०२९ लोहासुरमाहात्म्यसम्पूर्तिः

सूत उवाच ॥ ॥
अतः परं शृणुध्वं हि लोहासुरविचेष्टितम् ॥
बलेः पुत्रशतस्यापि कथयिष्यामि विश्रुतम् ॥ १ ॥
यथा तौ भ्रातरौ वृद्धौ प्रापतुः स्थानमुत्तमम्॥
तदा प्रभृति वैराग्यं दैत्यो लोहासुरे दधौ ॥ २ ॥
किं करोमि क्व गच्छामि तपसे स्थानमुत्तमम् ॥
यस्य पारं न जानन्ति देवता मुनयो नराः ॥ ३ ॥
को मयाऽऽराध्यतां देवो हृदि चिन्तयते भृशम् ॥
इति चिन्तयतस्तस्य मतिर्जाता महात्मनः ॥ ४ ॥
दधौ गङ्गां स्वशीर्षेण पुष्पवन्तौ च नेत्रयोः ॥
हृदा नारायणं देवं ब्रह्माणं कटिमण्डले ॥ ५ ॥
इन्द्राद्या देवताः सर्वे यद्देहे प्रतिबिम्बिताः ॥
प्रपश्यन्ति तदात्मानं भास्करः सलिले यथा ॥ ६ ॥
तमेवाराधयिष्यामि निरञ्जनमकल्मषः ॥
एवं कृत्वा मतिं दैत्य स्तपस्तेपे सुदुष्करम् ॥
भीतो जन्मभयाद्घोराद्दुष्करं यन्महात्मभिः ॥ ७ ॥
अम्बुभक्षो वायुभक्षः शीर्णपर्णाशनस्तथा ॥
दिव्यं वर्षशतं साग्रं यदा तेपे महत्तपः ॥
ततस्तुतोष भगवांस्त्रिशूलवरधारकः ॥ ८ ॥
॥ ईश्वर उवाच ॥ ॥
वरं वृणीष्व भद्रं ते मनसा यदभीप्सितम् ॥
लोहासुर मया देयं तव नास्ति तपोबलात् ॥ ९ ॥
इत्युक्तो दानवस्तत्र शङ्कराग्रे वचोऽब्रवीत् ॥ 3.2.29.१० ॥
॥ लोहासुर उवाच ॥ ॥
यदि तुष्टोसि देवेश वरमेकं वृणोम्यहम् ॥
शरीरस्याजरत्वं च मा मृत्योरपि मे भयम् ॥ ११ ॥
जन्मन्यस्मिन्प्रभो भूयात्स्थातव्यं हृदये मम ॥
एवमस्तु शिवः प्राह तत्र तं दानवेश्वरम् ॥ १२ ॥
शर्वलब्धवरो दैवात्पुनस्तेपे महत्तपः ॥
रम्ये सरस्वतीतीरे तरणाय भवार्णवात् ॥ १३ ॥
वत्सराणां सहस्राणि प्रयुतान्यर्बुदानि च ॥
शङ्कते भगवानिन्द्रो भीतस्तस्य तपोबलात् ॥ १४ ॥
मा मे पदच्युतिर्भूयाद्दैत्यल्लोहासुरात्क्वचित् ॥
मघवान्गुप्तरूपेण समेत्याश्रमकाननम् ॥ १५ ॥
तपोभङ्गं प्रकुरुते कम्पयित्वा महासुरम् ॥
ताडयन्ति शरीरे तं मुष्टिभिस्तीक्ष्णकर्कशैः ॥ १६ ॥
अथ तेन च दैत्येन ध्यानमुत्सृज्य वीक्षितम् ॥
इन्द्रेण तत्कृतं सर्वं तपोबलविनाशनम् ॥ १७ ॥
तस्य तैरभवद्युद्धमिन्द्राद्यैरथ कर्क्कशैः ॥
एकस्य बहुभिः सार्द्धं देवास्ते तेन संयुगे ॥ १८ ॥
रुधिराक्लिन्नदेहा वै प्रहारैर्जर्जरीकृताः ॥
केशवं शरणं प्राप्ता त्राहि त्राहीति भाषिणः ॥ १९ ॥ ॥
॥ सूत उवाच ॥ ॥
देवानां वाक्यमाकर्ण्य वासुदेवो जनार्दनः ॥
