॥ ॥ सूत उवाच ॥ ॥
तत्र तस्य समीपस्थं मार्कण्डेनोपलक्षितम् ॥
तीर्थं गोवत्ससञ्ज्ञं तु सर्वत्र भुवि संश्रुतम् ॥ १ ॥
तत्रावतीर्य गोवत्सस्वरूपेणाम्बिकापतिः ॥
स्वयम्भूलिङ्गरूपेण संस्थितो जगतां पतिः ॥ २ ॥
आसीद्बलाहकोनाम रुद्रभक्तो महाबलः ॥
आखेटकसमायुक्तो नृपः परपुरञ्जयः ॥ ३ ॥
मृगयूथे स्थितं दृष्ट्वा गोवत्सं तत्पदातिना ॥
उक्तो राजा मया दृष्टं कौतुकं नृपसत्तम ॥ ४ ॥
गोवत्सो मृगयूथस्य दृष्टो मध्यस्थितो मया ॥
तेषामेवानुरक्तोऽसौ जनन्या रहितस्तथा ॥ ५ ॥
द्रष्टुं तु कौतुकं राजा तं पदातिं पुरः स्थितम् ॥
उवाच दर्शयस्वेति गोवत्सं च समाविशत् ॥ ६ ॥
गत्वाटवीं तदा राज्ञो दर्शितः स पदातिना ॥
पदातिभिर्मृगानीकं दुद्राव त्रासितं यदा ॥ ७ ॥
पीलुगुल्मं प्रति गतं गोवत्सः प्रस्थितस्तदा ॥
राजा तद्धरणाकाङ्क्षो प्राविशद्गुल्ममादरात् ॥ ८ ॥
तत्र स्थितं स गोवत्समपश्यन्नृपतिः स्वयम् ॥
यावद्गृह्णाति तं तावल्लिङ्गं जातं समुज्वलम् ॥ ९ ॥
तं दृष्ट्वा विस्मितो राजा किमेतदित्यचिन्तयत् ॥
यावच्चिन्तयते ह्येवं देहं त्यक्त्वा दिवं गतः ॥ 3.2.27.१० ॥
अत्रान्तरे गगनतले समन्ततः श्रूयते सुरजयकारगर्जितम् ॥
पपात पुष्पवृष्टिरम्बराद्राजा गतः शिवभुवनं च तत्क्षणात् ॥ ११ ॥
तावत्पश्यति तन्नाभ्यं गोवत्सं बालकं स्थितम् ॥
नूनमेष महादेवो वत्सरूपी महेश्वरः ॥ १२ ॥
तमानेतुं समुद्युक्तो राजा तमुज्जहार च ॥
तदा तद्देव लिङ्गं तु नोत्तिष्ठति कथञ्चन ॥
तदा देवाः सहानेन प्रार्थयामासुरीश्वरम् ॥ १३ ॥
॥ देवा ऊचुः ॥ ॥
भगवन्सर्वदेवेश स्थातव्यं भवता विभो॥
शुक्लेन लिङ्गरूपेण सर्वलोकहितैषिणा ॥ १४ ॥
॥ श्रीमहादेव उवाच ॥
स्थास्याम्यहं सदैवात्र लिङ्गरूपेण देवताः ॥
यस्माद्भाद्रपदे मासि कृष्णपक्षे कुहू दिने ॥ १५ ॥
तथा तद्दिवसे तत्र स्नानं कृत्वा विधानतः ॥
लिङ्गं ये पूजयिष्यन्ति न तेषां विद्यते भयम् ॥ १६ ॥
ऋते च पिण्डदानेन पूर्वजाः शाश्वतीः समाः ॥
रौरवे नरके घोरे कुम्भीपाके च ये गताः ॥ १७ ॥
अनेकनरकस्थाश्च तिर्यग्योनिगताश्च ये ॥
सकृत्पिण्डप्रदानेन स्यात्ते षामक्षया गतिः ॥ १८ ॥
ततो बलाहको राजा सर्वदेवसमन्वितः ॥
स्थापयामास तल्लिङ्गं सर्वदेवसमीपतः ॥ १९ ॥
चकार बहुदानानि लोकानां हितकाम्यया ॥
यावदर्चयते ह्येवं रुद्रोऽपि स्वयमागतः ॥ 3.2.27.२० ॥
॥ रुद्र उवाच ॥ ॥
अस्यां रात्रौ तु मनुजाः श्रद्धाभक्तिसमन्विताः ॥
येर्चयिष्यन्ति देवेशं तेषां पुण्यमनन्तकम् ॥ २१ ॥
जागरं ये करिष्यन्ति गीतशास्त्रपुरःसरम् ॥
उद्धरिष्यन्ति ते मर्त्याः कुलमेकोत्तरं शतम् ॥ २२॥
तावद्गर्ज्जन्ति तीर्थानि नैमिषं पुष्करं गया ॥
प्रयागं च प्रभासं च द्वारका मथुराऽर्बुदः ॥ २३ ॥
यावन्न दृश्यते लिङ्गं गोवत्सं परमाद्भुतम्॥
यदा हि कुरुते भावं गोवत्सगमनं प्रति ॥ २४ ॥
स्ववंशजास्तदा सर्वे नृत्यन्ति हर्षिता ध्रुवम् ॥ २५ ॥
॥ सूत उवाच ॥ ॥
यच्चान्यदद्भुतं तत्र वृत्तान्तं शृणु त द्विजा ॥
येन वै श्रुतमात्रेण सर्वपापक्षयो भवेत् ॥ २६ ॥
यदा वै स्थापितं लिङ्गं सर्वदेवैः पुरातनम् ॥
विष्णोः प्रतिष्ठानगुणात्सर्वेषां च दिवौक साम् ॥ २७ ॥
