं कण्टकैर्वृक्षैः सिंहव्याघ्रसमाकुलैः ॥
सञ्चिक्रीडुः कुमाराश्च यस्यां भूमौ निरन्तरम् ॥२७॥
कुमार्यश्चित्रकाणां च तत्र क्रीडं ति हर्षिताः ॥
अकुर्वन्वाडवा यत्र वेदगानं तिरन्तरम् ॥२८॥
शिवानां तत्र फेत्काराः श्रूयन्तेऽतिभयङ्कराः ॥
यत्र धूमोऽग्निहोत्राणां दृश्यते वै गृहेगृहे ॥ २९ ॥
तत्र दावाः सधूमाश्च दृश्यन्तेऽत्युल्बणा भृशम् ॥
नृत्यन्ते नर्त्तका यत्र हर्षिता हि द्विजाग्रतः ॥ 3.2.32.३० ॥
तत्रैव भूतवेताला प्रेताः नृत्यन्ति मोहिताः ॥
नृपा यत्र सभायां तु न्यषीदन्मन्त्रतत्पराः ॥ ३१ ॥
तस्मिन्स्थाने निषीदन्ति गवया ऋक्षशल्लकाः ॥
आवासा यत्र दृश्यन्ते द्विजानां वणिजां तथा ॥३२॥
कुट्टिमप्रतिमा राम दृश्यन्तेत्र बिलानि वै ॥
कोटराणीह वृक्षाणां गवाक्षाणीह सर्वतः ॥ ३३ ॥
चतुष्का यज्ञवेदिर्हि सोच्छ्राया ह्यभवत्पुरा ॥
तेऽत्र वल्मीकनिचयैर्दृश्यन्ते परिवेष्टिताः ॥ ३४ ॥
एवंविधं निवासं मे विद्धि राम नृपोत्तम ॥
शून्यं तु सर्वतो यस्मान्निवासाय द्विजा गताः ॥ ३५ ॥
तेन मे सुमहद्दुःखं तस्मात्त्राहि नरेश्वर ॥
एतच्छ्रुत्वा वचो राम उवाच वदतां वरः ॥ ३६ ॥
॥ श्रीराम उवाच ॥ ॥
न जाने तावकान्विप्रांश्चतुर्दिक्षु समाश्रितान् ॥
न तेषां वेद्म्यहं सङ्ख्यां नामगोत्रे द्विजन्मनाम् ॥ ३७ ॥
यथा ज्ञातिर्यथा गोत्रं याथातथ्यं निवेदय ॥
तत आनीय तान्सर्वान्स्वस्थाने वासयाम्यहम् ॥ ३८ ॥
॥ श्रीमातोवाच ॥ ॥
ब्रह्मविष्णुमहेशैश्च स्थापिता ये नरेश्वर ॥
अष्टादश सहस्राणि ब्राह्मणा वेदपारगाः ॥ ३९ ॥
त्रयीविद्यासु विख्याता लोकेऽस्मिन्नमितद्युते ॥
चतुष्षष्टिकगोत्राणां वाडवा ये प्रतिष्ठिताः ॥ ॥ 3.2.32.४० ॥
श्रीमातादात्त्रयीविद्यां लोके सर्वे द्विजोत्तमाः ॥
षट्त्रिंशच्च सहस्राणि वैश्या धर्मपरायणाः ॥ ४१ ॥
आर्यवृत्तास्तु विज्ञेया द्विजशुश्रूषणे रताः ॥
बहुलार्को नृपो यत्र सञ्ज्ञया सह राजते ॥ ४२ ॥
कुमारावश्विनौ देवौ धनदो व्ययपूरकः ॥
अधिष्ठात्री त्वहं राम नाम्ना भट्टारिका स्मृता ॥ ४३ ॥
॥ श्रीसूत उवाच ॥ ॥
स्थानाचाराश्च ये केचित्कुलाचारास्तथैव च ॥
श्रीमात्रा कथितं सर्वं रामस्याग्रे पुरातनम् ॥ ४४ ॥
तस्यास्तु वचनं श्रुत्वा रामो मुदमवाप ह ॥
सत्यंसत्यं पुनः सत्यं सत्यं हि भाषितं त्वया ॥ ४५ ॥
यस्मात्सत्यं त्वया प्रोक्तं तन्नाम्ना नगरं शुभम् ॥
वासयामि जगन्मातः सत्यमन्दिरमेव च ॥ ४६ ॥