युयुधे केशवस्तेन युद्धे वर्षशतं किल ॥ 3.2.29.२० ॥
ततो नारायणं तत्र जिगाय स वरोर्जितः ॥
अथ नारायणो देवो जितो लोहासुरेण तु ॥ २१ ॥
मन्त्रयामास रुद्रेण ब्रह्मणा च पुनःपुनः ॥
मीमांसित्वा त्रयो देवाः पुनर्युद्धसमुद्यमम् ॥ २२ ॥
लोहासुरस्य दैत्यस्य वपुर्दृष्ट्वा पुनर्नवम् ॥
महदासीत्पुनर्युद्धं दैत्यकेशवयोस्ततः ॥ २३ ॥
न ममार यदा दैत्यो विष्णुना प्रभविष्णुना ॥
तरसा तं केशवोऽपि पातयामास भूतले ॥ २४ ॥
उत्तानं पतितं दृष्ट्वा पिनाकी परमेश्वरः ॥
दधार हृदये तस्य स्वरूपं रूपवर्जितः ॥ २५ ॥
कण्ठे तस्थौ ततो ब्रह्मा तस्य लोहासुरस्य च ॥
चरणौ पीडयामास स्वस्थित्या पुरुषोत्तमः ॥ २६ ॥
अथ दैत्यः समुत्तस्थौ भृशं बद्धोपि भूतले ॥
दृष्ट्वोत्थितं ततो दैत्यं पातयन्तं सुरोत्तमान् ॥ २७ ॥
उवाच दिव्यया वाचा विरञ्चिः कमलासनः ॥ २८ ॥ ॥
॥ ब्रह्मोवाच ॥ ॥
लोहासुर सदा रक्ष वाचोधर्ममभीक्ष्णशः ॥
त्वया यत्प्रार्थितं रुद्रात्तदेव समुपस्थितम् ॥ २९ ॥
अहं विष्णुश्च रुद्रश्च त्रयोऽमी सुरसत्तमाः ॥
त्वद्देहमुपवेक्ष्यामो यावदाभूतसम्प्लवम् ॥ 3.2.29.३० ॥
दानवेश शिवप्राप्तिर्भावभक्त्यैव जायते ॥
शिवं चालयितुं बुद्धिः कथं तव भविष्यति ॥ ३१ ॥
अचलांश्चालयेद्यस्तु प्रासादान्ब्राह्मणान्पुरान् ॥
अचिरेणैव कालेन पातकेनैव लिप्यते ॥ ३२ ॥
श्मशानवत्परित्याज्यः सत्यधर्मबहिष्कृतः ॥
सत्यवागसि भद्रं ते मा विचालय देवताः ॥ ३३ ॥
येन यातास्तु पितरो येन याताः पितामहाः ॥
तेन मार्गेण गन्तव्यं न चोल्लङ्घ्या सतां गतिः ॥ ३४ ॥
दानवेश पिता ते हि ददौ लोकत्रयं हरेः ॥
वाक्पाशबद्धः पाताले राज्यं चक्रे महीपतिः ॥ ३५ ॥
तथा त्वमसि वाक्पाशाच्छिवभक्तिसमन्वितः ॥
भूतले तिष्ठ दैत्येन्द्र मा वाग्वैकल्प्यमाप्नुहि ॥ ३६ ॥
वरांस्ते च प्रदास्यामो मा विचाल्या हि देवताः ॥ ३७ ॥ ॥
॥ व्यास उवाच ॥ ॥
तच्छ्रुत्वा ब्रह्मणो वाक्यं सन्तुष्टो दानवेश्वरः ॥
प्राह प्रसन्नया वाचा ब्रह्माणं केशवं हरम् ॥ ३८ ॥
॥ लोहासुर उवाच ॥ ॥
वाक्पाशबद्धस्तिष्ठामि न पुनर्भवतां बले ॥
ब्रह्मा विष्णुश्च रुद्रश्च त्रयोऽमी सुरसत्तमाः ॥ ३९ ॥
स्थास्यन्ति चेच्छरीरे मे किं न लब्धं मया ततः ॥
इदं कलेवरं मे हि समारूढं त्रिभिः सुरैः ॥ 3.2.29.४० ॥
भूम्यां भवतु विख्यातं मत्प्रभावात्सुरोत्तमाः ॥ ४१ ॥
