॥ व्यास उवाच ॥ ॥
मार्कण्डेयोद्धाटितं वै स्वर्गद्वारमपावृतम् ॥
तत्र ये देहसन्त्यागं कुर्वन्ति फलकाङ्क्षया ॥ १ ॥
लभन्ते तत्फलं ह्यन्ते विष्णोः सायुज्यमाप्नुयुः ॥
अतः किं बहुनोक्तेन द्वारवत्यां सदा नरैः ॥ २ ॥
देहत्यागः प्रकर्तव्यो विष्णोर्लोकजिगीषया ॥
अनाशके जले वाग्नौ ये च सन्ति नरोत्तमाः ॥
सर्वपापविनिर्मुक्ता यान्ति विष्णोः पुरीं सदा ॥ ३ ॥
अन्योपि व्याधिरहितो गच्छेदनशनं तु यः ॥
सर्वपाप विनिर्मुक्तो याति विष्णोः पुरीं नरः ॥ ४ ॥
शतवर्षसहस्राणां वसेदन्ते दिवि द्विजः ॥
ब्राह्मणेभ्यः परं नास्ति पवित्रं पावनं भुवि ॥ ५ ॥
उपवासै स्तथा तुल्यं तपः कर्म्म न विद्यते ॥
नास्ति वेदात्परं शास्त्रं नास्ति मातृसमो गुरु ॥ ६ ॥
न धर्मात्परमस्तीह तपो नानशनात्परम् ॥
स्नात्वा यः कुरुते ऽत्रापि श्राद्धं पिण्डोदकक्रियाम् ॥ ७ ॥
तृप्यन्ति पितरस्तस्य यावद्ब्रह्मदिवानिशम् ॥
तत्र तीर्थे नरः स्नात्वा केशवं यस्तु पूजयेत् ॥८ ॥
स मुक्तपातकैः सर्वेर्विष्णुलोकमवाप्नुयात् ॥
तीर्थानामुत्तमं तीर्थं यत्र सन्निहितो हरिः ॥ ९ ॥
हरते सकलं पापं तस्मिंस्तीर्थे स्थितस्य सः ॥
मुक्तिदं मोक्षकामानां धनदं च धनार्थिनाम् ॥
आयुर्दं सुखद चैव सर्वकामफलप्रदम् ॥3.2.26.१०॥
किमन्येनात्र तीर्थेन यत्र देवो जनार्द्दनः ॥
स्वयं वसति नित्यं हि सर्वेषामनुकम्पया ॥ ११ ॥
तत्र यद्दीयते किचिद्दानं श्रद्धासमन्वितम् ॥
अक्षयं तद्भवेत्सर्वमिह लोके परत्र च ॥ १२ ॥
यज्ञैर्दानैस्तपो भिश्च यत्फलं प्राप्यते बुधैः ॥
तदत्र स्नानमात्रेण शूद्रैरपि सुसेवकैः ॥ १३ ॥
तत्र श्राद्धं च यः कुर्यादेकादश्यामुपोषितः ॥
स पितॄनुद्धरे त्सर्वान्नरकेभ्यो न संशयः ॥ १४ ॥
अक्षय्यां तृप्तिमाप्नोति परमात्मा जनार्द्दनः ॥
दीयतेऽत्र यदुद्दिश्य तदक्षय्यमुदाहृतम् ॥ १५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये द्वारिकामाहात्म्यवर्णनन्नाम षड्विंशोऽध्यायः ॥ २६ ॥।छ॥। ॥