॥ व्यास उवाच ॥ ॥
पुरा त्रेतायुगे प्राप्ते वैष्णवांशो रघूद्वहः ॥
सूर्यवंशे समुत्पन्नो रामो राजीवलोचनः ॥ १ ॥
स रामो लक्ष्मणश्चैव काकपक्षधरावुभौ ॥
तातस्य वचनात्तौ तु विश्वामित्रमनुव्रतौ ॥ २ ॥
यज्ञसंरक्षणार्थाय राज्ञा दत्तौ कुमारकौ ॥
धनुःशरधरौ वीरौ पितुर्वचनपालकौ ॥ ३ ॥
पथि प्रव्रजतो यावत्ताडकानाम राक्षसी ॥
तावदागम्य पुरतस्तस्थौ वै विघ्नकारणात् ॥ ॥ ४ ॥
ऋषेरनुज्ञया रामस्ताडकां समघातयत्॥
प्रादिशच्च धनुर्वेदविद्यां रामाय गाधिजः ॥५॥
तस्य पादतलस्पर्शाच्छिला वासवयोगतः ॥
अहल्या गौतमवधूः पुनर्जाता स्वरूपिणी ॥ ६ ॥
विश्वामित्रस्य यज्ञे तु सम्प्रवृत्ते रघूत्तमः ॥
मारीचं च सुबाहुं च जघान परमेषुभिः ॥७॥
ईश्वरस्य धनुर्भग्नं जनकस्य गृहे स्थितम् ॥
रामः पञ्चदशे वर्षे षड्वर्षां चैव मैथिलीम् ॥ ८ ॥
उपयेमे तदा राजन्रम्यां सीतामयोनिजाम् ॥
कृतकृत्यस्तदा जातः सीतां सम्प्राप्य राघवः ॥ ९ ॥
अयोध्यामगमन्मार्गे जामदग्न्यमवेक्ष्य च ॥
सङ्ग्रामोऽभूत्तदा राजन्देवानामपि दुःसहः ॥ 3.2.30.१० ॥
ततो रामं पराजित्य सीतया गृहमागतः ॥
ततो द्वादशवर्षाणि रेमे रामस्तया सह ॥ ११ ॥
एकविंशतिमे वर्षे यौवराज्यप्रदायकम् ॥
राजानमथ कैकेयी वरद्वयमयाच त ॥ १२ ॥
तयोरेकेन रामस्तु ससीतः सहलक्ष्मणः ॥
जटाधरः प्रव्रजतां वर्षाणीह चतुर्दश ॥ १३ ॥
भरतस्तु द्वितीयेन यौवराज्याधिपोस्तु मे ॥
मन्थरावचनान्मूढा वरमेतमयाचत ॥ १४ ॥
जानकीलक्ष्मणसखं रामं प्राव्राजयन्नृपः ॥
त्रिरात्रमुदकाहारश्चतुर्थेह्नि फलाशनः ॥ १५ ॥
पञ्चमे चित्रकूटे तु रामो वासमकल्पयत् ॥
तदा दशरथः स्वर्गं गतो राम इति ब्रुवन् ॥ १६ ॥
ब्रह्मशापं तु सफलं कृत्वा स्वर्गं जगाम किम् ॥
ततो भरत शत्रुघ्नौ चित्रकूटे समागतौ ॥ १७ ॥
स्वर्गतं पितरं राजन्रामाय विनिवेद्य च ॥
सान्त्वनं भरतस्यास्य कृत्वा निवर्तनं प्रति ॥ १८ ॥
ततो भरत शत्रुघ्नौ नन्दिग्रामं समागतौ ॥
पादुकापूजनरतौ तत्र राज्यधरावुभौ ॥ १९ ॥
अत्रिं दृष्ट्वा महात्मानं दण्डकारण्यमागमत ॥
रक्षोगणवधारम्भे विराधे विनिपातिते ॥ 3.2.30.२० ॥
अर्द्धत्रयोदशे वर्षे पञ्चवट्यामुवास ह ॥
ततो विरूपयामास शूर्पणखां निशाचरीम् ॥
वने विचरतरतस्य जानकीसहितस्य च ॥ २१ ॥
आगतो राक्षसो घोरः सीतापहरणाय सः ॥
ततो माघासिताष्टम्यां मुहूर्ते वृन्दसञ्ज्ञके ॥ २२ ॥
राघवाभ्यां विना सीतां जहार दश कन्धरः ॥
मारीचस्याश्रमं गत्वा मृगरूपेण तेन च ॥ २३ ॥