लोहासुरस्य वाक्येन हर्षिता स्त्रिदशास्त्रयः ॥
ददुः प्रत्युत्तरं तस्मै ब्रह्मविष्णुमहेश्वराः ॥ ४२ ॥
सत्यवाक्पाशतो दैत्यो न सत्याच्चलितो यतः ॥
तेन सत्येन सन्तुष्टा दास्या मस्ते मनीप्सितम् ॥ ४३ ॥
॥ ब्रह्मोवाच ॥ ॥
यथा स्नानं ब्रह्मज्ञानं देहत्यागो गयातले ॥
धर्मारण्ये तथा दैत्य धर्म्मेश्वरपुरः स्थिते ॥ ४४ ॥
कूपे तर्प्पणकं श्राद्धं शंसन्ति पितरो दिवि ॥
सन्तुष्टा पिण्डदानेन गयायां पितरो यथा ॥ ४५ ॥
वाञ्छन्ति तर्प्पणं कूपे धर्मारण्ये विशुद्धये ॥
दानवेन्द्र शरीरं तु तीर्थं तव भविष्यति ॥ ४६ ॥
एकविंशतिवारांस्तु गयायां तर्प्पणे कृते ॥
पितॄणां या परा तृप्तिर्जायते दानवाधिप ॥ ४७ ॥
धर्मेश्वर पुरस्तात्सा त्वेकदा पितृतर्पणात् ॥
स्याद्वै दशगुणा तृप्तिः सत्यमेव न संशयः ॥ ४८ ॥
पितॄणां पिण्डदानेन अक्षय्या तृप्तिरस्त्विह ॥
शिवरूपान्तराले वै धर्मारण्ये धरातले ॥४९॥
श्रद्धयैव हि कर्त्तव्याः श्राद्धपिण्डोदकक्रियाः ॥
तथान्तराले चास्माकं श्राद्धपिण्डौ विशेषतः ॥ 3.2.29.५० ॥
तथा शरीरे क्वापिस्ताञ्चिन्ता सत्योऽसि सुव्रत॥
त्रिषु लोकेषु दुष्प्रापं सत्यं ते दिवि संस्थितम् ॥५१॥
अस्मद्वाक्येन सत्येन तत्तथाऽसुरसत्तम ॥
गयासमधिकं तीर्थं तव जातं धरातले॥५२॥
अस्माकं स्थितिरव्यग्रा तव देहे न संशयः ॥
सत्यपाशेन बद्धाः स्म दृढमेव त्वयाऽनघ॥५३॥
॥ विष्णुरुवाच ॥ ॥
गयाप्रयाग कस्याऽपि फलं समधिकं स्मृतम् ॥
चतुर्द्दश्याममावास्यां लोहयष्ट्यां पिण्डदानतः ॥ ५४ ॥
बलिपुत्रस्य सत्येन महती तृप्तिरत्र हि ॥
मा कुरुष्वात्र सन्देहं तव देहे स्थिता स्वयम् ॥ ५५ ॥
सरस्वती पुण्यतोया ब्रह्मलोकात्प्रयात्युत ॥
प्लावयिष्यन्ति देहाङ्गं मया सह सुसङ्गता ॥५६॥
यथो वै द्वारका वासो देवस्तत्र महेश्वरः ॥
विरञ्चिर्यत्र तीर्थानि त्रीण्येतानि धरातले ॥ ५७ ॥
भविष्यति च पाताले स्वर्गलोके यमक्षये ॥
विख्यातान्यसुरश्रेष्ठ पि तॄणां तृप्तिहेतवे ॥५८॥
अथान्यत्सम्प्रवक्ष्यामि गाथां पितृकृतां पराम् ॥
आज्ञारूपां हि पुत्राणां तां शृणुष्व ममानघ ॥५९॥
पितर ऊचुः॥
शङ्करस्याग्रतः स्थानं रुद्रलोकप्रदं नृणाम् ॥
पापदेहविशुद्ध्यर्थं पापेनोपहतात्मनाम् ॥3.2.29.६०॥
तस्मिंस्तिलोदकेनापि सद्गतिं यान्ति तर्पिताः ॥
पितरो नरकाद्वा पि सुपुत्रेण सुमेधसा ॥ ६१ ॥
गोप्रदानं प्रशंसन्ति तत्तत्र पितृमुक्तये ॥