अणुमात्रप्रमाणेन प्रत्यहं समवर्द्धत ॥
ततस्ते मनुजा देवा भीतास्तं शरणं ययुः ॥ २८ ॥
॥ देवा ऊचुः ॥ ॥
वृद्धिं संहर देवेश लोका नां स्वस्ति तद्भवेत्॥
एवमुक्ते ततो लिङ्गाद्वागुवाचाशरीरिणी॥२९॥
॥ शिववाण्युवाच ॥ ॥
हे लोका मा भयं वोऽस्तु उपायः श्रूयतामयम् ॥
कश्चिच्चण्डालमानीय मत्पुरः स्थाप्यतां धुवम् ॥3.2.27.३०॥
चण्डालांश्च समानीय दधुर्देवस्य ते पुरः॥
तथापि तस्य वृद्धिस्तु नैव निर्वर्तते पुनः ॥३१॥
वागुवाच ॥
कर्म्मणा यस्तु चण्डालः सोऽग्रे मे स्थाप्यतां जनाः ॥
तच्छ्रुत्वा महदाश्चर्यं मतिं चकुर्विलोचने ॥ ३२ ॥
मार्गमाणास्तदा ते तु ग्रामाणि च पुराणि च ॥
कञ्चित्कर्मरतं पापं ददृशुर्ब्राह्मणब्रुवम् ॥३३॥
वृषभान्भारसंयुक्तान्मध्याह्नेवाहयत्तु सः ॥
क्षुत्तृट्श्रमपरीतांश्च दुर्बलान्क्रूरमानसः ॥३४॥
अस्नात्वापि पर्युषितं भक्षयन्तीह वै द्विजाः ॥
तं समादाय देवेशं जग्मुर्यत्र जगद्गुरुः ॥ ३५ ॥
देवालयाग्रभूमौ तं स्थापयासुरादृताः ॥
भस्मी बभूव सहसा गोवत्साग्रे निरूपितः ॥ ३६ ॥
चण्डालस्थल इत्येष प्रसिद्धोसौऽभवत्क्षितौ ॥
तत्र स्थितैर्न चाद्यापि प्रासादो दश्यते हि सः ॥ ॥ ३७ ॥
तदाप्रभृति तल्लिङ्गं साम्यभावमुपागतम् ॥
धौतपाप्मा गतस्तीर्थं द्विजो लिङ्गनिरीक्षिणात् ॥ ३८ ॥
प्रत्यहं पूजयामास गोवत्सं गत किल्बिषः ॥
विशेषात्कृष्णपक्षस्य चतुर्द्दश्यां समागतः ॥ ३९ ॥
एतत्तदद्भुतं तस्य देवस्य च त्रिशूलिनः ॥
शृणुयाद्यो नरो भक्त्या सर्वपापैः प्रमुच्यते ॥ 3.2.27.४० ॥
॥ भूत उवाच ॥ ॥
गोवत्समिति विख्यातं नराणां पुण्यदं परम् ॥
अनेकजन्मपापघ्नं मार्कण्डेयेन भाषितम् ॥ ४१ ॥
तत्र तीर्थे सकृत्स्नानं रुद्रलोकप्रदं नृणाम् ॥
पापदेहविशुद्धयर्थं पापेनोपहतात्मनाम् ॥ ४२ ॥
कूपे तर्पणतश्चैव श्राद्धतश्चैव तृप्तता ॥
भाद्रपदे विशे षेण पक्षस्यान्ते भवेत्कलौ ॥ ४३ ॥
एकविंशतिवारांस्तु गयायां तर्पणे कृते ॥
पितॄणां परमा तृप्तिः सकृद्वै गङ्गकूपके ॥ ४४ ॥
तस्मिन्गोवत्ससामीप्ये तिष्ठते गङ्गकूपकः ॥
तस्मिंस्तिलोदकेनापि सद्गतिं यान्ति तर्पिताः ॥ ४५ ॥
पितरो नरकाद्वापि सुपुण्येन सुमेधसा ॥
गोप्रदानं प्रशंसन्ति तस्मिंस्तीर्थे मुनीश्वराः ॥ ४६ ॥
विप्राय स्वर्णदानं तु रुद्रलोके नयेन्नरम् ॥
सरस्वतीशिवक्षेत्रे गङ्गा च गङ्गकूपके ॥ ४७ ॥
एकस्थमेतत्त्रितयं स्वर्गापवर्गकारणम् ॥
सेवितं चर्षिभिः सिद्धैस्तीर्थं सर्वत्र विश्रुतम् ॥ ४८ ॥
पीलुयुग्मं स्थितं तत्र तत्तीर्थं मुनिसेवितम् ॥
स्नानात्स्वर्गप्रदं चैव पानात्पापविशुद्धिदम् ॥ ४९ ॥
कीर्त्तनात्पुण्यजननं सेवनान्मुक्तिदं परम् ॥
तद्वै पश्यन्ति ये भक्त्या ब्रह्महा यदि मातृहा ॥ ॥ 3.2.27.५० ॥
बालघाती च गोघ्नश्च ये च स्त्रीशूद्रघातकाः ॥
गरदाश्चाग्निदाश्चैव गुरुद्रोहरताश्च ये ॥ ५१ ॥
तपस्विनिन्दकाश्चैव कूटसाक्ष्यं करोति यः ॥
वक्ता च परदोषस्य परस्य गुणलोपकः ॥ ५२ ॥
सर्वपापमयोऽप्यत्र मुच्यते लिङ्गदर्शनात् ॥ ५३ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पातालखण्डे धर्मारण्यमाहात्म्ये बलाहकोपाख्यानवर्णनन्नाम सप्तविंशोऽध्यायः ॥ २७ ॥