नीत्वा दूरं राघवं च लक्ष्मणेन समन्वितम् ॥
ततो रामो जघानाशु मारीचं मृगरू पिणम् ॥ २४ ॥
पुनः प्राप्याश्रमं रामो विना सीतां ददर्श ह ॥
तत्रैव ह्रियमाणा सा चक्रन्द कुररी यथा ॥ २५ ॥
रामरामेति मां रक्ष रक्ष मां रक्षसा हृताम्॥
यथा श्येनः क्षुधायु्क्तः क्रन्दन्तीं वर्तिकां नयेत् ॥ २६ ॥
तथा कामवशं प्राप्तो राक्षसो जनकात्मजाम् ॥
नयत्येष जनकजां तच्छ्रुत्वा पक्षिराट् तदा ॥ २७ ॥
युयुधे राक्षसेन्द्रेण रावणेन हतोऽपतत् ॥
माघासितनवम्यां तु वसन्तीं रावणालये ॥ २८ ॥
मार्गमाणौ तदा तौ तु भ्रातरौ रामलक्ष्मणौ ॥ २९ ॥
जटायुषं तु दृष्ट्वैव ज्ञात्वा राक्षससंहृताम् ॥
सीतां ज्ञात्वा ततः पक्षी संस्कृतस्तेन भक्तितः ॥ 3.2.30.३० ॥
अग्रतः प्रययौ रामो लक्ष्मणस्तत्पदानुगः ॥
पम्पाभ्याशमनुप्राप्य शबरीमनुगृह्य च ॥३१॥
तज्जलं समुपस्पृश्य हनुमद्दर्शनं कृतम् ॥
ततो रामो हनुमता सह सख्यं चकार ह ॥ ३२ ॥
ततः सुग्रीवमभ्येत्य अहनद्वालिवानरम् ॥
प्रेषिता रामदेवेन हनुमत्प्रमुखाः प्रियाम् ॥ ३३ ॥
अङ्गुलीयकमादाय वायुसूनुस्तदागतः ॥
सम्पातिर्दशमे मासि आचख्यौ वानराय ताम् ॥३४॥
ततस्तद्वचनादब्धिं पुप्लुवे शतयोजनम् ॥
हनुमान्निशि तस्यां तु लङ्कायां परितोऽचिनोत्॥३५॥
तद्रात्रिशेषे सीताया दर्शनं तु हनूमतः ॥
द्वादश्यां शिंशपावृक्षे हनुमान्पर्यवस्थितः ॥ ३६ ॥
तस्यां निशायां जानक्या विश्वासायाह सङ्कथाम् ॥
अक्षादिभिस्त्रयोदश्यां ततो युद्धमवर्त्तत ॥ ३७ ॥
ब्रह्मास्त्रेण त्रयोदश्यां बद्धः शक्रजिता कपिः ॥
दारुणानि च रूक्षाणि वाक्यानि राक्षसाधिपम् ॥ ॥ ३८ ॥
अब्रवीद्वायुसूनुस्तं बद्धो ब्रह्मास्त्रसंयुतः ॥
वह्निना पुच्छयुक्तेन लङ्काया दहनं कृतम् ॥ ३९ ॥
पूर्णिमायां महेन्द्राद्रौ पुनरागमनं कपेः ॥
मार्गशीर्षप्रतिपदः पञ्चभिः पथि वासरैः ॥ 3.2.30.४० ॥
पुनरागत्य वर्षेह्नि ध्वस्तं मधुवनं किल ॥
सप्तम्यां प्रत्यभिज्ञानदानं सर्वनिवेदनम् ॥ ४१ ॥
मणिप्रदानं सीतायाः सर्वं रामाय शंसयत् ॥
अष्टम्युत्तरफाल्गुन्यां मुहूर्ते विजयाभिधे ॥ ४२ ॥
मध्यं प्राप्ते सहस्रांशौ प्रस्थानं राघवस्य च ॥
रामः कृत्वा प्रतिज्ञां हि प्रयातुं दक्षिणां दिशम्॥ ४३ ॥
तीर्त्वाहं सागरमपि हनिष्ये राक्षसेश्वरम् ॥
दक्षिणाशां प्रयातस्य सुग्रीवोऽथाभव त्सखा ॥ ४४ ॥
वासरैः सप्तभिः सिन्धोस्तीरे सैन्यनिवेशनम् ॥
पौषशुक्लप्रतिपदस्तृतीयां यावदम्बुधौ ॥
