०२५ सरस्वतीमाहात्म्यवर्णनम्

॥ सूत उवाच ॥ ॥
अथान्यत्सम्प्रवक्ष्यामि तीर्थमाहात्म्यमुत्तमम् ॥
धर्मारण्ये यथाऽऽनीता सत्यलोकात्सरस्वती ॥ १ ॥
मार्कण्डेयं सुखासीनं महामुनिनिषेवितम् ॥
तरुणादित्यसङ्काशं सर्वशास्त्रविशारदम् ॥ २ ॥
सर्वतीर्थमयं दिव्यमृषीणां प्रवरं द्विजम् ॥
आसनस्थं समायुक्तं धन्यं पूज्यं दृढव्रतम् ॥ ३ ॥
योगात्मानं परं शान्तं कमडलुधरं विभुम् ॥
अक्षसूत्रधरं शान्तं तथा कल्पां तवासिनम् ॥ ४ ॥
अक्षोभ्यं ज्ञानिनं स्वस्थं पितामहसमुद्युतिम् ॥
एवं दृष्ट्वा समाधिस्थं प्रहर्षोत्फुल्ललोचनम् ॥ ५ ॥
प्रणम्य स्तुतिभिर्युक्त्या मार्क्कण्डं मुनयोऽब्रुवन् ॥
भगवन्नैमिषारण्ये सत्रे द्वादशवार्षिके ॥ ६ ॥
त्वयावतारिता ब्रह्मन्नदी या ब्रह्मणः सुता॥
तथा कृतं च तत्रैव गङ्गा वतरणं क्षितौ ॥ ७ ॥
गीयमाने कुलपतेः शौनकस्य मुनेः पुरः ॥
सूतेन मुनिना ख्यातमन्येषामपि शृण्वताम् ॥ ८ ॥
तच्छ्रुत्वा महदाख्यानम स्माकं हृदि संस्थितम् ॥
पापघ्नी पुण्यजननी प्राणिनां दर्शनादपि ॥ ९ ॥
॥ मार्कण्डेय उवाच ॥ ॥
धर्मारण्ये मया विप्राः सत्यलोकात्सरस्वती ॥
समानीता सुरेखाद्रौ शरण्या शरणार्थिनाम् ॥3.2.25.१०॥
भाद्रपदे सिते पक्षे द्वादशी पुण्यसंयुता ॥
तत्र द्वारावतीतीर्थे मुनिगन्धर्वसेविते ॥ ॥ ११ ॥
तस्मिन्दिने च तत्तीर्थे पिण्डदानादि कारयेत् ॥
तत्फलं समवाप्नोति पितॄणां दत्तमक्षयम् ॥ १२ ॥
महदाख्यानमखिलं पापघ्नं पुण्यदं च यत् ॥
पवित्रं यत्पवित्राणां महापातकनाशनम् ॥ १३ ॥
सर्वमङ्गलमाङ्गल्यं पुण्यं सारस्वतं जलम् ॥
ऊर्ध्वं किं दिवि यत्पुण्यं प्रभासान्ते व्यवस्थितम् ॥ १४ ॥
सारस्वतजलं नॄणां ब्रह्महत्यां व्यपोहति ॥
सरस्वत्यां नराः स्नात्वा सन्तर्प्य पितृदेवताः ॥
पश्चात्पिण्डप्रदातारो न भवन्ति स्तनन्धयाः ॥ १५ ॥
यथा कामदुघा गावो भवन्तीष्टफलप्रदाः ॥
तथा स्वर्गापवर्गैकहैतुभूता सरस्वती ॥ १६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये सरस्वतीमाहात्म्यवर्णनन्नाम पञ्चविंशोऽध्यायः ॥ २५ ॥ ॥ ॥ छ ॥