पित्रादिकान्समुद्दिश्य दृष्ट्वा रुद्रं च केशवम् ॥६२॥
तिलपिण्याकपिण्डेन तृप्तिं यास्यामहे पराम् ॥
चतुर्द्दश्याममावास्यां तथा च पितृतर्पणम् ॥ ६३ ॥
अज्ञातगोत्रजन्मानस्तेभ्यः पिण्डांस्तु निर्वपेत् ॥
तेऽपि यान्ति दिवं सर्वे ये दत्त इति श्रुतिः ॥ ६४ ॥
सर्वकार्याणि सन्त्यज्य मानवैः पुण्यमीप्सुभिः ॥
प्राप्ते भाद्रपदे मासे गन्तव्या लोहयिष्टका ॥
अज्ञातगोत्रनाम्ना तु पिण्ड मन्त्रमिमं शृणु ॥ ६५ ॥
पितृवंशे मृता ये च मातृवंशे तथैव च ॥
अतीतगोत्रजास्तेभ्यः पिण्डोऽयमुपतिष्ठतु ॥ ६६ ॥
॥ विष्णुरुवाच ॥ ॥
अनेनैव तु मन्त्रेण ममाग्रे सुरसत्तम ॥
क्षीणे चन्द्रे चतुर्द्दश्यां नभस्ये पिण्डमाहरेत् ॥ ६७ ॥
पितॄणामक्षया तृप्तिर्भविष्यति न संशयः ॥
तिलपिण्याकपिण्डेन पितरो मोक्षमाप्नुयुः ॥ ६८ ॥
क्षणत्रयविनिर्मुक्ता मानवा जगतीतले ॥
भविष्यन्ति न सन्देहो लोहयष्ट्या तिलतर्पणे ॥ ६९ ॥
स्नात्वा यः कुरुते चात्र पितृपिण्डोदकक्रियाः ॥
पितरस्तस्य तृप्यन्ति यावद्ब्रह्मदिवानिशम् ॥ 3.2.29.७० ॥
अमावास्यादिनं प्राप्य मासि भाद्रपदे सरः ॥
ब्रह्मणो यष्टिकायां तु यः कुर्यात्पितृतर्पणम् ॥ ७१ ॥
पितरस्तस्य तृप्ताः स्युर्यावदाभूतसम्प्लवम् ॥
तेषां प्रसन्नो भगवानादिदेवो महेश्वरः ॥ ७२ ॥
अस्य तीर्थस्य यात्रायां मतिर्येषां भविष्यति ॥
गोक्षीरेण तिलैः श्वेतैः स्नात्वा सारस्वते जले ॥ ७३ ॥
तर्पयेदक्षया तृप्तिः पितॄणां तस्य जायते ॥
श्राद्धं चैव प्रकु र्वीत सक्तुभिः पयसा सह ॥ ७४ ॥
अमावास्यादिनं प्राप्य पितॄणां मोदमिच्छुकः ॥
रुद्रतीर्थे ततो धेनुं दयाद्वस्त्राणि यमतीर्थके ॥ ७५ ॥
विष्णुतीर्थे हिरण्यं च पितॄणां मोक्षमिच्छुकः ॥
विनाक्षतैर्विना दर्भैर्विना चासनमेव च ॥
वारिमात्राल्लोहयष्ट्यां गयाश्राद्धफलं लभेत् ॥ ७६ ॥
॥ सूत उवाच ॥ ॥
एतद्वः कथितं विप्रा लोहासुरविचेष्टितम् ॥
यच्छ्रुत्वा ब्रह्महा गोघ्नो मुच्यते सर्वपातकैः ॥ ७७ ॥
एकविंशतिवारन्तु गयायां पिण्ड पातने ॥
तत्फलं समवाप्नोति सकृदस्मिञ्छ्रुते सति ॥ ७८ ॥
चतुःष्कोटि द्विलक्षं च सहस्रं शतमेव च ॥
धेनवस्तेन दत्ताः स्युर्माहात्म्यं शृणु यात्तु यः ॥ ७९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये लोहासुरमाहात्म्यसम्पूर्तिर्नामैकोनत्रिंशोऽध्यायः ॥ २९ ॥ ॥ छ ॥