उपस्थानं ससैन्यस्य राघवस्य बभूव ह॥४५॥
विभीषणश्चतुर्थ्यां तु रामेण सह सङ्गतः ॥
समुद्रतरणार्थाय पञ्चम्यां मन्त्र उद्यतेः ॥ ४६ ॥
प्रायोपवेशनं चक्रे रामो दिनचतुष्टयम् ॥
समुद्राद्वरलाभश्च सहोपायप्रदर्शनः ॥ ४७ ॥
सेतोर्दशम्यामारम्भस्त्रयोदश्यां समापनम् ॥
चतुर्दश्यां सुवेलाद्रौ रामः सेनां न्यवे शयत् ॥ ४८ ॥
पूर्णिमास्या द्वितीयायां त्रिदिनैः सैन्यतारणम् ॥
तीर्त्वा तोयनिधिं रामः शूरवानरसैन्यवान् ॥ ४९ ॥
रुरोध च पुरीं लङ्कां सीतार्थं शुभलक्षणः ॥
तृतीयादिदशम्यन्तं निवेशश्च दिनाष्टकः ॥ 3.2.30.५० ॥
शुकसारणयोस्तत्र प्राप्तिरेकादशीदिने ॥
पौषासिते च द्वादश्यां सैन्यसङ्ख्यानमेव च ॥ ५१ ॥
शार्दूलेन कपीन्द्राणां सारासारोपवर्णनम् ॥
त्रयोदश्याद्यमान्ते च लङ्कायां दिवसैस्त्रिभिः ॥ ५२ ॥
रावणः सैन्यसं ख्यानं रणोत्साहं तदाऽकरोत् ॥
प्रययावङ्गदो दौत्ये माघशुक्लाद्यवासरे ॥ ५३ ॥
सीतायाश्च तदा भर्तुर्मायामूर्धादिदर्शनम् ॥
माघशुक्लद्वितीया यां दिनैः सप्तभिरष्टमीम् ॥ ५४ ॥
रक्षसां वानराणां च युद्धमासीच्च सङ्कुलम् ॥
माघशुक्लनवम्यां तु रात्राविन्द्रजिता रणे ॥ ५५ ॥
रामलक्ष्मणयोर्ना गपाशबन्धः कृतः किल ॥
आकुलेषु कपीशेषु हताशेषु च सर्वशः ॥ ५६ ॥
वायूपदेशाद्गरुडं सस्मार राघवस्तदा ॥
नागपाशविमोक्षार्थं दशम्यां गरु डोऽभ्यगात् ॥ ५७ ॥
अवहारो माघशुक्लैस्यैकादश्यां दिनद्वयम् ॥
द्वादश्यामाञ्जनेयेन धूम्राक्षस्य वधः कृतः ॥ ५८ ॥
त्रयोदश्यां तु तेनैव निहतोऽकम्पनो रणे ॥
मायासीतां दर्शयित्वा रामाय दशकन्धरः ॥ ५९ ॥
त्रासयामास च तदा सर्वान्सैन्यगतानपि ॥
माघशुक्लचतुर्द्दश्यां यावत्कृष्णादिवासरम् ॥ 3.2.30.६० ॥
त्रिदिनेन प्रहस्तस्य नीलेन विहितो वधः ॥
माघकृष्णद्वितीयायाश्चतुर्थ्यन्तं त्रिभिर्दिनैः ॥ ६१ ॥
रामेण तुमुले युद्धे रावणो द्रावितो रणात् ॥
पञ्चम्या अष्टमी यावद्रावणेन प्रबोधितः ॥ ६२ ॥
कुम्भकर्णस्तदा चक्रेऽभ्यवहारं चतुर्दिनम् ॥
कुम्भकर्णोकरोद्युद्धं नवम्यादिचतुर्दिनैः ॥ ६३ ॥
रामेण निहतो युद्धे बहुवानरभक्षकः ॥
अमावास्यादिने शोकाऽभ्यवहारो बभूव ह ॥ ६४ ॥
फाल्गुनप्रतिपदादौ चतुर्थ्यन्तैश्चतुर्दिनैः ॥
नरान्तकप्रभृतयो निहताः पञ्च राक्षसाः ॥ ६५ ॥
पञ्चम्याः सप्तमीं यावदतिकायवधस्त्र्यहात् ॥
अष्टम्या द्वादशीं यावन्निहतो दिनपञ्चकात् ॥ ६६ ॥
निकुम्भकुम्भौ द्वावेतौ मकराक्षश्चतुर्दिनैः ॥