त्रैलोक्ये ख्यातिमाप्नोतु सत्यमन्दिरमु त्तमम् ॥ ४७ ॥
एतदुक्त्वा ततो रामः सहस्रशतसङ्ख्यया ॥
स्वभृत्यान्प्रेषयामास विप्रानयनहेतवे ॥ ४८ ॥
यस्मिन्देशे प्रदेशे वा वने वा सरि तस्तटे ॥
पर्यन्ते वा यथास्थाने ग्रामे वा तत्रतत्र च ॥ ४९ ॥
धर्मारण्यनिवासाश्च याता यत्र द्विजोत्तमाः ॥
अर्घपाद्यैः पूजयित्वा शीघ्रमानयतात्र तान् ॥ 3.2.32.५० ॥
अहमत्र तदा भोक्ष्ये यदा द्रक्ष्ये द्विजोत्तमान् ॥ ५१ ॥
विमान्य च द्विजानेतानागमिष्यति यो नरः ॥
स मे वध्यश्च दण्ड्यश्च निर्वास्यो विषयाद्बहिः ॥ ५२ ॥
तच्छ्रुत्वा दारुणं वाक्यं दुःसहं दुःप्रधर्षणम् ॥
रामाज्ञाकारिणो दूता गताः सर्वे दिशो दश ॥ ५३ ॥
शोधिता वाडवाः सर्वे लब्धाः सर्वे सुहर्षिताः ॥
यथोक्तेन विधानेन अर्घपाद्यैरपूजयन् ॥ ५४ ॥
स्तुतिं चक्रुश्च विधिवद्विनयाचारपूर्वकम् ॥
आमन्त्र्य च द्विजान्सर्वान्रामवाक्यं प्रकाशयन् ॥ ५५ ॥
ततस्ते वाडवाः सर्वे द्विजाः सेवकसंयुताः ॥
गमनायोद्यताः सर्वे वेदशास्त्रपरायणाः ॥ ५६ ॥
आगता रामपार्श्वं च बहुमानपुरःसराः ॥
समागतान्द्विजान्दृष्ट्वा रोमाञ्चिततनूरुहः ॥ ५७ ॥
कृतकृत्यमिवात्मानं मेने दाशरथिर्नृपः ॥
स सम्भ्रमात्समुत्थाय पदातिः प्रययौ पुरः ॥ ५८ ॥
करसम्पुटकं कृत्वा हर्षाश्रु प्रतिमुञ्चयन् ॥
जानुभ्यामवनिं गत्वा इदं वचनमब्रवीत् ॥ ५९ ॥
विप्रप्रसादात्कमलावरोऽहं विप्रप्रसादाद्धरणीधरोऽहम् ॥
विप्रप्रसादाज्जगतीपतिश्च विप्रप्रसादान्मम रामनाम ॥ 3.2.32.६० ॥
इत्येवमुक्ता रामेण वाड वास्ते प्रहर्षिताः ॥
जयाशीर्भिः प्रपूज्याथ दीर्घायुरिति चाब्रुवन् ॥ ६१ ॥
आवर्जितास्ते रामेण पाद्यार्घ्यविष्टरादिभिः ॥
स्तुतिं चकार विप्राणां दण्डवत्प्रणिपत्य च ॥ ६२ ॥
कृताञ्जलिपुटः स्थित्वा चक्रे पादाभिवन्दनम् ॥
आसनानि विचित्राणि हैमान्याभरणानि च ॥ ६३ ॥
समर्पयामास ततो रामो दशरथात्मजः ॥
अङ्गुलीयकवासांसि उपवीतानि कर्णकान् ॥ ६४ ॥
प्रददौ विप्रमुख्येभ्यो नानावर्णाश्च धेनवः ॥
एकैकशत सङ्ख्याका घटोध्नीश्च सवत्सकाः ॥ ६५ ॥
सवस्त्रा बद्धघण्टाश्च हेमशृङ्गविभूषिताः ॥
रूप्यखुरास्ताम्रपृष्ठीः कांस्यपात्रसमन्विताः ॥ ६६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्याम्। संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये ब्रह्मनारदसंवादे सत्यमन्दिरस्थापन वर्णनोनाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥ ॥ छ ॥