०२८ वर्णनम्

॥ व्यास उवाच ॥
गोवत्सान्नैर्ऋते भागे दृश्यते लोहयष्टिका ॥
स्वयम्भुलिङ्गरूपेण रुद्रस्तत्र स्थितः स्वयम् ॥
॥ श्रीमार्कण्डेय उवाच ॥ ॥
मोक्षतीर्थे सरस्वत्या नभस्ये चन्द्रसङ्क्षये ॥
विप्रान्सम्पूज्य विधिवत्तेभ्यो दत्त्वा च दक्षिणाम् ॥ १ ॥
एकविंशतिवारांस्तु भक्त्या पिण्डस्य यत्फलम् ॥
गयायां प्राप्यते पुंसां ध्रुवं तदिह तर्प्पणात् ॥ २ ॥
लोहयष्ट्यां कृते श्राद्धे नभस्ये चन्द्रसङ्क्षये ॥
प्रेतयोनिविनिर्मुक्ताः क्रीडन्ति पितरो दिवि ॥ ३ ॥
अपि नः सङ्कुले भूयाद्यो वै दद्यात्तिलोदकम् ॥
पिण्डं वाप्युदकं वापि प्रेतपक्षे विधूदये ॥ ३ ॥
लोहयष्ट्याममावस्यां कार्यं भाद्रपदे जनैः ॥
श्राद्धं वै मुनयः प्राहुः पितरो यदि वल्लभाः ॥ ५ ॥
क्षीरेण तु तिलैः श्वेतैः स्नात्वा सारस्वते जले ॥
पितॄंस्तर्पयते यस्तु तृप्तास्तत्पितरो ध्रुवम् ॥ ६ ॥
तत्र श्राद्धानि कुर्वीत सक्तुभिः पयसा सह ॥
अमावास्यादिनं प्राप्य पितॄणां मोक्षमिच्छकैः ॥ ७ ॥
रुद्रतीर्थे ततो धेनुं दद्याद्वस्त्रादिभूषिताम् ॥
विष्णुतीर्थे हिरण्यं च प्रदद्यान्मोक्षमिच्छुकः ॥ ८ ॥
गयायां पितृरूपेण स्वयमेव जनार्दनः ॥
तं ध्यात्वा पुण्डरीकाक्षं मुच्यते च ऋणत्रयात् ॥ ९ ॥
प्रार्थयेत्तत्र गत्वा तं देवदेवं जनार्दनम् ॥
आगतोऽस्मि गयां देव पितृभ्यः पिण्डदित्सया ॥
एष पिण्डो मया दत्तस्तव हस्ते जनार्दन ॥ 3.2.28.१० ॥
परलोकगतेभ्यश्च त्वं हि दाता भविष्यसि ॥
अनेनैव च मन्त्रेण तत्र दद्याद्धरेः करे ॥ ११ ॥
चन्द्रे क्षीणे चतुर्दश्यां नभस्ये पिण्डमाहरेत् ॥
पितॄणामक्षया तृप्तिर्भविष्यति न संशयः ॥ १२ ॥
एकविंशतिवारांश्च गयायां पिण्डपातनैः ॥
भक्त्या तृप्तिमवाप्नोति लोहयष्ट्यां पितृतर्प्पणे ॥ १३ ॥
वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमत्र हि ॥
फलप्रदः सुतान्भक्तानारोग्यमभयप्रदः॥१४॥
वित्तं न्यायार्जितं दत्तं स्वल्पं तत्र महाफलम् ॥
स्नानेनापि हि तत्तीर्थे रुद्रस्यानुचरो भवेत् ॥१५॥
इति श्रीस्कान्दे महापुराणे एकाकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये सङ्क्षेपतस्तीर्थमाहात्म्य वर्णनं नामाष्टविंशोऽध्यायः ॥ २८ ॥ ॥