फाल्गुनासितद्वितीयाया दिने वै शक्रजिज्जितः ॥ ६७ ॥
तृतीयादौ सप्तम्यन्तदिनपञ्चकमेव च ॥
ओषध्यानयवैयग्र्यादवहारो बभूव ह ॥ ६८ ॥
अष्टम्यां रावणो मायामैथिलीं हतवान्कुधीः॥
शोकावेगात्तदा रामश्चक्रे सैन्यावधारणम् ॥ ६९ ॥
ततस्त्रयोदशीं यावद्दिनैः पञ्चभिरिन्द्रजित् ॥
लक्ष्मणेन हतो युद्धे विख्यातबलपौरुषः ॥ 3.2.30.७० ॥
चतुर्द्दश्यां दशग्रीवो दीक्षामापावहारतः ॥
अमावास्यादिने प्रागाद्युद्धाय दशकन्धरः ॥ ७१ ॥
चैत्रशुक्लप्रतिपदः पञ्चमीदिनपञ्चके ॥
रावणो युध्यमानो ऽभूत्प्रचुरो रक्षसां वधः ॥ ७२ ॥
चैत्रशुक्लाष्टमीं यावत्स्यन्दनाश्वादिसूदनम् ॥
चैत्रशुक्लनवम्यां तु सौमित्रेः शक्तिभेदने ॥ ७३ ॥
कोपाविष्टेन रामेण द्रावितो दशकन्धरः ॥
विभीषणोपदेशेन हनुमद्युद्धमेव च ॥ ७४ ॥
द्रोणाद्रेरोषधीं नेतुं लक्ष्मणार्थमुपागतः ॥
विशल्यां तु समादाय लक्ष्मणं तामपाययत् ॥ ७५ ॥
दशम्यामवहारोऽभूद्रात्रौ युद्धं तु रक्षसाम् ॥
एकादश्यां तु रामाय रथो मातलिसारथिः ॥ ७६ ॥
प्राप्तो युद्धाय द्वादश्यां यावत्कृष्णां चतुर्दशीम् ॥
अष्टादशदिने रामो रावणं द्वैरथेऽवधीत् ॥ ७७ ॥
संस्कारा रावणादीनाममावा स्यादिनेऽभवन् ॥
सङ्ग्रामे तुमुले जाते रामो जयमवाप्तवान् ॥ ७८ ॥
माघशुक्लद्वितीयादिचैत्रकृष्णचतुर्द्दशीम् ॥
सप्ताशीतिदिनान्येवं मध्ये पंवदशा हकम् ॥ ७९ ॥
युद्धावहारः सङ्ग्रामो द्वासप्ततिदिनान्यभूत् ॥
वैशाखादि तिथौ राम उवास रणभूमिषु ॥
अभिषिक्तो द्वितीयायां लङ्काराज्ये विभी षणः ॥ 3.2.30.८० ॥
सीताशुद्धिस्तृतीयायां देवेभ्यो वरलम्भनम् ॥
दशरथस्यागमनं तत्र चैवानुमोदनम् ॥ ८१ ॥
हत्वा त्वरेण लङ्केशं लक्ष्मणस्याग्रजो विभुः॥।
गृहीत्वा जानकीं पुण्यां दुःखितां राक्षसेन तु ॥ ८२ ॥
आदाय परया प्रीत्या जानकीं स न्यवर्तत ॥
वैशाखस्य चतुर्थ्यां तु रामः पुष्पकमा श्रितः ॥ ८३ ॥
विहायसा निवृत्तस्तु भूयोऽयोध्यां पुरीं प्रति ॥
पूर्णे चतुर्दशे वर्षे पञ्चम्यां माधवस्य च ॥ ८४ ॥
भारद्वाजाश्रमे रामः सगणः समु पाविशत् ॥
नन्दिग्रामे तु षष्ठ्यां स पुष्पकेण समागतः ॥ ८५ ॥
सप्तम्यामभिषिक्तोऽसौ भूयोऽयोध्यायां रघूद्वहः ॥
दशाहाधिकमासांश्च चतुर्दश हि मैथिली ॥ ८५ ॥
उवास रामरहिता रावणस्य निवेशने ॥
द्वाचत्वारिंशके वर्षे रामो राज्यमकारयत् ॥ ८७ ॥
सीतायास्तु त्रयस्त्रिंशद्वर्षाणि तु तदा भवन् ॥
स चतुर्दशवर्षान्ते प्रविष्टः स्वां पुरीं प्रभुः ॥ ८८ ॥
अयोध्यां नाम मुदितो रामो रावणदर्पहा ॥
भ्रातृभिः सहितस्तत्र रामो राज्यमकार यत् ॥ ८९ ॥
दशवर्षसहस्राणि दशवर्षशतानि च ॥
रामो राज्यं पालयित्वा जगाम त्रिदिवालयम् ॥ 3.2.30.९० ॥
रामराज्ये तदा लोका हर्षनिर्भरमा नसाः ॥
बभूवुर्धनधान्याढ्याः पुत्रपौत्रयुता नराः ॥ ९१ ॥
कामवर्षी च पर्जन्यः सस्यानि गुणवन्ति च ॥
गावस्तु घटदोहिन्यः पादपाश्च सदा फलाः ॥ ९२ ॥
नाधयो व्याधयश्चैव रामराज्ये नराधिप ॥
नार्यः पतिव्रताश्चासन्पितृभक्तिपरा नराः ॥ ९३ ॥
द्विजा वेदपरा नित्यं क्षत्रिया द्विज सेविनः ॥
कुर्वते वैश्यवर्णाश्च भक्तिं द्विजगवां सदा ॥ ९४ ॥
न योनिसङ्करश्चासीत्तत्र नाचारसङ्करः ॥
न वन्ध्या दुर्भगा नारी काकवन्ध्या मृत प्रजा ॥ ९५ ॥
विधवा नैव काप्यासीत्सभर्तृका न लप्यते ॥
नावज्ञां कुर्वते केपि मातापित्रोर्गुरोस्तथा ॥ ९६ ॥
न च वाक्यं हि वृद्धानामुल्लं घयति पुण्यकृत् ॥
न भूमिहरणं तत्र परनारीपराङ्मुखाः ॥ ९७ ॥
नापवादपरो लोको न दरिद्रो न रोगभाक् ॥
न स्तेयो द्यूतकारी च मैरेयी पापिनो नहि ॥ ९८ ॥
न हेमहारी ब्रह्मघ्नो न चैव गुरुतल्पगः ॥
न स्त्रीघ्नो न च बालघ्नो न चैवानृतभाषणः ॥ ९९ ॥
न वृत्तिलोपकश्चासीत्कूट साक्षी न चैव हि ॥
न शठो न कृतघ्नश्च मलिनो नैव दृश्यते ॥ 3.2.30.१०० ॥
सदा सर्वत्र पूज्यन्ते ब्राह्मणा वेदपारगाः ॥
नावैष्णवोऽव्रती राजन्राम राज्येऽतिविश्रुते ॥ १०१ ॥
राज्यं प्रकुर्वतस्तस्य पुरोधा वदतां वरः ॥
वसिष्ठो मुनिभिः सार्द्धं कृत्वा तीर्थान्यनेकशः ॥ २ ॥
आजगाम ब्रह्मपुत्रो महाभागस्तपोनिधिः ॥
रामस्तं पूजयामास मुनिभिः सहितं गुरुम् ॥ ३ ॥
अभ्युत्थानार्घपाद्यैश्च मधुपर्कादिपूजया ॥
प्रपच्छ कुशलं रामं वसिष्ठो मुनिपुङ्गवः ॥ ४ ॥
राज्ये चाश्वे गजे कोशे देशे सद्भ्रातृभृत्ययोः ॥
कुशलं वर्त्तते राम इति पृष्टे मुनेस्तदा ॥ ५ ॥
॥ राम उवाच ॥ ॥
सर्वत्र कुशलं मेऽद्य प्रसादाद्भवतः सदा ॥
पप्रच्छ कुशलं रामो वसिष्ठं मुनिपुङ्गवम् ॥ ६ ॥
सर्वतः कुशली त्वं हि भार्यापुत्रसमन्वितः ॥
स सर्वं कथयामास यथा तीर्थान्यशेषतः ॥ ७ ॥
सेवितानि धरापृष्ठे क्षेत्राण्यायतनानि च ॥
रामाय कथयामास सर्वत्र कुशलं तदा ॥ ८ ॥
ततः स विस्मयाविष्टो रामो राजीवलोचनः ॥
पप्रच्छ तीर्थमाहात्म्यं यत्तीर्थेषूत्तमोत्तमम् ॥ १०९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये रामचरित्रवर्णनन्नाम त्रिंशोऽध्यायः ॥ ३० ॥ ॥ छ ॥ ॥